०६२

अथ द्विषष्टितमोऽध्यायः
नारद उवाच
ब्रह्मन् केन प्रकारेण रामो दाशरथिः स्वयम् ।
चकार मोक्षणं कुत्र युगे गौतमयोषितः ॥ १ ॥

रामावतारं सुखदं समासेन मनोहरम् ।
कथायस्व महाभाग श्रोतुं कौतूहलं मम ॥ २ ॥

नारायण उवाच
ब्रह्मणा प्रार्थितो विष्णुर्जातो दशरथात्स्वयम् ।
कौसल्यायां च भगवांस्त्रेतायां च मृदाऽन्वितः ॥ ३ ॥

कैकेय्यां भरतश्चैव रामतुल्यो गुणेन च ।
लक्ष्मणश्चापि शत्रुघ्नः सुमित्रायां गुणार्णवः ॥ ४ ॥

पिश्वामित्रप्रेषितश्च श्रीरामश्च सलक्ष्मणः ।
प्रययौ मिथिलां रम्यां सीताग्रहणहेतवे ॥ ५ ॥

दृष्ट्वा पाषाणारूपा च रामो वर्त्मनि कामिनीम् ।
विश्वामित्रं च पप्रच्छ कारणं जगदीश्वरः ॥ ६ ॥

रामस्य वचनं श्रुत्वा विश्वामित्रो महातपाः ।
उवाच तत्र धर्मिष्ठो रहस्यं सर्वमेव च ॥ ७ ॥

कारणं तन्मुखाच्छ्रृत्वा रामो भुवनपावनः ।
पस्पर्श पादाङ्गुलिना सा बभूव च पद्मिनी ॥ ८ ॥

सा राममाशिषं कृत्वा प्रययौ भर्तृ मन्दिरम् ।
शुभाशिषं ददौ तस्मै भार्या सम्प्राप्य गौतमः ॥ ९ ॥

रामश्च मिथिलां गत्वा धनुर्भङ्गं शिवस्या च ।
चकार पाणिग्रहणं सीतायाश्चैव नारद ॥ १० ॥

कृत्वा विवाहं राजेन्द्रो भृगुदर्प निहत्य च ।
णयोध्यां प्रययौ रम्यां क्रीडाकौतुकमङ्गलैः ॥ ११ ॥

राजा पुत्रं नृपं कर्तुमिषेय कृतसादरम् ।
सप्ततीर्थोदकं तूर्णमानीय मुनिपुङ्गवान् ॥ १२ ॥

कृताधिवासं श्रीरामं सर्व मङ्गलसंयुतम् ।
दृष्ट्वा भरतमाता च कैकेयी शोकविह्वला ॥ १३ ॥

वरयामास राजानं पूर्वमङ्गीकृतं वरम् ।
रामस्य वनवासं च राजत्वं भरतस्य च ॥ १४ ॥

वरं दातुं महाराजो नेयेष प्रेममोहितः ।
धर्मसत्यभयेनैवोवाच रामो नृपं सुधी। ॥ १५ ॥

श्रीराम उवाच
तडागशतदानेन यत्पुण्यं लभते नरः ।
ततोऽधिकं च लभते वापीदानेन निश्चितम् ॥ १६ ॥

दशवापीप्रदानेन यत्पुण्यं लभते नरः ।
ततोऽधिकं च लभते पुण्यं कन्याप्रदानतः ॥ १७ ॥

दशकन्याप्रदानेन यत्पुण्यं लभते नरः ।
ततोऽधिकं च लभते यज्ञैकेन नराधिप ॥ १८ ॥

शतयज्ञेन यत्पुण्यं लभते पुण्यकृज्जनः ।
ततोऽधिकं च लभते पुत्रास्यदर्शनेन च ॥ १९ ॥

दर्शने शतपुत्राणां यत्पुण्यं लभते नरः ।
तत्पुण्यं लभते नूनं पुण्यवान्सत्यबालनात् ॥ २० ॥

न हि सत्यात्परो धर्मो नानृतात्पातकं परम् ।
न हि गह्घासमं तीर्यं म देवः केशवात्परः ॥ २१ ॥

नास्ति धर्मात्परो बन्धुर्नास्ति धर्मात्परं धनम् ।
धर्मात्प्रियः परः को वा स्पधर्मं रक्ष यत्नतः ॥ २२ ॥

स्वधर्मे रक्षिते तात शश्वत्सर्वत्र मङ्गलम् ।
यशस्यं सुप्रतिष्ठा च प्रतापः पूजनं परम् ॥ २३ ॥

यतुर्दशाब्दं धर्मेण त्यक्त्वा गृहसुखं म्रमन् ।
वनवासं करिष्यामि सत्यस्य पालनाय ते ॥ २४ ॥

कृत्वा सत्यं च शपथमिच्छयाऽनिच्छयाऽथवा ।
न कृर्यात्पालनं यो हि भस्मान्तं तस्य सूतकम् ॥ २५ ॥

कुम्भीपाके स पचति यावच्चन्द्रदिवाकरौ ।
ततो मूको भवेत्कुषठी मानवः सप्तजन्मसु ॥ २६ ॥

इत्योवमुक्त्वा श्रीरामो विधाय कल्कलं जटाम् ।
प्रययौ च महारण्ये सीतया लक्ष्मणेन च ॥ २७ ॥

पुत्रशोकान्महाराजास्तत्याज स्वतनुं मुने ।
पालनाय पितुः सत्यं रामो बभ्रामकानन ॥ २८ ॥

कालान्तरे महारण्ये भगिनी रावणस्य च ।
भ्रमन्ती कानने घोरे भर्त्रा सार्धं सुगौतुकात् ॥ २९ ॥

ददर्श रामं कुलटा कामार्ता राक्षसी तदा ।
पुलकाञ्चितसर्वाङ्गी सूर्च्छमाप स्मरेण च ॥ ३० ॥

श्रीरामनिकटं गत्वा सस्मितोवाच कामुकी ।
शस्वधौवनसंयुक्ताऽतिप्रौढा कामदुर्मदा ॥ ३१ ॥

शूर्पणखोवाच
हेराम हे धनश्याम रूपधाम सुणान्वित ।
मायानुरक्तां वनितां मां गृहाण सुनिर्जने ॥ ३२ ॥

श्रुत्वा शूर्पणखावाक्यं धर्मं संस्मृत्य धार्मिकः ।
उवाच सधुरें वाक्यं शावभीतश्च नारद ॥ ३३ ॥

श्रीराम उवाच
अम्बमातः सभार्योऽहमभार्यं गच्छ मेऽनुजम् ।
दुःखं प्रियोऽन्यां प्रभजेदितरं च सुखालयम् ॥ ३४ ॥

रामस्य वचनं श्रुत्वा प्रययौ लक्ष्मणं मुदा ।
ददर्श लक्षमणं शान्तं कान्तं च लक्षणान्वितम् ॥ ३५ ॥

मां भजस्व महाभागेत्युवाच च पुनः पुनः ।
लक्ष्मणास्तद्वचः श्रुत्वा तामुवाच कुतूहलात् ॥ ३६ ॥

लक्ष्मण उवाच
विहाय रामं सर्वेशं हे मूढे दासमिच्छसि ।
सीतादासी च मत्पत्नी सीतादासोऽहमेव च ॥ ३७ ॥

भव सीतासपत्नी त्वं गच्छ रामं मदीश्वरम् ।
तव पुत्रो भविष्यामि सीतायाश्चयथा सति ॥ ३८ ॥

लक्ष्मणास्य वचः श्रुत्वा कामेन हृतमानसा ।
उवाच लक्ष्मणं मूढा शुष्ककण्ठेष्ठतालुका ॥ ३९ ॥

शूर्पणखोवाच
यदी त्यजसि मां मूढ कामात्स्वयमुपस्थिताम् ।
युवयोश्च विपत्तिश्च भविष्य ति न संशयः ॥ ४० ॥

ब्रह्मा च मोहिनीं त्यक्तवा विश्वेऽपूज्ये बभूव सः ।
रम्भाशापेन दक्षश्च छागमस्तो बभूव सः ॥ ४१ ॥

स्वर्वैद्यश्चोर्वशीशापाद्यज्ञभागविवर्जितः ।
रूपहीनः कुबेरश्च मेनाशापेन लक्ष्मण ॥ ४२ ॥

कामो घृताचीशापेन बभूव भस्मसाच्छिवात् ।
बलिर्मदालसाशापाद्भ्रष्टराज्यो बभूव ह ॥ ४३ ॥

शापेन मिश्रकेश्याश्च हृतभार्यो बृहस्पतिः ।
मम शापात्तथा रामो हृतभार्यो भविष्यति ॥ ४४ ॥

कामातुरां यौवनस्थां भार्या स्वयमुपस्थिताम् ।
न त्यजेद्धर्मभीतश्च श्रुतं माध्यन्दिने पुरा ॥ ४५ ॥

इह त्यक्त्वा पिबद्ग्रस्तः परत्र नरकं व्रजेत् ।
श्रुत्वा शूर्पणखावाक्यमर्धयन्द्रेण लक्ष्मणः ॥ ४६ ॥

चिच्छेद नासिकां तस्याः क्षुरधारेण लीलया ।
तस्या भ्राता च युयुधे बलवान्खरदूषणः ॥ ४७ ॥

ससैन्यो लक्ष्मणास्त्रेण स जगाम यमालयम् ।
चतुर्दशसहस्रं च राक्षसान्खरदूषणम् ॥ ४८ ॥

मृतान्दृष्ट्वा शूर्पणखा भर्त्सयामास रावणम् ।
सर्वं निवेदनं कृत्वा जगाम पुष्करं तदा ॥ ४९ ॥

ब्रह्मणश्च वरं प्राप कृत्वा च दुष्करं तपः ।
उवाच तादृशीं दृष्ट्वा निराहारां तपस्विनीम् ॥ ५० ॥

सर्वज्ञस्तन्मनो मत्वा कृपासिन्धुश्च नारद ॥ ५१ ॥

ब्रह्मोवाच
अप्राप्य रामं दृष्प्रापं करोषि दुष्करं तपः ।
जितेन्द्रियाणां प्रवरं लक्ष्मणं धर्मलक्षणम् ॥ ५२ ॥

ब्रह्मविष्णुशिवादीनामीश्वरं प्रकृतेः परम् ।
जन्मान्तरे च भर्तारं प्राप्स्यसि त्वं वरानने ॥ ५३ ॥

इत्येवमुक्त्वा ब्रह्म च जगाम स्वालयं मुदा ।
देहं तत्याज सा वह्नो सा च कुब्जा बभूव ह ॥ ५४ ॥

अथ शूर्पणखा वाक्यात्कोपात्कम्पितविग्रहः ।
जहार मायया सीतां मायावी राक्षसेश्वरः ॥ ५५ ॥

सीतां न दृष्ट्वा रामश्च मूर्च्छां प्राप चिरं मुने ।
चेतनां कारयामास भ्राता चऽऽध्यात्मिकेन च ॥ ५६ ॥

ततो बभ्राम गहनं शैलं च कन्दरं नदम् ।
अहर्निशं च शोकार्तो मुनीनामाश्रमं मुने ॥ ५७ ॥

चिरमन्वेषणं कृत्वा न दृष्ट्वा जानकीं विभुः ।
चकार मित्रतां रामः सुग्रीवेण स्वयं प्रभुः ॥ ५८ ॥

निहत्य वालिनं बाणैर्ददौ राज्यं च लीलया ।
सुग्रीवाय च मित्राय स्वीकारपालनाय वै ॥ ५९ ॥

दूतान्प्रस्थापयामास सर्वत्र वानरेश्वाः ।
तस्थौ सुग्रीवभवने श्रीरामश्च सलक्ष्मणः ॥ ६० ॥

हनूमते वरं दत्तवा रम्यं रत्नाङ्गुलीयकम् ।
सीतायै शुभसन्देशं प्राणधारणकारणम् ॥ ६१ ॥

तं च प्रस्थापयामास दक्षिणां दिशमुत्तमाम् ।
सुप्रीत्याऽऽलिङ्गनं दत्त्वा पादरेणून्सुदुर्लभान् ॥ ६२ ॥

हनुमान्पययौ लङ्कां सीतान्वेषणहेतवे ।
रामादधीतसन्देशो ययौ रुद्रकलोद्भवः ॥ ६३ ॥

अशोककानने सीतां ददर्श शोककर्शिताम् ।
निराहारामतिकृशां कुह्वां चन्द्रकलामिव ॥ ६४ ॥

सततं राम रामेति जपन्तीं भक्तिबूर्वकम् ।
बिभ्रतीं च जटाभारं तप्तकाञ्चनसन्निभाम् ॥ ६५ ॥

ध्यायमानां पदाब्जं च श्रीरामस्य दिपानिशम् ।
शुद्धाशयां सुशीलां च सुव्रतां च पतिव्रताम् ॥ ६६ ॥

महालक्ष्मीलक्ष्मयुक्तां प्रज्वलन्तीं स्वतेजसा ।
पुण्यदां सर्वतीर्थानां दृष्ट्वा भुवनपावतीम् ॥ ६७ ॥

प्रणम्य मातरं दृष्ट्वा रुदतीं वायुनन्दनः ।
रत्नाङ्गुलीयं रामस्य ददौ तस्यै मुदाऽन्वितः ॥ ६८ ॥

रुरोद धर्मी तां दृष्ट्वा धृत्वा तच्चरणाम्बुजम् ।
उवाच रामसन्देशं सीताजीवनरक्षणम् ॥ ६९ ॥

हनुमानुवाच
पारेसमुद्रं श्रीरामः सन्नद्धश्च सलक्ष्मणः ।
बभूव राममित्रं च सुग्रीवो बलवान्कपिः ॥ ७० ॥

रामश्च वालिनं हत्वा राज्यं निष्कण्टकं ददौ ।
सुग्रीवाय च मित्राय तद्भार्यं वालिना हृताम् ॥ ७१ ॥

सुग्रीवश्च तवोद्धारं स्वीचकार च धर्मतः ।
वानराश्च ययुः सर्वे तवान्वेषणकारणात् ॥ ७२ ॥

प्राप्य मङ्गलवार्तां च मत्तो राजीवलोचनः ।
गम्भीरं सागरं बद्ध्वा सोऽचिरेणाऽऽगमिष्यति ॥ ७३ ॥

निहत्य रावणं पापं सपुत्रं च सबान्धवम् ।
करिष्यत्यचिरेणैव हे मातस्तव मोक्षणम् ॥ ७४ ॥

अद्य रत्नमयीं लङ्कां निःशङ्कस्त्वतप्रसादतः ।
भस्मीभूतां करिष्यामि मातः पश्य च सस्मितम् ॥ ७५ ॥

मर्कटीडिम्भतुल्यां च लङ्कां पश्यामि सुव्रते ।
मूत्रतुल्यं समुद्रं च शरावमिव भूतलम् ॥ ७६ ॥

पिपीलिकासङ्घमिव ससैन्यं रावणं तथा ।
संहर्तुं च समर्थोंऽहं मुहूर्तार्धेन लीलया ॥ ७७ ॥

रामप्रतिज्ञारक्षार्थं न हनिष्यामि साम्प्रतम् ।
स्वस्था भव महाभागे त्यज भीतिं मदीश्वरि ॥ ७८ ॥

पानरस्य वचः श्रुत्वा रुरोदोच्चैर्मुहुर्मुहुः ।
उवाच वचनं भीता रामपतिव्रता ॥ ७९ ॥

सीतोवाच
अये जीवति मे रामो मच्छोकार्णवदारुणात् ॥ ८० ॥

अपि मे कुशली नाथः कौसल्यानन्दनः प्रभु ।
कीदृशश्च कृशाङ्गश्च जानकीजीवनोऽधुना ॥ ८१ ॥

किमाहारश्च किं भुङ्क्ते मम प्रणाधिकः प्रियः ।
अपि पारे समुद्रस्य सत्यं सीतापतिः स्वयम् ॥ ८२ ॥

अपि सत्यं क सन्नद्धो न शोकेन हतः प्रभुः ।
अपि स्मरति मां पापां स्वामिनो दुःखरूपिणीम् ॥ ८३ ॥

मदर्थे कति दुःखं वा सम्प्राप स मदीश्वरः ।
हारो नाऽऽरोर्पितः कण्ठे पुरा व्यवहितो रतौ ॥ ८४ ॥

अधुनैवाऽऽवयोर्मध्ये समुद्रः शतयोजनः ।
अपि द्रक्ष्यामि तं रामं करुणासागरं प्रभुम् ॥ ८५ ॥

कान्तं शान्तं नितान्तं च धर्मिष्ठं धर्मकर्मणि ।
अपि सेवां करिष्यामि पादपद्मे पुनः प्रभोः ॥ ८६ ॥

पतिसेवाविहीनाया मूढाया जीवनं दृथा ।
अपि मे धर्मपुत्रश्च सत्यं जीवति लक्ष्मणः ॥ ८७ ॥

मच्छोकसागरे मग्नो भग्नदर्पो मया विना ।
वीराणां प्रवरो धर्मी देवकल्पश्च देवरः ॥ ८८ ॥

अपि सत्यं ससन्न्नद्धो सत्प्रभोरनुजः सदा ।
अपि द्रक्ष्यामि सत्यं तं लक्ष्मणं धर्मलक्षणम् ॥
प्राणानामधिकं प्रेम्णा धन्यं पुण्यस्वरूपिणम् ॥ ८९ ॥

इत्येवं वचनं श्रुत्वा दत्त्वा प्रत्युत्तरं शुभम् ।
भस्मीभूतां च तां लङ्कां चकार लीलया मुने ॥ ९० ॥

पुनः प्रबोधं तस्यै च दत्तवा वायुसुतः कपिः ।
प्रययौ लीलया वेगाद्यत्र राजीवलोचनः ॥ ९१ ॥

सर्वं तत्कथायामास वृत्तान्तं मातुरेव च ।
सीतामङ्गलवृत्तान्तं श्रुत्वा रामो रुरोद च ॥ ९२ ॥

रुतोदोच्चैर्लक्ष्मणश्च सुग्रीवश्चापि नारद ।
वानरा रुरुदुः सर्वे सहबलपराक्रमाः ॥ ९३ ॥

निबध्य सेतुं लङ्कां च प्रययौ रघुनन्दनः ।
ससैन्यः सानुजः शीघ्रं सन्नद्धश्चापि नारद ॥ ९४ ॥

निहत्य रावणं रामो रणं कृत्वा सबान्धवम् ।
चकार मोक्षणं ब्रह्मन् सितायश्च शुभेक्षणे ॥ ९५ ॥

कृत्वा पुष्पकयानेन सीतां सत्यपरायणाम् ।
अयोध्यां प्रययौ शीघ्रं क्रीडाकौतुकमङ्गलैः ॥ ९६ ॥

क्रीडां चकार भगवान् सीतां कृत्वा च वक्षसि ।
विजहौ विरहज्वालां सीता रामश्च तत्क्षणम् ॥ ९७ ॥

सप्तद्वीपेश्वरो रामो बभूव पृथिवीतले ।
बभूव निखिला पृथ्वी आधिव्याधिविवर्जिता ॥ ९८ ॥

बभूवतू रामपुत्रौ धार्मिकौ च कुशीलवौ ।
तयोश्च पुत्रैः पौत्रेश्च सूर्यवंशोद्भवा नृपाः ॥ ९९ ॥

इति ते कथितं वत्स श्रीरामचरितं शुभम् ।
सुखदं मोक्षदं सारं पारपोतं भवार्णवे ॥ १०० ॥

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo श्रीरामाचरितं
नाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥