०८८

अथाष्टाशीतितमोऽध्यायः
श्रीकृष्णा उवाच
चेतनं कुरु हे तात हे तात चेतनं कुरु ।
जलबुद्बुदवत्सर्वं संसारं सचराचरम् ॥ १ ॥

त्याज मोहं महाभाग मायां स्तौहि परत्परामा ।
ब्रह्मस्वरूपां परमां सर्वमोहनिकृन्तनीम् ॥ २ ॥

मुक्तिप्रदां महाभागां विष्णुमायां सनातनीम् ।
त्रिपुरस्य वधे घोरे महायुद्धे भयाकुले ॥ ३ ॥

येन स्तोत्रेण सम्भुश्च तया दैत्यं जघान सः ।
स्तोत्रराजं प्रदास्यामि सर्वमोहनिकृन्तनम् ॥
सर्ववाञ्छाप्रदं नन्द श्रूयतामत्र संसदि ॥ ४ ॥

नन्द उवाच
सर्वविघ्नविनाशाय दुःखप्रशमनाय च ।
विभूतये च यशसे नृणां वाञ्छितसिद्धये ॥ ५ ॥

स्तोत्रमेकं महादेव्या जगन्मातुर्जगत्प्रभो ।
परं दुर्गतिनाशिन्या गोपनीयं सुदुर्लभम् ॥ ६ ॥

देहि मर्ह्य विनीताय भक्ताय भक्तवत्सल ।
वेदानां जनकस्त्वं च निर्गुणाश्च परात्परः ॥ ७ ॥

श्रीभगवानुवाच
श्रुणु वक्ष्यामि दैश्येन्द्र स्तोत्रं यत्परमाद्भुतम् ।
सर्वविघ्नविनाशार्थं मोहपाशनिकृन्तनम् ॥ ८ ॥

रणत्रस्तेन विभुना शङ्करेण पुरा कृतम् ।
नारायणोपदेशेन प्रेरितेन च ब्रह्मणा ॥ ९ ॥

शत्रुग्रस्तं शिवं दृष्ट्वा स ब्रह्माणमुवाच ह ।
उवाच शङ्करं ब्रह्मा रथस्थं पतितं रणे ॥ १० ॥

सुरसङ्कटशान्त्यर्थं दुर्गा दुर्गतिनाशिनीम् ।
मूलप्रकृतिमाद्यां तां स्तौ(स्तु) हि ब्रह्मस्वरूपिणीम् ॥ ११ ॥

हरिणा प्रेरितोऽहं च त्वां वदामि सुरेश्वर ।
विना शक्तिसहायेन को वा कं जेतुमीश्वरः ॥ १२ ॥

ब्रह्मणश्च वचः श्रुत्वा दुर्गां सस्मार शङ्करः ।
पुटाञ्जलिपरो भूत्वा भक्तिनम्रत्मकन्धरः ॥ १३ ॥

स्नातःपादौ च प्रक्षाल्य धृत्वा धौते वाससी ।
आचान्तः कुशहस्तश्च शुचिर्विष्णुं च संस्मरन् ॥ १४ ॥

महादेव उवाच
रक्ष रक्ष महादेवि दुर्गे दुर्गतिनाशिनि ।
मां भक्तमनुरक्तं च शत्रुग्रस्ते कृपामयि ॥ १५ ॥

विष्णुमाये महाभागे नारायणि सनातनि ।
ब्रह्मस्वरूपे परमे नित्यानन्दस्वरूपिणि ॥ १६ ॥

त्वं च ब्रह्मादिदेवानामम्बिके जगदम्बिके ।
त्वं संहारे च गुणतो निराकारे च निर्गुणात् ॥ १७ ॥

मायया पुरुषस्त्वं च मायया प्रकृतिः स्वयम् ।
तयोः परं ब्रह्म परं त्वं बिभर्षि सनातनि ॥ १८ ॥

वेदानां जननी त्वं च सावित्री च परात्परा ।
वैकुण्ठे च महालक्ष्मीः सर्वमम्पत्स्वरूपिणी ॥ १९ ॥

मर्त्यलक्ष्मीश्च क्षीरोदे कामिनी शेषशायिनः ।
स्वर्गेषु स्वर्गलक्ष्मीस्त्वं राजलक्ष्मीश्च भूतले ॥ २० ॥

नागादिलक्ष्मीः पाताले गृहेषु गृहदेवता ।
सर्वसस्यस्वरूपा त्वं सर्वैश्वर्यविधायिनी ॥ २१ ॥

रागाधिष्ठातृदेवी त्वं ब्रह्मणश्च सरस्वती ।
प्राणानामधिदेपी त्वं कृष्णस्य परमात्मनः ॥ २२ ॥

गोलोके च स्वयं राधा श्रीकृष्णस्यैव वक्षसि ।
गोलोकाधिष्ठिता देवी दृन्दा दृन्दावने वने ॥ २३ ॥

श्रीरासमण्डले रम्या वृन्दावनविनोदिनी ।
शतशृङ्गाधिदेवी त्वं नाम्ना चित्रावलीति च ॥ २४ ॥

दक्षकन्या कुत्रकल्पे कुत्रकल्पे च शैलजा ।
देवमाताऽदितिस्त्वं च सर्वाधारा वसुन्धरा ॥ २५ ॥

त्वमेव गङ्गा तुलसी त्वं च स्वाहा सती ।
त्वदंशांशांशकलया सर्वदेवादियोषितः ॥ २६ ॥

स्त्रीरूपं चातिपुंरूपं देवि त्वं च नपुंसकम् ।
वृक्षाणां वृङरूपा त्वं सृष्टा चाङ्कुररूपिणी ॥ २७ ॥

वह्नौ च दाहिका शक्तिर्जले शैत्यस्वरूपिणी ।
सूर्ये तेजः स्वरूपा च प्रभारूपा च सन्ततम् ॥ २८ ॥

गन्धरूपा च भूमौ च आकाशे शब्दरूपिणी ।
शोभास्वरूपा चन्द्रे च पद्मसङ्घे च निश्चितम् ॥ २९ ॥

सृष्टौ सृष्टिस्वरूपा च पालने परिपालिका ।
महामारी च संहारे जले च जलरूपिणी ॥ ३० ॥

क्षुत्तवं दया त्वं निद्रा त्वं तृष्णा त्वं बुद्धिरूपिणी ।
तुष्टिस्त्वं चापि पुष्टिस्त्वं श्रद्धास्त्वं च क्षमा स्वयम् ॥ ३१ ॥

शान्तिस्त्वं च स्वयं भ्रान्तिः कान्तिस्तवं कीर्तिरेव च ।
लज्जा त्वं च तथा माया भुक्ति- ॥
सुक्तिस्वरूपिणी ॥ ३२ ॥

सर्वशक्तिस्वरूपा त्वं सर्वसम्बत्प्रदायिनी ।
वेदेऽनिर्वचनीया त्वं त्वां न जानाति कश्चन ॥ ३३ ॥

सहस्र वक्त्रस्त्वां स्तोतुं न च शक्तः सुरेश्वरि ।
वेदा न शक्ताः को विद्वान्न च शक्ता सरस्वती ॥ ३४ ॥

स्वयं विधाता शक्तो न न च विष्णुः मनातनः ।
किं स्तौमि पञ्चवक्त्रैस्तु रणत्रस्तो महेश्वरि ॥ ३५ ॥

कृपां कुरु महामाये मम शत्रुक्षयं कुरु ।
इत्युक्त्वा च सकरुणं रथस्थे पतिते रणे ॥ ३६ ॥

आविर्बभूव सा दुर्गा सूर्यकोटिसमप्रभा ।
नारायणेन कृपया प्रेरिता परमात्मना ॥ ३७ ॥

शिवस्य पुरतः शीघ्रं शिवाय च जयाय च ।
इत्युवाच महादेवी मायाशक्त्याऽसुरं जहि ॥ ३८ ॥

दुर्गोवाच
वरं वृणीष्व भद्रं ते यत्ते मनसि वाञ्छितम् ।
भवान्वरः सुराणां च जयं तुभ्यं ददाम्यहम् ॥ ३९ ॥

महादेव उवाच
क्षयो भवतु दैत्यस्य इति मे वरमीश्वरी ।
देहीति वाञ्छितं दुर्गे परमाद्ये मलातनि ॥ ४० ॥

भगवत्युवाच
हरिं स्मर महाभागा जय दैत्यं जगद्गुरुः ।
स्वयं विधाता भगवांस्त्वमेव ज्योतिरीश्वरः ॥ ४१ ॥

एतस्मिन्नन्तरे विष्णुर्वृषरूपो बभूव ह ।
दधार कलया मूर्ध्ना शूलपाणे रथं विभुः ॥ ४२ ॥

ऊर्ध्वचक्रमथोग्रं च प्रकृतिं च चकार सः ।
शस्त्रं ददौ मन्त्रपूतमुद्दधार ततो रथम् ॥ ४३ ॥

शिवः शस्त्रं गृहीत्वा च ध्यात्वा विष्णुं महेश्वरीम् ।
जघान त्रिपुरं शीघ्रं स पपात महीतले ॥ ४४ ॥

तुष्टुवुः शङ्करं देवाश्चकुश्च पुष्पवर्षणम् ।
दुर्गा तस्मै ददौ शूरं पिनाकं विष्णुरेव च ॥ ४५ ॥

ब्रह्मा शुभाशिषं चैव मुनयश्चापि हर्षिताः ।
ननृतुर्देवताः सर्वा जगुर्गन्धर्वकिन्नराः ॥ ४६ ॥

एतस्मिन्नन्तरे तात स्तवराजमनुत्तमम् ।
विघ्नविघ्नकरं शीघ्रं शत्रुसंहारकारणम् ॥ ४७ ॥

परमैश्वर्यजनकं सुखदं परमं शुभम् ।
निर्वाणमोक्षदं चैव हरिभक्तिप्रदं ध्रुवम् ॥ ४८ ॥

गोलोकवासदं चैव सर्वसिद्धिप्रदं वरम् ।
स्तोत्रराजप्रपठनात्प्रसन्ना पार्वती सदा ॥ ४९ ॥

लोभमोहकामक्रोधकर्ममूलनिकृन्तनम् ।
बलबुद्धिकरं चैव जन्ममृत्युविनाशनम् ॥ ५० ॥

धनपुत्रप्रियाभूमिसर्वसम्पत्प्रदं नृणाम् ।
शोकदुःखहरं चैव सर्वामिद्धिप्रदं वरम् ॥ ५१ ॥

स्तोत्रराजप्रपठनान्महावन्ध्या प्रसूयते ।
वन्धनान्मुच्यते दुःखी भयान्मुच्येत निश्चितम् ॥ ५२ ॥

रोगाद्विमुच्यते रोगी दरिद्रश्च धनी भवेन् ।
दावाग्निमध्ये न मृतो मग्नः पोतो महार्णवे ॥ ५३ ॥

दस्युग्रस्तो निपुग्रस्तो हिंस्रजन्तुसमन्वितः ।
स्तोत्रेणानेन वैश्येन्द्र कल्याणं लभते नरः ॥ ५४ ॥

तैजसानां यथा रत्नमाश्रमाणां द्विजो यथा ।
नदीनां च यथा गङ्गा मन्त्राणां प्रणवो यथा ॥ ५५ ॥

तुलसी सर्वपत्राणां धराणां च वसुन्धरा ।
पुष्पाणां पारिजातं च काष्ठानां चन्दनं यथा ॥ ५६ ॥

विष्णुपूजा च तपसां व्रतेष्वेकादशी यथा ।
ज्ञानिनां च यथा शम्भुः सिद्धानां च गणेश्वरः ॥ ५७ ॥

देवानां च यथा विष्णुर्वेदाः शास्त्रेषु तन्त्रतः ।
देवीनां च यथा दुर्गा शान्तानां कमला यथा ॥ ५८ ॥

सरस्वती च विदुषां राधिका सुन्दरीषु च ।
तथा स्तोत्रेष्विदं स्तोत्रं नातः परतरं व्रज ॥ ५९ ॥

पुरा दत्तं ब्रह्मणे च पुष्करे सूर्यपर्वणि ।
दैत्यग्रस्ताय भीताय सर्वदुर्गहरं परम् ॥ ६० ॥

शिवाय शत्रुग्रस्ताय ददौ ब्रह्मा मदाज्ञया ।
शिवश्च सनकादिभ्यः पुरा दुर्वाससे ददौ ॥ ६१ ॥

सनत्कुमारो भगवान्कृपया गौतमाय च ।
पुलहाय पुलस्त्याय ददौ चाङ्गिरसे मुदा ॥ ६२ ॥

तथा यन्द्राय सूर्याय सूर्यश्चापि यमाय च ।
यमाश्च चित्रगुप्ताय कृपया च पुरा ददौ ॥ ६३ ॥

नित्यं पठिष्यसि स्तोत्रं गोलोकगमनाय वै ।
साक्षात्पश्यसि भो तात तामेव पार्वतीमिह ॥ ६४ ॥

यस्मै कस्मै न दातव्यं पापिने गोपनं कुरु ।
नारायणस्य भक्ताय शान्ताय विदुषे तथा ॥ ६५ ॥

सर्वज्ञाय च विप्राय दातव्यं च प्रयत्नतः ।
विप्राय वृषवाहाय वृषलीवतये तथा ॥ ६६ ॥

शूद्राणां सूपकाराय शूद्रक्षाद्धान्नभोजिने ।
कन्याविक्रचिणे चैव ब्राह्मणाय विशेषतः ॥ ६७ ॥

सर्वसिद्धिं च लभते सिद्धस्तोत्रे भवेद्यदि ।
दशायुतजपेनैव सिद्धस्तोत्रो भवेन्नरः ॥ ६८ ॥

अग्निस्तमभं जलस्तम्भं मृत्स्तम्भं मनसस्तथा ।
अश्वमेधसहस्राच्च पृथिव्याश्च प्रदक्षिणात् ॥ ६९ ॥

स्नानाच्च सर्वतीर्थानां स्तोत्रमेतच्च पुण्यदम् ।
दत्तं तुभ्यं मया तात मम प्राणसमं व्रज ॥ ७० ॥

स्तवनं कुरु पार्वत्याश्चेदानीं मम संसदि ।
श्रीकृष्णस्य वचः श्रुत्वा नन्दस्तुष्टाव पार्वतीम् ॥ ७१ ॥

स्तोत्रेणानेन विप्रेन्द्र सर्वसम्पत्प्रदायिनीम् ।
वरं तस्मै ददौ दुर्गा गोलोकवासमीप्सितम् ॥ ७२ ॥

दुर्लभं परमं ज्ञानं वेदे यन्न श्रुतं मुने ।
राजेन्द्रत्वं गोकुले च कृष्णभक्तिं सुदुर्लभाम् ॥ ७३ ॥

तद्दास्वं चावि परतो महत्त्वं सिद्धमेव च ।
वरं दत्त्वा ययौ दुर्गा सम्भाष्य शम्भुना सह ॥ ७४ ॥

जग्मुर्देवाश्च मुनयः स्तुत्वा च नन्दनन्दनम् ।
उवाच नन्दं श्रीकृष्णो व्रज नन्द व्रजान्वितः ॥
प्रहष्टस्त्यक्तमोहश्च बोधेन दुर्लभेन च ॥ ७५ ॥

इति श्रीब्रह्मo महाo श्रीकृष्मजन्मखo उत्तo नारदनाo भगवन्नन्दसंo
अष्टाशीतितमोऽध्यायः ॥ ८८ ॥