अथ पञ्चषष्टितमोऽध्यायः
नारायम उवाच
कंसस्य वचनं श्रुत्वा सोऽक्रूरो धर्मिणां वरः ।
उवाच चौद्धवं शान्तं शान्तः प्रहृष्टमानसः ॥ १ ॥
अक्रूर उवाच
सुप्रभाताऽद्य रजनी बभूव मे शुभं दिनम् ।
तुष्टाश्च गुरवो विब्रा देवा मामिति निश्चितम् ॥ २ ॥
कोटिजन्मार्जितं पुण्यं मम स्वयमुपस्थितम् ।
बभूव मे समुत्पन्नं यद्यत्कर्म शुभाशुभम् ॥ ३ ॥
चिच्छेद बन्धनिगडं मम बद्धस्य कर्मणा ।
कारागाराश्च संसारान्मुक्तो यामि हरेःपदम् ॥ ४ ॥
सुहृदर्थो कृतोऽहं च कंसेन विदुषा रुषा ।
वरेण तुल्यो देवस्य क्रोधो मम बभूव ह ॥ ५ ॥
व्रजराज समाहर्तुं व्रजं यास्यामि साम्प्रतम् ।
द्रक्ष्यामि परमं पूज्यं भुक्तिमुक्तिप्रदायिनम् ॥ ६ ॥
नवीनजलदश्यामं नीलेन्दीवरनोचनम् ।
पीतवस्त्रसमायुक्तकटिदेशविराजितम् ॥ ७ ॥
धूलिधूसरिताङ्गं च किंवा चन्दनचर्चितम् ।
अथाव नवनीताक्तमङ्गं द्रक्ष्यामि सस्मितम् ॥ ८ ॥
किंवा विनोदमुरलीं वादयन्तं मनोहरम् ।
किंवा गवां समूहं च चारजन्तमितस्ततः ॥ ९ ॥
किंवा वसन्तं गच्छन्तं शयानं वा सुनिश्चितम् ।
निद्रेशं कीदृशं चाद्य सुदृष्ट्वा च शुभे क्षणो ॥ १० ॥
यत्पादपद्मं ध्यायन्ते ब्रह्मविष्णुशिवादयः ।
न हि जानाति यस्यान्तमनन्तोऽनन्तविग्रहः ॥ ११ ॥
यत्प्रभावं न जानन्ति देवाः सन्तश्च सन्ततम् ।
स्य स्तोत्रे जडीभूता भीता देवी सरस्वती ॥ १२ ॥
दासीनियुक्ता यद्दास्यो महालक्षमीश्च लक्षीता ।
गङ्मा यस्य पदाम्भोजान्निःसृता सत्तव रूमिणी ॥ १३ ॥
जन्ममृत्युजराव्याधिहरा त्रिभुवनात्परा ।
दर्शनस्पर्शनाभ्यां च नृणां पातकनाशिनी ॥ १४ ॥
ध्यायते यत्पदाम्भोजं दुर्गा दुर्गविनाशिनी ।
त्रेलोक्यजननी देवी मुलप्रकृतिरीश्वरी ॥ १५ ॥
लोम्नां कूपेषु विश्वानि महाविष्णोश्च यस्य च ।
असङ्ख्यानि विचित्राणि स्थूलात्स्थूलतरस्य च ॥ १६ ॥
स च यत्षोडशांशश्च यस्य सर्वेश्वरस्य च ।
तं द्रष्टुं यामि हे बन्धो मायामानुषरूपिणम् ॥ १७ ॥
सर्व सर्वान्तरात्मानं सर्वज्ञं प्रकृतेः परम् ।
ब्रह्मज्योतिःस्वरूपं च भक्तानुग्रहविग्रहम् ॥ १८ ॥
निर्गुणं च निरीहं च निरानन्दं निराश्रयम् ।
परमं परमानन्दं सानन्दं नन्दनन्दनम् ॥ १९ ॥
स्वेच्छामयं सर्वपरं सर्वबीजं सनातनम् ।
वदन्ति योगिनः शश्वद्ध्यायन्तेऽहर्निशं शिशुम् ॥ २० ॥
मन्वन्तरसहस्रं च निराहारः कृशोदरः ।
पद्मे पाद्मस्तपस्तेपे पुरा पाद्मं तु यत्कृते ॥ २१ ॥
पुनः कुरु तपस्यां च तदा द्रक्ष्यसि मामिति ।
सकृच्छब्दं च शुश्राव न ददर्श तथाऽपि तम् ॥ २२ ॥
तावत्कालं पुनस्तप्त्वा वरं प्राप ददर्श तम् ।
ईदृशं परमेशं च द्रक्ष्याम्यद्य तमुद्धव ॥ २३ ॥
पुरा शम्भुस्तपस्तेपे यावद्वै ब्रह्मणो वयः ।
ज्योतिर्मण्डलमध्ये च गोलोके तं ददर्श सः ॥ २४ ॥
सर्वतत्तवं सर्वसिद्धं ममतत्वं परं वरम् ।
सम्प्राप तत्पदाम्भोजे भक्तिं च निर्मलां पराम् ॥ २५ ॥
चकाराऽत्मसमं तं च यो भक्तो(क्तं)भक्तवत्सलः ।
ईदृशं परमेशं च द्रक्ष्याम्यद्य तमुद्धव ॥ २६ ॥
सहस्रशक्रपातान्तं निराहारः कृशोदरः ।
यस्यानन्तस्तपस्तेपे भक्त्या च परमात्मनः ॥ २७ ॥
तदा चाऽऽत्मसमं ज्ञानन्ददौ तस्मै य ईश्वाः ।
ईदृशं परमेशं च द्रक्ष्याo ॥ २८ ॥
सहस्रशक्रपातान्तं धर्मस्तेपे च यत्तपः ।
तदा बभूव साक्षी स धर्मिणां सर्वकर्मिणाम् ॥ २९ ॥
शास्ता च फलदाता च यत्प्रसादान्नृणामिह ।
सर्वेशमीदृशमहो द्रक्ष्याo ॥ ३० ॥
अष्टाविंशतिरिन्द्राणां पतने यद्दिवानिशम् ।
एवं क्रमेण मासाब्दैः शताब्दं ब्रह्मणो वयः ॥ ३१ ॥
अहो यस्य निमेषेण ब्रह्मणः पतनं भवेत् ।
ईदृशं परमात्मानं द्रक्ष्याo ॥ ३२ ॥
नास्ति भूरजसा सङ्ख्या यथैव ब्रह्मणां तथा ।
तथैव बन्धो विश्वानां तदाधारो महाविराट् ॥ ३३ ॥
विशवे विश्वे च प्रत्येकं ब्रह्म विष्णुशिवादयः ।
मुनयो मनवः मिद्धा मानवाद्याश्चराचराः ॥ ३४ ॥
यत्षोडशांशः स विराट् सृष्टो नष्टश्च लीलया ।
ईदृशं सर्वशास्तारं द्रक्ष्याo ॥ ३५ ॥
इत्योवमुक्त्वाऽक्रूरश्च पुलकाञ्चितविग्रहः ।
मूर्च्छां प्राप साश्रुनेत्रोदध्यो तच्चरणाम्बुजम् ॥ ३६ ॥
बभूव भक्तिपूर्णश्च स्मारं स्मारं पदाम्बुजम् ।
कृत्वा प्रदक्षिणं वाऽपि कृष्णस्य परमात्मनः ॥ ३७ ॥
उद्धवश्च तमाश्लिष्य प्रशशङ्क पुनः पुनः ।
स च शीघ्रं ययौ गेहमकूरोऽपि स्वमन्दिरम् ॥ ३८ ॥
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo अक्रूरहर्षोत्कर्षकथनं
नाम पञ्चषष्टि,मोऽध्यायः ॥ ६५ ॥