०५३

॥ नारद उवाच ॥
समतीते पूर्णरासे किं चकार जगत्पतिः ॥
रहस्यं किं बभूवाथ तद्भवान्वक्तुमर्हति ॥ १ ॥
श्रीनारायण उवाच ॥
रासं निवर्त्य रासे च रासेश्वर्या समन्वितः ॥
स्वयं रासेश्वरस्तस्माद्यमुनापुलिनं ययौ ॥ २ ॥
तत्र स्नात्वा जलं पीत्वा निर्मलं निर्मले जले ॥
सार्द्धं गोपाङ्गनाभिश्च जलक्रीडां चकार सः ॥ ३ ॥
ततो जगाम भगवान्भाण्डीरं राधया सह ॥
गोपाङ्गनाश्च स्वगृहान्प्रययुर्विरहातुराः ॥ ४ ॥
क्रीडां चकार रहसि भाण्डीरे मालतीवने ॥
मालतीपुष्पशय्यायां रम्यायां रमणोत्सुकः ॥ ५ ॥
कृत्वा क्रीडां च तत्रैव वासन्तीकाननं ययौ ॥
रेमे तत्रैव रासेशो वसन्ते सुमनोहरे ॥ ६ ॥
तत्रैव रमणं कृत्वा ययौ चन्दनकाननम् ॥
चन्दनोक्षितसर्वाङ्गो गृहीत्वा चन्दनोक्षितम्॥ १७ ॥
रम्ये चन्दनतल्पे च स्निग्धे चन्दनपल्लवे ॥
पूर्णचन्द्रे समुदिते विजहार तया सह ॥ ८ ॥
कृत्वा विहारं तत्रैव ययौ चम्पककाननम् ॥
रम्ये चम्पकतल्पे च चकार रतिमीश्वरी॥ ९ ॥
रतिं निर्वर्त्य तत्रैव ययौ पद्मवनं प्रभुः ॥
पद्मपत्रसमाकीर्णे तल्पेऽतिसुमनोहरे ॥ 4.53.१०॥
सार्धं तत्र पद्ममुख्या शीतेन पद्मवायुना॥
चकार सुखसम्भोगं ययौ निद्रां तया सह ॥ ११ ॥
विहाय निद्रां निद्रेशो ददर्श निद्रितां प्रियाम् ॥
शयानां पद्मतल्पे च सुखसम्भोगमात्रतः ॥ १२ ॥
दृष्ट्वा मुखं च घर्माक्तं शरच्चन्द्रविनिन्दितम् ॥
अतिसंलुप्तसिन्दूरं लुप्तं कज्जलमुल्बणम् ॥ १३ ॥
संलुप्ताधररागं च संलुप्तगण्डपत्रकम् ॥
विस्रस्तकबरीभारं नेत्रोत्पलविमुद्रितम् ॥ १४ ॥
रत्नकुण्डलयुग्मेनामूल्येन परिशोभितम् ॥
राजितं मौक्तिकेनैव गजराजोद्भवेन च ॥ १५ ॥
प्रेम्णा स्वसूक्ष्मवस्त्रेण वह्निशुद्धेन माधवः ॥
चकार मार्जनं भक्त्या तद्वक्त्रं भक्तवत्सलः ॥ १६ ॥
केशसम्मार्जनं कृत्वा निर्माय कबरीं हरिः ॥
माधवीमालतीमालाजालेन परिशोभिताम् ॥ १७ ॥
रत्नपट्टसूत्रबद्धां वामवक्त्रां मनोहराम् ॥
अतीव वर्तुलाकारां कुन्दपुष्पसुशोभिताम् ॥ १८ ॥
ददौ सिन्दूरतिलकमधश्चन्दनमुज्ज्वलम् ॥
कस्तूरीबिन्दुना सार्द्धं परितः परिशोभिताम् ॥ १९ ॥
चकार पत्रकं गण्डयुग्मे चित्रविचित्रितम् ॥
प्रददौ कज्जलं भक्त्या नेत्रोत्पलसमुज्ज्वलम् ॥ ॥ 4.53.२० ॥
चकाराधररागं च राधायाश्चानुरागतः ॥
कर्णभूषणयुग्मं च चकारातीव निर्मलम् ॥ २१ ॥
अमूल्यरत्नहारं च स्तनभार युगोज्ज्वलम् ॥
ददौ कण्ठे च वैकुण्ठो मणिराजिविराजितम् ॥ २२ ॥
वह्निशुद्धांशुकं दिव्यममूल्यं विश्वरत्नतः ॥
वासयामास वसनं कस्तूरीकुङ्कुमाक्तकम् ॥ २३ ॥
प्रददौ पादयुगले रत्नमञ्जीररञ्जितम् ॥
चकारालक्तकं भक्त्या पादुङ्गुलिनखेषु च ॥२४॥
चकार सेवां सेव्यायाः सेव्यस्त्रिजगतां सताम् ॥
अहो सेवकसम्भक्त्या श्वेतेन चामरेण च ॥ २५ ॥
सर्वभावविदां श्रेष्ठो बोधज्ञः कामशास्त्रवित् ॥
कामिनीं बोधयामास वासयामास वक्षसि ॥ २६ ॥
प्रेम्णा च प्रददौ तस्यै सद्रत्नदर्पणं शुभम् ॥
सुवेषदर्शनार्थं च मुखचन्द्रं च मार्जितुम् ॥ २७॥
नानापुष्पैर्विरचितामम्लानां चन्दनोक्षिताम् ॥
गण्डे सौभाग्ययुक्तायाः सौभाग्येन ददौ हरिः ॥ २८ ॥
कस्तूरीकुङ्कमाक्तं च सुगन्धिचन्दनं ततः ॥
ददौ प्रियायाः सर्वाङ्गे प्रियः प्रेमभरेण च ॥ २९ ॥
पारिजातस्य कुसुमं दत्तं रहसि ब्रह्मणा ॥
प्रददौ तत्कबर्यां च ललितायां च नारद ॥ 4.53.३० ॥
कमलं निर्मलं दिव्यं सहस्रदलमुज्ज्वलम् ॥
शिवेन दत्तं रहसि ददौ तद्दक्षिणे करे ॥ ३१ ॥
अतिसारं मणीन्द्राणां मणिरत्नं च कौस्तुभम् ॥
दत्तं रहसि धर्मेण तस्यै सुप्रीतये ददौ ॥ ३२॥
आसवं रत्नपात्रस्थं दस्रदत्तं च निर्जने ॥
पानार्थं प्रददौ तस्यै कामोन्मादकरं परम्॥३३॥
मालतीमाधवीकुन्दमन्दारचम्पकादिकम्॥
पुष्पं सद्रत्नपात्रस्थं तस्यै सुप्रीतये ददौ ॥ ३४ ॥
सुदुर्लभं च ताम्बूलं कर्पूरादिसुसंस्कृतम् ॥
भक्षणं कारयामास समयज्ञश्च तां प्रियाम् ॥ ३५ ॥
सुदुर्लभं च विश्वेषु वाक्पतेः परिनिर्मितम् ॥
अनुत्तमममूल्यं च वरुणेन रहःस्थले ॥ ३६ ॥
अतिसूक्ष्ममनुपमं दत्तं भक्त्या विराजितम् ॥
वासयामास वसनं कृत्वा नग्नां च कौतुकात् ॥ ३७ ॥
देवराजेन दत्तं च गजराजेन्द्रमौक्तिकम् ॥
नासिकाभूषणं चारु तस्यै सुप्रीतये ददौ ॥ ३८ ॥
एतस्मिन्नन्तरे तत्र सुशीलाद्याश्च गोपिकाः ॥
षष्टिः सत्सहचर्यश्च राधायाः सुप्रतिष्ठिताः ॥ ३९ ॥
षष्टिसत्कोटिगोपीभिः सार्धं संहृष्टमानसाः ॥
आययुः पादचिह्नेन प्रियस्य वहतः प्रियाम् ॥ 4.53.४० ॥
काश्चिच्चन्दनहस्ताश्च काश्चिच्चामरवाहिकाः ॥
काश्चित्कस्तूरिहस्ताश्च मालाहस्ताश्च काश्चन ॥ ४१ ॥
काश्चित्सिन्दूरहस्ताश्च काश्चित्कङ्कतिकाकराः ॥
काश्चिदलक्तककरा वस्त्रहस्ताश्च काश्चन ॥ ४२ ॥
काश्चिद्दर्पणहस्ताश्च पुष्पपात्रधरा वराः ॥
काश्चित्क्रीडापद्महस्ता मालाहस्ताश्च काश्चन ॥ ४३ ॥
काश्चिदासवहस्ताश्च काश्चिद्भूषणवाहिकाः ॥
करतालकराः काश्चिन्मृदङ्गवाहिकाः पराः ॥ ४४ ॥
स्वरयन्त्रकराः काश्चिद्वीणाहस्ताश्च काश्चन ॥
षट्त्रिंशद्रागरागिण्यो गोपिकारूपधारिकाः ॥ ४५ ॥
गोलोकादागतायाश्च भारतं राधया सह ॥
काश्चिज्जगुश्च ननृतुस्तत्रागत्य च काश्चन ॥ ४६ ॥
काश्चिच्चक्रुश्च सेवां च राधायाः श्वेतचामरैः ॥
काश्चिच्चक्रुश्च देव्याश्च पादसंवाहनं मुदा ॥४७॥
काचिद्ददौ च ताम्बूलं भक्षणार्थे महामुने ॥
एवं कौतुकयुक्तश्च पुण्ये वृन्दावने वने ॥ ॥ ४८ ॥
प्रतस्थौ गोपिकासार्द्धं राधावक्षःस्थलस्थितः ॥
क्षणं पपौ च माध्वीकं प्रियया सह माधवः ॥ ४९ ॥
क्षणं चखाद ताम्बूलं क्षणं निद्रां ययौ मुदा ॥
क्षणं चकार शृङ्गारं रत्ननिर्मितमन्दिरे ॥ 4.53.५० ॥
क्षणं जलविहारं च चकार यमुनाजले ॥
इत्येवं कथिता वत्स रासक्रीडा हरेरहो ॥५१॥
स्वेच्छामयस्यात्मनश्च परिपूर्णतमस्य च ॥
निर्गुणस्य स्वतन्त्रस्य परस्य प्रकृतेः प्रभोः ॥५२॥
ब्रह्मविष्णुशिवादीनामीश्वरस्य परस्य च ॥
कृष्णजन्मरहस्यं च बालक्रीडनमीप्सितम्॥५३॥
उक्तं किशोरचरितं किं भूयः श्रोतुमिच्छसि ॥ ५४ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे श्रीकृष्णरासक्रीडावर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥