॥ श्रीकृष्ण उवाच ॥
वसिष्ठस्य वचः श्रुत्वा सगणोऽपि हिमालयः ॥
विस्मितो भार्यया सार्द्धं जहास पार्वती स्वयम् ॥ १ ॥
अरुन्धती च तां मेनां बोधयामास कातराम् ॥
निराहारां रुदन्तीं तां जहौ शोकं मुदा च सा ॥ २ ॥
अरुन्धतीं भोजयित्वा बुभुजे भोगमुत्तमम् ॥
सर्वं प्रहृष्टमनसा मङ्गलं च चकार ह ॥ ३ ॥
ततः सम्भृतसम्भारो वसिष्ठस्याज्ञया प्रिये ॥
पत्रं प्रस्थापयामास नानास्थानं त्वरान्वितः ॥४॥
ततः प्रस्थापयामास शिवं मङ्गलपत्रिकाम् ॥
नानाप्रकारद्रव्याणि बाह्यानि च चकार ह ॥५॥
तन्दुलानां च शैलान्वै पृथुकानां च सुन्दरि ॥
तैलानां च घृतानां च दध्नां वापीश्चकार ह॥६॥
गुडानामासनानां च क्षीराणां च तथैव च ॥
अथो हैयङ्गवीनानां लवणानां परं मुने ॥ ७ ॥
लड्डुकानां शर्कराणां स्वस्तिकानां तथैव च ॥
यवचूर्णादिपिष्टानां घृतपक्वानि तानि च ॥ ८ ॥
नानाप्रकारवस्त्राणि वह्निशौचानि यानि च ॥
महारत्नप्रवालानि सुवर्णरजतानि च ॥९॥
द्रव्याण्येतानि शैलेन्द्र कृत्वा तु विधिपूर्वकम् ॥
मङ्गलं कर्तुमारेभे तत्रैव मङ्गले दिने ॥4.44.१०॥
संस्कारं कारयामासुः पार्वतीं पर्वतस्त्रियः ॥
स्नापयित्वा वस्त्रयुग्मं धारयामासुराशु ताः ॥ ११ ॥
कारयित्वा सुवेषां च रत्नभूषणभूषिताम ॥
दर्पणं धारयामासुर्दूर्वाक्षतसमन्वितम् ॥१२॥
ददुश्चालक्तकं चारु पादाङ्गुलिषु पादयोः ॥
गण्डे पत्रावलीं रम्यां नेत्रे कज्जलमुज्ज्वलम् ॥१३॥
कबरीं कारयामासुर्मालतीमाल्यवेष्टिताम् ॥
पट्टसूत्रपिनद्धां तां वामवक्त्रां मनोहराम् ॥ १४॥
एतस्मिन्नन्तरे राधे समाजग्मुः सुरेश्वराः ॥
नीत्वा त्रिनेत्रं तत्रैव रत्नयानस्थमीश्वरम् ॥ १५ ॥
शैलः सम्भृतसम्भारान्सम्भाषयितुमीश्वरान् ॥
शैलान्प्रस्थापयामास ब्राह्मणानपि पूजितान् ॥ १६ ॥
प्राङ्गणं कारयामास रम्भास्तम्भैः समन्वितम् ॥
पट्टसूत्रसन्निबद्धरसालपल्लवान्वितैः ॥ १७॥
फलपल्लवसंयुक्तैः कलशैर्जलसंयुतैः ॥
चन्दनागुरुकस्तूरीसुचारुकुसुमान्वितैः॥१८॥
मालतीमाल्यसंयुक्तैः संयुक्तं सुमनोहरम् ॥
देवेश्वरान्परो दृष्ट्वा प्रणनाम हिमालयः ॥ १९ ॥
रत्नसिंहासनं दातुं प्रेरयामास किङ्करान् ॥
नारायणो हि भगवानुवास पार्षदैः सह ॥ 4.44.२० ॥
विनतानन्दनात्तूर्णमवरुह्य चतुर्भुजः ॥
चतुर्भुजैः पार्षदैश्च रत्नभूषणभूषितैः ॥ २१ ॥
रत्नमुष्टिनिबद्धैश्च सेवितः श्वेतचामरैः ॥
ऋषिश्रेष्ठैः सुरश्रेष्ठैः स्तूयमानश्च संसदि ॥ २२ ॥
ईषद्धास्यप्रसन्नास्यो भक्तानुग्रहकातरः ॥
उवास च तदभ्याशे ब्रह्मा देवगणैः सह ॥२३॥
ऋषयो मुनयश्चैव समूषुर्मङ्गले स्थले ॥
एतस्मिन्नन्तरे शम्भुरवरुह्य रथादहो ॥२४॥
रत्नासने समुत्तिष्ठन्ददर्श पर्वतालयम्॥
समाजग्मुः शिवं द्रष्टुं शैलेन्द्रनगरस्त्रियः ॥ २५ ॥
वृद्धा बाला युवत्यश्च वस्त्राभरणभूषिताः॥
काश्चित्कज्जलहस्ताश्च वस्त्रहस्ताश्च काश्चन ॥२६॥
काश्चित्सिन्दूरहस्ताश्च काश्चित्कङ्कतिहाकराः ॥
वेषार्धभूषिताः काश्चित्काश्चिन्नैवार्धभूषिताः ॥ २७ ॥
काश्चिन्निर्भूषिताः काश्चित्सर्वाभरणभूषिताः॥
सर्वा आगत्य सन्तस्थुः सस्मिता पर्वतालये ॥२८॥
ऋषिकन्या देवकन्या नागकन्या मनोहराः ॥
गन्धर्वशैलकन्याश्च राजकन्याः समागताः ॥२९ ॥
सर्वा अप्सरसो दिव्या रम्भाद्या समुपस्थिताः ॥
मेना कन्यागणैः सार्द्धं ददर्श शङ्करं वरम् ॥ 4.44.३० ॥
चारुचम्पकवर्णाभमेकवक्त्रं त्रिलोचनम् ॥
ईषद्धास्यप्रसन्नास्यं रत्नाभरणभूषितम् ॥३१॥
चन्दनागुरुकस्तूरीचारुकुङ्कुमभूषितम् ॥
मालतीमाल्यसंयुक्तं सद्रत्नमुकुटोज्ज्वलम् ॥ ३२ ॥
वह्निशौचेनातुलेन चातिसूक्ष्मेण चारुणा ॥
अमूल्यवस्त्रयुग्मेन विचित्रेणातिभूषितम् ॥ ३३ ॥
रत्नदर्पणहस्तं च कज्जलोज्ज्वललोचनम् ॥
सर्वया प्रभयाच्छन्नमतीव सुमनोहरम् ॥३४॥
अतीव तरुणं रम्यैर्भूषिताङ्गैश्च भूषितम् ॥
बिभ्रन्तं रूपमतुलं परं नारायणाज्ञया ॥३५॥
योगस्वरूपं योगेशं योगीन्द्राणां गुरोर्गुरुम् ॥
स्वेच्छामयं गुणातीतं ब्रह्म ज्योतिः सनातनम् ॥३६ ॥
गुणभेदाद्रूपभेदं धत्तेऽनन्तमरूपकम् ॥
तारणं तं भवस्थानां सृष्टिस्थित्यन्तकारणम् ॥ ३७ ॥
सर्वाधारं सर्वबीजं सर्वेशं सर्वजीवनम् ॥
साक्षिरूपं निरीहं च परमानन्दमक्षरम् ३८ ॥
आद्यन्तमध्यरहितं सर्वाद्यं सर्वरूपकम् ॥
दृष्ट्वा जामातरं मेना जहौ शोकं मुदान्विता ॥ ३९ ॥
प्रशशंसुर्युवत्यश्च धन्या धन्या सतीति ताः ॥
दुर्गा भाग्यवतीत्येवमूचुः काश्चन कन्यकाः ॥ 4.44.४० ॥
कामेन काश्चित्कामिन्यो मौनीभूताश्च स्तम्भिताः ॥
न दृष्टो वर इत्येवमस्माभिर्ज्ञानगोचरे ॥ ४१ ॥
काश्चिन्निमेषरहिता मूर्च्छामापुश्च काश्चन ॥
निनिन्दुः स्वपतिं काश्चित्स्वेच्छां चक्रुश्च काश्चन ॥ ४२ ॥
काश्चिद्भावेन रुरुदुः पुलकाञ्चितविग्रहाः ॥
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ४३ ॥
दृष्ट्वा शङ्कररूपं च प्रहृष्टाः सर्वदेवताः ॥
नानाप्रकारवाद्यानि चारूणि मधुराणि च ॥ ४४ ॥
वादका वादयामासुर्नानाशिल्पेन तत्र वै ॥
एतस्मिन्नन्तरे दुर्गा शैलान्तःपुरचारिका ॥४५ ॥
बहिश्चकार सद्रत्नासनस्थां रत्नवेदिकाम् ॥
कस्तूरीबिन्दुभिः सान्द्रसिन्दूरबिन्दुभूषिताम् ॥४६॥
चारुचन्दनचन्द्राभां नम्रभालस्थलोज्ज्वलाम् ॥
रत्नेन्द्रसारहारेण वक्षःस्थलविभूषिताम् ॥ ४७ ॥
त्रिनेत्रदत्तनेत्रां तामन्यवारितलोचनाम् ॥
अतीषद्धास्ययुक्तास्यां सकटाक्षां मनोहराम् ॥ ४८ ॥
रत्नकेयूरवलयरत्नकङ्कणमण्डिताम् ॥
रत्नपाशकसंसक्तां क्वणन्मञ्जीररञ्जिताम् ॥ ४९ ॥
अमूल्यातुल्यचित्राढ्यवस्त्रयुग्म सुशोभिताम्॥
सद्रत्नकुण्डलाभ्यां च चारुगण्डस्थलोज्ज्वलाम्॥4.44.५०॥
मणिसारप्रभामुष्टदन्तराजिविराजिताम्॥४९॥
रत्नदर्पणहस्तां च क्रीडापद्मं विघूर्णतीम्॥५१ ॥
चन्दनागुरुकस्तूरीकुङ्कुमेनाङ्गचर्चिताम्॥
मुदिता ददृशुः सर्वे जगदाद्यां जगत्प्रसूम् ॥ ९२ ॥
त्रिनेत्रो नेत्रकोणेन तां ददर्श मुदाऽन्वितः ॥
सर्वां सत्याकृतिं दृष्ट्वा विजहौ विरहज्वरम् ॥५३॥
शिवः सर्वं विसस्मार दुर्गासन्यस्तमानसः ॥
पुलकाञ्चितसर्वाङ्गो हर्षाश्रुयुक्तलोचनः॥५४॥
एतस्मिन्नन्तरे शैलः प्रहृष्टः सपुरोहितः॥
तं वरं वरयामास वस्त्रचन्दनभूषणैः॥५५॥
भक्त्या पाद्यादिभिर्माल्यैर्दिव्यगन्धमनोहरैः ॥
ततः शीघ्रं वेदमन्त्रैः सम्प्रदानं चकार ताम् ॥ ५६ ॥
यौतुकानि ददौ तस्मै रत्नानि विविधानि च ॥
चारुरत्नविकारणि पात्राणि सुन्दराणि च ॥५७॥
गवां लक्षं गजेन्द्राणां सहस्राणि च राधिके ॥
रत्नकम्बलयुक्तानि साङ्कुशानि मुदान्वितः ॥५८॥
त्रिंशल्लक्षं हयानां च सज्जितानामकातरः ॥
दासीनामनुरक्तानां लक्षं सद्रत्नभूषितम् ॥ ५९ ॥
शतं द्विजबटूनां च पार्वतीभ्रातृकल्पकम् ॥
रथानां च शतं रम्यं रत्नेन्द्रसारनिर्मितम् ॥4.44.६० ॥
पार्वतीं वस्तुसहितां स्वस्तीत्युच्चार्य शङ्करः ॥
जग्राहानन्दमनसा यत्नाच्छैलसमर्पिताम् ॥ ६१ ॥
हिमालयः सुतां दत्त्वा परिहारं चकार तम् ॥
माध्यन्दिनोक्तस्तात्रेण तुष्टाव सम्पुटाञ्जलिः ॥ ६२ ॥
हिमालय उवाच ॥
प्रसीद दक्षयज्ञघ्न नरकार्णवतारक ॥
सर्वात्मरूप सर्वेश परमानन्दविग्रह ॥ ६३ ॥
गुणार्णव गुणातीत गुणयुक्त गणेश्वर ॥
गुणबीज महाभाग प्रसीद गुणिनां वर ॥ ६४ ॥
योगाधार योगरूप योगज्ञ योगकारण ॥
योगीश योगिनां बीज प्रसीद योगिनां गुरो ॥ ६५ ॥
प्रलयप्रलयाद्यैकभवप्रलयकारण ॥
प्रलयान्ते सृष्टिबीज प्रसीद परिपालक ॥ ६६ ॥
संहारकाले घोरे च सृष्टिसंहारकारण ॥
दुर्निवार्य दुराराध्य चाशुतोष प्रसीद मे ॥ ६७ ॥
कालस्वरूप कालेश काले च फलदायक ॥
कालबीजैककालघ्न प्रसीद कालपालक ॥ ६८ ॥
शिवस्वरूप शिवद शिवबीज शिवाश्रय ॥
शिवभूत शिवप्राण प्रसीद परमाश्रय ॥ ६९ ॥
इत्येवं स्तवनं कृत्वा विरराम हिमालयः ॥
प्रशशंसुः सुराः सर्वे मुनयश्च गिरीश्वरम् ॥ 4.44.७० ॥
हिमालयकृतं स्तोत्रं संयतो यः पठेन्नरः ॥
प्रददाति शिवस्तस्मै वाञ्छितं राधिके ध्रुवम् ॥ ७१ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे पार्वतीसम्प्रदाने चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥