अथैकोनसप्ततितमोऽध्यायः
नारद उवाच
अतः परं किं रहस्यं राधाकेशवयोर्वद ।
निगूढतत्वामस्पष्टं तन्मे व्याख्यातुमर्हसि ॥ १ ॥
नारायण उवाच
शृणु नारद वक्ष्यामि रहस्यं परमाद्भुतम् ।
गोपनीयं च वेदेषु पुराणेषु पुराविदाम् ॥ २ ॥
पुनः सकामो भगवान्कृष्णः स्वेच्छामयो विभुः ।
रेमे स रमया सार्धं विदग्धश्च विदग्धया ॥ ३ ॥
चतुःषष्टिकलाशक्त्या यथा कान्ता कलावती ।
कामशास्त्रेषु निपुणा विदग्धा रसिकेश्वरी ॥ ४ ॥
शृङ्गारलीलानिपुणा शश्वत्कामा च कामुकी ।
सुन्दरी सुन्दरीष्वेव शश्वत्सुस्थिरयौवना ॥ ५ ॥
पितणां मानसी कन्या धन्या मान्या च मानिनी ।
शम्भोः शिष्या ज्ञानयुता शतकल्पान्तजीविनी ॥ ६ ॥
वेदवेदाङ्गनिपुणा योगनीतिविशारदा ।
नानारूपधरा साध्वी प्रसिद्धा सिद्धयोगिनी ॥ ७ ॥
तत्कन्या राधिका देवी मातृतुल्या च कामुकी ।
चकार नानाभावं सा सुशीला स्वामिनं प्रति ॥ ८ ॥
चतुःषष्टिकलामानं श्रृङ्गारं च चकार सः ।
त्या विशिष्टया साकं रासे रामरसोत्सुकः ॥ ९ ॥
तां नखाग्रक्षतश्रोणीं नखक्षतपयोधराम् ।
लुप्तचन्दनसिन्दूरां कबरीशिथिलां सतीम् ॥ १० ॥
सुखसम्भोगमग्नां च नग्नां च शोकमूर्च्छिताम् ।
पुलकाञ्चितसर्पाङ्गीं निद्रादेवी समाययौ ॥ ११ ॥
दृष्ट्वा तां निद्रितां कृष्णःकृपया च कृपानिधिः ।
रुरोद मायया मायी मयेशो लोकशिक्षया ॥ १२ ॥
कृत्वा वक्षसि राधां च चुचुम्ब च पुनः पुनः ।
स्नातां च नेत्रसलिलैः प्राणाधिष्ठातृदेवताम् ॥ १३ ॥
प्राणाधिकां प्रियतमां धारयामास वाससी ।
वह्निशुद्धेऽतिसूक्ष्मे चामूल्ये विश्वमुदुर्लभे ॥ १४ ॥
कबरीं च ददौ कुङ्कुमचन्दनम् ।
तद्गात्रे च गले हारममूल्यं रत्ननिर्मितम् ॥ १५ ॥
सिन्दूरं च ददौ तस्याः सीमन्ताधःस्थलेऽमले ।
दाडिमीकुसुमाकारं युक्तं चन्दनबिन्दुभि ॥ १६ ॥
चकार पद्मकं गण्डे नानाचित्रविचित्रकम् ।
ददौ तत्पादपद्मे च रत्नमञ्जीररञ्जितम् ॥ १७ ॥
पादाङ्गुलिनखागे च सुन्दरालक्तकं ददौ ।
नानासुवेषोज्ज्वलितां तां निद्राकुलितां विभुः ॥ १८ ॥
पुनश्चकार मोहेन गाढालिङ्गनमीप्सितम् ।
पुनश्च चुम्बनं कृत्वा निवेश्य च स्ववक्षसि ॥ १९ ॥
सुष्वाप जगतां स्वामी कान्ताविरहकातरः ।
एतस्मिन्नन्तरे काने ब्रह्मा लोकपितामहः ॥ २० ॥
शिवशेषादिभिर्देवैर्मुनीन्द्रैः सार्धमाययौ ।
आगत्य नत्वा सिरसा तुष्टाव सम्पुटाञ्जलिः ॥ २१ ॥
सामवेदोक्तस्तोत्रेण परिपूर्णतमं विभुम् ॥ २२ ॥
ब्रह्मोवाच
जय जय जगदीश वन्दितचरण निर्गुण निराकार स्वेच्छामय भक्तानुग्रह नित्यविग्रह ॥ २३ ॥
गोपवेष मायया मायेश सुवेष सुशील शान्त सर्वकान्त दान्त नितान्तज्ञानानन्द परात्परतर प्रकृतेः पर सर्वान्तरात्मरूप निर्लिप्त साक्षिस्वरूप व्यक्ताव्यक्त निरञ्जन भारावतारण करुणार्णव शोकसेतापग्रसन जरामृत्युभयादिहरण शरणपञ्जर भक्तानुग्रहकारक भक्तवत्सल भक्तसञ्चितधन ओं नमोऽस्तु ते ॥ २४ ॥
सर्पाधिष्ठातृदेवायेत्युक्त्वा वै प्रीणनाय च ।
पुनःपुनःरुवाचेदं मूर्च्छितश्च बभूव ह ॥ २५ ॥
इति ब्रह्मकृतं स्तोत्रं यः शृणोति समाहितः ।
तत्सर्पाभीष्टसिद्धिश्च भवत्येव न संशयः ॥ २६ ॥
अपुत्रो लभते पुत्रं प्रियाहीनो लभेत्प्रियाम् ।
निर्धनो लभते सत्यं परिपूर्णतमं धनम् ॥ २७ ॥
इह लोके सुखं भुक्त्वा चान्ते दास्यं लभेद्धरेः ।
अचलां भक्तिमाप्नोति मुक्तेरपि सुदुर्लभाम् ॥ २८ ॥
स्तुत्वा च जगतां धाता प्रणम्य च पुनः पुनः ।
शनैः शनैः समुत्थाय भक्त्या पुनरुवाच ह ॥ २९ ॥
ब्रह्मोवाच
उत्तिष्ठ देवदेवेश परमानन्दकारण ।
नन्दनन्दन सानन्द नित्यानन्द नमोऽस्तु ते ॥ ३० ॥
व्रज नन्दालयं नाथ त्यज वृन्दावनं वनम् ।
स्मर सृदामशापं च शतवर्षनिबन्धनम् ॥ ३१ ॥
भक्तशापानृरोधेन शतवर्ष प्रियां त्यज ।
पुनरेनां च सम्प्राप्य गोलोकं च गमिष्यसि ॥ ३२ ॥
गत्वा पितृगृहं देव पश्याकूरं समागतम् ।
पितृव्यमतिथिं मान्यं धन्यं वैष्णवमीश्वर ॥ ३३ ॥
तेन सार्धं मधुपुरीं भगवान् गच्छ सम्प्रतम् ।
कुरु शम्भोर्धनुर्भङ्गं भग्नं वैरिगणं हरे ॥ ३४ ॥
हन कंसं दुरात्मानं तातं बोधय मातरम् ।
निर्माणं द्वारकायाश्च भारावतरणं भुवः ॥ ३५ ॥
दह वाराणसीं शम्भोः शक्रस्य सदनं विभो ।
शिवस्य जृम्भणं युद्धे बाणस्य भुजकृन्तनम् ॥ ३६ ॥
रुक्मिणीहरणं नाथ घातनं नरकस्य च ।
षोडशानां सहस्रं च स्त्रीणां पाणिग्रहं कुरु ॥ ३७ ॥
त्यज प्रियां प्राणसमां व्रजेश्वर व्रजं व्रज ।
उत्तिष्ठोत्तिष्ठ भद्रं ते यावद्राधा न जाग्रति ॥ ३८ ॥
त्येवमुक्त्वा ब्रह्मा च सेन्द्रैर्देवगणैः सह ।
जगाम ब्रह्मलोकं च शेषश्च शङ्करस्तथा ॥ ३९ ॥
पुष्पचन्दनवृष्टिं च कुष्णस्योपरि देवताः ।
चक्रुः प्रीत्या च भक्त्या च वाग्बभूवाशरीरिणी ॥ ४० ॥
बध कंसं वथार्ह च स्वपित्रोर्मोक्षणं कुरु ।
क्षयं कुरुभुवो भारं नारदेत्येवमेव च ॥ ४१ ॥
इत्येवं तद्वचः श्रुत्वा भगवान् भूतभावनः ।
राधा भगवतीं त्यक्त्वा समुत्तस्थौ शनैः शनैः ॥ ४२ ॥
ययौ हरिः कियद्दूरं निरीक्ष्य च पुनः पुनः ।
क्षणं तस्थौ चन्दनानां वने वाससमीपतः ॥ ४३ ॥
विहाय राधा निन्द्रां सा समुत्तस्थौ स्वतल्पतः ।
न निरीक्ष्य हरीं शान्तं कान्तं च प्राणवल्लभम् ॥ ४४ ॥
हा नाथ रमण प्रेष्ठ प्राणेश प्राणवल्लभ ।
प्राणचोर प्रियतम क्व गतोऽसीत्युवाच ह ॥ ४५ ॥
क्षणमन्वेषणं कृत्वा बभ्राम मालतीवनम् ।
उवास क्षणमुत्तस्थौ क्षणं सुष्वाप भूतले ॥ ४६ ॥
रुरोद क्षणमत्युच्चैर्विललाप मुहुर्मुहुः ।
आगच्छाऽऽगच्छ हे नाथेत्येवसुक्त्वा पुनः पुनः ॥ ४७ ॥
मूर्च्छां सम्प्राप सन्तापात्सम्प्तता विरहानलैः ।
भूतले च तृणाच्छन्ने पपात च यथा मृता ॥ ४८ ॥
आययुस्तत्र गोप्यश्च ब्रह्मञ्छतसहस्रशः ।
काश्चिच्चामरहस्ताश्च गृहीत्वा चन्दनद्रवम् ॥ ४९ ॥
तासां मध्ये प्रिया लीला कृत्वा राधां स्ववक्षसि ।
मृतामिव प्रियां दृष्ट्वा रुरोद प्रेमविह्वला ॥ ५० ॥
सजलं पङ्कजदलं पङ्कोपरि निधाय च ।
स्थापयामास तां राधां निश्चेष्टां च मृतामिव ॥ ५१ ॥
गोपीभिः सेवितां तत्र रुचिरैः श्वेतचामरैः ।
चन्दनद्रवयुक्तां च स्निग्धवस्त्रान्वितां सतीम् ॥ ५२ ॥
ददर्श कृष्णस्तत्रैत्य तामेव प्राणवल्लभाम् ।
निवारितश्च गोपीभिर्बलिष्ठाभिश्च नारद ॥ ५३ ॥
यथा नीतः सापराधो दण्डथो राजभटादिभिः ।
चकार राधां क्रोडे च समागत्य कृपानिधिः ॥ ५४ ॥
चेतनां कारयामास बोधयामास बोधनैः ।
सम्प्राप्य चेतनां देवी ददर्श प्राणवल्लाभाम् ॥ ५५ ॥
बभूव सुस्थिरा देवी तत्याज विरहज्वरम् ।
चकार कान्तं सा कान्ता गात्रालिङ्गनमीप्सितम् ॥ ५६ ॥
नानाप्रकारशृङ्गारं चकार मधुसूदनः ।
उवास रत्नतल्पे च राधां कृत्वा स्ववक्षसि ॥ ५७ ॥
राधासखी रत्नमाला विदग्धा सर्वपूजिता ।
उवाच कृष्णं मधुरं नीतिसारमनुत्तमम् ॥ ५८ ॥
रत्नमारोवाच
शृणु कृष्ण प्रवक्ष्यामि परिणामसुखावहम् ।
हितं तथ्यं नीतिसारं दम्पत्योः प्रीतिकारणम् ॥ ५९ ॥
सम्मतं कामशास्त्रेषु नीतौ वेदपुराणयोः ।
लौकिकव्यवरारेषु प्रशस्यं सुयशस्करम् ॥ ६० ॥
नारीणां च प्रिया माता प्रियो भ्राता च वन्धुषु ।
ततः प्रियश्च पुत्रश्च पुत्रादेव प्रियः पतिः ॥ ६१ ॥
शतपुत्रात्प्रियः स्वामी साध्वीनां साधुसम्मतः ।
रसिकानां विदग्धानां न हि भर्तुः परः प्रियः ॥ ६२ ॥
यदि भर्ता विदग्धश्च विदग्धानां सुखावहः ।
अन्यथा विषतुल्यश्च विषमश्चेत्खलः खलु ॥ ६३ ॥
संसारे चानृते वत्स दम्पत्योः प्रीतिरेव च ।
परस्परं च समता प्रियसौभाग्यमीप्सितम् ॥ ६४ ॥
दम्पत्योः समता नास्ति यत्र-यत्र हि मन्तिरे ।
अलक्ष्मीस्तत्र तत्रैव विफलं जीवनं तयोः ॥ ६५ ॥
सुस्वामिनां विभेदश्च परं दुःखं च योषिताम् ।
शोकसन्तापबीजं च जीवितं मरणाधिकम् ॥ ६६ ॥
स्वप्ने जागरणे चापि पतिः प्राणाश्च योषितः ।
पतिरेव गुरुः स्त्रीणामिह लोके परत्र च ॥ ६७ ॥
अस्मात्तवयि गते नाथे मूर्च्छां सम्प्राप राधिका ।
पपात सहसा भूमौ तृणाच्छन्ने च भूतले ॥ ६८ ॥
मया दत्तं मुखेऽस्याश्च शीतलं जलमुत्तमम् ।
तदा श्वासो बभूवास्याश्चेतनं बाल्यमेव च ॥ ६९ ॥
क्षणं वदति हे नाथ हे कृष्णेति क्षणं सखी ।
क्षणं रोदिति सन्तप्ता मूर्च्छां प्राप्नोति तत्क्षणम् ॥ ७० ॥
राधिकायाः शरीरं च सन्तप्तं विरहानलैः ।
दग्धलोहयष्टिसममस्पृश्यमनलोपमम् ॥ ७१ ॥
स्वप्ने जागनणे रात्रौ दिवसे च गृहे वने ।
जले स्थले चान्तरिक्षेऽभ्युदये चन्द्रसूर्ययोः ॥ ७२ ॥
नास्ति भेदश्च राधाया मृततुल्या जडाकृतिः ।
शश्वत्पश्यति स्थानस्था सर्वं विष्णुमयं जगत् ॥ ७३ ॥
स्निग्धपङ्के पङ्कजानां सजलानि दलानि च ।
निपत्य तत्कृते तल्पे सुष्वाप विरहातुरा ॥ ७४ ॥
सेविता सा प्रियालीभिः सन्ततं श्वेतचामरैः ।
चन्दनद्रवसंसिक्ता स्निग्धवस्त्रसमन्विता ॥ ७५ ॥
राधाङ्गस्पर्शमात्रेण पङ्कः सम्प्राप शुष्कताम् ।
स्निग्धानि पद्मपत्राणि बभूवुर्भस्मसात्क्षणम् ॥ ७६ ॥
चन्दनं शुष्कतां प्राप वर्णश्चम्पकसन्निभः ।
बभुव कज्जलाकारः केशस्य वर्णतो हरे ॥ ७७ ॥
सिन्दूरबिन्दू रुचिरः श्यामतां प्राप तत्क्षणम् ।
वेषो विलासो लीला च क्रीडा त्यक्ता बभूव ह ॥ ७८ ॥
रत्नमाला तु तां दृष्ट्वा गत्वा कृष्णान्तिकं तदा ।
उवाच मधुरं वाक्यं राधाहितकरं परम् ॥ ७९ ॥
रत्नमालोवाच
हे कृष्ण कमलाकान्त त्वद्वियोगेन मत्सखी ।
प्राणांस्त्यक्ष्यति शीघ्रं सा यदि नाऽऽयास्यसि ध्रुवम् ॥ ८० ॥
विचार्य मनसा कृष्ण यत्तत्समृचितं कुरु ।
न भवेत्कामिनीहत्या येन नीतिविशारद ॥ ८१ ॥
रत्नमालावाचः श्रुत्वा प्रहस्योवाच माधवः ।
हितं सत्यं नीतिसारं परिणमसुखावहम् ॥ ८२ ॥
श्रीभगवानुवाच
ईशो यद्यपि शक्तोऽहं निषेकं खण्डितुं प्रिये ।
तथाऽपि न क्षमो रत्ने नियतेर्नं करोम्यहम् ॥ ८३ ॥
ब्रह्माण्डेषु च सर्वेषु मर्यादा स्थापिता मया ।
तया कर्म प्रकुर्वन्ति मुनयश्च सुरा नराः ॥ ८४ ॥
सुदामशापाद्विच्छेदः शतवर्षमनीप्सितः ।
भविष्यत्येव दम्पत्योरावयोरेव सुन्दरि ॥ ८५ ॥
भेदो जागरणेऽस्याश्च मया सह सुमध्यमे ।
संश्लेषः सन्ततं स्वप्ने मद्वरेण भविष्यति ॥ ८६ ॥
आध्यात्मिकी मया दत्ता शोकच्छेदो भविष्यति ।
राधां बोधय भद्रं ते यास्यामि नन्दमन्दिरम् ॥ ८७ ॥
इत्युक्त्वा जगतां नाथो ययौ नन्दालयं प्रति ।
राधिकां बोधयामासुरालिसङ्घाश्च नारद ॥ ८८ ॥
गत्वा गृहं च पितरं ननाम मातरं तथा ।
चकार माता क्रोडे च नवनीतं च नूतनम् ॥ ८९ ॥
मातृदत्तं च ताम्बूलं चखाद शीतलं जलम् ।
उवास तत्र जगतां नाथो मातृसमीपतः ॥ ९० ॥
सर्वैर्गोपसमूहैश्च सेवितः श्वेतचामरैः ।
माल्यचन्दनताम्बूलं ते च तस्मै ददुर्मुदा ॥ ९१ ॥
इति श्रीब्रह्मo महाo श्रीकृष्णचन्मखo उत्तo नारदनाo श्रीकृष्णागमनं
नामैकोनसप्ततितमोऽध्यायः ॥ ६९ ॥