०७६

अथ षट्सप्ततितमोऽध्यायः
नन्द उवाच
येषां च दर्शने पुण्यं पापं यस्य च दर्शने ।
तत्सर्व वद सर्वेश श्रोतुं कौतूहरं मम ॥ १ ॥

श्रीभगवानुवाच
सुब्राह्मणानां तीर्थानां वैष्णवानां च दर्शने ।
देवताप्रतिमादर्शी तीर्थस्नायी भवेन्नरः ॥ २ ॥

सूर्यस्य दर्शने भक्त्या मतीनां दर्शने तथाः ।
सन्न्यासिनां यतीनां च तथैव ब्रह्मचारिणाम् ॥ ३ ॥

भक्त्या गवां च वह्नीनां गुरूणां च विशेषतः ।
गजेन्द्राणां च सिंहानां श्वेताश्वानां तथैव च ॥ ४ ॥

शुकानां च पिकानां च खञ्जनानां तथैव च ।
हंसानां च मयूराणां चाषाणां शङ्खपक्षिणाम् ॥ ५ ॥

वत्सप्रयुक्तधेनूनासश्वत्थानां तथैव च ।
पतिपुत्रवतीनां च नराणां तीन्थयायिनाम् ॥ ६ ॥

प्रदीपानां सुवर्णानां मणीनां च विशेषतः ।
णुक्तानां हीरकाणां च माणिक्यानां महाशय ॥ ७ ॥

तुलसीशुक्लपुष्पाणां दर्शनं पापनाशम् ।
फलानि शुक्लधान्यानि घृतं दधि मधूनि च ॥ ८ ॥

पूर्णकुम्भं च लाजांश्च राजेन्द्रं दर्पणं जलम् ।
मालां च शुक्लपुष्पाणां दृष्ट्वा पुण्यं लभेन्नरः ॥ ९ ॥

गोरोचनं च कर्पूरं रजतं च सरोवरम् ।
पुष्पोद्यानं पुष्पितां च दृष्ट्वा पुष्यंo ॥ १० ॥

शुक्लपक्षस्य चन्द्रं च पीयूषं चन्दनं तथा ।
कस्तूरीं कुङ्कुमं दृष्ट्वा नन्द पुण्यं ॥ ११ ॥

पताकामक्षयवटं तरुं देवोत्थितं शुभम् ।
देवालयं देवखातं दृष्ट्वा पुण्यंo ॥ १२ ॥

देवाक्षितां देवद्यटं सुगन्धिपवनं तथा ।
शङ्खं च दुन्दुभिं दृष्ट्वा सद्यः पुण्यंo ॥ १३ ॥

शुकिन्त प्रवालं रजतं स्फटिकं कुशमूलकम् ।
गङ्गामृदं कुशं ताम्रं दृष्ट्वा पुण्यंo ॥ १४ ॥

पुराणपुस्तकं शुद्धं सबीजं विष्णुयन्त्रकम् ।
स्निग्धदूर्वाक्षते रत्नं दृष्ट्वा पुण्यंo ॥ १५ ॥

तपस्विनां सिद्धमन्त्रं मसुद्रं कृष्णसारकम् ।
यज्ञं महोत्सवं दृष्ट्वा स पुण्यं लभते नरः ॥ १६ ॥

गोमूत्रं गोमयं दुग्धं गोधूलिं गोष्ठगोष्पदम् ।
पक्वसस्यान्वितं क्षेत्रं दृष्ट्वा पुण्यं लभेद्ध्रुवम् ॥ १७ ॥

रुचिरां पद्मिनीं श्यामां न्यग्रोधपरिमण्डलाम् ।
सुवेषकां सुवसनां दिव्यभूषणभूषिताम् ॥ १८ ॥

वेश्यां क्षेमकरीं गन्धं सुदूर्वाक्षततण्डुलम् ।
सिद्धान्नं परमान्नं च दृष्ट्वा पुण्यं लभेन्नरः ॥ १९ ॥

कान्तिक्यां पूर्णिमायां च राधिकाप्रतिमां शुभाम् ।
सम्पूज्य दृष्ट्वा नत्वा च करोति जन्मखण्डनम् ॥ २० ॥

हिङ्गुलायां तथाऽष्टम्यामिषे मासि सिते शुभे ।
श्रीदुर्गाप्रतिमां दृष्ट्वा करोति जन्मo ॥ २१ ॥

शिवरात्रौ च काश्यां च विश्वनाथस्य दर्शनम् ।
कृत्वोपवासं पूजां च करोति जन्मo ॥ २२ ॥

जन्माष्टमीदिने भक्तो दृष्ट्वा मां बिन्दुमाधवम् ।
प्रणम्य पूजां कृत्वा च करोति जन्मo ॥ २३ ॥

पौषे मासि शुक्लरात्रौ यत्र यत्र स्थले नरः ।
पद्मायाः प्रतिमां दृष्ट्वा करोति जन्मo ॥ २४ ॥

सप्तजन्म भवेत्तस्य पुत्रः पौत्रो धनेश्वरः ।
उपोष्यैकादशीं स्नात्वा प्रभाते द्वादशीदिने ॥ २५ ॥

दृष्ट्वा काश्यामन्नपूर्णां करोति जन्मखण्डनम् ।
चैत्रै मासि चतुर्दश्यां कामरूपेषु पुण्यदे ॥ २६ ॥

दृष्ट्वा नत्वा भद्रकालीं करोति जन्मo ।
अयोध्यायां च रामं च श्रीरामनवमीदिने ॥ २७ ॥

सम्पूज्य नत्वा दृष्ट्वा च करोति जन्मo ।
उपोष्य पुष्करे स्नात्वा किंवा बदरिकाश्रमे ॥ २८ ॥

मम्पूज्य दृष्ट्वा मामेकं करोति जन्मo ।
दत्तवा तिष्णुपदे पिण्डं विष्णुं यश्च प्रपूज्येत् ॥ २९ ॥

पितणां स्वात्मनश्चैव करोति जन्मo ।
प्रयागे मुण्डनं कृत्वा दानं च कुरुते यदि ॥ ३० ॥

उपोष्य नैमिषारण्ये करोति जन्मo ।
सिद्धिं कृत्वा च वदरीम्भुङ्क्ते बदरिकाश्रमे ॥ ३१ ॥

दृष्टवा मत्प्रतिमां नन्द करोति जन्मo ।
देलायमानं गोविन्दं पुण्ये वृन्दावने च माम् ॥ ३२ ॥

दृष्टवा सम्पूज्य नत्वा च करोति जन्मo ।
भाद्रे दृष्ट्वा च मञ्चस्थं मामेव मधुसूदनम् ॥ ३३ ॥

सम्पूज्य नत्वा भक्तश्च करोति जन्मo ।
रथस्थं च जगन्नाथं यो द्रक्ष्यति कलौ नरः ॥
सम्पूज्य नत्वा भक्त्या च करोति जन्मo ॥ ३४ ॥

उत्तरायणसङ्क्रान्त्यां प्रयागे स्नानमाचरेत् ।
सम्पूज्य नत्वा मामेव करोति जन्मo ॥ ३५ ॥

कार्तिक्यां पूर्णिमायां च दृष्ट्वा मत्प्रतिमां शुभाम् ।
उपोष्य पूजरं कृत्वा करोति जन्मo ॥ ३६ ॥

चन्द्रभागासमीपे च माध्यां च मां नमेत्सुधीः ।
राधया सह मां दृष्ट्वा करोति जन्मनः क्षयम् ॥ ३७ ॥

रामेश्वरं सेतुबन्ध अषाणीपूर्णिमादिने ।
उपेष्य दृष्ट्वा सम्पूज्य करोति जन्मo ॥ ३८ ॥

स्वर्गे विद्याधरा रात्रौ नृत्यन्ति च सुहुर्मुहुः।
प्रणामं कर्तुमीशं तं समायाति विभीषणः ॥ ३९ ॥

गायन्ति किन्नरा रात्रौ गन्धर्वाश्च मनोहरम् ।
प्रणामं कर्तुमीशं त समायाति य माधवः ॥ ४० ॥

दृष्ट्वा साक्षाद्वसन्तं च सर्वेशं चन्द्रशेखरम् ।
जीवन्मुक्तो भवेदन्ते प्रयाति हरिमन्दिरम् ॥ ४१ ॥

दीननाथं दिनकरं कोणार्के चोत्तरायणे ।
उपोष्य दृष्ट्वा सम्पूज्य करोति जन्मo ॥ ४२ ॥

कृषिकोष्ठे सुवसने कलर्विके वसुन्धरे ।
विस्पन्दके राजकोष्ठे नन्दके पुष्पभद्रके ॥ ४३ ॥

पार्वतीप्रतिमां दृष्ट्वा कार्तिकेयं गणेश्वरम् ।
नन्दिनं शङ्करं दृष्ट्वा करोति जन्मनः क्षयम् ॥ ४४ ॥

उपोष्य प्रातः सम्पूज्य दृष्ट्वा स्तुत्वा स्तुतौ नतः ।
पारणं च दधि प्राश्य करोति जन्मo ॥ ४५ ॥

त्रिकूटे मणिभद्रे च पश्चिमोदधिसन्निधौ ।
समुपोष्य दधि प्रश्य मां दृष्ट्वा मुक्तिमाप्नुयात् ॥ ४६ ॥

प्रतिमासु मदीयासु पार्वतीप्रतिमासु च ।
जीवं सन्न्यस्य सम्पूज्य करोति जन्मo ॥ ४७ ॥

शिवदुर्गालयं कृत्वा मदीयं च विशेषतः ।
शिवसंस्थापनं कृत्वा करोति जन्मo ॥ ४८ ॥

पुष्पोद्यानं च शङ्कुं च सेतुं खातं सरोवरम् ।
विप्रसंस्थापनं कृत्वा करोति जन्मo ॥ ४९ ॥

न च वेदाः पुराणानि ब्रह्मसंस्थापनं फलम् ।
जानन्ति सन्तो मुनयः सुरा विप्रादयः पितः ॥ ५० ॥

गण्यन्ते पांसवो भूमेर्गण्यन्ते वृष्टिबिन्दवः ।
न गण्यते विधात्राऽपि विप्रसंस्थापने फलम् ॥ ५१ ॥

कृत्वोपजींयं विप्रस्य जीवन्मुक्तो भवेन्नरः ।
अचलां श्रीयमाप्नोति परे सुक्तिचतुष्टयम् ॥ ५२ ॥

मद्दास्यभक्तिं स लभेद्वैकुण्ठे मोदके चिरम् ।
न हि पातो भवेत्तस्य यथा मे परमात्मनः ॥ ५३ ॥

कुमारीमष्टवर्षोयां सुविप्रय ददाति यः ।
सम्पूज्य सर्वाभरणां दुर्गादानफलं लभेत् ॥ ५४ ॥

सर्व स्वर्ग्य समालोक्य ब्रह्मलोकेषु पूजितः ।
लभते मम दास्यं च वैसुण्ठे मोदते चिरम् ॥ ५५ ॥

विवाहदर्शने कोटिस्वर्णदानफलं लभेत् ।
अन्ते स्वर्गे प्रयात्येवमिहैव निश्चलां श्रियम् ॥ ५६ ॥

यः सुविप्रमनाथं च दरिद्रं च सुपण्डितम् ।
दृष्ट्वा कुर्यात्तद्विवाहं स मोक्षं लभते ध्रुवम् ॥ ५७ ॥

यच्छत्रपादुकादानं शालग्रामस्य योषितः ।
करोति भक्त्या पुण्याहे पृथ्वीदानफलं लभेत् ॥ ५८ ॥

गजचदाने च तल्लोममानवर्ष श्रुतौ श्रुतम् ।
चतुर्गुणं गजेन्द्रं च मोदते मम मन्दिरे ॥ ५९ ॥

गजर्ध श्वेततुरगे तदर्ध चेतने पितः ।
गजतुल्यं कृष्णगवां दाने च तत्फलं लभेत् ॥ ६० ॥

तत्तुल्यं धेनुदाने च ह्यर्धं सामान्यगोस्तथा ।
लभेद्वत्सप्रसूतानां दाने दाने फलं भुवः ॥ ६१ ॥

भूमिदाने रेणुमानवर्ष स्थानं च मत्पदे ।
ज्ञानदाने महत्पुण्यं वैकुण्ठे मोदते चिरम् ॥ ६२ ॥

श्रियं लभेत्स्वर्णदाने राजत्वं रजतेन च ।
अन्नदाने फलं गहं कथं जानामि पै शुतम् ॥ ६३ ॥

लभते सर्वदानस्य फलं ब्रह्मणभोजने ।
अन्नदानात्परं दानं न भूतं न भविष्यति ॥ ६४ ॥

नात्र पात्रपरीक्षाऽस्ति न कालनियमः क्वचित् ।
अन्नदाने शुभं पुण्यं दातुः पात्रं त्वपातकी ॥ ६५ ॥

अन्नदानं च धन्यं स्याद्भूमौ वैकुण्ठहेतुकम् ।
वस्त्रं ददाति विप्रय दरिद्राय कुटुम्बिने ॥ ६६ ॥

वस्त्रंसूत्रमानवर्ष वैकुण्ठे मोदते चिरम् ।
सुरम्ये चन्द्रलोके च वारुणे च तथैव च ॥ ६७ ॥

कृत्वा लोहप्रदीपं च स्वर्णवर्तिसमन्वितम् ।
दत्तवा घृतप्रदीपं च हरये परमात्मने ॥ ६८ ॥

अन्धकारं च न गृहं यमदूतं यमं तथा ।
न हि पश्यति दाता च प्रयाति मम मन्दिरम् ॥ ६९ ॥

ब्रह्मणाय च दत्तवैव न याति यमयातनाम् ।
दिव्यवर्षसहश्रं च मोदते शक्रमन्दिरे ॥ ७० ॥

आसनं लभते स्वर्गे वस्तुमात्रानुरूपतः ।
उत्तमे लक्षवर्षे च तदर्ध चेतरे व्रजेत् ॥ ७१ ॥

ताम्पूलेन लभेद्भोगं स्वर्गे वर्षशतं व्रजेत् ।
माल्यदाने प्रियं स्वर्ग वस्तुमात्रानुरूपतः ॥ ७२ ॥

फलदानफलं स्वर्ग लभते नात्र संशयः ।
सामान्यशय्यादानेन स्वर्ग वर्षशतं व्रजेत् ॥ ७३ ॥

चतुर्गुणं प्रकृष्टायां गुणलक्षं दिलक्षणे ।
अनाथाय सुविप्राय यदि गेहं प्रदीयते ॥ ७४ ॥

अत्रैव मानवर्ष च शक्रलोके महीयते ।
दृष्ट्वा बुभुक्षितं विप्रमन्नं तस्मै प्रदीयते ॥ ७५ ॥

अयलां श्रियमाप्नोति पुत्रपौत्रविवर्धिनीम् ।
व्रजनाथ व्रजं गत्वा व्रजभूमौ व्रजाधुना ॥ ७६ ॥

व्रज भोजय विपांश्च व्रज सर्व व्रजे व्रजे ।
गोकुले गोकुले वत्स वत्स वत्स निराकुले ॥ ७७ ॥

व्याकुलानां गोकुलानां सङ्कुले च व्रजे व्रजे ।
एतत्ते कथितं नन्द सानन्दं पुण्यवर्धनम् ॥
सुस्वप्नदर्शनं पुण्यं यदि नीचं न वक्ति च ॥ ७८ ॥

काश्यपं दुर्भगं नीचं शत्रुमज्ञानिनं स्त्रेयम् ।
त्यक्त्वा रात्रिं च दिवसे वक्ति विप्रं मुपण्डितम् ॥ ७९ ॥

देवालये च देवं वाऽप्यश्वत्थतुलशीवटम् ।
उक्त्वा तद्द्विगुणं पुण्यमप्रकाश्य चतुर्गुणम् ॥ ८० ॥

सुस्वप्नदर्शने प्राज्ञो गङ्गास्नानफलं लभेत् ।
अर्थं वित्तं च भार्या च भूमिं पुत्रं लभेत्प्रजाम् ॥ ८१ ॥

मोक्षं च परमैश्वर्यं लभते सर्ववाञ्छितम् ।
इत्येवं कथितं तात किं भूयः श्रोतुमिच्छसि ॥ ८२ ॥

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवन्नन्दसंo
षट्सप्ततितमोऽध्यायः ॥ ७६ ॥