०६७

अथा सप्तषष्टितमोऽध्यायः
नारायण उवाच
विरहव्याकुलां दृष्ट्वा मामिनीं काममोहनः ।
कृत्वा वक्षसि तां कृष्णो ययौ क्रीडासरोवरम् ॥ १ ॥

राजराजेश्वरी राधा कृष्णवक्षसि राजते ।
सौदामिनीव जलदे नदीने गगने मुने ॥ २ ॥

रेमे स रमया सार्धं कृपया च कृपानिधिः ।
द्वयोर्द्वयोर्यथा स्वर्णम्मण्योर्मारकतो मणिः ॥ ३ ॥

रत्ननिर्माणपर्यङ्के रत्नेन्द्रसारनिर्मिते ।
नत्नप्रदीपे ज्वलति रत्नभूषणभूषितः ॥ ४ ॥

रत्नभूषाभूषितया रासरत्नश्च कौतुकात् ।
रसरत्नाकरे रम्ये निमग्नो रसिकेश्वरः ॥ ५ ॥

रासे रासेश्वरी राधा रामेश्वरमुवाच सा ।
सुरतौ विरतौ सत्यां विरते न मनोरथे ॥ ६ ॥

राधिकोवाच
प्रफुल्लाऽहं त्वया नाथ मृता म्लाना च त्वां विना ।
यथा महौषधिगणः प्रभाते भाति भास्करे ॥ ७ ॥

नक्तं दीपशिखेवाहं त्वया सार्धं त्वया विना ।
दिने दिने यथा क्षीणा कृष्णपक्षे विधोः कला ॥ ८ ॥

तव वक्षसि मे दीप्तिः पूर्णञ्चन्द्रप्रभासमा ।
सद्यो मृता त्वया त्यक्ता कुह्वां चन्द्रकला यथा ॥ ९ ॥

ज्वलदग्निशिखेवाहं घृताहुत्या त्वया सह ।
त्वया विनाऽहं निर्वाणा शिशिरे पद्मिनी यथा ॥ १० ॥

चिन्ताज्वरजराग्रस्ता मत्तस्त्वयि गतेऽप्यहम् ।
अस्तङ्गते रवौ चन्द्रे ध्वान्दग्रस्ता धरा यथा ॥ ११ ॥

भ्रष्टो वेषस्त्वां विना मे रुपयौवनचेतनम् ।
तारावली परिभ्रष्टा सूर्यसूतोदये यथा ॥ १२ ॥

त्वमेवाऽऽत्मा च सर्वेषां मम नाथो विशेषतः ।
तनुर्यथाऽऽत्मना त्यक्ता तथाऽहं च त्वया विना ॥ १३ ॥

पञ्चप्राणात्मकस्त्वं मे मृताऽहं च त्वया विना ।
दृष्टेश्च गोलकौ जद्वद्दृष्टिः पुत्तलिकां विना ॥ १४ ॥

स्थलं यथा चित्रयुक्तं त्वया सार्धमहं तथा ।
असंस्कृता त्वया हीना तृणाच्छन्ना यथा मही ॥ १५ ॥

त्वया सार्धमहं कृष्ण चित्रयुक्तेव मृन्मयी ।
त्वां विना जलधौताऽहं विरूपा मृन्मयीव च ॥ १६ ॥

गोपाङ्गनानां शोभा च त्वया रासेश्वरेण च ।
हारे स्वर्णविकारे च श्वेतेन मणिना सह ॥ १७ ॥

व्रजराज त्वया सार्ध राजन्ते राजराजयः ।
यथा चन्द्रेण नभसि ताराराजिर्विराजते ॥ १८ ॥

त्वया शोभा यशोदाया नन्दस्य नन्दनन्दन ।
यथा शाखाफलस्कन्धैस्तरुराजिर्विराजते ॥ १९ ॥

त्वया कार्ध गोकुलेश सोभा गोकुलवासिनाम् ।
यथा सर्वा लोकराजी राजेन्द्रेण विराजते ॥ २० ॥

रामस्यापि च रासेश त्वया शोभा मनोहरा ।
राजते देवराजेन यथा स्वर्गेऽमरावती ॥ २१ ॥

वृन्दावनस्य वृक्षाणां त्वं च शोभा पतिर्गतिः ।
अन्योषां च वनानां च बलवान्केसरी यथा ॥ २२ ॥

त्वया विना यशोदा य निमग्ना शोकसागरे ।
अप्राप्य वत्सं मुरभिः क्रोशन्ती व्याकुला यथा ॥ २३ ॥

आन्दोलयन्ति नन्दस्य प्राणा दग्धं च मानसम् ।
त्वया विना तप्तपात्रे यथा धान्यसमूहकः ॥ २४ ॥

इत्युक्त्वा परमप्रेम्णा सा पतन्ती हरेः पदे ।
पुनराध्यात्मिकेनैव बोधयामास तां विभुः ॥ २५ ॥

आध्यात्मिको महायोगी मोहसञ्छेदकारणम् ।
यथा पर्शुश्च वृक्षाणां तीक्ष्णधारश्च नारद ॥ २६ ॥

नारद उवाच
आध्यात्मिकं महायोगं वद वेदविदां वर ।
शोकच्छेदं च लोकानां श्रोतुं कौतुहलं मम ॥ २७ ॥

नारायण उवाच
आध्यात्मिको महायोगो न ज्ञातो योगिनामवि ।
स च नानाप्रकारश्च सर्वं वेत्ति हरिः स्वयम् ॥ २८ ॥

किञ्चिदाध्यात्मिकं चैव गोनोके राधिकेश्वरः ।
सुप्रीतः कथायामास त्रिपुरारिं यथा मुने ॥ २९ ॥

सहस्रेन्द्रनिपातान्तं तपः कुर्वन्तमीश्वरम् ।
श्रेष्ठं ज्येष्ठं वैष्णवानां वरिष्ठं च तपस्विनाम् ॥ ३० ॥

पुष्करे दुष्करं तप्त्वा पाद्मे पाद्मं च पद्मजः ।
दृष्ट्वा तं सादरं कृष्ण उवाच किञ्चिदेवतम् ॥ ३१ ॥

शतेन्द्रपातपर्यन्तं कठोरेण कृशोदरम् ।
निश्चेष्टमस्थिसारं च कृपया च कृपानिधिः ॥ ३२ ॥

सिंहक्षेत्रे पुरा धर्मं मत्तातं धर्मिणां वरम् ।
चतुर्दशेन्द्रावच्छिन्नं तपस्तप्त्वा कृशोदरम् ॥ ३३ ॥

पपाठाऽऽयात्मिकं किञ्चित्कृपया च कृपानिधिः ।
किचिच्छतेन्द्रावच्छिन्नं मां तपन्तमुवाच सः ॥ ३४ ॥

किञ्चित्सनत्कुमारं च तपन्तं सुचिरं परम् ।
सुतपन्तमनन्तं च किञ्चिच्चोवाच नारद ॥ ३५ ॥

चिरं तपन्तं कपिलं हिमशैले तपस्विनम् ।
पुष्करे भास्करे किञ्चित्तपन्तं दुष्करं तपः ॥ ३६ ॥

उवाच किञ्चित्प्रह्लादं किञ्चिद्दुर्वाससं भृगुम् ।
एवं निगूढं भक्तं च कृप्या भक्तवत्सलः ॥ ३७ ॥

क्रीडाकनोवरे रम्ये यदुवाच कृपानिधिः ।
शोकार्तां राधिकां तच्च कथायामि निशामय ॥ ३८ ॥

विरसं रसिकां दृष्ट्वा वासयित्वा च वक्षसि ।
उवाचाऽऽध्यात्मिकं किञ्चिद्योगिनीं योगिनां गुरुः ॥ ३९ ॥

श्रीकृष्ण उवाच
जातिस्मरे स्मराऽऽत्मानं कथं विस्मरसि प्रिये ।
सर्वं गोलोकवृत्तान्तं सुदाम्नः शापमेव च ॥ ४० ॥

शापात्किञ्चिद्दिनं दीने त्वद्विच्छेदो मया सह ।
भविष्यति महाभागे मेलनं पुनरावयोः ॥ ४१ ॥

पुनरेव गमिष्यामि गोलोकं तं निजालयम् ।
गत्वा गोपाङ्गनाभिश्च गोपैर्गोलोकवासिभिः ॥ ४२ ॥

अधुनाऽऽध्यात्मिकं किञ्चित्तवां वदामि निशामय ।
शोकध्नं हर्षदं सारं सुखदं मानसस्य च ॥ ४३ ॥

अहं सर्वान्तरात्मा च निर्लिप्तः सर्वकर्मसु ।
विद्यमानश्च सर्वेषु सर्वत्रादृष्ट एव च ॥ ४४ ॥

वायुश्चरति सर्वत्र यथैव सर्ववस्तुषु ।
न च लिप्तस्तथैवाहं साक्षी च सर्वकर्मणाम् ॥ ४५ ॥

जीवो मत्प्रतिबिम्बश्च सर्वत्र सर्वजीविषु ।
भोक्ता शुभाशुभानां च कर्ता च कर्मणां सदा ॥ ४६ ॥

यथा चलघटेष्वेव मण्डलं चन्द्रमुर्ययोः ।
भग्नेषु तेषु संश्लिष्टस्तयोरेव तथा मयि ॥ ४७ ॥

जीवः श्लिष्टस्तथा काले मृतेषु जीविषु प्रिये ।
आवां च विद्यमानौ च सततं सर्वजन्तुषु ॥ ४८ ॥

आधारश्चाहमाधेयं कार्य च कारणं विना ।
अये सर्वाणि द्रव्याणि नश्वराणि च सुन्दरि ॥ ४९ ॥

आविर्भावाधिकाः कुत्र कुत्रचिन्न्यूनमेव च ।
ममांशाः केऽपि देवाश्च केचिद्देवाःकलास्तथा ॥ ५० ॥

केचित्कलाः कलांशांशास्तदंशांशाश्च केचन ।
मदंशा प्रकृतिः सूक्ष्मा साच मूर्त्याच पञ्चधा ॥ ५१ ॥

सरस्वती च कमला दुर्गा त्वं चापि वेदसूः ।
सर्वे देवाः प्राकृतिका यावन्तो मूर्तिधारिणः ॥ ५२ ॥

अहमात्मा नित्यदेही भक्तध्यानानुरोधतः ।
ये ये प्रकृतिका राधे ते नष्टाः प्राकृते लये ॥ ५३ ॥

अहमेवाऽऽसमेवाग्रे पश्चादप्यहमेव च ।
यथाऽहं च तथा त्वं च यथा धावल्यदुग्धयोः ॥ ५४ ॥

भेदः कदाऽपि न भवेन्निश्चितं च तथाऽऽवयोः ।
अहं महान्विराट् सुषटौ विश्वानि यस्य लोमसु ॥ ५५ ॥

अंशस्त्वं तत्र महती स्वांशेन तस्य कामिनी ।
आहं क्षुद्रविराट् सृष्टौ विश्वं यन्नाभिपद्मतः ॥ ५६ ॥

अयं विष्णोर्लोमकूपे वासो मे चांशतः सति ।
तस्य स्त्री त्वं च बृहती स्वाशने सुभगा तथा ॥ ५७ ॥

तस्य विश्वे च प्रत्येकं ब्रह्मविष्णुशिवादयः ।
ब्रह्मविष्णुशिवा अंशाश्चान्ये चापि च मत्कलाः ॥ ५८ ॥

मत्कलांशांशकलया सर्वे देवि चराचराः ।
वैकुण्ठे त्वं महालक्ष्मीरहं तत्र चतुर्भुजः ॥ ५९ ॥

स च विश्वाद्बहिश्चोर्ध्वं यथा गोलोक एव च ।
सरस्वती त्वं सत्ये च सावित्री ब्रह्मणः प्रियाः ॥ ६० ॥

शिवलोके शिवा त्व्रं च मूलप्रकृतिरीश्वरी ।
विनाश्य दुर्गं दुर्गा च सर्वदुर्गतिनाशिनी ॥ ६१ ॥

स एव दक्षकन्या च सा एव शैलकन्यका ।
कैलासे पार्वती तेन सौभाग्या शिववक्षसि ॥ ६२ ॥

स्वांशेन त्वं सिन्धुकन्या क्षीरोदे विष्णुवक्षसि ।
अहं स्वाशेन सृष्टौ च ब्रह्मविष्णुमहेश्वराः ॥ ६३ ॥

त्वं च लक्ष्मी शिवा धात्री सावित्री च पृथक्पृथक् ।
गोलोके च स्वयं राधा रासे रासेश्वरी सदा ॥ ६४ ॥

वृन्दा दृन्दावने रम्ये विरजा विरजातटे ।
सा त्वं सुदामशापेन भारतं पुण्यमागता ॥ ६५ ॥

पूतं कर्तुं भारतं च वृन्दारण्यं च सुन्दरि ।
त्वत्कलांशांशकलया विश्वेषु सर्वयोषितः ॥ ६६ ॥

यायोषित्सा च भवती यः पुमान्सोऽहमेव च ।
अहं च कलया वह्निस्त्वं स्वाहा दाहिका प्रिया ॥ ६७ ॥

त्वया सह समर्थोऽहं नालं दग्धुं च त्वां विना ।
अहं दीप्तिमतां सूर्यः कलया त्वं प्रभाकरी ॥ ६८ ॥

सञ्ज्ञा त्वं च त्वया भामि त्वां विनाऽहं न दीप्तिमान् ।
अहं च कलया चन्द्रस्त्वं च शोभा च रोहिणी ॥ ६९ ॥

मनोहरस्त्वया सार्धं त्वां न च सुन्दरः ।
अहमिन्द्रश्च कलया स्वर्गलक्ष्मीश्च त्वं शची ॥ ७० ॥

त्वया सार्धं देवराजो हतश्रीश्च त्वया विना ।
अहन्धर्मश्च कलया त्वं च मूर्तिश्च धर्मिणी ॥ ७१ ॥

नाहं शक्तो धर्मकृत्यो त्वां च धर्मक्रियां विना ।
अहं यज्ञश्च कलया त्वं च स्वांशेन दक्षिणा ॥ ७२ ॥

त्वया सार्धं च फलदोऽप्यकमर्थस्त्वया विना ।
कलया पिदृलोकोऽहं स्वांशेन त्वं स्वधा सती ॥ ७३ ॥

त्वयाऽलं कव्यदाने च सदा नालं त्वया विना ।
अहं पुमांस्त्वं प्रकृतिर्न स्रष्टाऽहं त्वया विना ॥ ७४ ॥

त्वं च संवत्स्वरूपाऽहमीश्वरश्च त्वया सह ।
लक्ष्मीयुक्तस्त्वया लक्ष्मया निः श्रीकश्च त्वया दिना ॥ ७५ ॥

यथा नालं कुलालश्च घटं कर्तुं मृदा विना ।
अहं शेषश्च कलया स्वांशेन त्वं वसुन्धरा ॥ ७६ ॥

त्वां सस्यरत्नाधारां च बिभर्मि मूर्ध्नि सुन्दरि ।
त्वं च कान्तिश्च शान्तिश्च भूतिर्मूर्तिमती सती ॥ ७७ ॥

तुष्टिः पुष्टिः क्षमा लज्जा क्षुधा तृष्णा परा दया ।
निद्रा श्रद्धा च तन्द्रा च मूर्च्छा च सन्नतिः क्रिया ॥ ७८ ॥

मूर्तिरूपा भक्तिरूपा देहिनां देहरूपिणी ।
ममाऽऽधारा सदा त्वं च तवाऽत्माऽहं परस्परम् ॥ ७९ ॥

यथा त्वं च तथाऽहं च समौ प्रकृतिपूरुषौ ।
न हि सृष्टिर्भवेद्देवि द्वयोरेकतरं विना ॥ ८० ॥

इत्युक्त्वा परमात्मा च राधां प्राणाधिकां प्रियाम् ।
कृत्वा वक्षसि सुप्रीतो बोधयामास नारद ॥ ८१ ॥

स च कीडानियुक्तश्च बभूव रत्नमन्दिरे ।
तथा च राधाया सार्धं कामुक्या सह कामुकः ॥ ८२ ॥

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo आध्यत्मिक-
योगकथनं नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥