॥ श्रीकृष्ण उवाच ॥
अथ वेदविधानेन संस्थाप्य वह्निमीश्वरः ॥
यज्ञं चकार तत्रैव वामे संस्थाप्य पार्वतीम् ॥ १ ॥
निवृत्ते विधिवद्यज्ञे विप्राय दक्षिणां ददौ ॥
शिवः शतसुवर्णानि वृन्दावनविनोदिनि ॥ २ ॥
अथ प्रदीपमानीय शैलेन्द्रनगरस्त्रियः ॥
निर्वर्त्य मङ्गलं कर्म गृहं सम्प्राप्य दम्पती ॥ ३ ॥
कृत्वा जयध्वनिं प्रीत्या शुभनिर्मञ्छनादिकम् ॥
सस्मिताः सकटाक्षाश्च पुलकाञ्चितविग्रहाः ॥ ४ ॥
वासगेहं सम्प्रविश्य ददृशुः कामिनीगणाः ॥
शङ्करं रूपवेषाढ्यं रत्नभूषणभूषितम् ॥ ५ ॥
चन्दनागुरुकस्तूरीकुङ्कुमाञ्चितविग्रहम् ॥
ईषद्धास्यप्रसन्नास्यं सकटाक्षं मनोहरम् ॥ ६ ॥
अपूर्वसूक्ष्मवेषाढ्यं सिन्दूरबिन्दुभूषितम् ॥
चारुचम्पकवर्णाभं सर्वावयवसुन्दरम् ॥ ७ ॥
नवीनयौवनस्थं च मुनीन्द्रचित्तमोहनम् ॥
सरस्वतीं च लक्ष्मीं च सावित्रीं जाह्नवीं रतिम् ॥८॥
अदितिं च शचीं चैव लोपामुद्रामरुन्धतीम् ॥
अहल्यां तुलसीं स्वाहां रोहिणीं च वसुन्धराम् ॥ ९ ॥
शतरूपां च सञ्ज्ञां च सतीस्त्रीणां च षोडश ॥
देवकन्या नागकन्या मुनिकन्या मनोहराः ॥4.45.१०॥
या याः स्थितास्तत्र तासां सङ्ख्यां कर्तुं च कः क्षमः ॥
ताभी रत्नासने दत्ते तत्रोवास शिवो मुदा ॥
तमूचुः क्रमशो देव्यो मधुरोक्तिं सुधामिव ॥ ११ ॥
सरस्वत्युवाच ॥
प्राप्ता सती महादेवाधुना प्राणधिका मुदा ॥
दृष्ट्वा प्रियास्यं चन्द्राभं सन्तापं त्यज कामुक ॥ ॥ १२ ॥
कालं गमय कालेश सदा संश्लेषपूर्वकम् ॥
विश्लेषस्ते न भविता सर्वकालं ममाशिषा ॥ १३ ॥
लक्ष्मीरुवाच ॥
लज्जां विहाय देवेश सतीं कृत्वा स्ववक्षसि ॥
तिष्ठ सम्प्रति का लज्जा प्राणा यान्ति यया विना ॥ १४ ॥
सावित्र्युवाच ॥
भोजयित्वा सतीं शम्भो शीघ्रं भोजय मा खिदः ॥
तदाचम्य सकर्पूरं ताम्बूलं देहि भक्तितः ॥ १५ ॥
जाह्नव्युवाच ॥
स्वर्णकङ्कतिकां धृत्वा केशान्मार्जय योषितः ॥
कामिन्याः स्वामिसौभाग्यं सुखं नातः परं भवेत् ॥ १६ ॥
रतिरुवाच ॥
गृहीत्वा पार्वतीं देव सुभगामतिदुर्लभाम् ॥
कथं मम प्राणनाथो निःस्वार्थ भस्मसात्कृतः ॥ १७ ॥
जीवयसि विभो कामं कामव्यापारमात्मनि ॥
कुरु दूरं च सन्तापं मम विश्लेषहेतुकम् ॥१८ ॥
दम्पतीविरहक्लेशं सर्वं ज्ञात्वा दयानिधे ॥
तथापि मम कान्तश्च कोपेन भस्मसात्कृतः ॥ १९ ॥
इत्युक्त्वा कामभस्माथ ददौ सा ग्रन्थिबन्धितम् ॥
रुरोद पुरतः शम्भोर्नाथनाथेत्युदीर्य च ॥ 4.45.२० ॥
हरिस्तद्रोदनं श्रुत्वा करुणामयसागरः ॥
ब्रह्मा धर्मादिदेवाश्च ययुर्वासगृहं शिवम् ॥ २१ ॥
दृष्ट्वा नारायणं धर्मं ब्रह्माणं च सुरानपि ॥
जवेन पीठादुत्थाय स्वाज्ञां कुर्वित्युवाच ह ॥ २२ ॥
शङ्करस्य वचः श्रुत्वा तमुवाच हरिः स्वयम् ॥
कामं जीवय हे रुद्रेत्युक्त्वा शीघ्रं जगाम सः ॥ २३ ॥
ऊचुर्देव्यो बहुतरं वाक्यं विनयपूर्वकम्॥
क्रुधा दृष्ट्वा शूलभृतो भस्मतो निर्गतः स्मरः ॥ २४ ॥
दृष्ट्वा कामं रतिस्तं च प्रणनाम महेश्वरम् ॥
तद्रूपं च तदाकारं सस्मितं सधनुःशरम् ॥ २५ ॥
प्रणम्य शङ्करं कामः स्तुतिं कृत्वा यथागमम् ॥
बहिर्गत्वा हरिं देवान्प्रणम्य समुवाच ह ॥ २६ ॥
कामं सम्भाष्य देवाश्च युयुजुश्च तमाशिषम् ॥
काले रक्षा विनाशश्च निषेधः केन वार्यते ॥ २७॥
अथ शैलः सुरान्सर्वान्नारायणपुरोगमान् ॥
भोजयामास भक्त्या च शाययामास यत्नतः ॥ २८ ॥
अथ शम्भुर्वासगृहे वामे संस्थाप्य पार्वतीम् ॥
मिष्टान्नं भोजयामास तया सह मुदान्वितः ॥ २९ ॥
भुक्तवन्तं शिवं तत्र देवमाताऽदितिः स्वयम् ॥
उवाच सस्मितं राधे सम्प्रीत्या सरसं वचः ॥ 4.45.३० ॥
अदितिरुवाच ॥
भोजनान्ते शचि शम्भोः शौचार्थं जलमर्पय ॥
देहि शीघ्रं मम प्रीत्या दम्पत्योः प्रीतिपूर्वकम् ॥ ३१ ॥
शच्युवाच ॥
कृत्वा विलापं यद्धेतोः शवं कृत्वा स्ववक्षसि ॥
यो बभ्राम भुवं मोहात्कालेन प्राप तां सतीम् ॥ ३२ ॥
अरुन्धत्युवाच ॥
मया दत्ता सती तुभ्यं मेना दातुमनीप्सिता ॥
विविधं बोधयित्वेमां रतिं च कर्तुमर्हसि ॥ ३३ ॥
अहल्योवाच ॥
वृद्धावस्थां परित्यज्य ह्यतीव तरुणोऽधुना ॥
तेन मेना तु मेने त्वां सुतामर्पितुमीश्वर ॥ ३४ ॥
तुलस्युवाच ॥
सती त्वया परित्यक्ता कामो दग्धः पुराकृतः ॥
कथं तदा वसिष्ठश्च प्रभो प्रस्थापितोऽधुना ॥ ३५ ॥
स्वाहोवाच ॥
स्थिरो भव महादेव स्त्रीणां वचसि साम्प्रतम् ॥
विवाहे व्यवहारोऽस्ति पुरस्त्रीणां प्रगल्भता ॥ ३६ ॥
रोहिण्युवाच ॥
कामं पूरय पार्वत्याः कामशास्त्रविशारद ॥
कुरु पारं स्वयं कामी कामिनां कामसागरम् ॥ ॥ ३७ ॥
वसुन्धरोवाच ॥
भोगद्रव्यं विना भोगी न हि तुष्टः क्षुधातुरः ॥
येन तुष्टिर्भवेच्छम्भो तत्कर्तुमुचितं स्त्रिया ॥ ३८ ॥
सञ्ज्ञोवाच ॥
जानासि भावं सर्वज्ञ कामार्तानां च योषिताम् ॥
न च स्वस्वामिनं शम्भो सती जानाति सङ्गतम् ॥ ३९ ॥
शतरूपोवाच ॥
तूर्णं प्रस्थापय प्रीत्या पार्वत्या सह शङ्करम् ॥
रत्नप्रदीपं ताम्बूलं तल्पं निर्माय निर्जने ॥ 4.45.४० ॥
श्रीकृष्ण उवाच ॥
स्त्रीणां तद्वचनं श्रुत्वा ता उवाच शिवः स्वयम् ॥
निर्विकारी च भगवान्योगीन्द्राणां गुरोर्गुरुः ॥ ४१ ॥
शङ्कर उवाच ॥
देव्यो मा वदतोक्तिं च ह्येवम्भूतां ममान्तिके ॥
जगतां मातरः साध्व्यः पुत्रे चपलता कथम् ॥४२॥
शङ्करस्य वचः श्रुत्वा लज्जिताः सुरयोषितः ॥
बभूवुः सम्भ्रमात्तूष्णीं चित्रपुत्तलिका यथा ॥ ४३ ॥
भुक्त्वा मिष्टानि भगवानाचम्य च मुदाऽन्वितः ॥
सकर्पूरं च ताम्बूलं बुभुजे भार्यया सह ॥ ४४ ॥
रत्नसिंहासने शम्भुर्मेनादत्ते मनोहरे ॥
सन्निधाय मुदायुक्तो ददर्श वासमन्दिरम् ॥ ४५
रत्नप्रदीपशतकैर्ज्वलद्भि र्ज्वलितं श्रिया ॥
रत्नपात्रघटाकीर्णं मुक्तामाणिक्यभूषितम् ॥ ४६ ॥
रत्नदर्पणशोभाढ्यं मण्डितं श्वेतचामरैः ॥
चन्दनागुरुसंयुक्तं पुष्पशय्यासमन्वितम् ॥ ४७ ॥
नानाचित्रविचित्राढयं निर्मितं विश्वकर्मणा ॥
रत्नसारेण खचितं रचितं हीरकैर्वरैः ॥ ४८ ॥
कुत्रचित्सुरनिर्माणवैकुण्ठसुमनोहरम् ॥
वृन्दावनं कुञ्जवनं कुत्रचिद्रासमण्डलम् ॥ ४९ ॥
कैलासं च कुत्रचन कुत्रचिदिन्द्रमन्दिरम् ॥
दृष्ट्वाश्चर्यं महादेवः परितुष्टो बभूव ह ॥ 4.45.५० ॥
अथ प्रभातकालश्च बभूव प्राणवल्लभे ॥
नानाप्रकारवाद्यानि वादयाञ्चक्रिरे जनाः ॥ ५१ ॥
सर्वे सुराः समुत्तस्थुः सज्जीभूताः ससम्भ्रमाः ॥
स्ववाहनान्समारुह्य कैलासं गन्तुमुद्यताः ॥५२॥
वासगेहं समागत्य धर्मो नारायणाज्ञया ॥
उवाच शङ्करं योगी योगीशं समयोचितम् ॥ ५३ ॥
धर्म उवाच ॥
उत्तिष्ठोत्तिष्ठ भद्रं ते भवतु प्रमथाधिप ॥
पार्वत्या सह माहेन्द्रे यात्रां कुरु हरिं स्मरन् ॥ ५४ ॥
इत्थं धर्मवचः श्रुत्वा पार्वत्या सह शङ्करः ॥
यात्रां चकार माहेन्द्रे वृन्दावनविनोदिनि ॥ ५५ ॥
यात्रां कुर्वति देवेशे पार्वत्या सह शङ्करे ॥
उच्चै रुदित्वा सा मेना तमुवाच कृपानिधिम् ॥ ५६ ॥
मेनोवाच ॥
कृपानिधे कृपां कृत्वा मद्वत्सां पालयिष्यसि ॥
सहस्रदोषान्भगवानाशुतोषः क्षमिष्यसि ॥ ५७ ॥
त्वत्पदाम्बुजभक्तैषा मद्वत्सा जन्म जन्मनि ॥
स्वप्ने ज्ञाने स्मृतिर्नास्ति महादेवप्रभुं विना ॥ ५८ ॥
त्वद्भक्तिश्रुतिमात्रेण हर्षाश्रुपुलकान्विता ॥
त्वन्निन्दया भवेन्मौना मृत्युञ्जय मृता इव ॥ ५९ ॥
इत्युक्ता मेनका शीघ्रं तत्रागत्य हिमालयः ॥
उच्चै रुरोद च तदा वत्सां कृत्वा स्ववक्षसि ॥ 4.45.६० ॥
क्व यासि वत्सेत्युच्चार्य शून्यं कृत्वा हिमालयम् ॥
स्मारंस्मारं तद्गणौघं विदार्य मन्मनः स्फुटम् ॥ ६१ ॥
इत्येवमुक्त्वा शैलेन्द्रः समर्प्य च शिवां शिवे ॥
स शैलः सहपुत्रश्च रुरोदोच्चैर्मुहुर्मुहुः ॥ ६२ ॥
नारायणश्च भगवानध्यात्मविद्यया स्वयम् ॥
सर्वान्प्रबोधयामास कृपया स कृपानिधिः ॥ ६३ ॥
ननाम पार्वती भक्त्या मातरं पितरं गुरुम् ॥
मायया च महामाया रुरोदोच्चैर्मुर्हुमुहुः ॥ ६४ ॥
पार्वतीरोदनेनैव रुरुदुः सर्वयोषितः ॥
मुनयश्च सुराः सर्वे सस्त्रीकाः सगणं ध्रुवम् ॥ ६५ ॥
शीघ्रं ययुस्ते कैलासं देवा मानसशायिनः ॥
मुहूर्तार्द्धेन मुदिताः सम्प्रापुः शङ्करालयम् ॥ ६६ ॥
दृष्ट्वा गतं देवपत्न्यो मुनिपत्न्यश्च सत्वरम् ॥
आययुर्दीपमानीय मुदा मङ्गलकर्मणि ॥ ६७
वायुपत्नी कुबेरस्य कामिनी शुक्रकामिनी ॥
तारा सुरगुरोः पत्नी पत्नी दुर्वाससस्तथा ॥ ६८ ॥
अत्रिभार्यानुसूया च चन्द्रपत्न्यस्तथैव च ॥
देवकन्या नागकन्या मुनिकन्याः सहस्रशः ॥ ६९ ॥
असङ्ख्यकामिनीसङ्घः सङ्ख्यां कर्तुं च कः क्षमः ॥
ताश्च प्रवेशयामासुर्दम्पतीवासमन्दिरम् ॥ 4.45.७०॥
रत्नसिंहासने रम्ये वासयामासुरीश्वरीम् ॥
सतीं तां दर्शयामास शिवः पूर्वालयं मुदा ॥ ७१ ॥
सति स्मरस्यतो गेहाद्यद्गता तातमन्दिरम् ॥
अधुना शैलकन्या त्वं तत्र दक्षसुता पुरा ॥ ७२ ॥
जातिस्मरां स्मारयामि नित्यं स्मरसि चेद्वद ॥
शङ्करस्य वचः श्रुत्वा सस्मितोवाच सा सती ॥ ७३ ॥
सर्वं स्मरामि प्राणेश मौनीभूतो भवेति तम् ॥
शिवः सम्भृतसम्भारो नानावस्तुमनोहरम् ॥ ७४ ॥
भोजयामास देवांश्च नारायणपुरोगमान् ॥
भुक्त्वा देवाः प्रजग्मुस्ते नानारत्नविभूषिताः॥७५॥
सस्त्रीका सगणाः सर्वे प्रणम्य चन्द्रशेखरम् ॥
नारायणं च ब्रह्माणं ननाम शङ्करः स्वयम् ॥७६॥
तौ च तं च समाश्लिष्याशिषं कृत्वा प्रजग्मतुः ॥
अथ शैलश्च मेना च मैनाकमाजुहाव ह ॥ ७७ ॥
शीघ्रमानय भद्रं ते पार्वतीं शङ्करं सुत ॥
तयोः स वचनं श्रुत्वा शीघ्रं गत्वा शिवालयम् ॥७८॥
आजगाम समानीय पार्वतीपरमेश्वरौ ॥
पार्वत्यागमनं श्रुत्वा बालाश्च बालिकास्तथा ॥७९॥
वृद्धा युवत्यो या याश्च शैलाश्च दुद्रुवुर्मुदा ॥
मेना सुताभ्यां वध्वा च सह दुद्राव सस्मिता ॥ 4.45.८० ॥
हिमालयश्च मुदितो दुद्रावानुव्रजन्सुताम् ॥
अवरुह्य रथाद्देवी मातरं पितरं गुरुम् ॥८१॥
प्रणनाम प्रमुदिता निमग्नाऽऽनन्दसागरे ॥
पार्वतीं च समाश्लिष्य मेनका हर्षविह्वला ॥ ८२ ॥
हिमालयश्च मुदितो गताः प्राणा इवागताः ॥
सुतां निधाय गेहे स्वे रत्नसिंहासनं ददौ ॥८३॥
शूलभृते गणेभ्यश्च मधुपर्कादिकं मुदा ॥
तस्थौ श्वशुरगेहे च सगणश्चन्द्रशेखरः ॥८४॥
नित्यं षोडशोपचारैः पूजितः सह भार्यया ॥
इत्येवं कथितं राधे शङ्करोद्वाहमङ्गलम् ॥
शोकजं हर्षजनकं किं भूयः श्रोतुमिच्छसि ॥ ८५ ॥
॥ इति श्रीब्रह्मवैवर्त्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे शङ्करविवाहो नाम पञ्चचत्वारिंशोऽध्यायः ॥ ॥ ४५ ॥