अथ पञ्चाशीतितमोऽध्यायः
नन्द उवाच
वर्णानां च चतुर्णां च भक्ष्याभक्ष्यं च साम्प्रतम् ।
विपाकं कर्मणां चैव सर्वेषां प्राणिनामपि ॥ १ ॥
कथयस्व महाभाग कारणानां च कारणम् ।
त्वत्तोऽन्यं कं च पृच्छामि नितान्तं सन्तमीश्वरम् ॥ २ ॥
श्रीभगवानुवाच
भक्ष्याभक्ष्यं चतुर्णां च वर्णानां च यथोचितम् ।
वेदोक्तं श्रूयता तात सावधानं निशामय ॥ ३ ॥
अयःपात्रे पयःपानं गव्यं सिद्धान्नमेव च ।
भृष्टादिकं पधु गुडं नालिकेरोदकं तथा ॥ ४ ॥
फलं मूलं च यत्किञ्चिदभक्षयं मनुरब्रवीत् ।
दग्धान्नं तप्तसौवीरमभक्ष्यं व्रह्मनिर्मितम् ॥ ५ ॥
नालिकेरोदकं कांस्ये ताम्रपात्रे स्थितं मधु ।
गव्यं च ताम्रपात्रस्थं सर्वं मद्यं घृतं विना ॥ ६ ॥
ताम्रपात्रे पयःपानमुच्छिष्टे घृतभोजनम् ।
दुग्धं सलवणं चैव सद्यो गोमांसभक्षणम् ॥ ७ ॥
अभक्ष्यं मधुमिक्षं च घृतं तैलं गुडं तथा ।
आर्द्रकं गुडसंयुक्तमभक्ष्यं श्रुतिसम्मतम् ॥ ८ ॥
पीतशेषजलं चैव माघे च मूलकं तथा ।
जपादिकं च शयने सदा प्राज्ञः परित्यजेत् ॥ ९ ॥
द्विर्भोजनं च दिवसे सन्ध्ययोह्भोजनं तथा ।
भक्ष्यं च रात्रिशेषे च ध्रुवं प्राज्ञः परित्यजेत् ॥ १० ॥
पानीयं पायसं चूर्णं घुतं लवणमेव च ।
स्वस्तिकं गुडकं चैव क्षीरं तक्रं तथा मधु ॥ ११ ॥
हस्ताद्धस्तगृहीतं च सद्यो गोमांसमेव च ।
कर्पूरं रौप्यपात्रस्थमभक्ष्यं श्रुतिसम्मतम् ॥ १२ ॥
परिवेषणकारी चेद्भोक्तारं स्पृशते यदि ।
मभक्ष्यं च तदन्नं च सर्वेषामेव सम्मतम् ॥ १३ ॥
नकुलानां गण्डकानां महिषाणां च पक्षिणाम् ।
सर्पाणां सूकराणां च गर्दभानां विशेषतः ॥ १४ ॥
मर्जाराणां सृगालानां कुक्कुटानां व्रजेश्वर ।
व्याघ्राणामपि सिंहानां त्याज्यं मांसं नृणां सदा ॥ १५ ॥
जलौकसां च नक्राणां गेधिकानां तथैव च ।
मण्डूकानां कर्कटानां चुञ्चुकानां च निश्चितम् ॥ १६ ॥
गवां च चमरीणां च न कलौ मांसभक्षणम् ।
हस्तिनां घोटकानां च नृणामेव च रक्षसाम् ॥ १७ ॥
दंशश्च मशकश्चैव मक्षिका च पिपीनिका ।
अन्येधां च निषिद्धानां लोके वेदे व्रजेश्वर ॥ १८ ॥
वानराणां भल्लुकानां शरभाणां तथैव च ।
निषिद्धं मृगनाभीनां गर्दभानां च मांसकम् ॥ १९ ॥
अभक्ष्यं महिषीणां च दुग्धं दधि घृतं तथा ।
स्वस्तिकं च तथा तत्र विप्राणां नवनीतकम् ॥ २० ॥
मांसमुच्छैःश्रवसकं तस्य दुग्धादिकं तथा ।
वर्णानां च चतुर्णां चाप्यभक्ष्यं च श्रुतौ श्रुतम् ॥ २१ ॥
अभक्ष्यमार्द्रकं चैव सर्वेषां च रवेर्दिने ।
पर्युषितं चलं चान्नं विप्राणां दुग्धमेव च ॥ २२ ॥
वर्णानां च चतुर्णां चाप्यवीरान्नस्य भक्षणम् ।
तदन्नं च सुरातुल्यं गोमांसाधिकमेव च ॥ २३ ॥
अवीरान्नं च योभुङ्क्ते ब्राह्मणो ज्ञानदुर्बलः ।
पितृदेवार्चनं तस्य निष्फलं मनुरब्रवीत् ॥ २४ ॥
ब्रह्माणानां व२ष्णवानामभक्ष्यं मत्स्यमेव च ।
इतरेषामभक्ष्यं च पञ्चपर्वसु निश्चितम् ॥ २५ ॥
पितृदेवावशेषे च भक्ष्यं मांसं न दूथितम् ।
पञ्चपर्वसु त्याज्यं च सर्वेषां मनुरब्रवीत् ॥ २६ ॥
असंस्कृतं च लवणं तैलं चाभक्ष्यमेव च ।
भक्ष्यं पवित्रं सर्वेषां व्यञ्जनं वह्निसंस्कृतम् ॥ २७ ॥
एकहस्ते घृतं तोयमभक्ष्यं सर्वमम्मतम् ।
आविलं कृमियुक्तं च परिशुद्धं च निर्मलम् ॥ २८ ॥
अभक्ष्यं ब्रह्माणानां च वैष्णवानां विशेषतः ।
अनिवेद्यं हरेरेव यतीनां ब्रह्मचारिणाम् ॥ २९ ॥
पिपीलिकामिश्रितं च मधु गव्यं गुडं तथा ।
यत्किञ्चिद्वस्तु वा तात न भक्ष्यं च श्रुतौ श्रुतम् ॥ ३० ॥
पक्षिभक्ष्यं कीटभक्ष्यं शृद्धं पक्वफलं तथा ।
काकभक्ष्यमभक्ष्यं च सर्वेषां द्रव्यमेव च ॥ ३१ ॥
घृतपक्वं तैलपक्वं मिष्टान्नं शूद्रसंस्कृतम् ।
अभक्ष्यं ब्राह्मणानां च शूद्रभक्ष्यं च पीठकम् ॥ ३२ ॥
सर्वेषामशुचीनां च जलमन्नं परित्यजेत् ।
आशौचान्तात्परदिने शुद्धमेव न संशयः ॥ ३३ ॥
विपाकं कर्मणामेव दुष्करं श्रुतिसम्मतम् ।
भक्ष्याभक्ष्यं च कथितं यथाज्ञानं व्रचेश्वर ॥ ३४ ॥
क्रमाच्चतुर्षु वेदेषु चौक्तं मतचतुष्टयम् ।
सर्वेषां सारभूतं च कथयामि पितः शृणु ॥ ३५ ॥
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ ३६ ॥
तीर्थानां च सुराणां च सहायेन नृणामपि ।
किञ्चिद्भवति साहाय्यं कायव्यूहेन सर्वतः ॥ ३७ ॥
प्रायश्चितानि चीर्णानि निश्चितममत्पराङमुखम् ।
न निष्पुनन्ति हे तात सुराकुम्भमिवाऽऽपगाः ॥ ३८ ॥
प्रायश्चित्तेन पुण्येन न हि शुध्यन्ति मानवा ।
सर्वारम्भेण वैश्येन्द्र दानेन योगतोऽपि वा ॥ ३९ ॥
शुभाशुभं च यत्कर्म विना भोगान्न च क्षयः ।
भोगेन शुद्धिमाप्नोति ततो मुक्तिर्भवेन्नृणाम् ॥ ४० ॥
न नष्टं दुष्कृतं कर्म सुकृतेन च कर्मणा ।
न नष्टं सुकृतं कर्म कृतेन दुष्कृतेन च ॥ ४१ ॥
यज्ञेन तपसा वाऽपि व्रतेनानशनेन च ।
तीर्थस्नानेन दानेन जपेन नियमेन च ॥ ४२ ॥
भुवः प्रदक्षिणेनैव पुराणश्रवणेन च ।
उपदेणेन पुण्येन पूजया गुरुदेवयोः ॥ ४३ ॥
स्वधर्माचरणेनैवातिथीनां पूजनेन च ।
ब्रह्मणां पूजनेनैव भोजनेन विशेषतः ॥ ४४ ॥
यद्धत्तमपि विप्राय तत्प्राप्तं पूर्णरूपतः ।
बीजरूपं च तद्दानं क्षेत्ररूपं च ब्रह्मणः ४५
एकेन कर्मणा तात स्वर्गं प्राप्नोति मानवः ।
कर्मणा न हि मोक्षं च तदेव मम सेवया ॥ ४६ ॥
स्वर्गं च सुकृतेनैव नरकं दुष्कृतेन च ।
व्याधिर्जन्म च योनौ च कुत्सिते च ततः शुचिः ॥ ४७ ॥
गोघ्नो यो ब्राह्मणानां च कामतश्चोपपातकी ।
दन्दशूकत्वमाप्नोति गोलोमसमवर्षकम् ॥ ४८ ॥
सर्पेण भक्षितस्तेन च्वालया गरलस्य च ।
तृषितो व्यथितश्चैव निराहारः कृशोदरः ॥ ४९ ॥
ततः कुण्डात्समुत्थाय गौर्भवेल्लोमवर्षकम् ।
ततः कुष्ठी च चाण्डालो वर्षलक्षन्ततो नरः ॥ ५० ॥
तदा भवेद्ब्राह्मणश्च कुष्ठयुक्तो हि कर्मणा ।
भोजयित्वा विप्रलक्षं निर्व्याधिश्च भवेच्छुचिः ॥ ५१ ॥
अकामतस्तदर्धं च क्षत्रियस्यापि कामतः ।
अकामतस्तदर्धं च तदर्धं च विशस्तथा ॥ ५२ ॥
तदर्ध शूद्रगोघ्नश्च भुङ्क्ते पापं न संशयः ।
प्रायश्चित्तेन शुद्धश्च भुङ्क्ते शेषं च कर्मणः ॥ ५३ ॥
अनुकल्पे चतुर्थं च पापं भुङ्क्ते न संशयः ।
चतुर्गुणं च गोघ्नानां ब्राह्मणानां च पातकम् ॥ ५४ ॥
भुङ्क्ते पापं च ब्रह्मन्नो ब्राह्मणाश्चेतरोऽपि वा ।
क्रमेणानेन बोध्यं च कामतोऽकामतोऽपि वा ॥ ५५ ॥
प्रायश्चित्तं जन्म कर्म व्याधिरेव प संशयः ।
गोघ्नो भवति गौश्चापि यावद्वर्ष च निश्चितम् ॥ ५६ ॥
चतुर्गुणं च तेषां च ब्रह्मघ्नो विट्कृमिर्भवेत् ।
ततो भवति म्लेच्छश्च तावद्वर्षचतुर्गुणम् ॥ ५७ ॥
ततश्चान्धो भवेद्विप्रः पूर्वेषां च चतुर्गुणम् ।
ब्रह्मणानां चतुर्लक्षं भोजयित्वा शुचिर्भवेत् ॥ ५८ ॥
चक्षुष्मांश्च यशस्वी च भवेत्सोऽप्यतिपातकात् ।
स्त्रीघ्नचतुर्णां वर्णानां वेदे सोऽप्यतिपातकी ॥ ५९ ॥
कालसूत्रं च प्राप्नोति स्त्रीलोमसमवर्षकम् ।
भक्षितः कृमिणा तत्र निराहारो व्यथायुतः ॥ ६० ॥
ततो भवति लोके च तावद्वर्ष च पातकी ।
ततः पापी भवेत्सोऽपि यक्ष्मग्रस्तश्च कर्मणा ॥ ६१ ॥
वर्षाणां शतकं चैव विप्रलक्षं च भोजयेत् ।
ततः शुद्धो ब्राह्मणश्च विद्वांस्तपसि संयतः ॥ ६२ ॥
किञ्चिद्भुङक्ते पापशेषं स्वर्णदानाच्छुचिर्भवेत् ।
गर्भघ्नश्च महापापी सम्प्राप्नोति शुनीमुखम् ॥ ६३ ॥
वर्षाणां सतकं चैव घोटकश्च भवेद्ध्रुवम् ।
वर्षाणां शतकं चैव सूक्ष्मशस्त्रेण पीडीतः ॥ ६४ ॥
ततः पापी भवेद्वैश्यो द्रव्ययुक्तो हि कमण्णा ।
पञ्चाशद्वर्षपर्यन्तं स्वर्णदानाद्भवेच्छुचिः ॥ ६५ ॥
ततः स्वकुलजातोऽपि निर्व्याधिर्ब्राह्मणःशुचिः ।
ब्राह्मणः क्षत्रियघ्नश्च क्षत्रियो वा विना रणात् ॥ ६६ ॥
तप्तशूलं च प्राप्नोति वर्षाणां च सहस्रकम् ।
क्वथितं तप्तलोहेन चाऽऽर्तनादं करोति च ॥ ६७ ॥
ततो भवेन्मत्तगजो वर्षाणां शतकं तथा ।
ततो रक्तविकारी च शूद्रो वर्षशतं तथा ॥ ६८ ॥
गजदानेन मुक्तश्च व्याधितश्च ततो द्विजः ।
वैश्यघ्नश्चापि वैश्यश्च शूद्रघ्नो वैश्य एव च ॥ ६९ ॥
वैश्यघ्नश्चापि शूद्रश्च समं पापं लभेद्ध्रुवम् ।
कृमिकुण्डं च प्राप्नोति वर्षाणां शतकं तथा ॥ ७० ॥
कृमिभिर्भक्षितो दुःशी किरातश्च भवेत्ततः ।
वर्षाणां शतकं चैव कृमिव्याधिसमन्वितः ॥ ७१ ॥
ततो मन्दाग्नियुक्तश्च ब्राह्मणो दैन्यवान्व्रज ।
पञ्चाशद्वर्षपर्यन्तं दुर्बलश्च कृशोदरः ॥ ७२ ॥
मुक्तिर्भवति युक्तेन तीर्थेचाश्वप्रदानतः ।
शूद्रघ्नो ब्रह्मणश्चैव कामतोऽकामतोऽपि वा ॥ ७३ ॥
सावित्री लक्षयाप्येन तदर्धेन शुचिर्भवेत् ।
चतुर्वर्णः कुक्कुरघ्नो ह्यभिशप्तश्च शम्भुना ॥ ७४ ॥
वर्षाणां शतकं चैव प्राप्नोति रौरवं नरः ।
ततो भवेत्कुक्कुलश्च वर्षाणामपि षोडश ॥ ७५ ॥
ततः शुद्धो भवेद्विप्रो भक्षितः कुक्कुरेणै च ।
गङ्गास्नानेन दानेन स्वर्णस्यापि भवेच्छुचिः ॥ ७६ ॥
मार्जारघ्नश्चतुर्वर्णो गङ्गास्नानाद्भवेच्छुचिः ।
विप्राय लवणं दत्त्वा षट्पलं च प्रमुच्यते ॥ ७७ ॥
हत्वा सर्पांश्चतुर्वर्णो मम पादेन चिह्नितान् ।
ब्रह्महत्याचतुर्थं च पातकं च लभेद्ध्रुवम् ॥ ७८ ॥
असिपत्रं च नरकं वर्षाण्णां शतकं तथा ।
प्राप्नोति यातनायुक्तो विच्छिन्नस्तीक्ष्णधारया ॥ ७९ ॥
ततो भवति सर्पश्च डुण्डुभो वर्षपञ्चकम् ।
नरेण ताडितो दुःखी मृत्योर्भवति पीडितः ॥ ८० ॥
ततो भवेन्नरः पापी ज्वरयुक्तो हि दुर्बलः ।
वर्षाणां पञ्चकेनैव मृतो भवति कर्मणा ॥ ८१ ॥
अश्वघ्नश्च गजघ्नश्च चतुर्वर्णश्च पातकी ।
वर्षाणां पञ्चकेनैव मृतो भवति कर्मणा ॥ ८२ ॥
ततो भवति हस्ती च घोटको वा व्रजेश्वर ।
यावद्विंशतिवर्षाणि ततः शूद्रो भवेद्ध्रुवम् ॥ ८३ ॥
अहङ्कृती व्याधियुक्तो रौप्यदानेन मुच्यते ।
ब्राह्मणानां च शतकं भोजयित्वा शुचिर्भवेत् ॥ ८४ ॥
क्षुद्रजन्तुवधेनैव क्षुद्रजन्तुर्भवेन्नरः ।
वर्षाणां शतकं चैव क्षुद्रव्याधिं तरेत्ततः ॥ ८५ ॥
कृपा कार्या सता शश्वतहिंस्रेषु च जन्तुषु ।
हिंसायां न हि दोषश्च हिंस्राणां च व्रजेश्वर ॥ ८६ ॥
अश्वत्थघ्नश्चतुवंर्णो ब्रह्महत्याचतुर्थकम् ।
पापं च लभते तात चासिपत्रं व्रजेद्ध्रुवम् ॥ ८७ ॥
स तीक्ष्णेनापि शस्त्रेण विच्छिन्नश्च दिवानिशम् ।
वर्षाणां शतकं चैव भुङ्क्ते परमयातनाम् ॥ ८८ ॥
ततो भवति वृक्षश्च शालमलिरह्वर्षलक्षकम् ।
ततो भवति शूद्रश्च च्छिन्नाङ्गो व्याधिसंयुतः ॥ ८९ ॥
यावज्जीवनपर्यन्तं ततो विप्रो भवेद्ध्रुवम् ।
व्रणव्याधिसमायुक्तो मुच्यते स्वर्णदानतः ॥ ९० ॥
मिथ्यासाक्ष्यप्रदाता च कृतघ्नोऽतिकृतघ्नकः ।
विश्वासघाती मित्रघ्नो विप्राणां धनहारकः ॥ ९१ ॥
शूद्रश्राद्धान्नभोजी च शूद्राणां शवदाहकः ।
शूद्राणां सूपकारश्च वृषवाहकपातकी ॥ ९२ ॥
धावको देवलश्चापि चैतेऽतिपापिनस्तथा ।
कुम्भीपाकं प्रयान्तयेव वर्षाणां च सहस्रकम् ॥ ९३ ॥
तत्रैव तप्ततैलेन सन्तप्तश्च दिवानिशम् ।
णक्षितो व्यथितश्चैव सर्वाकारेण जन्तुना ॥ ९४ ॥
गृध्रः कोटिसमस्राणि शतजन्मानि शूकरः ।
श्वापदः शतजन्मानि शूद्रो रोगी भवेत्ततः ॥ ९५ ॥
मन्दाग्निज्वरसंयुक्तः पञ्चाशद्वर्षकं तथा ।
सुवर्णानां शतपलं दत्तवा शुद्धो भवेद्ध्रुवम् ॥ ९६ ॥
चतुर्वर्णो वस्त्रहारी गव्यहारी च मानवः ।
रौप्यमुक्तापहारी च शूद्रद्रव्यापहारकः ॥ ९७ ॥
वर्षाणां च सहस्रं च बकजातिर्भवेद्ध्रुवम् ।
मुत्रकुण्डं च वै भुक्त्वा वर्षाणां शतकं तथा ॥ ९८ ॥
ततो भवेच्छूद्रजातिर्वर्षाणां शतकं व्रज ।
कुष्ठव्याधिसमायुक्तो गलितश्चैव पातकी ॥ ९९ ॥
ततो भवेद्ब्राह्मणश्च कुष्ठावशेषसंयुतः ।
स्वर्णषट्पलदानेन व्याधितो मुच्यते शुचिः ॥ १०० ॥
शाकापहारकश्चैव फलापहारकस्तथा ।
यक्षः पृथिव्यां सम्भूतो लीलाद्रव्यापहारकः ॥ १०१ ॥
वर्षाणां शतकं चैव चाषपक्षी भवेद्ध्रुवम् ।
ततो भवेत्कृष्णवर्णः शूद्रश्च भारते भुवि ॥ १०२ ॥
ततो भवेद्ब्राह्मणश्चाप्यधिकाङ्गोऽपि जन्मनि ।
पुनर्जन्मद्विजो भूत्वा सुच्यते विप्रभोजनात् ॥ १०३ ॥
पक्वद्रव्यापहारी च पशुयोनिर्भवेद्रध्रुवम् ।
यस्याण्डकोशो गन्धाक्तः कस्तूरी यस्य नाम च ॥ १०४ ॥
सप्तजन्ममृगो भूत्वा ततो भवति गन्धकः ।
जन्मैकं च ततः शूद्रो गलत्कुष्ठी च जन्मनि ॥ १०५ ॥
ततो रोगावशेषेण संयुतो ब्रह्मणः कृशः ।
स्वर्णषट्पलदानेन मुच्यते नात्र संशयः ॥ १०६ ॥
धान्यापहारी दुःखी च कृपणः सप्तजन्मसु ।
विष्ठाकुण्डं वर्षशतं सम्प्राप्य मुच्यते भिया ॥ १०७ ॥
स्वर्णापहारी कुष्ठी च मानव पतितो भवेत् ।
स्वर्णदानप्रतिग्राही विट्कुण्डं च प्रयाति य ॥ १०८ ॥
ततो वर्षशतं भुक्त्वा पुरीषं च दिवानिशम् ।
ततो व्याघो भवेच्छूद्रो रक्तदोषेण संयुतः ॥ १०९ ॥
तज्जन्मपातकं भुक्त्वा ब्राह्मणश्च पुनर्भवेत् ।
व्याधिरोषावयुक्तश्च मुच्यते स्वर्णदानतः ॥ ११० ॥
अगम्यानां च गामी च पूर्वोक्तं रौरवं व्रजेत् ।
कुम्भीपाकं महाघोरं वर्षाणां चाप्यसङ्ख्यकम् ॥ १११ ॥
ततो भवेत्पुंश्चलीनां योनीनां च कृमिस्तथा ।
वर्षाणां च सहस्रं च विट्कृमिर्वर्षलक्षकम् ॥ ११२ ॥
पशुयोनिर्भवेत्तस्मात्तस्माच्च क्षुद्रजन्तवः ।
ततो भवेन्म्लेच्छजातिस्ततः शूद्राधमस्तदा ॥ ११३ ॥
ततो भवति विप्रश्च व्याधियुक्तो नपुंसकः ।
पुनश्च ब्राह्मणो भूत्वा तीर्थपर्यटनेन च ॥ ११४ ॥
क्रमेण शुद्धो भवति वंशहीनश्च पातकात् ।
भोजयित्वा विप्रलक्षं पुत्रं च लभते शुचिः ॥ ११५ ॥
मानवः क्रोधयुक्तश्च गर्दभः सप्तजन्मसु ।
मानवः कलहाविष्टः सप्तजन्मसु वायसः ॥ ११६ ॥
शालग्रामप्रतिग्राही कालसूत्रं व्रजेद्ध्रुवम् ।
वर्षाणां शतकं चैव शञ्जरीटो भवेत्ततः ॥ ११७ ॥
लोहचोरश्च निर्वशो मषीचोरश्च कोकिलः ।
शुकोऽप्यञ्जनचोनश्च मिष्टचोरः कृमिर्भवेत् ॥ ११८ ॥
विप्रद्वेषी गुरुद्वेषी शिरसां च कृमिर्भवेत् ।
पुंश्चलीं कामिनीं तात भुक्त्वा च रौरवं व्रजेत् ॥ ११९
ततो वृथा कृमिश्चैव वर्षाणां शतकं तथा ।
ततोऽपि विधवा चैव वन्ध्या च सप्तजन्मसु ॥ १२० ॥
अस्पृश्या जातिहीना च च्चिन्ननासा भवेत्क्रमात् ।
रक्तद्रव्यापहानी च रक्तदोषान्वितो भवेत् ॥ १२१ ॥
आचारहीनो यवनः खञ्जो भवति हिंसकः ।
अदीक्षितो वङ्खरश्च दुष्टदर्शो च काणकः ॥ १२२ ॥
अहङ्कारी कर्णहीनो बधिरो वेदनिन्दकः ।
वाक्यहर्ता च मूकश्च हिंसकः केशहीनकः ॥ १२३ ॥
मिथ्यावादी श्मश्रुहीनो दुर्वाक्यो दन्तहीनकः ।
चिह्वाहीनः सत्यहारी दुष्टोऽप्यङ्गुलिहीनकः ॥ १२४ ॥
ग्रन्थापहारी मूर्खश्च व्याधियुक्तो भवेद्ध्रुवम् ।
अश्वग्राही च तच्चौरो लालामूत्रं व्रजेदिति ॥ १२५ ॥
वर्षाणां च शतं स्छित्वा घोटकश्च भवेद्ध्रुवम् ।
गजचोरो गचग्राही विट्कुण्डे च सहस्रकम् ॥ १२६ ॥
स्थित्वा वर्ष भवेद्धस्ती तत्पश्चाद्वृषलो भवेत् ।
अयज्ञे छागहन्ता च च्छागचोरप्रतिग्रही ॥ १२७ ॥
पूयकुण्डे वर्षशतं स्थितवा चाण्डालतां व्रजेत् ।
छागश्च वर्षपर्यन्तं तदा भवति मानवः ॥ १२८ ॥
शत्रुशस्त्रेणा च्छिन्नश्च तदा मुक्तो भवेद्द्विजः ।
दत्तापहारी वाग्दानं कृत्वाऽपहरते पुनः ॥ १२९ ॥
स भवेन्मलेच्छयोनौ च भुक्त्वा च नरकं व्रजेत् ।
एकाकी मिष्टमश्नाति कालमूत्रं व्रजेद्ध्रुवम् ॥ १३० ॥
तत्र वर्षशतं स्थित्वा प्रेदो वर्षसहस्रकम् ।
तदा भवति जन्मैकं मक्षिका च पिपीलिका ॥ १३१ ॥
जन्मैकं भ्रमरश्यैव जन्मैकं मधुमक्षिका ।
जन्मैकं वरलश्चैव जन्मैकं दंश एव च ॥ १३२ ॥
जन्मैकं मशकश्चैव जन्मैकं पूतिकं स्मृतम् ।
जन्मैकं तल्पकीटश्च तदा शूद्रो भवेद्ध्रुवम् ॥ १३३ ॥
असद्बुद्धिर्व्याधियुक्तस्तदा मुक्तो भवेद्द्विजः ।
तैलचोरस्तैलकारो मूर्धिन कीटस्त्रिजन्मकम् ॥ १३४ ॥
तदा भवेत्स्वर्णकारो जन्मैकं दुष्टमानसः ।
विश्वैकनिपिकर्ता च भक्ष्मदादुर्धनं हरेत् ॥ १३५ ॥
तमःकुण्डे वर्षशतं स्थित्वा स्वर्णवणिग्भवेत् ।
जन्मैकं च दराचारो जन्मैकं करणो भवेत् ॥ १३६ ॥
कायस्थेनोदरस्थेन मातुर्मासं न खादितम् ।
तत्र नास्ति कृपा तस्य दन्ताभावेन केवलम् ॥ १३७ ॥
स्वर्णकारः स्वर्णवणिक् कायस्थश्च व्रजेश्वर ।
नरेषु मध्ये ते धूर्ताः कृपाहीना महीतले ॥ १३८ ॥
हृदयं क्षुरधाराभं तेषां नास्ति च सादरम् ।
शतेषु सज्जनः कोऽपि कायस्थो नेतरौ च तौ ॥ १३९ ॥
सुबुद्धिः शिवयुक्तश्च शास्त्रज्ञो धर्ममानसः ।
न विश्वसेत्तेषु तात स्वात्मकल्याणहेतवे ॥ १४० ॥
सीमापहारी दुष्टश्च भूमिचोरश्च हिंसकः ।
भूमिदानापहारी च कालसूत्रं व्रजेद्ध्रुवम् ॥ १४१ ॥
षष्टिवर्षसहस्रामि क्षटत्विवासार्दितः स्थितः
ततोऽपितानि नामानि विष्ठायां जायते कृमिः ॥ १४२ ॥
ततो भवेदसच्छूद्रो जन्मैकं च ततः शुचिः ।
तस्माज्ज्ञानैः सावधानं भवेत्प्राज्ञश्च यत्नतः ॥ १४३ ॥
रक्तवस्त्रापहारी च जन्मैकं रक्तकीट कः ।
ततः शूद्रश्च जन्मैकं ततो विप्रो भवेच्छुचि ॥ १४४ ॥
त्रिसन्ध्यहीनो विब्रश्च प्रातःशायी च यो नरः ।
सन्ध्याशायी दिवाशायी यज्ञसूत्रापहारकः ॥ १४५ ॥
अशुद्धः सन्ध्याकारी च वेदवेदाङ्गनिन्दकः ।
तद्विरुद्धः स्वर्गमार्गस्त्रिजन्मपतितो द्विजः ॥ १४६ ॥
यः शूद्रो ब्राह्मणीगामी कुम्भीपाके व्रजेद्ध्रुवम् ।
वर्षाणां च त्रिलक्षं च पच्यते तत्र पीडितः ॥ १४७ ॥
दिवानिशं प्रदग्धश्च तप्ततैले च दारुणे ।
ततौ भवेद्योनिकीटः पुंश्चलीनां च पातकी ॥ १४८ ॥
षष्टिवर्षसहस्राणि चाऽऽहारं तस्य तन्मलम् ।
ततो भवति चाण्डालो जन्मलक्षं क्रमेण च ॥ १४९ ॥
ततः शूद्रो गलत्कुष्ठी जन्मैकं च ततः शुचिः ।
सोऽपि विप्रो व्याधिशेषस्तीर्थपर्यटनाच्छुचिः ॥ १५० ॥
असच्छूद्रश्च भवति सोऽस्थानेऽसूरपूजिते ।
दत्तवा देवाय नैवेद्यमपवित्रं च मानवः ॥ १५१ ॥
सकेशं पार्थिवं लिङ्गं सम्पूज्य यवनो भवेत् ।
दुर्बलेन भवेदन्धः कुत्सितेन च कुत्सतिः ॥ १५२ ॥
अङ्गहीनो दरिद्रश्च व्याधियुक्तश्च मानवः ।
अश्रद्धया च निर्माणे निर्माणसदृशं फलम् ॥ १५३ ॥
मृद्भस्मगोशकृत्विण्डैस्तथा वालुकयाऽपि वा ।
कृत्वा लिङ्गं सकृत्पूज्य वसेत्कल्पायुषं दिवि ॥ १५४ ॥
ततो भवति विप्रश्च महाब्रज्ञश्च भूमिमान् ।
राजा भवेद्भारते च लिङ्गानां शतपूजनात् ॥ १५५ ॥
सहस्रपूजनात्सोऽपि लभते निश्चितं फलम् ।
स्थित्वा च सुचिरं स्वर्गे राजेन्द्रो भारते भवेत् ॥ १५६ ॥
अयुते च तदीशश्च लक्षे च पृथिवीश्वरः ।
पूजने चातिभक्त्या चाप्यतिरिस्तं फलं लभेत् ॥ १५७ ॥
तीर्थस्नानेन दानेन विप्राणां भोजनेन च ।
नारायणार्चया चैव विप्रजातिश्च कर्मणा ॥ १५८ ॥
अतिरिक्तेन तपसा पण्डितो ब्राह्मणो भवेत् ।
पण्डितो ब्राह्मणश्चैव वैष्णवश्च जितेन्द्रियः ॥ १५९ ॥
अनेकजन्मपुण्येन जायते भारते भुवि ।
तस्याङ्ध्रिस्पर्शनेनैव सद्यः पूता वसुन्धरा ॥ १६० ॥
तीर्थाः कुर्वन्ति तीर्थानि जीवनमुक्ताश्च वैष्णवाः ।
स्वपुंसां च सहस्रं च पुनन्तीति श्रुतौ श्रुतम् ॥ १६१ ॥
पापेन वैद्यजन्मैव दुश्चिकित्सोऽपि ब्राह्मणः ।
दुश्चिकित्सस्तथा वैद्यो व्यालग्राही त्रिजन्मसु ॥ १६२॥
अतिक्रूरो दुराचारो द्वेष्टा च सुरविप्रयोः ।
स भवेत्कुटिलव्यालो वर्षाणां च महस्रकम् ॥ १६३ ॥
पुंश्चलीलम्पटानां च दूती या कामिनी व्रज ।
कालमूत्रे वर्षशतं स्थित्वा च गोधिका भवेत् ॥ १६४ ॥
जन्मैकं गोधिका भूत्वा हरिणश्च त्रिजन्मसु ।
जन्मैकं महिषचैव जन्मैकं भल्लुको भवेत् ॥ १६५ ॥
जन्मैकं गण्डकश्चैव सृगालश्च त्रिजन्मसु ।
परकीयतडागं च लुप्त्वा सस्यं ददाति च ॥ १६६ ॥
स भवेन्नक्रजातिश्च कच्छपश्च त्रिजन्मसु ।
वृथा मांसं च यो भुङ्क्ते मत्स्यलुब्धश्च ब्राह्मणः ॥ १६७ ॥
भुङ्क्ते मांसमदत्तं च स मीनश्च मृगो भवेत् ।
वर्षाणां च सहस्रं च तात भुक्त्वा च किल्बिषम् ॥ १६८ ॥
कर्मभोगाच्छुचिर्भूत्वा स पुनर्ब्राह्मणो भवेत् ।
एकादशीविहीनश्च ब्राह्मणः पतितोभवेत् ॥ १६९ ॥
भक्ष्यस्य द्विगुणं दत्त्वा तेन पापेन मुच्यते ।
मम जन्मदिने चैव यो भुङ्क्ते मानवोऽधमः ॥ १७० ॥
त्रैलोक्यजनितं पापं सोऽपि भुङ्क्ते न संशयः ।
भुक्त्वा च नरकं सर्वं पश्चाच्चण्डालतां व्रजेत् ॥ १७१ ॥
एवं च शिवरातौ च श्रीरामनवमीदिने ।
उपवासासमर्थश्च हविष्यान्नं समाचरेत् ॥ १७२ ॥
ततोऽशक्तो दुर्बलश्च भोजयेद्ब्राह्मणानपि ।
कृत्वा महोत्सवं पुण्यं मदीयं पातकाच्छुचिः ॥ १७३ ॥
तस्माद्यत्नेन कर्तव्यं नामसङ्कीर्तनं मम ।
गृध्रः कोटिसहस्राणि शतजन्मानि सूकरः ॥ १७४ ॥
श्वापदः शतजन्मानि कुह्वां च निशि भोजनात् ।
अदीक्षितो द्विजश्चैव शङ्खश्चिल्लः ॥
शुको भवेत् ॥ १७५ ॥
अनुद्वाही द्विजश्चैव राजहंसो भवद्ध्रुवम् ।
चित्रवस्त्रापहारी च मयूरश्च त्रिजन्मसु ॥ १७६ ॥
तेजःपत्रापहारी च भवेत्कारण्डवश्चिरम् ।
सुराणां प्रतिमाचोरोऽप्यन्धश्च सप्तचन्मसु ॥ १७७ ॥
दरिद्रो व्याधियुक्तश्च बधिरश्चापि कुब्जकः ।
स्त्रीतैलमधुमांसानि रवौ वा पञ्चपर्वसु ॥ १७८ ॥
सेवते यो महामूढो वज्रदंष्ट्रं व्रजेद्ध्रुवम् ।
पातकी दुःखितस्तत्र वर्षाणां च सहस्रकम् ॥ १७९ ॥
ततो भवति म्लेच्छश्च चाण्डालः सप्तजन्मसु ।
व्यावियुक्तस्ततः शूद्रो ब्राह्मणश्च ततः शुचिः ॥ १८० ॥
तस्माद्यत्नान्न भोक्तव्यं भारते धर्मभीरुणा ।
ब्राह्मणं च सुरं दृष्ट्वा न नमेद्यो नराधमः ॥ १८१ ॥
यावज्जीवनपर्यन्तमशुचिर्यवनो भवेत् ।
अभ्युत्थानं न कुरुते दृष्ट्वा चाऽऽगतब्राह्मणम् ॥ १८२ ॥
स भवेद्ब्रह्मघाती च सप्तजन्मसु निश्चितम् ।
शिवद्वेषी कुक्कुटश्च देवलः सप्तजन्ममु ॥ १८३ ॥
पितृदेवान्चनं हन्ति वेदोक्तं ज्ञानदुर्बलः ।
स याति नरमं पापी वर्षाणां च सहस्रकम् ॥ १८४ ॥
ततश्च रौरवं भुक्त्वा तीर्थकाकस्त्रिचन्मसु ।
त्रिजन्मसु शृगालश्च तीर्थे भुङ्क्ते शवं व्रज ॥ १८५ ॥
त्रिजन्मसु भवेत्सोऽपि तीर्थेषु शवरक्षकः ।
शवानां करमादत्ते कर्मणा कृतपातकी ॥ १८६ ॥
नित्यं सुरार्चनं कृत्वा दाम्भिको ज्ञानदुर्बलः ।
गुरुं च नार्चयेद्भक्त्या तस्मै नान्नं ददाति यः ॥ १८७ ॥
स भवेद्देलो दुःखी देवशापेन पातकी ।
नित्यं सुरार्चनं कृत्वा दाम्भिको ज्ञानदुर्बलः ॥ १८८ ॥
पूचाफलं न लभते देवद्रोही स दारुपाः ।
दीपनिर्वाणकर्ता च खद्योल सप्तचन्मसु ॥ १८९ ॥
अतीव मत्स्यलब्धश्चाप्यनैवेद्यं च खादति ।
स भवेन्मत्स्यरङ्गश्च मार्जरिः सप्तजन्मसु ॥ १९० ॥
गोणीहर्ता कपोतश्च मालाहर्ता विहङ्गमः ।
चटको धान्यचोरश्च मांसचोरश्च कुञ्जरः ॥ १९१ ॥
कविः प्रहर्ता विदुषां माण्ड्रकः सप्तजन्मसु ।
असत्कविर्ग्रामविप्रो नकुलः सप्तजन्मसु ॥ १९२ ॥
कुष्ठी भवेच्च जन्मैकं कृकलासस्त्रिजन्मसु ।
जन्मैकं वरलश्चैव ततो वृक्षपिपीलिका ॥ १९३ ॥
ततः शूद्रश्च वैश्यश्च क्षत्रियो ब्राह्मणस्तथा ।
कन्याविक्रयकारी च चतुर्वर्णो हि मानवः ॥ १९४ ॥
सद्यः प्रयाति तामिस्रं यावच्चन्द्रदिवाकरौ ।
ततौ भवति व्याधश्च मांसविक्रयकारकः ॥ १९५ ॥
ततो व्याधि(धो)र्भवेत्पश्चाद्यो यथा पूर्वचन्मनि ।
मन्नामविक्रयी विप्रोन हि मुक्तो ॥
भवेद्ध्रुवम् ॥ १९६ ॥
मृत्युलोके च मन्नामस्मृतिमात्रं न विद्यतेः ।
पश्चाद्भवेत्स गोयोनौ जन्मैकं ज्ञानदुर्बलः ॥ १९७ ॥
ततश्चागस्ततो मेषो महिषः स्प्तचन्मसु ।
महाचक्री च कुटिलो धर्महीनस्तु मानवः ॥ १९८ ॥
जन्मैकं तैलकारश्च कुम्भकालस्तथैव च ।
मिथ्याकलङ्कवक्ता च देवब्राह्मण निन्दकः ॥ १९९ ॥
स भवेत्स्वर्णकारश्च रजकः सप्तजन्मसु ।
ब्राह्मणक्षत्रविट्शूद्राः कुत्सिताः शौचवर्जिताः ॥ २०० ॥
जन्म तेषां मलेच्छयोनौ वर्षाणामयुतं तथा ।
अतीव कामिनीलुब्धः कामुकः स्त्रीरतः सदा ॥ २०१ ॥
यक्ष्मग्रस्तो भवेत्सद्यः परत्रापि नपुंसकः ।
कामतो योषितां श्रोणीस्तनास्ये यश्च पश्यति ॥ २०२ ॥
स भवेद्दृष्टिहीनश्च परत्रापि नपुंसकः ।
विप्रोऽभिचारकर्ता च हिंसको ज्ञानदुर्बलः ॥ २०३ ॥
यात्येवमन्धतामिस्रं वर्षाणामयुतं तथा ।
तदा भवति दैवज्ञोऽप्यग्रदानी च दुर्मतिः ॥ २०४ ॥
ततः शूद्रो भवेद्विप्रो भोगेन कर्मणस्तथा ।
शास्त्रज्ञाता च दैवज्ञो मिथ्या वदति लोभतः ॥ २०५ ॥
स भवेच्च ध्रुवं ज्येष्ठी वानरः सप्तजन्मसु ।
अनेकजन्मतपसा भारते ब्राह्मणो भवेत् ॥ २०६ ॥
सुबुद्धिरतिधर्मिष्ठो धर्महीनश्च पातकी ।
स्वधर्मनिरतो विप्रः परमाच्च हुताशनात् ॥ २०७ ॥
पवित्रश्चातितेजस्वी तस्मद्भीताः सुराः सदा ।
नदीषु च यथा गङ्गा तीर्थेषु पुष्करं यथा ॥ २०८ ॥
पुरीषु च यथा काशी यथा ज्ञानिषु शङ्करः ।
शास्त्रेषु च यथा वेदा यथाऽश्वत्थश्च पादपे ॥ २०९ ॥
मम पूजा तपस्यासु व्रतेष्वनशनं यथा ।
तथा जातिषु सर्वासु ब्राह्मणाः श्रेष्ठ एव च ॥ २१० ॥
विप्रणदेषु तीर्थानि पुण्यानि च व्रतानि च ।
विप्रपादरजः शुद्धं पापव्याधिविमर्दनम् ॥ २११ ॥
शुभाशीर्वचनं तेषां सर्वकल्याणकारणम् ।
एतत्ते कथितं तात विपाकः कर्मणामहो ॥ २१२ ॥
यथाश्रुतं यथाज्ञातं तदशेषं निणामय।
शुत्वा धर्मविपाकं च वाचकाय सुवर्णकम् ॥ २१३ ॥
दद्यात्तस्मै च रौप्यं च वस्त्रं ताम्बूलमेव च ।
सुवर्णशतकं दद्यात्सद्यो देही च गोकुलम् ॥
रौप्यं वस्त्रं च ताम्बूलं मत्प्रीत्या ब्राह्मणाय च ॥ २१४ ॥
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवन्नन्दसंo-
पञ्चाशीतितमोऽध्यायः ॥ ८५ ॥