राधिकोवाच ॥
सुचिरं च मृतं कामं शङ्करेण च जीवितम् ॥
रतिः पुनः प्रियं प्राप्य किं चकार मुदाऽन्विता ॥ १ ॥
स्त्रीणां स्वस्वामिविच्छेदो मरणादतिदुष्करः ॥
पुनः सम्मेलनं भर्तुः सुखं परमदुर्लभम् ॥ २ ॥
शिवः सतीं तां सम्प्राप्य सङ्गे मङ्गलकर्मणि॥
चिरं प्रनष्टविरहः किं चकार मुदाऽन्वितः ॥ ३ ॥
कलत्रविरहः पुंसां सर्वशोकात्सुदुष्करः ॥
पुनः सम्मीलनं तस्याः प्राणदानाधिकं सुखम् ॥ ४ ॥
रतिः पुंसो विरहिणी शिवः स्त्रीविरही चिरम् ॥
द्वयोर्द्वयोश्च सम्प्राप्तौ किं बभूव द्वयोः सुखम् ॥ ५ ॥
तदेवं श्रोतुमिच्छामि परं कौतूहलं मम ॥
कृपया विदुषां श्रेष्ठ सव्यासं कथय प्रभो ॥ ६ ॥
मेलनं शक्तिशिवयो रतिमन्मथयोस्ततः ॥
शोकापहं श्रुतवतां सर्वमङ्गलकारणम् ॥ ७ ॥
नारायण उवाच ॥
इत्युक्त्वा राधिका देवी सस्मिता विरराम ह ॥
कृष्णस्तद्वचनं श्रुत्वा सस्मितस्तामुवाच ह ॥ ८ ॥
कृष्ण उवाच ॥
मृतं कामं पुनः प्राप्य कामार्ता कामकामिनी ॥
स्वालयं तं समानीय हरोद्वाहगृहादहो ॥ ९ ॥
भर्तुः सुवेषं विविधं स्वात्मनः स्वालिभिर्मुदा ॥
कारयामास यत्नेन सा रती रमणोत्सुका ॥ 4.46.१० ॥
ज्ञात्वा कामस्तु तद्भावं कामशास्त्रविधायकः ॥
रत्नयानं समारुह्य जगाम स्वालयाद्वनम् ॥ ११ ॥
शैलेशैलेऽतिरम्ये च नद्यान्नद्यां नदेनदे ॥
द्वीपेद्वीपे सिन्धुतटे पुष्पोद्याने मनोहरे ॥ १२ ॥
काञ्चने भूमिनिकरे वटमृलेऽतिनिर्जने ॥
नदीपुलिनभूम्यां च पुष्पिते पुष्पकानने ॥ १३ ॥
भ्रमरध्वनिसंयुक्ते पुंस्कोकिलरुतश्रुते ॥
सुगन्धिवायुनाऽऽकीर्णे दधती जलसीकरम् ॥ १४ ॥
चित्तेषु चेतनानां च हरणं योषितामहो ॥
कलामानप्रकारेण शृङ्गारं च चकार सा ॥१५॥
पूर्णमब्दशतं दिव्यं स रेमे वामया सह ॥
दिवानिशं न बुबुधे संसक्तः सततं मुदा ॥ १६ ॥
तस्थतुस्तौ च तत्रैव संसक्तौ सततं मुदा ॥
सुरतौ च न विरतौ रतिशास्त्रविशारदौ ॥ १७ ॥
पतिविच्छेदसन्तापं विजहौ सा रतिर्मुदा ॥
प्राप्य रत्नमपहृतं कः क्षणं त्यक्तुमुत्सहेत् ॥ १८ ॥
इत्येवं कथितं सर्वं रतिसन्तापकारणम् ॥
शृङ्गारं शक्तिशिवयोरतुलं शृणु राधिके ॥ १९ ॥
शृण्वतां कर्णपीयूषं परमाश्चर्यमीप्सितम् ॥
सर्वसन्तापहरणं सुखदं पुण्यदं शुभम् ॥ 4.46.२० ॥
वसञ्छ्वशुरगेहे स पार्वत्या सह शङ्करः ॥
तदनुज्ञां समादाय क्रीडार्थं प्रययौ वनम् ॥ २१ ॥
रत्नस्यन्दनमारुह्य रत्नसारपरिच्छदम्॥
रत्नसारेण खचितं रचितं विश्वकर्मणा ॥ २२ ॥
शतशृङ्गे सुवसने मलये गन्धमादने ॥
नन्दने पुष्पभद्रे च पारिभद्रे च भद्रके॥२३॥
पुलिन्दे च कलिन्दे च पुण्ड्रे पिण्डारकेंऽधके ॥
वनेवनेऽतिरम्ये च सागराणां तटेतटे ॥ २४ ॥
निकटेऽस्तगिरेः पार्श्ववटमूले मनोहरे ॥
चकार करुणां यत्र परित्यज्य सती शिवम् ॥ २५ ॥
नानास्थानेषु रहसि पशुपक्षिविवर्जिते ॥
यथामनोरथङ्गामी स रेमे वामया सह ॥ २६ ॥
यत्रयत्र शिवं नीत्वा बभ्राम धरणीतलम् ॥
तत्सर्वं दर्शयामास सतीं शम्भुर्मुदाऽन्वितः ॥ २७ ॥
कृत्वा विहारं सुचिरं न पूर्णं मानसं तयोः ॥
महाशृङ्गारमारेभे सहस्राब्दं जगत्पिता ॥ २८ ॥
मायातीतोऽतिमायेशो मायासक्तः स्वमायया ॥
कालं न बुबुधे योगी सुखेन कालकारकः ॥ २९ ॥
शक्तिशक्तिमतोस्तत्र न बभूव परिश्रमः ॥
जहतोः सर्वसन्तापमन्योन्यविरहोद्भवम् ॥ 4.46.३० ॥
सुखसंसक्तमनसोः पुलकाञ्चितगात्रयोः ॥
कामबाणमूर्च्छितयोः पुष्पशय्याशयानयोः ॥ ३१ ॥
नग्नयोः सुखसम्भोगाद्रतिशास्त्रविधिज्ञयोः ॥
नखदन्तप्रहारैश्च क्षतविक्षतदेहयोः ॥ ३२ ॥
चन्दनागुरुकस्तूरीसिन्दूरबिन्दुलिप्तयोः॥
निबद्धकेशकबरीश्लथयोश्छिन्नमाल्ययोः॥ ३३ ॥
वसनानां नूपुराणां कङ्कणानां च सुन्दरि ॥
वलयानां कुण्डलानां शब्दैः क्रीडां प्रकुर्वतोः ॥ ३४ ॥
पुष्पतल्पं दलितयोर्बाष्पोत्कर्षं च बिभ्रतोः ॥
तेजसा समयोः शश्वत्क्रीडया कौतुकेन च ॥ ३९ ॥
भारेण विश्वम्भरयोर्भाराक्रान्ता वसुन्धरा ॥
सा विदीर्णा चकम्पे च सशैलवनसागरा॥३६॥
तयोर्भरभराक्रान्तधरायाश्च भरेण च ॥
भाराक्रान्तो हि शेषश्च तद्भरार्तोऽपि कच्छपः ॥ ३७ ॥
कच्छपस्य भरेणैव सर्वाधारा समीरणाः ॥
महाविक्लवयुक्ताश्च सर्वप्राणाश्च स्तम्भिताः ॥ ३८ ॥
स्तम्भितेषु समीरेषु त्रिलोका भयविह्वलाः ॥
ब्रह्मादयः सुराः सर्वे वैकुण्ठं शरणं ययुः ॥ ३९ ॥
सर्वं निवेदनं चक्रुर्नारायणपदाम्बुजे ॥
नारायणश्च भगवानुवाच कमलोद्भवम् ॥ 4.46.४० ॥
श्रीनारायण उवाच ॥
शृङ्गारभङ्गसमयो भविता नाधुना विधे ॥
कालप्रयुक्तं कार्यं च सिद्धं तत्समयोचितम् ॥ ४१ ॥
पूर्णे वर्षसहस्रे च स्वेच्छया विरमिष्यति ॥
शम्भोः संयोगमिष्टं च को भेदं कर्तुमीश्वरः ॥४२॥
स्त्रीपुंसो रतिविच्छेदमुपायेन करोति यः ॥
तस्य स्त्रीपुंसयोर्भेदो भवेज्जन्मनिजन्मनि ॥ ४३ ॥
यात्यन्ते कालसूत्रे च वर्षलक्षं स पातकी ॥
भ्रष्टज्ञानो नष्टकीर्तिरलक्ष्मीको भवेदिह॥४४॥
रम्भायुक्तं शक्रमिमं चकार विरतं रतौ ॥
महामुनीन्द्रो दुर्वासास्तत्स्त्रीभेदो बभूव ह ॥ ४५ ॥
पुनरन्यां स सम्प्राप्य निषेव्य शूलपाणिनम् ॥
दिव्यवर्षसहस्रं च विजहौ विरहज्वरम् ॥ ४६ ॥
रोहिणीसहितं चन्द्रं चकार विरतं रतौ ॥
महर्षिर्गौतमस्तस्य स्त्रीविच्छेदो बभूव ह ॥ ४७ ॥
पुनः शिवं समाराध्य प्राप्याहल्यां च पुष्करे ॥
दिव्यवर्षसहस्रं च विजहौ विरहज्वरम् ॥ ४८ ॥
मुनिः स्वभार्यासंसक्ते दिवसे निर्जने वने ॥
ब्रह्माण्डकसुतं नीत्वा चकार विरतं रुषा ॥ ४९ ॥
बभूव पुत्रविच्छेदस्तस्य कल्पान्तरे पुनः ॥
शिवं निषेव्य सम्प्राप्य पुत्रं तत्याज विक्लवम् ॥ 4.46.५० ॥
हरिश्चन्द्रो हालिकं च वृषल्या सह संयुतम् ॥
वारयामास निश्चेष्टं निर्जने तत्फलं शृणु ॥ ५१ ॥
भ्रष्टः श्रीराज्यवित्तेभ्यस्तं चकारावलीलया ॥
विश्वामित्रो महर्षिश्च ताडयामास तं पुरा ॥॥ ५२ ॥
ततः शिवं समाराध्य दातारं सर्वसम्पदाम् ॥
सद्यो जगाम वैकुण्ठं सगणो मम मन्दिरम् ॥ ५३ ॥
आजामिलं द्विजश्रेष्ठं वृषल्या सह संयुतम् ॥
न भिया वारयामासुः सुरास्तं चापि केचन ॥ ५४ ॥
निष्पन्ने कर्मभोगे च स मद्भक्तो मुमोच ह ॥
मन्नामस्मृतिमात्रेण चाजगाम ममालयम् ॥ ५५ ॥
सर्वं निषेकसाध्यं च निषेको बलवान्विधे ॥
निषेकफलदाताऽहं निषेकः केन वार्यते ॥ ५६ ॥
दिव्यं वर्षसहस्रं च शम्भोः सम्भोगकर्मकृत् ॥
निषेकफलदातुस्तु निषेकफलसञ्चयम् ॥ ५७ ॥
पूर्णे वर्षसहस्रे च गत्वा तत्र महेश्वरः ॥
येन वीर्यं पतेद्भूमौ तत्करिष्यति निश्चितम् ॥९८ ॥
तत्र वीर्ये च भविता स्कन्दको भक्ततारकः ॥
सदा भद्रस्वरूपोऽहं भयं किं वो मयि स्थिते ॥ ५९ ॥
अधुना त्वं गृहं गच्छ भगवान्स्वगणैः सह ॥
करोतु शम्भुः सम्भोगं पार्वत्या सह निर्जने॥॥ 4.46.६० ॥
इत्युक्त्वा कमलाकान्तः शीघ्रं स्वान्तःपुरं ययौ ॥
स्वालयं प्रययुर्देवाः शिवः स्वस्थो रतौ रतः ॥ ६१ ॥
नारायण उवाच ॥
इत्युक्त्वा राधिकां कृष्णः सकटाक्षां च सस्मिताम् ॥
जगाम चन्दनवनं निर्जने च तया सह ॥ ६२ ॥
अतीव निर्जनं रम्यं वायुना सुरभीकृतम् ॥
पुष्पोद्यानैः समाकीर्णं तत्र क्रीडां चकार ह ॥ ६३ ॥
पुष्पतल्पसमाकीर्णे परपुष्टरुतश्रुते ॥
भ्रमरवध्वनि संयुक्ते कामिनीनां मनोहरे ॥ ६४ ॥
कृष्णसम्भोगमात्रेण सुखसम्मूर्च्छिता च सा ॥
अतीव मूर्च्छितः कृष्णो राधाङ्गस्पर्शमात्रतः ॥॥ ६५ ॥
तस्थतुस्तत्र संयुक्तौ राधारासेश्वरौ मुने ॥
अतीवरतिनिश्चेष्टौ किं भूयः श्रोतुमिच्छसि ॥ ६६ ॥
इत्येवं मङ्गलं कर्म यः शृणोति समाहितः ॥
कदाचिद्बन्धुविच्छेदो न भवेत्तस्य नारद ॥६७॥
महाशोकार्णवे मग्नो भेदे पुत्रकलत्रयोः॥
मद्भृत्यानां च बन्धूनां मासं श्रुत्वा लभेद्ध्रुवम् ॥ ६८ ॥
सूत उवाच ॥
इत्युक्त्वा धर्मपुत्रश्च विरराम महामुनिः ॥
पुनः सम्प्रष्टुमारेभे देवर्षिः कौतुकान्वितः ॥ ६९ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे मङ्गलवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥