श्रीकृष्ण उवाच ॥
नारायणांशो भगवान्स्वयं धन्वन्तरिर्महान् ॥
पुरा समुद्रमथने समुत्तस्थौ महोदधेः ॥ १॥
सर्ववेदेषु निष्णातो मन्त्रतन्त्रविशारदः ॥
शिष्यो हि वैनतेयस्य शङ्करस्योपशिष्यकः ॥ ॥ २ ॥
शिष्याणां च सहस्रेण गतः कैलासमीश्वरि ॥
ददर्श तक्षकं मार्गे लेलिहानं भयानकम् ॥ ३ ॥
लक्षनागैः परिवृतं शूलतुल्यं विषोल्बणम् ॥
भोक्तुं कोपात्समायान्तमेवं दृष्ट्वा जहास च ॥ ४ ॥
दम्भी धन्वन्तरेः शिष्यो धृत्वा तक्षकमुल्बणम् ॥
मन्त्रेण जृम्भितं कृत्वा निर्विषं तं चकार ह ॥ ५ ॥
अमूल्यं मणिरत्नं च जहार मस्तके स्थितम् ॥
करेण भ्रामयित्वा च प्रेरयामास दूरतः॥ ॥ ६ ॥
निश्चेष्टस्तक्षकस्तस्थौ तत्र मार्गे यथा मृतः ॥
गणा निवेदनं चकुर्गत्वा वासुकिसन्निधिम् ॥७॥
वासुकिस्तत्समाकर्ण्य प्रज्वलन्नतिकोपतः ॥
सर्पान्प्रस्थापयामासासङ्ख्यांश्चैव विषोल्बणान् ॥ ८ ॥
सर्पसेनाग्रणीनां च मुख्यान्पञ्च विशारदान् ॥
द्रोणकालीयकर्कोटपुण्डरीकधनञ्जयान् ॥ ९ ॥
सर्वे नागाः समाजग्मुर्यत्र धन्वन्तरिः स्वयम् ॥
भयमापुः शिष्यगणा दृष्ट्वा नागानसङ्ख्यकान् ॥ 4.51.१० ॥
नागनिश्वासवातेन सर्वे शिष्या मृता इव॥
निश्चेष्टा ज्ञानरहिताः शेरते धरणीतले ॥ ११ ॥
धन्वन्तरिश्च भगवान्पीयूषवर्षणेन च ॥
जीवयामास शिष्यांश्च मन्त्रेण च गुरुं स्मरन्॥ १२ ॥
चेतनां कारयित्वा च शिष्याणां च जगद्गुरुः ॥
चकार जृम्भितं मन्त्रैः सर्पसङ्घं विषोल्बणम् ॥ १३ ॥
सर्वे बभूवुर्निश्चेष्टा जृम्भितास्ते मृता इव ॥
कोऽपि नालं ततो देवि वार्तां दातुं गणेषु च ॥ १४ ॥
वासुकिर्बुबुधे सर्वं सर्वज्ञः सर्वसङ्कटम् ॥
आजुहाव जगद्गौरीं भगिनीं ज्ञानरूपिणीम् ॥ १५ ॥
वासुकिरुवाच ॥
मनसे त्वं समागच्छ नागान्रक्षातिसङ्कटात् ॥
जगत्त्रये महाभागे पूजा तव भविष्यति॥ १६ ॥
वासुकेर्वचनं श्रुत्वा प्रहस्योवाच कन्यका ॥
वाक्यपीयूषतुल्यं च विनयावनतस्थिता ॥ १७ ॥
मनसोवाच ॥
नागेन्द्र शृणु मद्वाक्यं यास्यामि समरं प्रति ॥
भद्राभद्रं दैवसाध्यं करिष्यामि यथोचितम् ॥ १८ ॥
तं शत्रुं संहरिष्यामि लीलया समरस्थले ॥
अहं यं निहनिष्यामि तं को रक्षितुमीश्वरः ॥ १९ ॥
यदि ब्रह्मादयो देवाः समायान्ति रणस्थले ॥
तथापि तव शत्रुं च प्रजेष्यामि न संशयः॥4.51.२०॥
गुरुर्मे भगवाञ्छेषः सिद्धमन्त्रं च दत्तवान् ॥
नारायणस्य जगतामीशस्य परमाद्भुतम् ॥ २१ ॥
बिभर्मि कवचं कण्ठे परं त्रैलोक्यमङ्गलम् ॥
संसारं भस्मसात्कृत्वा पुनः स्रष्टुमहं क्षमा ॥ २२॥
शिष्याऽहं मन्त्रशास्त्रेषु शम्भोर्भगवतः पुरा ॥
महाज्ञानं दत्तवान्स मह्यं च कृपया विभुः ॥ २३ ॥
शम्भोश्च शिष्यो गरुडो गणयामि न तं ध्रुवम् ॥
धन्वन्तरिस्तच्छिष्याणामेकः किं गणयामि तम् ॥ २४ ॥
इत्युक्त्वा सा जगामैका त्यक्त्वा नागगणान्रुषा ॥
प्रणम्य श्रीहरिं शम्भुं शेषं च हृष्टमानसा ॥ २५ ॥
यत्र धन्वन्तरिर्देवः प्रसन्नवदनेक्षणः ॥
तत्राजगाम सा देवी कोपरक्तेक्षणा रुषा ॥ २६॥
दृष्टिमात्रेण सर्वाश्च जीवयामास सुन्दरी ॥
विषदृष्ट्या शत्रुशिष्यान्निश्चेष्टांश्च चकार ह ॥ २७ ॥
धन्वन्तरिस्तु भगवान्मन्त्रशास्त्रविशारदः ॥
मन्त्रेण यत्नं कृतवान्नोत्थापयितुमीश्वरः ॥२८॥
दृष्ट्वा धन्वन्तरिं देवी प्रहस्योवाच सत्वरम् ॥
बहूक्तिमर्थयुक्तां च साहङ्कारा सुरेश्वरि ॥ २९ ॥
मनसोवाच ॥
मन्त्रार्थं मन्त्रशिल्पं च मन्त्रभेदं महौषधम् ॥
वद जानासि किं सिद्ध शिष्योऽसि गरुडस्य च ॥ 4.51.३० ॥
अहं च वैनतेयश्च शिष्यौ शम्भोश्च विश्रुतौ ॥
सुकल्पकालं सुचिरमहं धन्वन्तरे शृणु ॥ ३१ ॥
इत्युक्त्वा सरसः पद्मं समानीय जगत्प्रसूः ॥
मन्त्रसंवलितं कृत्वा प्रेरयामास कोपतः ॥ ३२ ॥
दृष्ट्वाऽऽगतं पद्मपुष्पं ज्वलदग्निशिखोपमम् ॥
(धन्वतरिश्च निःश्वासैर्भस्मसात्तच्चकार ह) ॥३३ ॥
तच्च धन्वतरिर्दृष्ट्वा समन्त्ररेणुमुष्टिना ॥
चकार निष्कलं भस्म तां प्रहस्यावलीलया ॥ ३४ ॥
देवी जग्राह शक्तिं च ग्रीष्मसूर्यसमप्रभाम् ॥
मन्त्रसंवलितां कृत्वा प्रेरयामास तं रिपुम् ॥ ३५ ॥
दृष्ट्वा जाज्वल्यमानां तां शक्तिं धन्वतरिः स्वयम् ॥
विष्णुदत्तेन शूलेन स तु चिच्छेद लीलया ॥ ३६ ॥
तां च शक्तिं वृथा दृष्ट्वा प्रजज्वालेश्वरी रुषा ॥
जग्राह नागपाशं च घोरमव्यर्थमुल्बणम् ॥ ३७ ॥
नागलक्षसमायुक्तं सिद्धमन्त्रेण मन्त्रितम् ॥
प्रेरयामास कोपेन कालान्तकसमप्रभम् ॥३८॥
धन्वतरिर्नागपाशं दृष्ट्वा च सस्मितो मुदा ॥
सस्मार गरुडं तूर्णमाजगाम खगेश्वरः ॥ ३९ ॥
सर्पास्त्रमागतं दृष्ट्वा गरुडो हरिवाहनः ॥
विधाय चञ्चुना शीघ्रं बुभुजे क्षुधितश्चिरम् ॥ 4.51.४० ॥
नागास्त्रं निष्फलं दृष्ट्वा कोपरक्तेक्षणा भृशम् ॥
जग्राह भस्ममुष्टिं च शिवदत्तां पुरा प्रिये ॥ ४१ ॥
भस्ममुष्टिं मन्त्रपूतां दृष्ट्वा च प्रेरितां यथा ॥
पक्षवातेन चिक्षेप शिष्यं पश्चान्निधाय च ॥ ४२ ॥
निरस्तां भस्ममुष्टिं च दृष्ट्वा देवी चुकोप ह ॥
जग्राह शूलमव्यर्थं हन्तुं धन्वन्तरिं स्वयम् ॥ ४३ ॥
शिवदत्तं च शूलं च शतसूर्यसमप्रभम् ॥
अव्यर्थशूलं लोकेषु प्रलयाग्निसमप्रभम् ॥ ४४ ॥
अथ ब्रह्मा तथा शम्भुराजगाम रणाजिरम् ॥
धन्वन्तरेश्च रक्षार्थं शमनार्थं खगस्य च ॥४५॥
दृष्ट्वा शम्भुं जगद्गौरी विधिं च जगतां पतिम् ॥
भक्त्या ननाम तावेव निःशङ्का शूलधारिणी ॥ ४६ ॥
धन्वन्तरिश्च गरुडः प्रणनाम सुरेश्वरौ ॥
तुष्टाव परया भक्त्या तौ च चक्रतुराशिषम् ॥ ४७ ॥
उवाच ब्रह्मा मधुरं हितं धन्वतरिं मुदा ॥
पूजार्थं मनसायाश्च लोकानां हितकाम्यया ॥ ॥ ४८ ॥
ब्रह्मोवाच ॥
धन्वन्तरे महाभाग सर्वशास्त्रविशारद ॥
रणं ते मनसा सार्द्धं न हि साम्यं च मे मतम् ॥ ४९ ॥
शिवदत्तेन शूलेन दुर्निवार्येण सर्वतः ॥
त्रैलोक्यं भस्मसात्कर्तुं क्षमेयं त्रिदशेश्वरी ॥ 4.51.५० ॥
ध्याने कौथुमशाखोक्तं कृत्वा भक्त्या समाहितः ॥
दत्त्वा षोडशोपचारं देव्याश्च कुरु पूजनम् ॥ ५१ ॥
आस्तिकोक्तेन स्तोत्रेण स्तवनं कर्तुमर्हसि ॥
परितुष्टा च मनसा वरं तुभ्यं प्रदास्यति ॥ ५२ ॥
ब्रह्मणो वचनं श्रुत्वा चकारानुमतिं शिवः ॥
वैनतेयश्च सम्प्रीत्या बोधयामास यत्नतः ॥ ५३ ॥
एषां च वचनं श्रुत्वा स्नात्वा शुचिरलङ्कृतः ॥
विधिं पुरोहितं कृत्वा पूजां कर्तुं समुद्यतः ॥ ५४ ॥
धन्वन्तरिरुवाच ॥
इहागच्छ जगद्गौरि गृहाण मम पूजनम्॥
पूज्या त्वं त्रिषु लोकेषु पुरा कश्यपकन्यके ॥ ५५ ॥
त्वया जितं जगत्सर्वं देवि विष्णुस्वरूपया ॥
तेन तेऽस्त्रप्रयोगश्च न कृतो रणभूमिषु ॥ ५६ ॥
इत्युक्त्या संयतो भूत्वा भक्तिनम्रात्मकन्धरः ॥
गृहीत्वा शुक्लकुसुमं ध्यानं कर्तुं समुद्यतः ॥ ५७ ॥
चारुचम्पकवर्णाभां सर्वाङ्गसुमनोहराम् ॥
ईषद्धास्यप्रसन्नास्यां शोभितां सूक्ष्मवाससा ॥५८॥
सुचारुकबरीशोभां रत्नाभरणभूषिताम् ॥
सर्वाभयप्रदां देवीं भक्तानुग्रहकातराम्॥५९॥
सर्वविद्याप्रदां शान्तां सर्वविद्याविशारदाम् ॥
नागेन्द्रवाहिनीं देवीं भजे नागेश्वरीं पराम् ॥ 4.51.६० ॥
ध्यात्वैवं कुसुमं दत्त्वा नानाद्रव्यसमन्वितम् ॥
दत्त्वा षोडशोपचारं पूजयामास तां प्रिये ॥ ६१ ॥
स्तोत्रं चकार यत्नाच्च पुलकाञ्चितविग्रहः ॥
पुटाञ्जलियुतो भूत्वा भक्तिनम्रात्मकन्धरः ॥ ६२ ॥
धन्वतरिरुवाच ॥
नमः सिद्धिस्वरूपायै सिद्धिदायै नमो नमः ॥
नमः कश्यपकन्यायै वरदायै नमो नमः ॥ ६३ ॥
नमः शङ्करकन्यायै शङ्करायै नमो नमः ॥
नमस्ते नागवाहिन्यै नागेश्वर्यै नमो नमः ॥ ६४ ॥
नम आस्तीकजननि जनन्यै जगतां मम ॥
नमो जगत्कारणायै जरत्कारुस्त्रियै नमः ॥ ६९ ॥
नमो नागभगिन्यै च योगिन्यै च नमो नमः ॥
नमश्चिरं तपस्विन्यै सुखदायै नमो नमः ॥ ६६ ॥
नमस्तपस्यारूपायै फलदायै नमो नमः ॥
सुशीलायै च साध्व्यै च शान्तायै च नमो नमः ॥ ६७ ॥
इत्येवमुक्त्वा भक्त्या च प्रणनाम प्रयत्नतः ॥
तुष्टा देवी वरं दत्त्वा सत्वरं स्वालयं ययौ ॥ ६८ ॥
ब्रह्मरुद्रवैनतेयाः समाजग्मुर्निजालयम् ॥
धन्वन्तरिश्च भगवाञ्जगाम निजमन्दिरम् ॥ ६९ ॥
जग्मुर्नागाः प्रहृष्टाश्च फणाराजिविराजिताः ॥
इत्येवं कथितं सर्वं स्तवराजं मया तव ॥ 4.51.७० ॥
विधिना मातरं भक्तिमास्तीकश्च चकार ह ॥
तदा तुष्टा जगद्गौरी पुत्रं तं मुनिपुङ्गवम् ॥ ७१ ॥
इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् ॥
वंशजानां नागभयं नास्ति तस्य न संशयः ॥ ७२ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे धन्वन्तरिदर्पभङ्गमनसाविजयो नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥