०८९

अथ नवाशीतितमोऽध्यायः
श्रीकृष्ण उवाच
गच्छ गच्छ गृहं गच्छ व्रजराज व्रजं व्रज ।
सर्वं तत्त्वं त्वया ज्ञातं दृष्टाश्च मुनयः सुराः ॥ १ ॥

श्रुतं मे धन्यमाख्यानं नानाख्यानं सुदुर्लभम् ।
दुर्गायाः स्तोत्रराजं च जन्मपाशनिकृन्तनम् ॥ २ ॥

स्थितं तते निगदितं हर्षेण च सुखेन च ।
मत्कृतं बालभावेन चापराद्धं च तत्क्षणम् ॥ ३ ॥

यत्सुखं न कृतं तात पित्रोश्च नृपमन्दिरे ।
कृतं सुखं तत्परं च स्वर्गादपि सुदुर्लभम् ॥ ४ ॥

मदीयं प्रियवाक्यं च प्रह्वत्वं विनयं नयम् ।
परिहासं बहतरं यशोदां गोपिकागणम् ॥ ५ ॥

बालकानां समूहं च राधां चापि विशेषतः ।
एकत्र च स्थितं तेषु बन्धुवर्गेषु कर्मणा ॥ ६ ॥

इहैवापि सुखं भुक्त्वा गच्छ गोलोकमुत्तमम् ।
सार्ध यशोदया तात रोहिण्या गोपिकागणैः ॥ ७ ॥

गोपानां बालकैः सार्धं वृषभानेन गोपकैः ।
राधामात्रा कलावत्या राधया सह यास्यसि ॥ ८ ॥

रथानां शतलक्षं च गोलोकादागतं पितः ।
अमूल्यरत्ननिर्माणं हीरहारपरिष्कृतम् ॥ ९ ॥

मणिमाणिक्यमुक्तानां मालाजालविभूषितम् ।
वह्निशुद्धांशुकै रम्यैराच्छन्नं पीतवर्णकैः ॥ १० ॥

पार्षदप्रवरै रम्यैर्वेष्टितं श्वेतचामरैः ।
सद्रत्नदर्पणै रम्यैर्गोपिकाभिश्च गोपकैः ॥ ११ ॥

वेष्टितं च तदारुह्य कौतुकाद्यास्यसि ध्रुवम् ।
त्यक्त्वा च पार्थिवं देहं दिव्यदेहं विधाय च ॥ १२ ॥

अयोनिसम्भवा राधा राधामाता कलावती ।
यास्यत्येव हि तेनैव नित्यदेहेन निश्चितम् ॥ १३ ॥

पितृणां मानसी कन्या धन्या मान्या कलावती ।
धन्या च सीतामाता च दुर्गामाता च मेनका ॥ १४ ॥

अयोनिसम्भवा दुर्गा तारा सीता च सुन्दरी ।
अयोनिसम्भवास्ताश्च धन्या मेना कलावती ॥ १५ ॥

इत्येव कथितं तात गोपनीयं सुदुर्लभम् ।
वरोऽयं तत्तस्तुभ्यं च मया च दुर्गया तथा ॥ १६ ॥

श्रीकृष्णस्य वचः श्रुत्वा प्रत्युवाच व्रजेश्वरः ।
पुनरेव जगन्नाथं त द्भक्तो भक्तवात्सलम् ॥ १७ ॥

नन्द उवाच
युगानां च चतुर्णां च यं यं धर्म सनातनम् ।
क्रमेण कृष्ण विस्तीर्णं कृत्वा मां कथय प्रभो ॥ १८ ॥

कलिशेषे भवेद्यद्यद्गुणदोषं कलेस्तथा ।
का गतिर्वा पृथिव्याश्च धर्मस्य प्रणिनां तथा ॥ १९ ॥

नन्दस्य वचनं श्रुत्वा हृष्टः कमललोचनः ।
कथां कथितुमारेभे विचित्रां मधुरान्विताम् ॥ २० ॥

इति श्रीब्रह्मo महाo श्रीकृष्ण जन्मखo उत्तo नारदनाo भगवन्न-
न्दसंo एकोननवतितमोऽध्यायः ॥ ८९ ॥