ॐ तत्सद्ब्रह्मणे नमः।
श्रीमद्द्वैपायनमुनीप्रणीतं-
ब्रह्मवैवर्तपुराणम्।
अथ श्रीकृष्णजन्मखण्डस्योत्तरार्धः।
अथ पञ्चपञ्चाशत्तमोऽध्यायः।
नारायण उवाच
स एव भगवान्कृष्णः सर्वात्मा पुरुषः परः ।
दुराराध्योऽतिसाध्यश्च सर्वाराध्यः सुखप्रदः ॥ १ ॥
निजभक्तातिसाघ्यश्चाभक्तस्यासाध्य एव च ।
शश्वद्दृश्यः स्वभक्तस्याभक्तस्यादृश्य एव च ॥ २ ॥
दुर्ज्ञेयं तस्य चरितं कार्यं हृदयमेव च ।
बद्धास्तन्मायया सर्वे मोहिताश्च दुरन्तया ॥ ३ ॥
यद्भयाद्वाति वातोऽयं कूर्मं धत्ते निराश्रयः ।
कूर्मोऽनन्तं विधत्ते च यद्भयेन निरन्तरम् ॥ ४ ॥
बिभर्ति शेषो विश्वं च यद्भयेन च नारद ।
सहस्रशीर्षा पुरुषः शिरमश्चैकदेशतः ॥ ५ ॥
सप्तसागरसंयुक्ता सप्तद्वीपा वसुन्धरा ।
शैलकाननसंयुक्ता पातालाः सप्त एव च ॥ ६ ॥
सप्तस्वर्गाश्च विविधा ब्रह्मलोकसमन्विताः ।
एवं विश्वं त्रिभुवनं कृत्रिमं परिकीर्तितम् ॥ ७ ॥
यद्भयेन विधात्राच प्रतिसृष्टौ च निर्मितम् ।
एवं विश्वान्यसंरव्यानि लोमकूपैर्महान्विराट् ॥ ८ ॥
यद्भयेन विधत्ते च यदन्नो ध्यायते हि यम् ।
विष्णुः पाति च संसारं यद्भयेन कृपानिधिः ॥ ९ ॥
कालाग्निरुद्रो यद्भीतः कालः संहरते प्रजाः ।
मृत्युञ्जयो महादेवो यद्भयाद्ध्यायते च यम् ॥ १० ॥
षड्गुणैरनुरागैश्च विरागी विरतः सदा ।
यद्भयेन दहत्यग्निः सूर्यस्तपति यद्भयात् ॥ ११ ॥
यद्भयाद्वर्षतीन्द्रश्च मृत्युश्चरति जन्तुषु ।
यद्भयेन यमः शास्ता पापिनीं धर्म एव च ॥ १२ ॥
धत्ते च धरणी लोकान्यद्भयेन चराचरान् ।
सूयते प्रकृतिः सृष्टौ यद्भयान्महदादिकम् ॥ १३ ॥
दुर्ज्ञेयं तदभिप्रायं को वा जानाति पुत्रक ।
यत्प्रभावं न जानन्ति ब्रह्मविष्णुमहेश्वराः ॥ १४ ॥
कथं जानामि तच्चेष्टामहं वत्स सुमन्दधीः ।
कथं जगाम मथुरां त्यक्त्वा वृन्दावनं वनम् ॥ १५ ॥
कथं तत्याज गोपीश्च राधां प्राणाधिकां प्रियाम् ।
यशोदां बान्धवादींश्च नन्दं व नन्दनन्दनः ॥ १६ ॥
दर्पहा दर्पदः सोऽपि सर्वेषां सर्वदः सदा ।
बभञ्ज राधादर्पं च सुदाम्नः शापकारणात् ॥ १७ ॥
अन्येषां भावनाहेतोर्ब्रह्मप्राप्तिस्तथा भवेत् ।
एवं किञ्चिद्वितर्कं च कुरुते कमलोद्भवः ॥ १८॥
चकार दर्पभङ्गं च महाविष्णुः पुरा विभुः ।
ब्रह्मणश्चतथा विष्णोः शषेस्य च शिवस्य च ॥ १९ ॥
धर्मस्य च यमस्यापि साम्बस्य चन्द्रसूर्ययोः ।
गरुडस्य च वह्नेश्च गुरोर्दुर्वाससस्तथा ॥ २० ॥
दौवारिकस्य भक्तस्य जयस्य विजयस्य च।
सुराणमसुराणां च भवतः कामशक्रयोः ॥ २१ ॥
लक्ष्मणस्यार्जुनस्यापि बाणस्य च भृगोस्तथा ।
सुमेरोश्च समुद्राणां वायोश्च वरुणस्य च ॥ २२ ॥
सरस्वत्याश्च दुर्गायाः पद्मायाश्च भुवस्तथा ।
सावित्र्याश्चैव गङ्गाया मनसायास्तथैव च ॥ २३ ॥
प्राणाधिष्ठातृदेव्यश्च प्रियायाः प्राणतोऽपि च ।
प्राणाधिकाया राधाया अन्येषामपि का कथा ॥ २४ ॥
ह्रत्वा दर्पं च सर्वेषां प्रसादं च चकार सः ।
कर्ता हर्ता पालयिता स्रष्टा स्रष्टुश्च सर्वतः ॥ २५ ॥
यं स्तोतुमीशो नालं च पञ्चवक्त्रैस्तु शङ्करः ।
स्तोतुं नालं चतुर्वक्त्रो विधाता जगतामपि ॥ २६ ॥
स्तोतुं नालमनन्तश्च सहस्रवदनैरहो ।
स्वयं विष्णुर्विश्वव्यापी नालं स्तोतुं जनार्दनः ॥ २७ ॥
महाविराण्न शक्तोऽपि यं स्तोतुं परमेश्वरम् ।
कम्पिता यस्य पुरतः प्रकृतिः परमात्मनः ॥ २८ ॥
सरस्वती जडीभूता यं स्तोतुं परमेश्वरम् ।
महिमानं न जानन्ति वेदा यस्य च नारद ॥ २९ ॥
इत्येवं कथितो ब्रह्मन्प्रभावः परमात्मनः ।
निर्गुणस्य च कृष्णस्य किं भुयः श्रोतुमिच्छसि ॥ ३० ॥
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तरार्धे नारदनाo श्रीकृष्णप्रभाव-
वर्णनं नाम पञ्चपञ्चशात्तमोऽध्यायः ॥ ५५ ॥