श्रीराधिकोवाच ॥
कथितो भवता मह्यं दर्पभङ्गः श्रुतो हरेः ॥
दर्पभङगं रवेश्चापि श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥
श्रीकृष्ण उवाच ॥
एकदैवोदयं कृत्वा रविरस्तं जगाम ह ॥
माली सुमाली दैत्येन्द्रौ दीप्तिं कर्तुं समुद्यतौ ॥ २ ॥
महासम्पन्मदोन्मत्तौ शङ्करस्य वरेण च ॥
तयोश्च प्रभया रात्रिर्न भवेदिति सुन्दरि ॥ ३ ॥
रुष्टः सूर्यः स्वशूलेन तौ जघानावलीलया॥
पतितौ सूर्यशूलेन मूर्च्छितौ धरणीतले ॥ ४ ॥
भक्तापायं च विज्ञाय शङ्करो भक्तवत्सलः ॥
आगत्य जीवयामास महाज्ञानेन तौ विभुः ॥ ५ ॥
तौ च नत्वा शिवं भक्त्या जग्मतुर्निजमन्दिरम् ॥
दुद्राव च महादेवः सूर्यं हन्तुं रुषा ज्वलन् ॥ ६ ॥
दृष्ट्वा संहारकर्तारं जिघांसन्तं हरं रविः ॥
भिया पलायमानश्च ब्रह्माणं शरणं ययौ ॥ ७ ॥
दुद्राव च महादेवो ब्रह्मणो निलयं रुषा ॥
शूलमत्यर्थमुद्यम्य कालकालो विधेर्विधिः ॥ ८ ॥
दृष्ट्वा ब्रह्मा हरं रुष्टं तुष्टाव परमेश्वरम् ॥
चतुर्वक्त्रेण वेदोक्तस्तोत्रेण जगतां पतिः ॥ ९ ॥
ब्रह्मोवाच ॥
प्रसीद दक्षयज्ञघ्न सूर्यं मच्छरणागतम् ॥
त्वयैव सृष्टं सृष्टेश्च समारम्भे जगद्गुरो ॥ 4.48.१० ॥
आशुतोष महाभाग प्रसीद भक्तवत्सल ॥
कृपया च कृपासिन्धो रक्ष रक्ष दिवानिशम् ॥ ११ ॥
ब्रह्मस्वरूप भगवन्सृष्टिस्थित्यन्तकारण ॥
स्वयं रविं च निर्माय स्वयं संहर्तुमिच्छसि ॥ १२ ॥
स्वयं ब्रह्मा स्वयं शेषो धर्मः सूर्यो हुताशनः ॥
इन्द्रचन्द्रादयो देवास्त्वत्तो भीताः परात्पर ॥ १३ ॥
ऋषयो मुनयश्चैव त्वां निषेव्य तपोधनाः ॥
तपसां फलदाता त्वं तपस्त्वं तपसां फलम् ॥ १४ ॥
इत्येवमुक्त्वा ब्रह्मा तं सूर्यमानीय भक्तितः ॥
प्रीत्या समर्पयामास शङ्करे दीनवत्सले ॥ १५ ॥
शम्भुस्तमाशिषं कृत्वा विधिं नत्वा जगद्विधिः ॥
प्रसन्नवदनः श्रीमानालयं प्रययौ मुदा ॥ १६ ॥
इति धातृकृतं स्तोत्रं सङ्कटे यः पठेन्नरः ॥
भयात्प्रमुच्यते भीतो बद्धो मुच्येत बन्धनात् ॥ १७ ॥
राजद्वारे श्मशाने च मग्नपोते महार्णवे ॥
स्तोत्रस्मरणमात्रेण मुच्यते नात्र संशयः ॥ १८ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे श्रीकृष्णराधासंवादे अष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥