अथाष्टसप्ततितमोऽध्यायः
नन्द उवाच
श्रीकष्ण जगतां नाथ सुस्वप्नश्च श्रुतो मया ।
वेदसारो नीतिसारो लौकिको वैदिकस्तथा ॥ १ ॥
अधुना श्रोतुमिच्छामि पापं येषां च दर्शने ।
यस्मिन्कर्मणि वा वत्स तन्मां कथितुमर्हसि ॥ २ ॥
वचनं वेदशाश्रोक्तं तथा वेदानुयायिनः ।
श्रोतुमिच्छन्ति सन्तप्ता लोकास्त्वन्मुखतस्तथा ॥ ३ ॥
वेदानां जनकस्त्वं च वैदिकानां सतामपि ।
प्रह्मादीनां सुराणां च मुनीनां जगतामपि ॥ ४ ॥
श्रुतं यत्त्वन्मुखाम्भोजात्प्रमाणं वचनामृतम् ।
तेन देहोऽभिषिक्तो मे वत्सविच्छेददाहनः ॥ ५ ॥
स्वप्ने यच्छरणाम्भोजं सर्वकामफलप्रदम् ।
ब्रह्मादयो न पश्यन्ति तदद्य दृष्टिगोचरम् ॥ ६ ॥
अतः परं त्वत्पदाब्जं क्व पश्यामि च पातकी ।
विण्मूत्रधारी देहो मे निबद्धश्च स्वकर्मणा ॥ ७ ॥
ईदृशं च दिनं वत्स कदा मम भविष्यति ।
त्वया ब्रह्मादिनाथेन संवादो मम पापिनः ॥ ८ ॥
कृपां कुरु कृपानाथ मम दोषं क्षमस्व च ।
वत्सबुद्ध्या च दुर्नीतं यत्कृतं च महेश्वर ॥ ९ ॥
ब्रह्मेशशेषमुनयो ध्यायन्ते त्वत्पदाम्बुजम् ।
सरस्वती श्रुतिर्यस्य स्तवने जडतां व्रजेत् ॥ १० ॥
इत्येवमुक्त्वा नन्दश्च निरानन्दः शुचाऽऽकुलः ।
मूर्च्छामाप रुदित्वा च पुत्रविच्छेदविह्वलः ॥ ११ ॥
सन्त्रस्तो भगवान्कृष्णो बोधयामास यत्नतः ।
परमाध्यात्मिकं ज्ञानं ददौ तस्मै जगत्पतिः ॥ १२ ॥
श्रीभगवानुवाच
हे नन्द जनकश्रेष्ठ सर्वश्रेष्ठ व्रजेश्वर ।
चेतनं कुरु कल्याम ज्ञानं च परमं श्रृणु ॥ १३ ॥
परमाध्यात्मिकं ज्ञानं ज्ञानिनां च सुदुल्रभम् ।
वेदशास्त्रे गोपनीयं तुभ्यमेव ददाम्यहम् ॥ १४ ॥
निबोध श्रूयतां नन्द सानन्दः सुसमाहितः ।
जन्ममृत्युचराव्याधिर्यदभ्यासान्न जायते ॥ १५ ॥
स्थिरो भव महाराज व्रजनाथ व्रजं व्रज ।
ज्ञानं लब्ध्वा सदानन्दः शोकमोहविवर्जितः ॥ १६ ॥
जलबुद्बुदवत्सर्वं संसारं सचराचरम् ।
प्रभाते स्वप्नवन्मिथ्या मोहकारणमेव च ॥ १७ ॥
मिथ्याकृत्रिमनिर्माणहेतुश्च पाञ्चभौतिकः ।
मायया सत्यबुद्ध्या च प्रतीतिं जायते नरः ॥ १८ ॥
कामक्रोधरोभमोहैर्वेष्टितः सर्वकर्मसु ।
मायया मोहितः शश्वज्ज्ञानहीनश्च दुर्बलः ॥ १९ ॥
निद्रातन्द्राक्षुत्पिपासाक्षमाश्रद्धादयादिभिः ।
लज्जा शान्तिर्धृतिः पुष्टिस्तुष्टिश्चाऽऽभिश्च वेष्टितः ॥ २० ॥
मनोबुद्धिचेतनाभिः प्राणज्ञानात्मभिः सह ।
संसक्तः सर्वदेवैश्च यथा वृक्षश्च वायसैः ॥ २१ ॥
अहमात्मा च सर्वेशः सर्वज्ञानात्मकः स्मृतः ।
मनो ब्रह्मा च प्रकृतिर्बुद्धिरुपा सनातनी ॥ २२ ॥
प्राणा विष्णुश्चेतना सा पद्मा तु चाधिदेवता ।
मयि स्थिते स्थिताः सर्वे गतास्तेऽपिगते मयि ॥ २३ ॥
अस्माभिश्च विना देहः सद्यः पतति निश्चितम् ।
पाञ्चभूतो विलीनश्च पञ्चभूतेषु तत्क्षणम् ॥ २४ ॥
नामसङ्केतरूपं च निष्फलं मोहकारणम् ।
शोकश्चाज्ञानिनां तात ज्ञानितां नास्ति किञ्चन ॥ २५ ॥
निद्रादयः शक्तयश्च ताः सर्वाः प्रकृते कलाः ।
लोभादयो ह्यधर्माशास्तथाऽहङ्कारपञ्चमः ॥ २६ ॥
ते ब्रह्मविष्णुरुद्राशा गुणाः सत्त्वादयस्त्रयः ।
ज्ञानात्मकः शिवो ज्योतिरहमात्मा च निर्गुणः ॥ २७ ॥
यदा विशामि प्रकृतौ तदाऽहं सगुणः स्मृतः ।
सगुणा विषया विष्णुप्रह्मरुद्रादयस्तथा ॥ २८ ॥
धर्मो मदंशो विषयी शोषः सूर्यः कलानिधिः ।
एवं सर्वे सत्कलांशा मुनिमन्वादयःसुराः ॥ २९ ॥
सर्वदेहे प्रविष्टोऽहं न लिप्तः सर्वकर्मसु ।
जीवन्मुक्तश्च मद्भक्तो जन्ममृत्युजराहरः ॥ ३० ॥
सर्वसिद्धेश्वरः श्रीमान्कीर्तिमान्पण्डितः कविः ।
चतुर्स्त्रिशद्विधः सिद्धः सर्वकर्मोपहारकः ॥ ३१ ॥
तमुपैमि स्वयं सिद्धं भक्तस्त्वन्यन्न वाञ्छति ।
द्वाविंशतिविधं सिद्धं सिद्धिसाधनकारणम् ॥ ३२ ॥
मन्मुखाच्छूयतां नन्द सिद्धमन्त्रं गृहाण च ।
अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा ॥ ३३ ॥
ईशित्वं च वशित्वं च तथा कामावसायिता ।
दूरश्रवणमेवेति परकायप्रवेशनम् ॥ ३४ ॥
मनोयायित्वमेवेति सर्वज्ञत्वमभीप्सितम् ।
वह्निस्तम्भं जलस्तम्भं चिरञ्जीवित्वमेव च ॥ ३५ ॥
वायुस्तम्भं क्षुत्पिपासानिद्रास्तम्भनमेव च ।
कायव्यूहं च वाक्सिद्धिं मृतानयनमौप्सितम् ॥ ३६ ॥
सृष्टीनां करणं चैव प्राणाकर्षणमेव च ।
ॐ सर्वेश्वरेश्वराय सर्वदिघ्नविनाशिने मधुसूदनाय स्वाहेति ॥ ३७ ॥
अयं सन्त्रो महागूढः सर्वेषां कल्पपादपः ।
सामवेदे च कथितः मिद्धानां सर्वमिद्धिदः ॥ ३८ ॥
अनेन योगिनः सिद्धा मुनीन्द्राश्च सुरास्तथा ।
शतलक्षजपेनैव मन्त्रसिद्धिर्भवेत्सताम् ॥ ३९ ॥
यदि नारायणक्षेत्रे हविष्यान्नरतो जपेत् ।
गत्वा कुरु जपं तातकाशिकां मणिकर्णिकाम् ॥ ४० ॥
श्रृशु नारायणक्षेत्रै जलाधस्तच्चतुष्टयम् ।
अत्र नारायणः स्वामी नान्यः स्वामी कदाचन ॥ ४१ ॥
ज्ञानं चात्र मृते लोके मूर्तिर्भवति तस्य वै ।
व्रतं विनाऽपि मन्त्रेण जीवन्मुक्तो न संशयः ॥ ४२ ॥
व्रजं कुरु पवित्रं च व्रजनाथ व्रजं व्रज ।
पापं यद्दर्शने तात कथयामि निशामय ॥ ४३ ॥
दुःस्वप्नं पापबौजं च केवलं विघ्नकारणम् ।
गोघ्नं च ब्राह्मणघ्नं वा कृतघ्नं कृटिलं तथा ॥ ४४ ॥
देवघ्नं पितृमातृघ्नं पापं विश्ववासघातिनम् ।
मिथ्यासाक्षिप्रदातारं यं चाऽऽतिथ्यविवञ्चनम् ॥ ४५ ॥
ग्रामयाजिनमेवेति देवविप्रस्वहारिणम् ।
अश्वत्थघातिनं दुष्टं शिवविष्णुविनिन्दकम् ॥ ४६ ॥
अदीक्षितमनाचारं सन्ध्याहीनं द्विजं तथा ।
देवलं वृषवाहं च शूद्राणां सूपकारकम् ॥ ४७ ॥
शवदाहं च शूद्राणां शूद्रश्राद्धान्नभोजिनम् ।
अवीरां छिन्ननासां च देवब्राह्मणनिन्दकाम् ॥ ४८ ॥
पदिभक्तिविङीनां च विष्णुभक्तिविहीनकाम् ।
शूद्राणां विधवां चैव चाण्डालीं व्यभिचारिणीम् ॥ ४९ ॥
शश्वत्कोपयुतं दुष्टमृणग्रस्तं च जारजम् ।
चौरं मिथ्यावादिनं च शरणागतयायिनम् ॥ ५० ॥
मांसापहारिणं चैव ब्रह्मणं वृषलीपतिम् ।
ब्राह्मणीगामिरं शूद्र द्विजं वाधुर्षिकं तथा ॥ ५१ ॥
अगम्यामामिनं दुष्टं चतुर्वणं नराधमम् ।
माता सपत्नीमाता च श्वश्रूश्च भगिनी सुता ॥ ५२ ॥
गुरुपत्नी पुत्रपत्नी सोदरस्य प्रिया सती ।
मातृष्वसा पितृष्वसा भामिनेयप्रिया तथा ॥ ५३ ॥
मातुलानी नवोढा य पितृव्यस्त्री रजस्वला ।
पितृमातृप्रसूश्चैव चागम्याष्टादश स्मृताः ॥ ५४ ॥
कीर्तिताः सामवेदे च परिपाल्याः सतां व्रज ।
एता दृष्ट्वा च स्पृष्ट्वा च ब्रह्महत्यां लभेन्नरः ॥ ५५ ॥
तस्माद्दैवेन ता दृष्ट्वा सूर्यं दृष्ट्वा हरिं स्मरेत् ।
कामतो यदि पश्यन्ति विनिन्द्यास्ते भवन्ति वै ॥ ५६ ॥
तस्मात्सन्तो न पश्यन्ति शापभीता व्रजेश्वर ।
राहुग्रस्तं रविं सोभं न पश्यन्ति विपश्चितः ॥ ५७ ॥
जन्माष्टसप्तरिः फाङ्कदशमस्थे दिवाकरे ।
जन्मर्क्षे निधने चापि चतुर्थेऽपि कलानिधौ ॥ ५८ ॥
सर्वैरंशैर्न पश्यन्ति कम्पितं चन्द्रभास्करम् ।
नेष्टचन्द्रो न दृश्यश्य भाद्रे मासि सितासिते ॥ ५९ ॥
चतुर्थ्यामुदितश्चन्द्रः परित्यक्तो मनीषिमिः ।
चन्द्रस्तारापहरणं कलङ्गमतिदुष्करम् ॥ ६० ॥
तस्मै ददाति हे नन्द कामतो दि पश्यति ।
अकामतो नरो दृष्ट्वा मन्त्रपूतं जलं पिबेत् ॥ ६१ ॥
तदा शुद्धो भवेत्सद्यो निष्कलङ्की महीतले ।
सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः ॥ ६२ ॥
सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ।
इति मन्त्रेण पूतं च जलं साधुः पिबेद्ध्रुवम् ॥
इति ते कथितं सर्वमपरं कथयामि ते ॥ ६३ ॥
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखण्डo उत्तo नारदनाo भगवन्नन्दसंo
अष्टसप्ततितमोऽध्यायः ॥ ७८ ॥