अथ सप्तपञ्चाशत्तमोऽध्यायः
नारायण उवाच
देवानां स्तवनं श्रुत्वा त्यक्तवा च रोदनं सती ।
उवाच सुप्रसन्ना तांस्तेषां स्तोत्रेण नारद ॥ १ ॥
महालक्ष्मीरुवाच
त्यजामि देहं न क्रोधान्न वैराग्योण साम्प्रतम् ।
इदं हृदि समालोच्य देवास्तच्छ्ूयतामिति ॥ २ ॥
यस्मिन्सदीशे महति सर्वसाम्यो च निर्गुणे ।
सर्वात्मनि सदानन्दे समता तृणशैलयोः ॥ ३ ॥
भ्रूभङ्गलीलया लक्ष्मीर्लक्षं स्रष्टुमलं च यः ।
भृत्ये स्त्रियां यत्समता किं कार्य तस्च सेवया ॥ ४ ॥
तत्पत्नीनां प्रधानाऽहं नीरस्ता द्वारिणाऽधुना ।
तद्भृत्यभृत्यभृत्येन परिपूर्णेन नेप्सिता ॥ ५ ॥
त्यक्ष्यामि जीवनमहमसौभाग्या च स्वामिनि ।
वह्नौ च कामनां कृत्वा यथा भद्रं भवेत्पुरा ॥ ६ ॥
या स्त्री भर्तुरसौभाग्या साऽसौभाग्या च सर्वतः ।
शयनेऽभोजने तस्या न सुखं जीवनं वृथा ॥ ७ ॥
यस्या नास्ति प्रियप्रेम तस्या जन्म निरर्थकम् ।
तर्त्कि पुत्रे धने रुपे सम्पत्तौ यौवनेऽथवा ॥ ८ ॥
यद्भक्तिर्नास्ति कान्ते च सर्वप्रियतमे परे ।
साऽशुचिर्धर्महीना च सर्वकर्मविवर्जिता ॥ ९ ॥
पतिर्बन्धुर्गतिर्भर्ता दैवतं गुरुरेव च ।
सर्वक्माच्च परः स्वामी न गुरुः स्वामिनः परः ॥ १० ॥
पितामाता सुतो भ्राता क्लिष्टो दातुमिदं धनम् ।
सर्वस्वदाता स्वामी च मूढानं योषितां सुराः ॥ ११ ॥
काचिदेव हि जानाति महासाध्वी च स्वामिनम् ।
अतिसद्वंशजाता च सुशीला कुलपालिका ॥ १२ ॥
आसद्वंशप्रसूता या दुःशीला धर्मवर्जिता ।
मुखदुष्टा योनिदुष्टा पतिं निन्दति कोपतः ॥ १३ ॥
या स्त्री सर्वपरं द्वेष्टि पतिं विष्णुसमं गुरुम् ।
कुम्भीपाके पचति सा यावदिन्द्राश्चतुर्दश ॥ १४ ॥
व्रतं चानशनं दानं सत्यं पुष्यं तपश्चिरम् ।
पतिभक्तिविहीनाया भस्मीभूतं निरर्थकम् ॥ १५ ॥
अतः रिञ्चिन्न वक्ष्यामि निष्ठुरं पतिमीश्वरम् ।
भृत्यापराधैर्देवस्य प्राणांस्तयक्ष्यामि निश्चितम् ॥ १६ ॥
पतिदोषे महासाध्वी पतिं न निष्ठुरं वदेत् ।
यदि सोढुमशक्ता च प्राणांस्त्यजति धर्मतः ॥ १७ ॥
पतिसेवा व्रतं स्त्रीणां पतिसेवा परं तपः ।
पतिसेवा परो धर्मः पतिसेवा सुरार्चनम् ॥ १८ ॥
पतिसेवा परं सत्यं दानतौर्थानुकीर्तनम् ।
सर्वदेवमयः स्वामी सर्वदेवमयः शुचिः ॥ १९ ॥
सर्वपुण्यस्वरुपश्च पतिरुपी जनार्दनः ।
या सतीभर्तुरुच्छिष्टं भुङ्क्तै पादोदकं सदा ॥ २० ॥
तस्या दर्शमुपस्पर्श नित्यं वाञ्छन्ति देवताः ।
ततः सर्वाणि तीर्यानि पुनन्ति पापिनो ह्यघात् ॥ २१ ॥
इत्युक्त्वा च महासाध्वी रुरोद च सुहुर्मुहुः ।
उवाच ब्रह्मा भीतश्च भक्तिनम्रात्मकन्धरः ॥ २२ ॥
ब्रह्मोवाच
भविष्यति न भद्रं च जयस्य विजयस्य च ।
त्वया न शप्तौ तौ मूढौ प्रियापराधभौतया ॥ २३ ॥
सापराधं च धर्मिष्ठः क्षमया न शपेद्यदी ।
सर्वनाशो भवेत्तस्य निश्चितं मा चिरं सति ॥ २४ ॥
यदि शप्तुं न शक्तश्च न द्ण्डं कर्तुमीश्वरः ।
सापराधे च पुरुषे धर्मो दण्डं करोति च ॥ २५ ॥
सर्वं क्षमस्व हे मार्तगच्छ प्रियान्तिकम् ।
मां च त्वत्स्वामिनोभक्तं नियोज्य कृष्टिकर्मणि ॥ २६ ॥
इत्युक्त्वा तां पुरस्कृत्वा सार्ध देवैर्मुनीन्द्रकैः ।
शीघ्रं जगाम वैकुण्ठं वैकुण्ठं स्तोतुमीश्वरः ॥ २७ ॥
तत्र गत्वा जगत्रायं तुष्टाव कमलासनः ।
चतुर्वक्त्रैश्चतुर्वक्त्रश्चतुर्वेदविदां गुरुम् ॥ २८ ॥
ब्रह्मणः क्तवनं श्रुत्वा दृषट्वा लक्ष्मीं पुरः सराम् ।
रुदतीं नम्रवदनामुवाच कमलापतिः ॥ २९ ॥
श्रीभगवानुवाच
सर्वं जानामि सर्वज्ञः सर्वात्मा सर्वपालकः ।
सर्वशास्ता च सर्वादिकारणं कमलोद्भव ॥ ३० ॥
भक्ते कलत्रे बन्धौ च सर्वत्र समता मम ।
विशेषतोऽतिमद्भक्तः कलत्रात्पर एव च ॥ ३१ ॥
मद्भक्तौ तव पुतौ च द्वारपालौ दुरन्तकौ ।
क्षम मामपराथं च तयोश्च भक्तिपूर्णयोः ॥ ३२ ॥
मद्भक्तिपूर्णो बलवान्दैत्यैभ्यो न बिभेति च ।
रक्षितो मम चक्रेण भक्तिमाध्वीकदुर्मदः ॥ ३३ ॥
इत्युक्त्वा जगतां नायो लक्ष्मीं कृत्वा स्ववक्षसि ।
समानीय द्वारणकं तमुवाचेदमेव च ॥ ३४ ॥
मा भैर्वत्स सुखं तिष्ठ भयं कि ते मयि स्थिते ।
मद्भक्तानां च कः शास्ता गच्छ वत्साऽऽत्मनः पदम् ॥ ३५ ॥
इत्युक्तवा भगवांस्तत्र विरराम महामुने ।
ययुर्देवाश्च स्वस्थातं प्रणम्य जगदीश्वरम् ॥ ३६ ॥
नारायणवचः श्रुत्वा द्वारापाल उवाच तम् ।
पुलकाञ्चितसर्वाङ्गो भक्तिनम्रात्मकन्धरः ॥ ३७ ॥
जय उवाच
नाहं बिभेमि देवंश्च लक्ष्मीं सुनिगणांस्तथा ।
त्वदीयचरणाम्भोजध्यानैकतानमानसः ॥ ३८ ॥
इति श्रीब्लह्मo महाo श्रीकृष्णजन्मखo नारदनाo उत्तo लक्षमी-
वैराग्यमोचनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥