अथ षटुषष्टितमोऽध्यायः
नारायण उवाच
अथ रासेश्वरीयुक्तो रासे रासेश्वरः स्वयम् ।
स च रेमे तया सार्धम्मतीव रमणोत्सुकः ॥ १ ॥
सुखसम्भोगमात्रेण ययौ निद्रां च राधिका ।
दृष्ट्वा स्वप्नं समुत्वाय दीनोवाच प्रियं दिने ॥ २ ॥
राधिकोवाच
अहो स्वामिन्निहाऽऽगच्छ त्वां करोमि स्ववक्षसि ।
परिणामे विधाता मे न जाने किं करिष्यति ॥ ३ ॥
इत्युक्त्वा का महाभागा प्रियं कृत्वा स्ववक्षसि ।
दुःस्वप्नं कथायामास हृदयेन विदूयता ॥ ४ ॥
राधिकोवाच
रत्नसिंहासनेऽहं च रत्नच्छत्रं च बिभ्रती ।
तदातपत्रं जग्राह रुषटो विप्रश्च मे प्रभो ॥ ५ ॥
सागरे कज्जलाकारे महाघोरे च दुस्तरे ।
गभीरे प्रेरयामास मामेव दुर्बलां स च ॥ ६ ॥
तत्र स्रोतसि शोकार्ता भ्रमामि च मुहुर्मुहुः ।
महोर्मीणां च वेगेन व्याकुला नक्रसङ्कुले ॥ ७ ॥
त्राहि त्राहीति हे नाथ त्वां वदामि पुनः पुनः ।
त्वां न दृष्ट्वा महाभीता करोमि प्रार्थनां सुरम् ॥ ८ ॥
कृष्ण तत्र निमज्जन्ती पश्यामि चन्द्रमण्डलम् ।
निपतन्तं च गगनाच्छतखण्डं च भूतले ॥ ९ ॥
क्षणान्तरे च पश्यामि गगनात्सूर्यम्मण्डलम् ।
बभूव च चतुःखण्डं निपत्य धरणीतले ॥ १० ॥
एककाले च गगने मण्डलं चन्द्रसूर्ययोः ।
अतीव कज्जलाकारं सर्वं ग्रस्तं च राहुणा ॥ ११ ॥
क्षणान्तरे च पश्यामि ब्रह्मणो दीप्तिमानिति ।
सत्क्रोडस्थं सुधाकुम्भं बभञ्ज च रुषेति च ॥ १२ ॥
क्षणान्तरे च पश्यामि महारुष्टं च ब्राह्मणम् ।
गृहीत्वा च व्रजन्तं च चक्षुषोः पुरुषं मम ॥ १३ ॥
क्रीडाकमलदण्डं च हस्ताद्ध्वस्तं मम प्रभो ।
सहसा खण्डशण्डं च बभूव सह हेतुना ॥ १४ ॥
हस्ताद्ष्वस्तश्च सहसा सद्रत्नसारदर्पणः ।
निर्मलः कज्जलाकारः खण्डकण्डो बभूव ह ॥ १५ ॥
हारो मे रत्नमाराणां छिन्नो भूत्वा च वक्षसः ।
अतीव मरिनं पद्मं पपात धरणीतले ॥ १६ ॥
सौधपुत्तलिकाः सर्वा नृत्यन्ति च हसन्ति च ।
आस्फोटयन्ति गायन्ति रुदन्ति य क्षणं क्षणम् ॥ १७ ॥
कृष्णवर्णं बृहच्चक्रं खे भ्रमन्तं मुहुर्मुहुः ।
निपतन्तं चोत्पतन्तं पश्यामि च भयङ्करम् ॥ १८ ॥
प्राणाधिदेवः पुरुषो निःसृत्याम्यन्तरान्मम ।
राधे विदायं देहीति ततो यामीत्युवाच ह ॥ १९ ॥
कृष्णवर्णा च प्रतिमा मामाश्लिष्यति चुम्बति ।
कृष्णवस्त्रपरीधाना चेति पश्यामि साम्प्रतम् ॥ २० ॥
इतीदं विपरीतं च दृष्टावा च प्राणावल्लभ ।
नृत्यन्ति तक्षिणाङ्गानि प्राणा आन्दोलयन्ति मे ॥ २१ ॥
रुदन्ति शोकात्कर्षन्ति समुद्विग्नं च मानसम् ।
किमिदं किमिदं नाथ वद वेदविदां वर ॥ २२ ॥
इत्युक्त्वा राधिका देवी शुष्ककण्ठोष्ठतालुका ।
पपात तत्पदाम्भोजे भीता स शोकविङ्वला ॥ २३ ॥
श्रुत्वा स्वप्नं जगन्नाथो देवीं कृत्वा स्ववक्षमि ।
आध्यात्मिकेन योगेन वोधयामास तत्क्षणम् ॥ २४ ॥
त्तयाच शोकं स देवी ज्ञानं सम्प्राप्य निर्मलम् ।
शान्तं च भगवन्तं च कृत्वा कान्तं स्ववक्षसि ॥ २५ ॥
इतिo श्रीब्रह्मo महाo श्रीकृष्णजान्मखo उत्तo नारदनाo राधाशोका-
पनोदने षट्षष्टितमोऽध्यायः ॥ ६६ ॥