अथाष्टपञ्चाशात्तमोऽध्यायः
नारायण उवाच
बभूव दर्पः पृथ्व्याश्च सर्पाधाराऽहमेव च ।
पृथृद्वारा च तद्दर्पं जघान चैव तत्प्रभुः ॥ १ ॥
बभूव दर्पः साविञ्या वेदमाताऽहमेव च ।
काले चकार तस्याश्च सपुत्राया अदर्शनम् ॥ २ ॥
बभूव दर्पं गङ्गया अहं निवणिदेति च ।
जह्नुद्वारा च तद्दर्प जहार जगतां पतिः ॥ ३ ॥
जहार मनसादर्प दुर्गाद्वारा पुरा मुने ।
विरजोपगतं कृष्णं भर्त्सयामास कोपतः ॥ ४ ॥
प्रविशन्तं रासगुहं गोपीभिर्विनिवारितम् ।
दौवारिकाभिर्वेत्रैश्च ताडितं तं च दर्पतः ॥ ५ ॥
सुदाम्ना निजभक्तेन राधा शप्ता बभूव ह ।
देवेन सहसा ध्वस्ता गोलोकादागता धराम् ॥ ६ ॥
वृषभानुस्त्रियां जाता कलावत्यां च नारद ।
कृष्णस्तदनुरौधेन कंसभीतिच्छलेन च ॥ ७ ॥
समागतो नन्दगेहं तेनाहं नन्दनन्दनः ।
सुदाम्नः शापवीच्छैदपालनार्थ जगत्पतिः ॥ ८ ॥
पुनर्जगाम मथुरामित्याह कमलोद्भवः ।
अस्यापरमभिप्रायं को वा जनाति नारद ॥ ९ ॥
कथं जातः समायाते सथुरायाश्च गोकुलम् ।
इत्येवं कथितं सर्वमपरं श्रूयतामिति ॥ १० ॥
यथा जगाम मथुरां नन्दान्स नन्दनन्दनः ।
शोकं नन्दो यशोदा च यथा सम्प्रप दैवतः ॥ ११ ॥
यथा गोपाश्च गोप्यश्च गावो वृन्दावने वने ।
वने वने का वन्यास्ते वन्या जानन्ति किञ्चन ॥ १२ ॥
वनं रम्यं वन्यपदमपि त्यक्तवा वने वने ।
श्मशाने वाऽश्मशाने वा बभ्राम भामिनी मुने ॥ १३ ॥
ग्रमं त्यक्त्वा च बभ्रम चेतनाऽचेतना क्षणम् ।
क्षणेन वर्जिता सा च प्रार्थयान्ती प्रतिक्षणम् ॥ १४ ॥
क्षणं क्षणं सा श्वसिति चिन्तनं कुर्वती क्षणम् ।
क्षणं विशन्ती तल्पे च क्षणन्त्थाय तिष्ठति ॥ १५ ॥
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo
अष्टपञ्चाशत्तमोऽध्यायः ॥ ५८॥