०४७

नारद उवाच ॥
अथ क्रीडान्तरे राधा किं पप्रच्छ हरिं विभुम् ॥
कां कथां कथयामास कथ्यतां करुणानिधे ॥ १ ॥
॥ श्रीनारायण उवाच ॥ ॥
उत्थाय सुखसम्भोगाद्राधां कृत्वा पुरो हरिः ॥
उवास मलयद्रोणीं वटमूले मनोहरे ॥ २ ॥
राधा तं परिपप्रच्छ सस्मितं सुमनोहरम् ॥
दर्पभङ्गः वज्रभृतो निगूढं श्रुतिसुन्दरम् ॥ ३ ॥
॥ श्रीराधिकोवाच ॥
श्रुतं यशः शूलभृतो दर्पभङ्गश्च दैवतः ॥
पार्वत्या दर्पभङ्गश्च विवाहश्च तयोरहो ॥४॥
अधुना श्रोतुमिच्छामि दर्पभङ्गं हरेर्हरे ॥
शेषाणां च क्रमेणैव वद व्यस्य जगद्गुरो ॥ ५ ॥
श्रीकृष्ण उवाच ॥
दर्पभङ्गं सुरपतेस्त्रिषु लोकेषु विश्रुतम् ॥
कर्णपीयूषमतुलं सुन्दरं शृणु सुन्दरि ॥ ६ ॥
पुरा शतमखो दर्पात्कृत्वा शतमखान्मुदा ॥
बभूव सर्वदेवानामध्यक्षः सम्पदा युतः ॥ ७ ॥
दिनेदिने तदैश्वर्यं वर्द्धते तपसां फलात् ॥
दीक्षां तं कारयामास सिद्धमन्नं बृहस्पतिः ॥८॥
स जजाप महामन्त्रं पुष्करे शतवत्सरम् ॥
बभूव मन्त्रसिद्धश्च परिपूर्णमनोरथः ॥ ९ ॥
ब्रह्मस्वरूपां प्रकृतिं सम्पन्मूढो न मन्यते ॥
सा तं शशाप स्वगुरोः शापं लेभेऽतिकोपतः॥॥4.47.१०॥
एकदा प्रकृतेः शापाद्धतबुद्धिः स्वसंसदि॥
गुरुं दृष्ट्वा समुत्थाय न ननाम मुदाऽन्वितः ॥ ११ ॥
बृहस्पतिस्ततः कोपान्नोवास गृहमाययौ ॥
न तस्थौ तारकाभ्याशे तपसे काननं ययौ ॥ १२ ॥
उवाच मनसा दीनो यातु सम्पद्धरेरिति ॥
अथ शक्रो मतिं प्राप्य क्व गतोऽतो मदीश्वरः ॥१३॥
इत्युक्त्वा वेगतः पीठाज्जगाम तारकान्तिकम्॥
प्रणम्य मातरं भक्त्या नतस्कन्धः पुटाञ्जलिः ॥॥ १४ ॥
सर्वं निवेदनं कृत्वा रुरोदोच्चैर्मुहुर्मुहुः ॥
पुत्रस्य रोदनं दृष्ट्वा रुरोद तारका भृशम् ॥ १५ ॥
वत्स गच्छ गृहं नैव गुरुं द्रक्ष्यसि साम्प्रतम् ॥
दुर्दिनान्ते गुरुं प्राप्य पुनर्लक्ष्मीमवाप्स्यसि ॥ १६॥
अधुना कर्मणां भोगं भुङ्क्ष्व मूढ दुराशय॥
दुर्दिने स्वगुरौ दोषः सुदिने परितोषणम् ॥१७॥
सुदिनं दुर्दिनं शक्र कारणं सुखदुःखयोः ॥
इत्युक्त्वा तारका देवी विरराम पतिव्रता ॥ १८ ॥
जगाम शक्रः स्नानार्थं स्वर्णदीं सुमनोहराम् ॥
ददर्श तत्र रुचिरां मार्जन्तीं च नितम्बिनीम् ॥१९॥
सस्मितां सकटाक्षां तामहल्यां गौतमप्रियाम् ॥
दृष्ट्वा च विपुलश्रोणीं स्तनयुग्मं मनोहरम् ॥4.47.२०॥
स तस्याः शक्रः सम्पश्यन्मुमोह काममोहितः ॥
पुनः स चेतनां प्राप्य विहाय स्नानमीश्वरि ॥ २१ ॥
मूर्तिं विधाय तद्भर्तुस्तत्समीपं जगाम ह ॥
गत्वा तु स्निग्धवस्त्रां तां समाकृष्य स्मरातुरः ॥ २२॥
चकार विविधं तत्र शृङ्गारं सुमनोहरम् ॥
मूर्च्छां सम्प्राप कामेन तन्द्रां च मुनिकामिनी ॥२३॥
निश्चेष्टा सुखसम्भोगान्निश्चेष्टस्त्रिदशाधिपः ॥
एतस्मिन्नन्तरे तप्त्वा समागत्य मुनीश्वरः ॥ २४ ॥
ददर्श गेहे मिथुनं मैथुने च रतिप्रिये ॥
दृष्ट्वा चुकोप स मुनिर्ज्वलन्निव हुताशनः ॥ २५ ॥
विज्ञानेनातिरोषेण बभञ्ज सुरतिक्षणम् ॥
शक्रः स चेतनां प्राप्य दृष्ट्वा च मुनिपुङ्गवम् ॥ २६ ॥
कालस्वरूपं त्रासेन दधार चरणाम्बुजम् ॥
कोपरक्तास्यनयनो देवं पादानतं भिया ॥
उवाच नीतिवचनं गौतमः शरणागतम् ॥ २७ ॥
गौतम उवाच ॥
धिक् त्वामिन्द्र सुरश्रेष्ठ कश्यपात्मज पण्डित ॥ २८ ॥
प्रपौत्र जगतां स्रष्टुर्बुद्धिस्ते कथमीदृशी ॥
मातामहः स्वयं दक्षोऽदितिर्माता पतिव्रता ॥ २९ ॥
कर्मसाध्यः स्वभावश्च कुलधर्मं प्रबाधते ॥
वेदं विज्ञाय ज्ञानी त्वं योनिलुब्धोऽसि कर्मणा ॥ 4.47.३० ॥
योनीनां च सहस्रं च तव गात्रे भवत्विह ॥
पूर्णवर्षं च सततं योनिगन्धं त्वमाप्नुहि ॥ ३१ ॥
ततः सूर्यं समाराध्य योनिश्चक्षुर्भविष्यति ॥
मम प्राणेश्वरी दुष्टा येन मूढ त्वया कृता ॥ ३२ ॥
मच्छापेन गुरोः कोपाद्भ्रष्टश्रीर्भव साम्प्रतम् ॥
गुरोरपेक्षया मूढ प्राणा नापहृतास्तव ॥ ३३ ॥
तेजस्विनोऽतिबन्धोर्मे बन्धुभेदभिया सुर ॥
उत्तिष्ठोत्तिष्ठ देवेन्द्र गच्छ वत्स स्वमन्दिरम् ॥ ३४॥
क्षुभाशुभं च यत्किञ्चित्सर्वं कर्मोद्भवं भवेत् ॥
महामुनीन्द्रवचनाद्गतः शक्रश्च पुष्करम् ॥।२७॥
चकाराराधनं भक्त्या नैष्कृत्यं च चकार ह ॥
पादानतामहल्यां तामुवाच मुनिपुङ्गवः ॥ ३६ ॥
वनं गत्वा चिरं तिष्ठ विधाय मूर्तिमश्मनः ॥ ॥
अकामां चकमे शक्रः सर्वं जानाम्यहं प्रिये ॥ ३७ ॥
तथा च परभोग्या मे न भोग्या व्रजाधमे ॥
परवीर्यं यदुदरे कामतोऽकामतोऽपि वा ॥३८॥
अहल्ये याति दैवेन तदुपायं निशामय ॥
अकामतो न च दुष्टा सा प्रायश्चित्तेन शुद्ध्यति ॥३९॥
कामभोगेन त्याज्या सा कर्मभोगेन शुद्ध्यति ॥
पितृपाके दैवपाके पूजायां नाधिकारिणी ॥4.47.४० ॥
षष्टिवर्षसहस्राणि कालसूत्रं प्रयाति सा॥
षष्टिवर्षसहस्राणि क्षयं कृत्वा स्वकर्मणः ॥ ४१ ॥
स्वामिनो वचनात्सा तु प्रणम्य स्वामिनं भिया ॥
नाथ नाथेति कुर्वन्ती रुदन्ती वनमाप सा ॥ ४२ ॥
षष्टिवर्षसहस्राणि भुक्त्वा भोगं मुनिप्रिया ॥
श्रीरामचरणस्पर्शात्सद्यः शुद्धा बभूव ह ॥४३॥
त्रैलोक्यमोहनं रूपं विधाय मुनिकामिनी ॥
जगाम गौतमाभ्याशं मुनिः सम्प्राप्य सुन्दरीम् ॥ ४४ ॥
अथ शक्रस्य वृत्तान्तं परमं शृणु सुन्दरि ॥
पापघ्नं पुण्यबीजं तत्संव्यस्य कथयामि ते ॥ ४५ ॥
एकदा च गुरोः कोपात्प्रकृतेरवहेलनात् ॥
ब्रह्महत्या वज्रभृतो बभूव हतचेतसः ॥ ४६ ॥
शक्रस्त्यक्तगुरुर्दैवग्रस्तो दैत्यनिपीडितः ॥
जगाम शरणं भीतो ब्रह्माणं जगतां गुरुम् ॥॥ ४७ ॥
तदाज्ञया विश्वरूपं चकार च पुरोहितम् ॥
बभूव तत्र विश्वस्तो दैवाद्बुद्धिहतो हरिः ॥ ४८ ॥
दैत्यदौहित्रस्य भावं विज्ञाय च विचक्षणः ॥
प्रचिच्छेद शिरस्तस्य तीक्ष्णबाणेन लीलया ॥ ४९ ॥
विश्वरूपपिता त्वष्टा श्रुत्वा सद्यश्चुकोप ह ॥
इन्द्रशत्रो विवर्द्धस्वेत्युक्त्वा यज्ञं चकार ह ॥ 4.47.५० ॥
यज्ञकुण्डात्समुत्तस्थौ वृत्रो नाम महासुरः ॥
चकार निग्रहं कोपाद्देवानामवलीलया॥ ५१ ॥
शक्रो महामुनेरस्थ्नां वज्रं कृत्वा सुदारुणम् ॥
जघान वृत्रं देवानां कण्टकं दैत्यमर्दनः ॥ ५२ ॥
ब्रह्महत्या शुनासीरं दुद्राव हतचेतनम् ॥
रक्तवस्त्रपरीधाना वृत्रस्त्रीवेषधारिणी ॥ ५३ ॥
सप्ततालप्रमाणा सा शुष्ककण्ठोष्ठतालुका ॥
ईषाप्रमाणदशना महाभीतं चकार तम् ॥ ९४ ॥
धावन्तं परिधावन्ती बलिष्ठा हतचेतनम् ॥
खड्गहस्ता दयाहीना वेगेन परिधावति ॥ ५५ ॥
इन्द्रो दृष्ट्वा च तां घोरां स्मारंस्मारं गुरोः पदम् ॥
विवेश मानससरो मृणालसूक्ष्मसूत्रतः ॥ ५६॥
तत्र गन्तुं न शक्ता सा ब्रह्मणः शापकारणात् ॥
सा तस्थौ वटशाखायां सरसस्तटसन्निधौ ॥ ५७ ॥
अथात्र नहुषो भूपस्त्रिलोकेशो बभूव ह ॥
स ययाचे शचीं देवान्बलिष्ठो दुर्बलानपि ॥ ५८ ॥
शची श्रुत्वा महाभीता तारकां शरणं ययौ ॥
तारा निर्भर्त्स्य स्वपतिं भृत्यपत्नीं ररक्ष च ॥ ५९ ॥
शचीमाश्वास्य स्वगुरुर्जगाम तत्सरो मुदा ॥
आजुहाव शुनासीरं कातरं हतचेतनम् ॥ 4.47.६० ॥
बृहस्पतिरुवाच ॥
उत्तिष्ठोत्तिष्ठ हे वत्स भयं किं ते मयि स्थिते ॥
त्वदीश्वरं स्वरेणैव निशामय भयं त्यज ॥
स्वरं बृहस्पतेर्ज्ञात्वा सर्वसिद्धीश्वरो हरिः ॥ ६१ ॥
सूक्ष्मरूपं परित्यज्य स्वरूपं च दधार सः ॥
उत्थाय सद्यः सम्भ्रातो गुरुं तं सूर्यवर्चसम् ॥६२॥
दृष्ट्वा ननाम सम्प्रीत्या सम्प्रीतं त्यक्तकोपकम् ॥
पदाम्बुजे निपतितं रुदन्तं भयविह्वलम् ॥ ६३ ॥
निधाय वक्षसि प्रेम्णा रुरोद प्रेमविह्वलः ॥
रुदन्तं वाक्पतिं तुष्टं तुष्टाव त्रिदशेश्वरः ॥
पुटाञ्जलिः पुलकितो भक्तिनम्रात्मकन्धरः ॥ ६४ ॥
इन्द्र उवाच ॥
क्षमस्व भगवन्दोषं कृपां कुरु कृपानिधे ॥ ६५ ॥
भृत्यापराधं सततं न गृह्णाति सदीश्वरः ॥
स्वभार्यासु स्वशिष्येषु स्वभृत्येषु सुतेषु च ॥ ६६ ॥
दुर्बलः सबलो वाऽपि को दण्डं कर्तुमक्षमः ॥
त्रिषु कोटिषु देवेषु देवकोऽहमपण्डितः ॥६७॥
त्वत्प्रसादात्सुरश्रेष्ठ कृपया वर्द्धितस्त्वया ॥
संहर्तुमीशस्त्वं सर्वमहं को वापि कीटवत् ॥ ६८ ॥
स्वयं विधातुः पौत्रश्च पुनः स्रष्टुं स्वयं क्षमः ॥
इति तस्य स्तवं श्रुत्वा परितुष्टो गुरुः स्वयम् ॥
उवाच वचनं प्रीत्या प्रसन्नवदनेक्षणः ॥ ६९ ॥
गुरुरुवाच ॥
स्थिरो भव महाभाग निश्चलां कमलां लभ ॥ 4.47.७० ॥
सम्प्राप्य परमैश्वर्यं पूर्वस्माच्च चतुर्गुणम् ॥
गच्छामरावतीं वत्स राज्यं कुरु पुरन्दर ॥ ७१ ॥
हतशत्रुर्मत्प्रसादाद्गत्वा पश्य शचीं सतीम् ॥
इत्येवमुक्त्वा स गुरुः सशिष्यो गन्तुमुद्यतः ॥ ७२ ॥
ददर्श पुरतो घोरां ब्रह्महत्यां सुदुःसहाम् ॥
दृष्ट्वा शक्रो महाभीतस्तं गुरुं शरणं ययौ ॥ ७३ ॥
बृहस्पतिर्महाभीतः सस्मार मधुसूदनम् ॥
एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी ॥ ७४ ॥
स्वल्पाक्षरा च बह्वर्था तां शुश्राव बृहस्पतिः ॥
संसारविजयं नाम सर्वाशुभविनाशनम् ॥ ७५ ॥
राधिके वचनं श्रुत्वा शिष्यं रक्षाधुनेति च॥
तदा त्वत्कवचं दत्त्वा शिष्याय शिष्यवत्सलः ॥७६॥
चकार भस्मसात्तां च हुङ्कारेणैव लीलया ॥
तदा शिष्यं गृहीत्वा च गत्वा ताममरावतीम् ॥७७॥
ददर्श च्छिन्नभग्नां च शत्रुणा वचनाद्गुरोः ॥
भर्तुरागमनं श्रुत्वा शची संहृष्टमानसा ॥७८॥
प्रणम्य च गुरुं भक्त्या स्वकान्तं प्रणनाम सा ॥
श्रुत्वाऽऽगमनमिन्द्रस्य समाजग्मुः सुराः प्रिये ॥
ऋषयो मुनयश्चैव हर्षगद्गदमानसाः ॥७९ ॥
योजयामास सत्कारं निर्मातुममरावतीम् ॥
पूर्णमब्दशतं शिल्पी निर्ममे त्वमरावतीम्॥ 4.47.८० ॥
नानारत्नविचित्राढ्यां मणिरत्नेन्द्रनिर्मिताम् ॥
मनोहरां निरुपमां न हि तुष्टो यया हरिः ॥८१॥
विश्वकर्मा गृहं गन्तुं न शशाक विनाऽऽज्ञया॥
परमोद्विग्नचित्तश्च ब्रह्माणं शरणं ययौ ॥ ८२ ॥
विज्ञाय तदभिप्रायं तमुवाच विधिः स्वयम् ॥
तव कर्मक्षयादेव तावच्छ्वो भवितेति च ॥८३॥
श्रुत्वा तद्वचनं कारुः शीघ्रं प्रापामरावतीम् ॥
ब्रह्मा जगाम वैकुण्ठे प्रणम्योवाच मातरम् ॥८४॥
हरिर्ब्रह्माणमाश्वास्य प्रस्थाप्य स्वगृहं च तम् ॥
विप्ररूपं समास्थाय चाजगामामरावतीम् ॥ ८५ ॥
दण्डी छत्त्री शुक्लवासा बिभ्रत्तिलकमुज्ज्वलम् ॥
अतिखर्वः शुक्लदन्तः सस्मितः सुमनोहरः ॥ ८६ ॥
वयसाऽतिशिशुर्बुद्ध्या ज्ञानवृद्ध्या विचक्षणः ॥
स्वयं विधातुर्धाता च दाता च सर्वसम्पदाम् ॥ ८७ ॥
इन्द्रद्वारे समुत्तिष्ठन्द्वारपालमुवाच ह ॥
ब्रूहीदं ब्रह्मणो द्वारे शीघ्रं त्वां द्रष्टुमागतः ॥ ८८ ॥
इत्येवं वचनं श्रुत्वा द्वारि ज्ञानं चकार तम् ॥
स च शीघ्रं समागम्य ददर्श ब्राह्मणार्भकम् ॥ ८९ ॥
बालकानां बालिकानां समूहैः परिवेष्टितम् ॥
हसद्भिश्च महोत्साहात्सस्मितं तेजसाऽन्वितम् ॥ 4.47.९० ॥
प्रणनाम हरिर्भक्त्या तं हरिं शिशुरूपिणम् ॥
आशिषं युयुजे प्रीत्या तं हरिर्भक्तवत्सलः ॥ ९१ ॥
मधुपर्कादिकं दत्त्वा शक्रः पूजां चकार तम् ॥
पप्रच्छागमनं कस्माद्वदेति विप्रबालकम् ॥ ९२ ॥
इन्द्रस्य वचनं श्रुत्वा तमुवाच द्विजार्भकः ॥
मेघ गम्भीरया वाचा बृहस्पतिगुरोर्गुरुः ॥ ९३ ॥
ब्राह्मण उवाच ॥
समागतोऽहं त्वां द्रष्टुं प्रष्टुं वचनमीप्सितम् ॥
चित्रं नगरनिर्माणं समाकर्ण्याद्भुतं हरे ॥ ९४ ॥
कतिवर्षं च निर्माणे भवान्सङ्कल्पितो यथा ॥
कतिचित्तां विश्वकर्मा निर्माणं वा करिष्यति ॥॥ ९५ ॥
एवम्भूतं च निर्माणं न केनैन्द्रेण निर्मितम् ॥
नैवंविधं सुनिर्माणे विश्वकर्मा परः क्षमः ॥९६॥
बालकस्य वचः श्रुत्वा जहास स सुरेश्वरः ॥
सम्पन्मदातिमत्तश्च पुनः पप्रच्छ बालकम् ॥ ९७ ॥
कतीन्द्राणां समूहश्च त्वया दृष्टः श्रुतोऽथवा ॥
विश्वकर्मा कतिविधस्तं मे ब्रूहि शिशोऽधुना ॥ ९८ ॥
शक्रस्य वचनं श्रुत्वा प्रहस्य विप्रबालकः ॥
तमुवाच श्रुतिसुखं पीयूषसदृशं वचः ॥ ९९ ॥
॥ ब्राह्मण उवाच ॥
जानामि कश्यपं तात तव तातं प्रजापतिम् ॥
मुनिं मरीचिनामानं तत्रालं च तपोनिधिम् ॥ 4.47.१०० ॥
नाभिपद्मोद्भवं विष्णोः स्तुत्वा तं विधिमीश्वरम् ॥
रक्षितारं च तं विष्णुं परं सत्त्वगुणान्वितम् ॥ १ ॥
एकार्णवं च प्रलयं सत्त्वशून्यं भयानकम् ॥
सृष्टिं कतिविधां शक्र कल्पं कतिविधं ध्रुवम् ॥ २ ॥
ब्रह्माण्डं च कतिविधं ब्रह्मविष्णुमहेश्वरान् ॥
ब्रह्माण्डेषु कतिविधानिन्द्रान्को गन्तुमीश्वरः ॥३॥
यदि सङ्ख्याऽस्ति रेणूनां धरायां च सुराधिप ॥
तथापि सङ्ख्या शक्राणां नास्त्येवेति विदुर्बुधाः ॥४॥
शक्रस्यायुश्चाधिकारो युगानामेकसप्ततिः ॥
अष्टाविंशतिशक्राणां पतनेऽहर्निशं विधेः ॥ ५ ॥
विधेरष्टोत्तरशतमायुरेव प्रमाणतः॥
सुरेन्द्राणां च का सङ्ख्या नास्ति सङ्ख्या विधेरपि ॥ ६ ॥
ब्रह्माण्डसङ्ख्या यत्र क्व ब्रह्मविष्णुमहेश्वराः ॥
महाविष्णोर्लोमकूपोद्भवे तोये सुनिर्मले ॥ ७॥
ब्रह्माण्डेऽस्ति यथा नौका भवतोये च कृत्रिमा ॥
एवं लोम्नः प्रमाणेन ब्रह्माण्डाः सन्त्यसङ्ख्यकाः ॥ ८ ॥
ब्रह्माण्डे च कतिविधाः सुराः सन्त्येव त्वत्समाः ॥
एतस्मिन्नन्तरे तत्र ददर्श पुरुषोत्तमः ॥ ९ ॥
पिपीलिकासमूहं च व्यायतं धनुषां शतम् ॥
क्रमशस्तान्सन्निरीक्ष्य जहासोच्चैर्द्विजार्भकः ॥4.47.११०॥
नोवाच किञ्चिन्मौनी च गम्भीरः सगणो यथा॥
दृष्ट्वा हास्यं विप्रवटोर्गाथां श्रुत्वाऽतिविस्मितः ॥
पप्रच्छ च पुनर्विप्रं शुष्ककण्ठोष्ठतालुकः ॥ ११ ॥
इन्द्र उवाच ॥
कथं हससि विप्रेन्द्रं मां शीघ्रं कारणं वद ॥
त्वं वा को मायया च्छन्नः शिशुरूपी गुणार्णवः ॥ १२॥
इन्द्रस्य वचनं श्रुत्वा तमुवाच द्विजार्भकः ॥
आध्यात्मिकं नीतिसारं ज्ञानबीजं परं वरम् ॥ १३ ॥
ब्राह्मण उवाच ॥
दृष्टः पिपीलिकासङ्घो हेतुरस्य निगूढकः ॥ १४ ॥
मा मां पृच्छ शोकबीजं तवान्यज्ञानकारणम् ॥
सांसारिकाणां संसारवृक्षमूलनिकृन्तनम् ॥१५॥
अज्ञानतमसिच्छन्नं ज्ञानदीपमनुत्तमम् ॥
निगूढं सर्ववेदेषु सिद्धानामपि दुर्लभम् ॥ १६ ॥
योगिनां प्राणतुल्यं च मूढाहङ्कारभञ्जनम् ॥
इत्युक्त्वा तत्र सन्तस्थौ सस्मितो द्विजपुङ्गवः ॥
पुनः पप्रच्छ शक्रस्तं शुष्ककण्ठोष्ठतालुकः ॥ १७ ॥
शक्र उवाच ॥
ब्रूहि विप्रबटो शीघ्रं ज्ञानदीपं पुरातनम् ॥
न जानामि शिशुः कस्त्वं ज्ञानराशिः स्वमूर्तिमान् ॥ १८ ॥
इन्द्रस्य वचनं श्रुत्वा विप्ररूपी जनार्दनः ॥
ज्ञानं भाषितुमारेभे योगीन्द्राणां सुदुर्लभम् ॥ १९ ॥
ब्राह्मण उवाच ॥
सृष्टः पिपीलिकासङ्घ एकैकः क्रमशो मया ॥ 4.47.१२० ॥
सर्वे स्वकर्मणा शक्र शक्रीभूताः सुरालये ॥
अधुना कर्मणा सर्वे क्रमशो भूतजन्मनाम् ॥ २१ ॥
अतीतकाले सम्प्राप्ता भूतजातिं पिपीलिकाम् ॥
कर्मणा जीविनो यान्ति वैकुण्ठं च निरामयम् ॥ २२ ॥
कर्मणा ब्रह्मलोकं च शिवलोकं च कर्मणा ॥
स्वर्गं स्वर्गसमास्थानं पातालं च स्वकर्मणा ॥ २३ ॥
कर्मणा नरकं घोरं स्वात्मदुःखैककारणम् ॥
कर्मणा सूकरीगर्भं कर्मणा क्षुद्रजीवनम् ॥ २४ ॥
कर्मणा पशुपत्नीनां कर्मणा पक्षियोषिताम् ॥
कर्मणा कीटयोनिं च वृक्षत्वं च स्वकर्मणा ॥२५॥
स्वकर्मणा सुखी दुःखी सेव्यः सेवक एव च ॥
कर्मणा ब्राह्मणत्वं च दैवं चापि स्वकर्मणा ॥ २६ ॥
स्वकर्मणा च प्रेतत्वं ब्रह्मत्वं च स्वकर्मणा ॥
कर्मणा व्याधियुक्तश्च कर्मणेवातिसुन्दरः ॥ २७ ॥
कर्मणा स्वाङ्गहीनश्च स्वाङ्गवृद्धश्च कर्मणा ॥
विधाता कर्मसूत्रेण फलदाता च जीविनाम् ॥ २८ ॥
कर्म स्वभावसाध्यं च स्वभावोऽभ्यासजीवकः ॥
इत्येवं कथितं सर्वमाध्यात्मिकपरं वचः ॥ २९ ॥
सुखदं पुण्यदं सारं नरकार्णवतारकम् ॥
संसारः स्वप्नवत्सर्वं देवेन्द्र सचराचरम्॥4.47.१३०॥
मृत्युश्च मस्तकस्थायी सर्वेषां कालयोगतः ॥
जलबुद्बुदवत्सर्वं जीविनां च शुभाशुभम् ॥ ३१ ॥
शक्र शश्वद्भ्रमत्येव नाविष्टस्तत्र पण्डितः ॥
इत्येवमुक्त्वा विप्रश्च तत्र तस्थौ च सस्मितः ॥ ३२ ॥
विस्मितास्त्रैदशाध्यक्षो नात्मानं बहु मन्यते ॥
एतस्मिन्नन्तरे शीघ्रमाजगाम मुनीश्वरः ॥ ३३ ॥
अतिवृद्धो महायोगी ज्ञानेन वयसा महान् ॥
कृष्णाजिनी जटाधारी बिभ्रत्तिलकमुज्ज्वलम् ॥॥ ३४ ॥
वक्षःस्थले रोमचक्रं बिभर्ति मस्तके कटम् ॥
स्थितं सर्वं मध्यदेशे किञ्चिदुत्पाटितं स्फुटम् ॥ ३५ ॥
समागत्य द्वयोर्मध्ये तस्थौ स्थाणुवदेव सः ॥
महेन्द्रो ब्राह्मणं दृष्ट्वा प्रणनाम मुदाऽन्वितः ॥ ३६ ॥
मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ॥
पप्रच्छ कुशलं विप्रं चकार विनयं पुनः ॥ ३७ ॥
तुष्टावातिथिभावेन मुदा सादरपूर्वकम् ॥
विप्रार्भकस्तेन सार्द्धं सम्भाषां च चकार सः ॥
स्ववाञ्छितं परं प्राह सर्वं विनयपूर्वकम् ॥ ३८ ॥
बालक उवाच ॥
कुतस्त्वमागतो विप्र किन्नाम तव वा वद ॥
को वाऽत्रागमने हेतुर्निवासः केन हेतुना ॥ ३९ ॥
कटं कथं मस्तके ते लोमचक्रं च वक्षसि ॥
अत्युन्नतं मध्यदेशे किञ्चिदुत्पाटितं मुने ॥॥ 4.47.१४० ॥
मां चेत्कृपाऽस्ति ते विप्र सर्वं संव्यस्य कथ्यताम् ॥
अत्यद्भुतमिदं सर्वं श्रोतुं कौतूहलं मम ॥ ४१ ॥
स शिशोर्वचनं श्रुत्वा तमुवाच महामुनिः ॥
सर्वं स्वकीयवृत्तान्तं शक्रस्य पुरतो मुदा ॥४२॥
मुनिरुवाच ॥ अल्पायुषा मया विप्र कुत्रापि न कृता गृहाः ॥
न विवाहश्चोपजीव्यं भिक्षोपजीविनाऽधुना ॥ ४३ ॥
लोमशेति च मन्नाम हेतुर्विप्रस्य दर्शनम् ॥
वर्षणातपशान्त्यर्थं मस्तकस्थं कटं मम ॥ ४४ ॥
वक्षस्थलस्थितं रोमचक्रं तत्कारणं शृणु ॥
सांसारिकाणां भयदं विवेकजननं परम् ॥ ४५ ॥
आयुःसङ्ख्याप्रमाणं मे लोमचक्रं च वक्षसि ॥
शक्रैकपतनं विप्र लोमैकोत्पाटनं मम ॥ ४६॥
उत्पादितानि लोमानि तेन मध्ये स्थितानि च ॥
ब्रह्मणो द्विपरार्धे च मम मृत्युर्निरूपितः ॥ ४७ ॥
असङ्ख्यविधयो ब्रह्मन्मरिष्यन्ति मृता अपि ॥
कलत्रेण च पुत्रेण गृहेण किं प्रयोजनम् ॥ ४८ ॥
ब्रह्मणः पतने चक्षुर्निमेषश्च हरेर्भवेत् ॥
तत्पादपद्ममतुलं चिन्तयामि निरन्तरम् ॥ ४९ ॥
दुर्लभं श्रीहरेर्दास्यं भक्तिर्मुक्तिर्गरीयसी ॥
स्वप्नवत्सर्वमैश्वर्यं तद्भक्तिव्यवधायकम् ॥ 4.47.१५० ॥
इदं मद्गुरुणा दत्तं शम्भुना ज्ञानमुत्तमम् ॥
विना भक्तिं न गृह्णामि सालोक्यादिचतुष्टयम् ॥ ५१ ॥
इत्येवमुक्त्वा स मुनिर्जगाम शिवसन्निधिम् ॥
शिशुरूपी हरिस्तत्रैवान्तर्धानं चकार ह ॥ ५२ ॥
इन्द्रस्तु स्वप्नवद्दृष्ट्वा बभूव तत्र विस्मितः ॥
तृष्णामात्रं च सम्पत्तौ नास्त्येव परमेश्वरे ॥ ५३ ॥
विश्वकर्माणमानीय प्रियमुक्त्वा शतक्रतुः ॥
दत्त्वा रत्नानि सम्पूज्य तं प्रस्थापितवान्गृहम् ॥ ५४ ॥
सर्वं विन्यस्य पुत्रे च शरणं गन्तुमुद्यतः ॥
शचीं राज्यश्रियं त्यक्त्वा विवेकी क्षयकामुकः ॥ ५५ ॥
दृष्ट्वा विवेकिनं कान्तं हृदयेन विदूयता ॥
शची जगाम शोकार्ता सन्त्रस्ता शरणं गुरोः ॥ ५५ ॥
सर्वं निवेदनं कृत्वा समानीय बृहस्पतिम् ॥
बोधयामास शक्रं तं नीतिसारेण कामिनी॥५७॥
गुरोः शास्त्रविशेषं च दम्पतीरससंयुतम्॥
विधाय च स्वयं प्रीत्या पाठयामास तं मुदा ॥ ५८ ॥
मुनिः शास्त्रविशेषं च बोधयामास वाक्पतिः ॥
स चकार तदा राज्यं वृन्दावन विनोदिनि ॥ ५९ ॥
इत्येवं कथितं सर्वं शक्रदर्पविमोचनम् ॥
साक्षाद्दृष्टो दर्पभङ्गो नन्दयज्ञे सुरेश्वरि ॥ 4.47.१६० ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे श्रीकृष्णराधासंवादे सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥