०४९

॥ श्रीकृष्ण उवाच ॥
सूर्यः प्रणम्य ब्रह्माणं मुदायुक्तस्तदाज्ञया ॥
चकार विनयं प्रीत्या तेजस्वी त्रिगुणात्मकः ॥ १ ॥
अथ वह्नेरुपाख्यानं सावधानं निशामय ॥
गोपनीयं पुराणेषु कर्णपीयूषमुत्तमम् ॥२॥
त्रैलोक्यं भस्मसात्कर्तुमेकदाऽग्निः समुद्यतः॥
शततालप्रमाणान्तां शिखां कृत्वा भयानकीम्॥३॥
क्षुभितः कुपितश्चैव भृगोः शापस्य कारणात् ॥
स्वं च तेजस्विनं मत्वा तुच्छं मत्वाऽन्यमात्मनः ॥४॥
एतस्मिन्नन्तरे विष्णुराजगामावलीलया॥
वह्नेस्तां दाहिकीं शक्तिं तां जहार पुरः स्थितः ॥ ५ ॥
मायया शिशुरूपी च तमुवाच जनार्दनः ॥
सस्मितो विनयं कृत्वा भक्तिनम्रात्मकन्धरः ॥ ६ ॥
शिशुरुवाच ॥
कथं रुष्टोऽसि भगवन्भवान्मां कारणं वद ॥
त्रैलोक्यं भस्मसात्कर्तुमुद्यतोऽसि निरर्थकम् ॥७॥
त्वमेव भृगुणा शप्तो भृगोश्च दमनं कुरु ॥
एकापराधात्त्रैलोक्यं भस्मीकर्तुं न चार्हसि ॥ ८ ॥
विश्वं च ब्रह्मणा सृष्टं तस्य पाता स्वयं हरिः ॥
संहर्ता भगवान्रुद्र एवमेव क्रमो भवेत् ॥ ९ ॥
तत्कथं भस्मसात्कर्तुमीश्वरे शङ्करे स्थिते ॥
रक्षितारं हरिं जित्वा संहारं कुरु सत्वरम् ॥ 4.49.१० ॥
इत्युक्त्वा ब्राह्मणबटुः शरपत्रं पुरः स्थितम् ॥
अतिशुष्कं करे धृत्वा दग्धं कर्तुं ददौ मुदा ॥११॥
दृष्ट्वा शुष्केन्धनो वह्निर्लेलिहानो भयानकः ॥
स वव्रे शिखया विप्रं मेघेन शशिनं यथा ॥ १२ ॥
न च दग्धं शुष्कपत्रं लोमैकं च शिशोस्तथा ॥
दृष्ट्वा व्रीडायुतो वह्निर्निस्तब्धो हि शिशोः पुरः ॥१३॥
कृत्वा वह्नेर्दर्पभङ्गमन्तर्धानं चकार सः ॥
वह्निः स्वमूर्तिं संहृत्य स्वस्थानं भीतवद्ययौ ॥ १४ ॥
उक्तो वह्नेर्दर्पभङ्गः परं वै श्रोतुमिच्छसि ॥
नित्यनूतनमाख्यानं देवानां दर्पमोचनम् ॥ १५ ॥
श्रीराधिकोवाच ॥
शेषाणां दर्पभङ्गं च क्रमेण कथय प्रभो ॥
कथापीयूषधारान्ते श्रुत्वा तृप्येत को भुवि ॥ १६ ॥
श्रीनारायण उवाच ॥
राधिकावचनं श्रुत्वा सस्मितो भगवान्प्रभुः ॥
कथां कथितुमारेभे श्रुत्वा रम्यां पुरातनीम् ॥ १७ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे अग्निदर्पमोचनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥ ॥