॥ श्रीकृष्ण उवाच ॥
दुर्वाससो दर्पभङ्गं कथयामि शृणु प्रिये ॥
महामुनेर्योगतश्च रुद्रांशस्यातितेजसः ॥१॥
एकदा चाम्बरीषश्च कृत्वा च द्वादशीव्रतम् ॥
पारणं कर्तुमारेभे भोजयित्वा द्विजान्बहून् ॥ २ ॥
एतस्मिन्नन्तरे तत्र चाजगाम मुनिः स्वयम् ॥
क्षुधार्तश्च तृषार्त्तश्च विष्णुव्रतपरायणः ॥ ३ ॥
मां भोजय महाभागेत्येवं स नृपमुक्तवान् ॥
राजा भक्त्या ददौ तस्मै परमान्नं सुधोपमम् ॥ ४ ॥
सकेशं पायसं दृष्ट्वा राजानं शप्तुमुद्यतः ॥
जटां निकृत्य शिरसः स्थापयामास भूतले ॥ ५ ॥
जटामध्यात्समुद्भूतो ज्वलदग्निशिखोपमः ॥
सप्ततालप्रमाणश्च पुरुषः प्रलयान्तकः॥ ६ ॥
नृपश्रेष्ठं स राजानं कोपेन हन्तुमुद्यतः ॥
भयेन कम्पिताः सर्वे शुष्ककण्ठोष्ठतालुकाः ॥७॥
सस्मार च महाभीतो राजा मम पदाम्बुजम् ॥
सर्वविघ्रस्योपशमः स्मृतिमात्राद्बभूव ह ॥ ८ ॥
एतस्मिन्नन्तरे चक्रं दुर्निवार्यं सुदर्शनम् ॥
तेजसा मम तुल्यं च कोटिसूर्यप्रभोपमम् ॥ ९ ॥
आविर्बभूव सहसा सभामध्ये च घूर्णितम् ॥
निकृत्य कृत्यापुरुषं दुद्राव मुनिपुङ्गवम् ॥ 4.50.१० ॥
सशैल सागरां पृथ्वीं काञ्चनीं भूमिमुत्तमाम् ॥
भ्रामयित्वा महीं सर्वां पुनर्दुद्राव तं मुनिम् ॥ ११ ॥
धावन्तं मुक्तकेशं तं भीतं कातरमातुरम्॥
तेजसाऽऽच्छाद्य सूर्यं तं दीप्तिं कुर्वन्तमुत्तमाम् ॥१२॥
कैलासं सप्तवर्गं च ब्रह्मलोकमनामयम् ॥
विप्रेन्द्रो भ्रमणं कृत्वा वैकुण्ठं शरणं ययौ ॥ १३॥
पादपद्मे पतन्तं च ददर्श विप्रपुङ्गवम् ॥
कृपया च कृपासिन्धुर्ददौ विप्राय निर्भयम् ॥ १४ ॥
नारायणवरेणैव बभूव विज्वरो द्विजः॥
पुनर्ययौ हरिं स्तुत्वा नृपगेहं तदाज्ञया॥१५॥
राजा मुनीन्द्रं सम्प्राप्य भोजयामास पायसम् ॥
स्वयं च पारणं चक्रे सस्त्रीकः सहबान्धवः॥१६॥
राजानमाशिषं कृत्वा भुक्त्वा विप्रो गृहं ययौ ॥
मया नियोजितं चक्रं भक्तानां रक्षणाय च ॥ १७॥
नश्यन्ति सर्वे प्रलये न मे भक्तः प्रणश्यति॥
सर्वे देवा मम प्राणा भक्ताः प्राणाधिका मम॥१८॥
त्वं च लक्ष्मीर्महामाया सावित्री वा सरस्वती॥
ब्रह्मा शम्भुरनन्तश्च धर्मश्च ब्राह्मणास्तथा॥१९॥
गोपाङ्गनाश्च गोपाश्च सर्वे प्रियतमा मम॥
तेभ्यः प्रियाः परा भक्ताः प्रियो भक्तान्न कश्चन ॥4.50.२०॥
दत्त्वा सुदर्शनं चक्रं भक्तानां रक्षणाय च॥
तथापि न प्रतीतिर्मे स्वयं द्रष्टुं प्रयामि तान्॥२१॥
दुर्वाससो दर्पभङ्गः श्रुतो मत्तः सुरेश्वरि ॥
आज्ञापय महाभागे किं भूयः श्रोतुमिच्छसि ॥ २२ ॥
श्रीराधिकोवाच ॥
धन्वन्तरेर्दर्पभङ्गं कथयस्व जगद्गुरो ॥
पुराणे गोपनीयं च श्रोतुं कौतूहलं मम ॥ २३ ॥
श्रीनारायण उवाच ॥
राधिकावचनं श्रुत्वा जहास मधुसूदनः ॥
कथां कथितुमारेभे श्रुतिरम्यां पुरातनीम् ॥ २४ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे दुर्वाससो दर्पभङ्गो नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥