नारायण उवाच
उद्धवो विस्मयं प्राप्य भयं च विपुलं मुने ।
चेतनं कारयामास तामुवाच मृतामिव ॥ १ ॥
तद्भक्तिं समभिज्ञाय स्वात्मानं भक्तसङ्ख्यकम् ।
तुच्छं मेने जगत्सर्वं दृष्ट्वा भाग्यवतीं सतीम् ॥ २ ॥
उद्धव उवाच
चेतनं कुरु कल्याणि जगन्मातर्नमोऽस्तु ते ।
त्वमेद प्राक्तनं सर्वं कृष्णं द्रक्ष्यसि साम्प्रतम् ॥ ३ ॥
त्वत्तो विश्वं पवित्रं च त्वत्पादरजसा मही ।
सुपवित्रं त्वद्वदनं पुण्यवत्यश्च गोपिकाः ॥ ४ ॥
लोकास्त्वामेव गायन्ति सङ्गीतैर्मङ्गलस्तवैः ।
त्वत्सुकीर्तिं च देवाश्च सनकाद्याश्च सन्ततम् ॥ ५ ॥
कृतपापहरां पुण्यां तीर्थपूजां च निर्मलाम् ।
हरिभक्तिप्रदां भद्रां सर्वविघ्नदिनाशिनीम् ॥ ६ ॥
त्वमेव राधा त्वं कृष्णस्त्वं पुमान्प्रकृतिः परा ।
राधामाधवयोर्भेदो न पुराणे श्रुतौ तथा ॥ ७ ॥
राधिकां मूर्च्छितां दृष्ट्वा पश्चात्कृत्वा तमुद्ववम् ।
उवाच माधवी गोपी राधायाः पुरतः स्थिता ॥ ८ ॥
माधव्युवाच
किं वा चोरस्य कृष्णस्य रूपं वा वेषमुत्तमम् ।
किं सुखं विभवं किं वा गौरवं चाप्यनुत्तमम् ॥ ९ ॥
किं वा तद्वीर्यमैश्वर्यं शौर्य वा दुरतिक्रमम् ।
किं वा सिद्धं प्रसिद्धं वा किं वा तुल्यं गुणोत्तमम् ॥ १० ॥
इतो वा कुत आयातः पुनरेव कुतो गतः ।
बालको गोपवेषश्च नहि राजात्मजः पुमान् ॥ ११ ॥
त्वं किं स्मरसि कल्याणि गोपालं नन्दनन्दनम् ।
आत्मानं रक्षयत्नेन कः प्रियः स्वात्मनः परः ॥ १२ ॥
धिक्त्वां राधेऽतिनिर्लज्जां तवैव जीवनं वृथा ।
जगतो युवतीनां च करोषि सुयशःक्षयम् ॥ १३ ॥
नारीणां गोपनं कार्य सुव्यक्ते स्वयशःक्षयम् ।
यत्नेन चक्षुषो वाऽर्हं सखि सञ्चरणं कृरु ॥ १४ ॥
अन्तरे पतिभावं च सङ्गोप्य भावनं कुरु ।
न वै जातिश्च शत्रूणां मित्राणां च सुरेश्वरि ॥ १५ ॥
शत्रुः कार्यवशेनैव मित्रं च कर्मणा भवेत् ।
स्वकार्यमुद्धरेत्प्राज्ञः कार्यध्वंसेन मूर्खता ॥ १६ ॥
कः कस्य वल्लभो राधे कः कस्याप्रिय एव च ।
कार्यं च समयं ज्ञात्वा सन्तः कुर्वन्ति सन्ततम् ॥ १७ ॥
शत्रुर्धनापहारी च प्राणहर्ता ततः परः ।
कटुवक्ता दुःखदाता शत्रूणां लक्षणं श्रृणु ॥ १८ ॥
स्वकुलात्त्वां बहिष्कृत्य विसृज्य शोकसागरे ।
गृहीत्वा चेतनं प्राणान्निष्ठुरो दारुणो गतः ॥ १९ ॥
किं किं स्मरसिमूढे हि त्यज शोकं सुदारुणम् ।
आत्मानं रक्ष यत्नेन कः प्रियः स्वात्मनः परः ॥ २० ॥
पद्मावत्युवाच
भवता कथितं पूर्णं यमुनाजलसन्निधौ ।
अरसस्य रतिर्दूरं नारीणां न सुखं प्रिये ॥ २१ ॥
विद्युज्ज्वारा जले रेखा खलानां प्रीतिरेव च ।
न नीतिर्तीतिशास्त्रेषु सुविश्वासः खलेषु च ॥ २२ ॥
यदा त्वं यमुनाकूले मुखं वीक्ष्य हरेरहो ।
सस्मितं सकटाक्षं च पुनः कृत्वाऽस्य गोपनम् ॥ २३ ॥
पुनः पुनस्त्वं संवीक्ष्य त्वया त्यक्तं च चेतनम् ।
गृहं त्यक्त्वा गुरुभयं सखीनां वचनं शुभम् ॥ २४ ॥
सन्ततं ध्यायसे कृष्णं नाऽऽहारं जीवनं तथा।
क्व कृष्णो मथुरायां च क्वापि त्वं कदलीवने ॥ २५ ॥
त्वं यदि त्यजसि प्राणान्नाऽऽविर्भवति सोऽधुना ।
काले द्रक्ष्यसि स्वात्मानं यदि रक्षसि सुन्दरि ॥ २६ ॥
चन्द्रमुख्युवाच
प्राक्तनेन शुभं सर्वं सुखं च विभवश्चिरम् ।
दुःखं शोको प्राक्तनेन विपत्सम्पच्च साम्प्रतम् ॥ २७ ॥
भारते पुण्यभूमौ च सर्वेषामीप्सिते वरे ।
लभेत्पतिं हरिं कान्तं तपसा प्रकृतेः परम् ॥ २८ ॥
तथाऽपि प्रदहेद्गात्रं कामबाणेन साम्प्रतम् ।
अस्याः शत्रुः कथं चन्द्रो मधुर्वा मधुमाधवौ ॥ २९ ॥
शङ्करेण प्रदग्धोऽभूत्पुनरेव स मन्मथः ।
चन्द्रं भक्षतु राहुश्च पुनश्चोद्वमनं तथा ॥ ३० ॥
मधुश्च मित्रशोकेन प्राणांस्त्यक्त्वा ययौयमम् ।
सुधासिन्धुश्च चेन्दुर्यो विषसिन्धुश्च मां प्रति ॥ ३१ ॥
सुवेषः स्याज्ज्वलद्वह्निश्चन्दनं तद् घृताहुतिः ।
सन्ततं प्रदहेद्गात्रं सुगन्धिश्च समीरणः ॥ ३२ ॥
त्यक्ताहारा मम सखी पश्य श्वसिति जीवति ।
प्रशंसाङ्कुरु कृष्णस्य मुखेन कुरुनन्दन ॥ ३३ ॥
तन्नामस्मृतिमात्रेण तद्गुणश्रवणेन च ।
तद्वार्तया च शुभया सहसा चेतनं भवेत् ॥ ३४ ॥
शशिकलोवाच
त्वं किं माधवि जानासि कृष्णमात्मानमीश्वरम् ।
यं तं ब्रह्मादयो देवा वेदाश्चत्वार एव च ॥ ३५ ॥
ध्यायन्ति सन्तसं सन्तः पादपद्मं सुरेप्सितम् ।
पद्मा सरस्वती दुर्गा सोऽनन्तोऽपि महेश्वरः ॥ ३६ ॥
यं न जानन्ति सिद्धेन्द्र मुनीन्द्रां मनवस्तथा ।
सर्वात्मनः कुतो रूपं निर्गुणस्य कुतो गुणाः ॥ ३७ ॥
सत्यमुक्तं च सत्यस्य यत्तदेव यथोचितम् ।
धत्ते भारावतरणे पृथिव्याश्च मनोहरम् ॥ ३८ ॥
सुखमाह्लादकं रम्यं भक्तानुग्रहविग्रहम् ।
किमनिर्वचनीयं च रूपं जनमनोहरम् ॥ ३९ ॥
कोटिकन्दर्पलावण्यं लीलाधाम शुभाक्षयम् ।
यत्पादपद्ममधुरं मधु मन्दाकिनीजलम् ॥ ४० ॥
दध्रे शिरसि भक्त्या च सर्वेशः शङ्करः परः ।
शश्वत्करोति वैरागी तीर्थकीर्तेश्च कीर्तनम् ॥ ४१ ॥
क्षणं नृत्यति भक्त्या च पञ्चवक्त्रेण गायति ।
आहारं भूषणं वस्त्रं परित्यज्य दिगम्बरः ॥ ४२ ॥
ब्रह्म ज्योतिः स्वरूपं च ध्यात्वा शुभ्रं सुनिर्मलम् ।
ब्रह्मा च तपसा जन्म नयत्येव हि सेवया ॥
शेषः सनत्कुमारश्च सिद्धसङ्घश्य योगवित् ॥ ४३ ॥
सुशीलोवाच
निर्मञ्छनार्हं न भवेत्तस्य कामशतं शतम् ।
चन्द्रोऽशिवनीकुमारो वा रुपेषु केन गण्यते ॥ ४४ ॥
असङ्ख्येषु च विश्वेषु ब्रह्मविष्णुशिवादयः ।
मुनयो मनवः सिद्धा भक्ताः सन्तश्च सन्ततम् ॥ ४५ ॥
ध्यायन्ते यत्पदाम्भोजं निर्गुणस्याऽऽत्मनश्च वै ।
वेदाः स्तोतुं न शक्ताश्च यमीशं च सरस्वती ॥ ४६ ॥
जडीभूता च भीता च स्तवनेन क्षमाण्येतु ।
सहस्रवक्त्रः स्तवने कम्पितश्च निरन्तरम् ॥ ४७ ॥
वेदानां जनको ब्रह्मा स्तोत्रेण तस्य हीश्वरः ।
तं सत्यं नित्यमीशं च माधवी परिनिन्दति ॥ ४८ ॥
अपवित्रा सभा भूता गोपीनां जीवनं वृथा ।
तासु पुण्यवती शोकः प्रणश्यति न संशयः ॥ ५० ॥
रत्नमालोवच
दधार वामहस्तेन शैलं गोवर्धनं हरिः) ।
ततः किं तद्दशः शौर्य जगतां जनकस्य च ॥ ५१ ॥
शैलानां च सहस्रं यो भेतुं शक्तश्च दैत्यराट् ।
लीलामात्रेण तेषां च लक्षं हन्तु क्षमो हरिः ॥ ५२ ॥
यदंशकलया जातः सूकरो विष्णुरीश्वरः ।
वसुधां दशनाग्रेण चोद्दधार च लीलया ॥ ५३ ॥
शैलानां च सहस्राणि यत्र सन्ति महीतले ।
दैत्याश्च वाऽप्यसङ्ख्याश्च वीराः शूरास्तथैव च ॥ ५४ ॥
तेनैव कर्मणा तस्य न शौर्यं न च पौरुषम् ।
न यशाश्च प्रशंसा वा सखि सर्वात्मनाऽऽत्मना ॥ ५५ ॥
पारिजातोवाच
सप्तद्वीपा च वसुधा सशैलवनसागरा ।
काञ्चनीभूमिसहिता सर्वाधारा मनोहरा ॥ ५६ ॥
सप्त स्वर्गाश्च विविधा ब्रह्मलोकावधि प्रिये ।
विचित्राः सुन्दराश्चैव पातालानां च सप्त च ॥ ५७ ॥
एतैः परिमितं विश्वं ब्रह्माण्डं ब्रह्मणा कृतम् ।
महद्विष्णोर्लोमकूपे तदेवं चाणुवत्स्थितम् ॥ ५८ ॥
तस्य यावन्ति लोमानि तानि विश्वानि सन्ति च ।
स एव षोडशांशश्च कृष्णस्य परमात्मनः ॥ ५९ ॥
तस्यैव किं यशः शौर्चं महिमानमनूपमम् ।
घस्मरी गोपकन्या च किं वा जानाति माधवी ॥ ६० ॥
माधव्युवाच
मया यदुक्तं न ज्ञात्वा मूढा जल्पन्ति गोपिकाः ।
उद्धव शुणु मे वाक्यं यन्मया कथितं शुभम् ॥ ६१ ॥
स्वेच्छया सगुणो विष्णुः स्वेच्छया निर्गुणोभवेत् ।
भुवो भारावतरणे गोपवेषः शिशुर्विभुः ॥ ६२ ॥
यदि वेदाः पुराणानि सिद्धाः सन्तश्च सन्ततम् ।
ब्रह्मेशशेषभक्ताश्च न जानन्ति यमीश्वरम् ॥ ६३ ॥
तं किं जानामि मूढाऽहं घस्मरी गोपकन्यका ।
तथाऽपि मद्वचः सत्यं श्रूयतां वत्स तत्क्षणम् ॥ ६४ ॥
किमनिर्वचनीयं च रूपं शौर्यं यशो बलम् ।
वीर्यं वेषं च सिद्धिं चाप्यन्यो वा यो गुणो हरेः ॥ ६५ ॥
स्वेच्छामयस्य तस्यैव सगुणस्य च साम्प्रतम् ।
किमनिर्वचनीयं च वर्तते तद्विशेषणम् ॥ ६६ ॥
निर्गुणस्य च विष्णोश्च वेहहीनस्य स्वात्मनः ।
वर्तते च किमाख्येयं तस्य रूपादिकं च किम् ॥ ६७ ॥
मां निन्दति महामूढा न बुद्धा वचनं मम ।
एषा जानाति किं मूढा तं सत्यं प्रकृतेः परम् ॥ ६८ ॥
ज्योतिः स्वरूपं परमं परमात्मानमीश्वरम् ।
तमनिर्वचनीयं च भक्तानुग्रहविग्रहम् ॥ ६९ ॥
यत्पादपद्भं पद्मा सा त्रैलोक्यजननी परा ।
सेवते कम्पिता भीता दासीवत्सततं भिया ॥ ७० ॥
विष्णुमाया च प्रकृतिर्मूलरूपा सनातनी ।
ब्रह्मस्वरूपा परमा भीता दक्षिणपार्श्वतः ॥ ७१ ॥
सरस्वती जडीभूता भीता च परमेश्वरी ।
स्तोतुं न शक्ता वेदाः किं स्तुवन्ति परमेश्वरम् ॥ ७२ ॥
तासां तद्वचनं श्रुत्वा चोद्धवो भक्तिविह्वलः ।
पुलकाञ्चितसर्वाङ्गो रुरोद च पपात च ॥ ७३ ॥
मूर्च्छं सम्प्राप्य भक्त्त्या च ध्यात्वा तं परमेश्वरम् ।
तुच्छं मेने स चाऽऽत्मानं गोपीं भक्त्याऽप्युवाच सः ॥ ७४ ॥
उद्धव उवाच
धन्यं यशस्यं द्वीपानां जम्बुद्वीपं मनौहरम् ।
यत्र भारतवर्षं च पुण्यदं शुभदं तथा ॥ ७५ ॥
वणिजां च पुश्यकृतं वाणिज्यस्थलमीप्सितम् ।
अत्र कृत्वा सुपुण्यं च भुङ्क्तेऽन्यत्र शुभं फलम् ॥ ७६ ॥
धन्यं भारतवर्षं तु पुण्यदं शुभदं वरम् ।
गोपीपादाब्जरजसा पूतं परमनिर्मलम् ॥ ७७ ॥
ततोऽपि गोपिका धन्या सान्या योषित्सु भारते ।
नित्यं पश्यन्ति राधायाः पादपद्मं सुपुण्यदम् ॥ ७८ ॥
षष्टिवर्षसहस्राणि तपस्तप्तं च ब्रह्मणा ।
राधिकापादपद्मस्य रेणूनामुपलब्धये ॥ ७९ ॥
गोलोकवासिनी राधा कृष्णप्राणाधिका परा ।
तत्र श्रीदामशापेन वृषभानसुताऽधुना ॥ ८० ॥
ये ये भक्ताश्च कृष्णस्य देवा ब्रह्मादयस्तथा ।
राधायाश्चापि गोपीनाङ्करां नार्हन्ति षोडशीम् ॥ ८१ ॥
कृष्णभक्तिं विजानाति योगीन्द्रश्च महेश्वरः ।
राधा गोप्यश्च गोपाश्च गोलोकवासिनश्च ये ॥ ८२ ॥
किञ्चित्सनत्कुमारश्च ब्रह्मा चेद्विषयी तथा ।
किञ्चिदेव विजानन्ति सिद्धा भक्ताश्च निश्चितम् ॥ ८३ ॥
धन्योऽहं कृतकृत्योऽहमागतो गोकुलं यतः ।
गोपिकाभयो गुरुभ्यश्च हरिभक्तिं लभेऽचलाम् ॥ ८४ ॥
मथुरां च न यास्यामि तीर्थकीर्तेश्च कीर्तनम् ।
श्रोष्यामि किङ्करो भूत्वा गोपीनां जन्मजन्मनि ॥ ८५ ॥
न गोपीभ्यः परो भक्तो हरेश्च परमात्मनः ।
यादृशीं लेभिरेगोप्यो भक्तिं नान्ये च तादृशीम् ॥ ८६ ॥
कलावत्युवाच
पितणां मानसी कन्या धन्या मेना कलावती ।
वयं तिस्रो भगिन्यश्च भ्रमामः पृथिवीतले ॥ ८७ ॥
धन्या जनकपत्नी नः सीतामाता पतिव्रता ।
अयोनिसम्भवा राधा अहं चायोनिसम्भवा ॥ ८८ ॥
राधा श्रीदामशापेन वृषभानसुता भुवि ।
सनत्कुमारशापेन वयमेव महीतले ॥ ८९ ॥
क्षीरोदसागरं रम्यं श्वेतद्वीपं मनोहरम् ।
तिस्रो भगिन्यो भक्त्या च विष्णुन्द्रष्टुं गता वयम् ॥ ९० ॥
अम्युत्थानादि न कृतं कोपादस्माञ्छशाप ह ।
सनत्कुमारो भगवान्योगीन्द्राणां गुरोर्गुरुः ॥ ९१ ॥
सनत्कुमार उवाच
मूढास्तिष्ठत भूमौ च पुनः स्वर्गं न यास्यथ ।
मर्त्यप्राणिप्रिया भूत्वा चाहङ्कारैण हैतुना ॥ ९२ ॥
पुनर्वरं च प्रत्येकं ददौ तुष्टो द्विचेश्वरः ।
विष्णोर्वशस्य शैलस्य हिमाधारस्य कामिनी ॥ ९३ ॥
ज्येष्ठा भवतु त्वत्कन्या भविष्यत्येव पार्वती ।
धन्या प्रिया तु भवतु योगिनो जनकस्य च ॥ ९४ ॥
तस्य कन्या महालक्ष्मीः सीतादेवी भविष्यति ।
वृषभानस्य वैश्यस्य योगिनां प्रवरस्य च ॥ ९५ ॥
दुर्वाससश्च शिष्यस्य कनिष्ठा च कलावती ।
भविष्यति प्रिया साध्वीद्वापरान्ते च गोकुले ॥ ९६ ॥
कलावतीसुता राधा देवी गोलोकवासिनी ।
श्रीदामगोपशापेन भविष्यति न संशयः ॥ ९७ ॥
ईशो ब्रह्मेशशेषाणां भारावतरणेन च ।
आगमिष्यति पृथवीं च पुण्यक्षेत्रं च भारतम् ॥ ९८ ॥
कलावती वृष्भानः कौतुकात् कन्यया सह ।
जीवन्मुक्तश्च गोलोकं गमिष्यति न संशयः ॥ ९९ ॥
धन्या च सीत्या सार्धं वैकुण्ठं च गमिष्यति ।
मेनका योगिनी सिद्धा पार्वत्याश्च वरेण च ॥ १०० ॥
कल्पान्ते विष्णुलोके च लक्ष्मीवन्मोदते चिरम् ।
विना विपत्त्या महिमा केषां कुत्र भविष्यति ॥ १०१ ॥
कर्मणा च गते दुःखे प्रभवेद्दुर्लभं सुखम् ।
पुरा पितणां कन्याश्च स्वर्मभोगविलासिकाः ॥ १०२ ॥
लक्ष्मीसमा वरेणापि विप्रस्य विष्णुदर्शनात् ।
कर्मक्षयं चाप्यस्माकं बभूव विष्णुदर्शनात् ॥ १०३ ॥
पुण्ये तेन तीव्रेण कुमारस्यापि दर्शनम् ।
श्रुतं तत्र कुमारास्याज्ज्ञानं परमदुर्लभम् ॥ १०४ ॥
ब्रह्मविष्णुशिवादीनां सिद्धानां जगतामपि ।
ईश्वरः परमात्मा च श्रीकृष्णः प्रकृतेः परः
निर्गुणश्च निरीहश्च परः स्वेच्छामयो वरः ॥ १०५ ॥
तुलस्युवाच
सर्वप्राणिषु देवाश्च तिष्ठन्त्येव पृथक्पृथक् ।
प्राणो विष्णुश्च विषयी मनो ब्रह्मा च चेतना ॥ १०६ ॥
प्रकृतिर्बुद्धिरूपा च सर्वशक्त्यधिदेवता ।
ज्ञानस्वरूपः शम्भुश्च स्वयं धर्मश्च पूरुषः ॥ १०७ ॥
निर्गुणः परमात्मा च तद्ब्रह्म प्रकृतेः परम् ।
स एव कृष्णः साक्षी च कर्मणां जीविनामपि ॥ १०८ ॥
भोक्ता च सुखदुःखानां जीवस्तत्प्रतिबिम्बकः ।
चक्षुषोश्चन्द्रसूर्यौ च जिह्वायां च सरस्वती ॥ १०९ ॥
वसुन्धरा त्वचि सदा बाह्वोस्ते लोकपालकाः ।
आत्मनश्चापि ते सर्पे परिचारकरूपिणः ॥ ११० ॥
आत्मन्येव प्रियास्ते च सर्वे गच्छन्ति जीविनः ।
यथा संसदि संसारे नरदेह(व) मिवानुगाः ॥ १११ ॥
तस्मात्सर्वात्मनाऽऽत्मानं भजन्ति सन्ततं सदा ।
सन्तश्च परया भक्त्या ध्यायन्ते योगिनो मुदा ॥ ११२ ॥
कर्मिणां कर्मणां साक्षी कुतः कर्म च गोपनम् ।
अन्तर्यामी च कृष्णश्च प्रचारं कुरुते मुदा ॥ ११३ ॥
कालिकोवाच
नरा बालाश्च वृद्धाश्च युवानस्त्रिविधास्तथा ।
देवादयश्च चे सिद्धाः सर्वे जानन्ति तं परम् ॥ ११४ ॥
उद्धव उवाच
साम्प्रतं मूर्च्छितां राधां युक्तो बोधयितुं बुधः ।
अत्र युक्तिः प्रधाना त्वं तां प्रबोधय चोद्धव ॥ ११५ ॥
चेतनं कुरु कल्याणि जगन्मातर्निबोध माम् ।
उद्भवं कृष्णभक्तस्य किङ्करस्यापि किङ्करम् ॥ ११६ ॥
प्रसादं कुरु मातर्मां यास्यामि मथुरां पुनः ।
न स्वतन्त्रः पराधीनो योषा दारुमयी यथा ॥ ११७ ॥
यथा वृषो वशीभूतो वृषवाहस्य सन्ततम् ।
तथा मातर्जगत्सर्वं जगन्नाथस्य निश्चितम् ॥ ११८ ॥
इति श्रीब्रह्मo महाo श्रीकृष्मजन्मखo उत्तo नारदनाo राधोद्धवसंo
चतुर्नवतितमोऽध्यायः ॥ ९४ ॥