॥ श्रीकृष्ण उवाच ॥
सर्वेषां दर्पभङ्गश्च कथितश्च श्रुतस्त्वया ॥
क्षुद्राणां महतां चैव कृत एव न संशयः ॥१ ॥
अधुना च समुत्तिष्ठ गच्छ वृन्दावनं वनम् ॥
गोपिका विरहार्ताश्च शीघ्रं पश्यामि सुन्दरि ॥२ ॥
श्रीनारायण उवाच ॥
इत्येवं वचनं श्रुत्वा मानिनी रसिकेश्वरी ॥
उवाच कृष्णं नय मां न शक्ता गन्तुमीश्वर ॥ ३ ॥
राधिका वचनं श्रुत्वा प्रहस्य मधुसूदनः ॥
मामारुहेत्येवमुक्त्वा सोऽन्तर्धानं चकार ह ॥४॥
सा मनोयायिनी राधा कृत्वा च रोदनं क्षणम्॥
इतस्ततस्तमन्वेष्य वृन्दारण्यं जगाम सा ॥९॥
विवेश चन्दनवनं रुदन्ती शोककातरा ॥
ददर्श गोपिकास्तत्र शोकार्ता भयविह्वलाः॥ ॥६॥
ताम्रास्या पूर्णनयना भ्रमन्ती सर्वकाननम् ॥
नाथ नाथेति कुर्वन्तीर्निराहारा रुषाऽन्विताः ॥ ७ ॥
ता दृष्ट्वा राधिका सा च प्रेमविच्छेदकातरा ॥
कथयामास वृत्तान्तं मलयभ्रमणादिकम्॥ ८ ॥
ताभिः सार्धं च सा राधा रुरोद विरहातुरा ॥
हा नाथनाथेत्युच्चार्य विलप्य च मुहुर्मुहुः ॥ ९ ॥
विनिन्द्य कृष्णं कोपेन तर्जयामास च क्षणम् ॥
क्षणं शरीरमुत्स्रष्टुं कोपात्सर्वाः समुद्यताः ॥ ॥ 4.52.१० ॥
एतस्मिन्नन्तरे कृष्णस्तत्र चन्दनकानने ॥
स्वात्मानं दर्शयामास राधिकां गोपिकागणम् ॥ ११ ॥
राधा गोपाङ्गनाभिश्च दृष्ट्वा प्राणेश्वरं मुदा ॥
सस्मिता च प्रदुद्राव पुलकाञ्चितविग्रहा ॥१२॥
तूर्णं कृष्णं समाश्लिष्य जहार मुरलीं रुषा ॥
मालां च पीतवसनं भग्नं कृत्वा च मानिनी ॥ १३ ॥
पुनः सन्धारयामास वस्त्रं मालां मनोहराम् ॥
विनोदमुरलीं तुष्टा वृन्दावनविनोदिनी ॥ १४॥
चन्दनागुरुकस्तूरीकुङ्कुमाक्तं चकार तम् ॥
मुहुर्मुहुर्मुखं वीक्ष्य चुचुम्ब परमादरम् ॥१ ५॥
क्षणं सन्तर्जयामास क्षणं स्तोत्रं चकार ह॥
सकर्पूरं च ताम्बूलं क्षणं तस्मै मुदा ददौ ॥ १६ ॥
अथ गोपाङ्गनाः सर्वा रुरुदुः प्रेमविह्वलाः ॥
सर्वं निवेदनं चक्रुः स्वदुःखं विरहोद्भवम् ॥१७॥
देहत्यागं च स्नानं च स्वाहारस्य विसर्जनम् ॥
वनेवनेऽहर्निशं च शश्वद्भ्रमणमेव च॥१८॥
क्षणं तं भर्त्सयामासुः स्तोत्रं चक्रुः क्षणं मुदा॥
क्षणं ददुर्भूषणं च क्षणं तस्मै च चन्दनम् ॥१९॥
काश्चिदूचुः प्राणचोरं पश्य रक्षेति सन्ततम् ॥
एवं पुनर्न कर्त्तव्य मनेनेति च काश्चन ॥ 4.52.२० ॥
काश्चिदूचुरिमं मध्ये यूयं कुरुत सत्वरम् ॥
निबद्धं प्रेमपाशेन हृदये चेति काश्चन ॥ २१ ॥
काश्चिदूचुरयं नास्ति प्रतीतिर्न कदाचन॥
यत्नाच्चेतनचोरं च पश्य पश्येति काश्चन ॥२२॥
काश्चिदूचुर्निष्ठुरोऽयं नरघातीति कोपतः॥
न पुनर्वदते मां च काश्चनेति च नारद ॥२३॥
निर्जनानि च रम्याणि यानि यानि वनानि च ॥
भ्रमेयुर्गोपिकास्तानि कृष्णेन सह कौतुकात् ॥ २४ ॥
एवं तं गोपिकाः सर्वा मध्ये कृत्वा सदीश्वरम् ॥
ययुर्वनान्तरे यत्र सुरम्यं रासमण्डलम्॥२९॥
रासं गत्वा स्वर्णपीठे तस्थौ स रसिकेश्वरः ॥
निशि भाति यथाऽऽकाशे चन्द्रस्तारागणैः सह ॥२६॥
नानामूर्तीर्विधायात्र सह ताभिर्जनार्दनः ॥
चकार च पुनः क्रीडां कामुकीनां मनोहराम् ॥ २७ ॥
स्वयं राधां करे धृत्वा पूर्वोक्तं रतिमन्दिरम् ॥
विश्वकर्मविनिर्माणमारुरोह स्मरातुरः॥२८॥
चन्दनागुरुकस्तूरीकुङ्कुमाक्तं सुवासितम् ॥
तत्र चम्पकतल्पे स सुष्वाप च तया सह ॥ २९ ॥
नानाप्रकारशृङ्गारं कामशास्त्रविशारदः ॥
चकार कामी क्रीडां च कामिन्या सह कौतुकी ॥4.52.३०॥
बभूव सुरतिस्तत्र सुचिरं च तयोर्मुने ॥
रतिनिष्ठा तयो रम्या विरतिर्नास्ति तत्क्षणम् ॥ ३१ ॥
एवं तौ तस्थतुस्तत्र राधाकृष्णौ रसोत्सुकौ ॥
तस्थुस्ता गोपिकाभिश्च सुरतौ कृष्णमूर्तयः ॥ ३२ ॥
नारद उवाच ॥
आदौ राधां समुच्चार्य पश्चात्कृष्णं विदुर्बुधाः ॥
निमित्तमस्य मां भक्तं वद भक्तजनप्रिय ॥३३ ॥
श्रीनारायण उवाच ॥
निमित्तमस्य त्रिविधं कथयामि निशामय ॥
जगन्माता च प्रकृतिः पुरुषश्च जगत्पिता ॥ ३४ ॥
गरीयसी त्रिजगतां माता शतगुणैः पितुः ॥
राधाकृष्णेति गौरीशेत्येवं शब्दः श्रुतौ श्रुतः ॥ ३५ ॥
कृष्णराधेशगौरीति लोके न च कदा श्रुतः ॥
प्रसीद रोहिणीचन्द्र गृहाणार्घ्यमिदं मम ॥ ३६ ।
गृहाणार्घ्यं मया दत्तं सञ्ज्ञया सह भास्कर ॥
प्रसीद कमलाकान्त गृहाण मम पूजनम् ॥ ३७ ॥
इति दृष्टं सामवेदे कौथुमे मुनिसत्तम ॥
राशब्दोच्चारणादेव स्फीतो भवति माधवः ॥ ३८ ॥
धाशब्दोच्चारतः पश्चाद्धावत्येव ससम्भ्रमः ॥
आदौ पुरुषमुच्चार्य पश्चात्प्रकृतिमुच्चरेत् ॥ ३९ ॥
स भवेन्मातृघाती च वेदातिक्रमणे मुने ॥
त्रैलोक्ये भारतं धन्यं कर्मक्षेत्रं च पुण्यदम् ॥ 4.52.४० ॥
ततो वृन्दावनं पुण्यं राधापादाब्जरेणुना ॥
षष्टिवर्षसहस्राणि तपस्तप्तं च वेधसा ॥
राधिका चरणाम्भोजपादरेणूपलब्धये ॥ ४१ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे राधामाधवयो रासवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥