अथैकोनाशीतितमोऽध्यायः
नन्द उवाच
राहुग्रस्तः कथं सूर्यश्चन्द्रो वाऽपि जगत्प्रभो ।
नेष्टश्चन्द्रः कथं भाद्रे चतुर्थ्यां चासिते सिते ॥ १ ॥
वेदानां जनकस्त्वं च कं पृच्छामित्वया विना ।
वेदे पुराणे गोप्यं यन्न जानन्ति विपश्यितः ॥
इति तद्वचनं श्रुत्वा चेदं वचनमब्रवीत् ॥ २ ॥
श्रीभगवानुवाच
अतथ्यं वचनं चेदं निषिद्धं वैदिकैरपि ।
क्षमस्व नन्द भद्रं ते प्रश्नमन्यं कुरुष्व माम् ॥ ३ ॥
बिश्वस्तं वचनं तात न प्रकाश्यं मनीषिभिः ।
विघ्नः प्रकाशे भवति सतां छिद्रं च दैवतः ॥ ४ ॥
नन्द उवाच
कथयस्व जगन्नाथ न भक्ते वञ्चनं कुरु ।
अदृश्यौ चापि देवेशौ राहुग्रस्तौ च पुष्यदौ ॥ ५ ॥
श्रीभगवानुवाच
शृणु नन्द प्रवक्षयामि कथामेतां पुरातनीम् ।
यां श्रुत्वा निष्कलङ्कश्च तीर्थस्नायी भवेन्नरः ॥ ६ ॥
सर्वपातकिनं दृष्ट्वा यत्पापं लभते नरः ।
आख्यानश्रवणोनैव भस्मीभूतं भविष्यति ॥ ७ ॥
एकदा जमदग्निश्च महाकौतूहलान्वितः ।
रेणुकासहितस्तुष्टो जगाम नर्मदातटम् ॥ ८ ॥
निर्जने नर्मदातीरे विजहार तया सह ।
नवोढया च सुन्दर्या नवयौवनयुक्तया ॥ ९ ॥
सुवेषया सुस्मितया रत्नभूषणयुक्तया ।
नतया स्तनभारेण श्रोणीभारेण मन्दया ॥ १० ॥
सुन्दरीणामतुलया श्वेतचम्पकवर्णया ।
सुपूर्णचन्द्राननया कटाक्षयुतया तथा ॥ ११ ॥
अतीवसूक्ष्माम्बरया कामबाणार्तया व्रज ।
पुलकाञ्चितसर्वाङ्गसम्भोगेनापि मूर्च्छया ॥ १२ ॥
पुंस्कोकिलयुते रम्ये शब्दिते सुमधुव्रते ।
सुगन्धिवायुसंयुक्ते पुष्पतल्पान्विते शुभे ॥ १३ ॥
चन्दनोक्षितसर्पाङ्गं वस्त्रमाल्यधरं मुनिम् ।
महारासरसाढ्यं तमुवाच भास्करः स्वयम् ॥ १४ ॥
वेदकर्तुः प्रपौत्रस्तवं ब्रह्मणश्च जगत्वतेः ।
चतुर्वेदविधेयेषु सुनिष्णातः सदा शुचिः ॥ १५ ॥
वेदाङ्गकर्ता धर्मज्ञः श्रेष्ठो वेदविदां वरः ।
महातपस्वी तेजस्वी ब्रह्मचारी च सुव्रती ॥ १६ ॥
युष्मद्विधोक्तं शास्त्रं च पठित्वाऽन्यश्च पण्डितः ।
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः ॥ १७ ॥
धर्म त्यजति धर्मज्ञो ह्यधर्मेण रतः कथम् ।
दिवामैथुनदोषं च वक्ति वेदो विशेषतः ॥ १८ ॥
अहं च धर्मिणां साक्षी तेन त्वां कथयामि ते ।
सूर्यस्य वचनं श्रुत्वा तत्याज मैथुनं द्विजः ॥ १९ ॥
दृष्ट्वा पुरो विप्ररूपं सूर्य तेजस्विनं सुरम् ।
उवाच सूर्य रक्तास्यः कोपलज्जासमन्वितः ॥
रेणुका लज्जिता तत्र विधार्य वाससी सती ॥ २० ॥
जमदग्निरुवाच
को भवान्पण्डितम्मन्यो न त्वदन्योऽस्ति पण्डितः ।
अहं भृगोर्भगवतः शिष्यस्त्वं कश्यपस्य च ॥ २१ ॥
चतुर्वेदांश्च जानामि धर्माधर्मनिरूपणो ।
वेदप्रणिहितो धर्मे ह्यधर्मस्तद्विपर्ययः ॥ २२ ॥
अज्ञानी पुरुषः शश्वज्जडितश्च स्वकर्मणा ।
तेजीयसां न दोषाय वङ्नेः सर्वभुजो यथा ॥ २३ ॥
अन्ये भवांश्च धर्मश्च साक्षी सर्वे च कर्मणाम् ।
फलदाता च शास्त्रज्ञो यतस्त्वत्तनयः सदा ॥ २४ ॥
न वैष्णवानां शास्तारो यूयमस्माकमेव च ।
न वासुदेवभक्तानामशुभं विद्यते क्वचित् ॥ २५ ॥
हरेः सुदर्शनं चक्रं शश्वद्रक्षति वैष्णवान् ।
नारायणश्च भगवान्स्वयं ब्रह्मा च शङ्करः ॥ २६ ॥
शास्ता यमश्च नास्माकं त्वं वै नापि दिवाकर।
राजपुत्रो यथा स्थाने वयं स्वच्छन्दगामिनः ॥ २७ ॥
शक्तोऽहं भस्मसात्कर्तुं यमं सर्वसुरांस्तथा ।
महेन्द्रप्रभृतीन्सूर्य क्षणेनैवावलीलया ॥ २८ ॥
कस्त्वं धर्मप्रवक्ता मे याहि स्वस्थानमेव च ।
मम शास्ता तु भगवाञ्छ्रीकृष्णः प्रकृतेः परः ॥ २९ ॥
अद्य मे निर्जने स्थाने रसभङ्गस्त्वया कृतः ।
मम शाणत्पाप दृश्यो राहुग्रस्तो भविष्यसि ॥ ३० ॥
द्रष्टुं त्वां ये घनाः सर्वे दूरीभूता भवन्ति ते ।
त्वामाच्छन्नं करिष्यन्ति वायुना प्रेरितास्तथा ॥ ३१ ॥
स्वतेजसा भवान्गर्वाद्धततेजा भविष्यसि ।
मेघाच्छन्नः स्वल्पतेजा राहुग्रस्तो भवान्भव ॥ ३२ ॥
ब्राह्मणस्य वचः श्रुत्वा भगवान्भास्करः स्वयम् ।
ततः पुटाञ्जलिर्भूत्वा तुष्टाव मुनिपुङ्गवम् ॥ ३३ ॥
भास्कर उवाच
अवध्याः सर्वे धर्मज्ञ धन्या मान्याः पुरस्कृताः ।
नारायणश्च भगवाञ्छम्भुर्ब्रह्मा स्वयं प्रभुः ॥ ३४ ॥
गणेशाश्चापि शेषश्च धर्मश्चापि सनातनः ।
स्तुवान्ति ब्रह्मणं सर्वे विप्ररूपी जनार्दनः ॥ ३५ ॥
विप्रदत्तश्च यो ब्रह्मन्वयमस्मन्मुखो द्विजः ।
हुताशनश्च द्विमुखाः सुराः सर्वे द्विजो वरः ॥ ३६ ॥
क्षमस्व वैष्णवः शुद्धः स्वधर्म स समाचर ।
वैष्णवानां कृतः कोपो हृदि येषां जनार्दनः ॥ ३७ ॥
अस्माभिः पूजिता विप्रा युषमाभिः पूजिताः सुराः ।
परस्परं स्नेहपात्रं चेदमाचरणं द्विज ॥ ३८ ॥
अहमेवं त्वया शप्तो मया शप्तो भवान्भव ।
अन्यथा मां वदन्त्येवं सूर्य निस्तेजसं जनाः ॥ ३९ ॥
पराभूतः क्षत्रियेण भविष्यसि द्विजेश्वर ।
मरणं क्षत्रियास्त्रेण भवतश्च भविष्यति ॥ ४० ॥
सूर्यस्य वचनं श्रुत्वा चुकोप ब्राह्मणः पुनः ।
तं शशापातिरक्तास्यः शम्भुना निर्जितो भवान् ॥ ४१ ॥
उभयोः कलहं ज्ञात्वा कश्यपेन सह व्रज ।
आजगाम स्वयं ब्रह्मा विधाता जगतामपि ॥ ४२ ॥
आगत्य ब्रह्मा सन्त्रस्तं बोधयामास भास्करम् ।
मुनिश्रेष्ठं च धर्मज्ञं धर्मज्ञानां गुरोर्गुरुः ॥ ४३ ॥
ब्रह्मोवाच
क्षमस्व भास्कर त्वं च साक्षान्नारायणो भवान् ।
युष्माकं परिपाल्यश्चाप्यवध्यो ब्राह्मणाः सदा ॥ ४४ ॥
अहं करोमि भवतो विप्रशापान्तमुल्बणम् ।
अत्राहमागतस्त्रस्तो भृगुणा प्रेरितस्ततः ॥ ४५ ॥
स्फुटोऽहं प्रेरितश्चापि कश्यपेन मरीचिना ।
शान्तो भव सुरक्षेष्ठ साक्षीत्वं सर्वकर्मणाम् ॥ ४६ ॥
कुत्रचिद्दिवसे ब्रह्मंस्त्वं तत्र कुत्रचित्क्षणम् ।
भविष्यसि घनाच्छन्नः सद्यो मुक्तो भविष्यसि ॥ ४७ ॥
न्यूनातिरक्ते वर्षे च राहुग्रस्तो भविष्यसि ।
तत्रादृश्यश्च केषाञ्चित्पुण्यदृश्यो हि कस्यचित् ॥ ४८ ॥
अन्यथा सर्वकालेन पुण्यदृश्यो भवान्भुवि ।
त्वां दृष्ट्वा च नमस्कृत्य सर्वे निष्पापिनो जनाः ॥ ४९ ॥
जन्मसप्ताष्टरिः फाङ्कचतुर्थे दशमे तथा ।
जन्मर्क्षे निधनै नणामदृश्यस्त्वं भविष्यसि ॥ ५० ॥
अस्तकाले घनाच्छन्ने मध्याहनस्थे जलेऽपि वा ।
अर्धोदिते च काने च पापदृश्यो भविष्यसि ॥ ५१ ॥
भार्यादुःखनिमित्तेन भार्यया हेतुभूतया ।
श्वशुरेण शालकेन हततेजा भविष्यसि ॥ ५२ ॥
अन्यथा तव तेजश्च सञ्ज्ञा सहितुमक्षमा ।
मालीसुमालियुद्धे च शम्भुना त्वं पराचितः ॥ ५३ ॥
इत्येवमुक्त्वा सूर्य च बोधयामास ब्राह्मणम् ।
नम्रं शापपराभूतं लज्जितं कोपितं व्रज ॥ ५४ ॥
हे विप्र श्वगृहं गच्छ गच्छ वत्स यथासुखम् ।
त्वत्तेजसा क्षणेनैव भस्मीभूतं भवेज्जगत् ॥ ५५ ॥
सूर्यस्त्वत्परिपाल्यश्च भवान्सूर्यस्य नित्यशः ।
परस्परं च पूज्यश्च सम्बन्धः पोष्यपोष्कः ॥ ५६ ॥
हर्यशेन क्षत्रियेण कार्तवीर्यार्जुनेन च ।
भविष्यसि न सन्देहः पराभूतो द्विजो मृतः ॥ ५७ ॥
पुरा ते प्राक्तनं सर्व कदाचिन्न हि खण्डितम् ।
नारायणाश्च स्वांशोन तव पुत्रो भविष्यति ॥ ५८ ॥
त्रिः सप्तकृत्वो जगतीं निःक्षत्रां च करिष्यति ।
मृत्युस्ते यशसो बीजं भदिष्यति महीतले ॥ ५९ ॥
इत्येवमुक्त्ता ब्रह्मा च ययौ गेहं व्रजेश्वर ।
प्रययौ जमदग्निश्च भास्करश्च स्वमन्दिरम् ॥ ६० ॥
इत्येवं कथितं तात आख्यानं पुण्यकारकम् ।
राहुग्रस्तो भास्करश्चाप्यदृश्यो येन हेतुना ॥ ६१ ॥
चतुर्थ्यामुदितश्चन्द्रो भाद्रे मासि सितासिते ।
अदृश्यो नष्टरूपश्च श्रूयतां येन हेतुरा ॥ ६२ ॥
राहुग्रस्तः कलङ्की वा पुराशप्तो मया पितः ।
सर्व त्वां कथयिष्यामि कथामेतां पुरातनीम् ॥ ६३ ॥
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवन्नन्दसंo ॥
एकोनाशीतितमोऽध्यायः ॥ ७९ ॥