नारायण उवाच ॥
अथ दुर्गां महादेवस्सतीमूर्तिं मनोहराम् ॥
अम्लानपद्मवक्त्रां तां शयानां जाह्नवीतटे ॥ १ ॥
दधतीमक्षमालां च प्रतप्तकाञ्चनप्रभाम् ॥
तेजसा प्रज्वलन्तीं च दधानां शुक्लवाससम् ॥ २ ॥
दृष्ट्वा सतीशरीरं च प्रदग्धो विरहाग्निना ॥
तत्त्वराशिर्मूर्तिमांश्च मूर्च्छां प्राप तथापि च ॥ ३ ॥
कलत्रशोको बलवान्स्वात्मारामं परात्परम् ॥
बाधते वेदबीजं तं योगीन्द्राणां गुरोर्गुरुम् ॥ ४ ॥
क्षणेन चेतनां प्राप्य तामुवाच त्रिलोचनः ॥
निरीक्ष्य वदनाम्भोजं स्थाणुः स्थाणुरिवापरः ॥ ५ ॥
साश्रुनेत्रोऽतिदीनश्च दीनानां शरणप्रदः ॥
दीनदैन्यापहारी च विललाप परं वचः ॥ ६ ॥
शङ्कर उवाच ॥
उत्तिष्ठोत्तिष्ठ सुभगे सति प्राणेश्वरि प्रिये ॥
शङ्करोऽहं तव स्वामी पश्य मां निकटागतम् ॥ ७ ॥
शिवं शिवप्रदं सर्वसम्पद्रूपं च सिद्धिदम् ॥
सर्वात्मानं च सर्वेशं शवतुल्यं त्वया विना ॥ ८ ॥
शक्तोऽहं च त्वया सार्द्धं सर्वशक्तिस्वरूपया ॥
शक्तिहीनः शवसमो निश्चेष्टः सर्वकर्मसु ॥ ९ ॥
यश्च शक्तिं न जानाति ज्ञानहीनश्च निन्दति ॥
तं त्यक्तुमुचितं विज्ञे कथं मां त्यजसि प्रिये ॥ 4.43.१० ॥
स्वयं ब्रह्मा स्वयं विष्णुः साध्यभूता वयं तव ॥
सस्मितं सकटाक्षं च वद किञ्चित्सुधोपमम् ॥ ११ ॥
मधुराभासदृष्ट्या च मां दग्धं सेचनं कुरु ॥
मां दृष्ट्वा दूरतः शीघ्रं स्निग्धं वदसि सस्मितम् ॥ १२ ॥
कथमद्यापि रुष्टेव विलपन्तं न भाषसे ॥
प्राणाधिके समुत्तिष्ठ रुदन्तं मां न पश्यसि ॥ १३ ॥
परित्यज्य च नः प्राणान्गन्तुं नार्हसि सुन्दरि ॥
जगदम्बे समुत्तिष्ठ प्राणाधारे परात्परे ॥ १४ ॥
पतिव्रते समुत्तिष्ठ कथं मां नाद्य सेवसे ॥
कथं करोषि विज्ञाय व्रतभङ्गं श्रुतिप्रसूः ॥ १५ ॥
इत्युक्त्वा मृतदेहं च प्रियाया विरहातुरः ॥
निधायोरसि संश्लिष्य चुचुम्ब च पुनःपुनः ॥ १६ ॥
अधरे चाधरं दत्त्वा वक्षो वक्षसि शङ्करः ॥
पुनःपुनः समाश्लिष्य पुनर्मूर्च्छामवाप सः ॥ १७ ॥
पुनः स चेतनां प्राप्य वेगादुत्थाय शोकतः ॥
दुद्राव च यथोन्मत्तो ज्ञानिनां च गुरोर्गुरुः ॥ १८ ॥
सप्तद्वीपसप्तसिन्धुं लोकालोकं च काञ्चनम् ॥
बभ्राम भ्रान्तवज्ज्ञानी सतीं कृत्वा स्ववक्षसि ॥ १९ ॥
शतशृङ्गगिरेः पार्श्वे जम्बुद्वीपे च भारते॥
सुनिर्जनेऽक्षयवटे गङ्गातीरे सरित्तटे ॥ 4.43.२० ॥
रुरोदोच्चैः स्वयं कृत्वा सति साध्वीत्युदीर्य च ॥
त्रिनेत्रनेत्रनीरेण सम्बभूव सरोवरम् ॥ २१ ॥
तन्नेत्रं च सरो नाम मुनीनां तपसः स्थलम् ॥
योजनद्वयविस्तीर्णं पुण्यतीर्थं मनोहरम् ॥ २२ ॥
यत्र स्नात्वा पुनर्जन्म नराणां न भवेद्गिरे ॥
शतजन्मकृतं पापं स्नानमात्रेण नश्यति ॥ २३ ॥
त्यक्त्वा तां मानवीं मूर्तिं नरा यान्ति हरेः पदम् ॥
स तत्र रोदनं त्यक्त्वा पुनर्बभ्राम मेदिनीम् ॥ २४ ॥
पूर्णमब्दं महायोगी विरहातुरमानसः ॥
सतीगलितप्रत्यङ्गैरङ्गैश्च पर्वतेश्वर ॥ २५ ॥
बभूव सिद्धपीठानां समूहो वाञ्छितप्रदः ॥
शेषाङ्गानां महादेवः संस्कारं वै विधाय च ॥२६॥
अस्थिमालां विनिर्माय चकार कण्ठभूषणम् ॥
नित्यं तद्भस्म भक्त्या च चकार गात्रलेपनम्॥२७॥
सति प्राणेश्वरीत्युक्त्वा पुनर्मूर्च्छामवाप सः ॥
विसस्मार ब्रह्म परमात्मानमात्मसम्भवः ॥२८॥
स्वात्मारामः पूर्णकामो निश्चेष्टो विरहज्वरात् ॥
तं शयानं गिरिवरस्याभ्याशे वटमूलके ॥२९॥
दृष्ट्वा देवाः समाजग्मुर्विस्मिताः शिवसन्निधिम् ॥
नारायणश्च भगवानीश्वरः सह पार्षदैः ॥4.43.३०॥
रत्नयानेनाजगाम पद्मार्चितपदाम्बुजः॥
रत्नालङ्कार शोभाढ्यः पीतवासाश्चतुर्भुजः ॥ ३१ ॥
ईषद्धास्यप्रसन्नास्यो वनमालाविभूषितः ॥
ब्रह्मा शेषश्च धर्मश्च सुराः सर्वे महर्षयः ॥ ३२ ॥
समूषुरीशसदसि लक्ष्मीकान्त प्रणम्य ते ॥
श्रीहरिः शङ्करमहो कृत्वा वक्षसि मूर्च्छितम् ॥
रुदन्तं बोधयामास ज्ञानीशो ज्ञानिनां गुरुम् ॥ ३३ ॥
श्रीभगवानुवाच ॥
स्वात्माराम निबोधेदं मदीयं वचनं शृणु ॥ ३४ ॥
हितमध्यात्मसारं च दुःखशोकनिकृन्तनम् ॥
सर्वाध्यात्मविद्यमानबीजं ज्ञाननिधिं विधिम् ॥ ३५ ॥
तथापि बोधयामि त्वां सर्वज्ञं वेधसो विधिम् ॥
बुधं बोधयितुं शक्तोऽबुधोऽपि प्राणसङ्कटे ॥ ३६ ॥
व्यवहारोऽस्ति लोकेषु सर्वः सर्वपरस्परम् ॥
मायाश्रिता गुणाः सर्वे हेतवः सुखदुःखयोः ॥. ॥ ३७ ॥
विष्णुमाया बलवती गुणयुक्तं प्रबाधते ॥
दुःखं शोकं भयं शम्भो दुर्दिने भवतीश्वर ॥ ३८ ॥
तत्रातीते कुतस्तानि सुदिने च समागते ॥
हर्ष ऐश्वर्यदर्पश्च सन्ततं तत्र वर्द्धते ॥ ३९ ॥
सर्वाण्येतानि गण्यन्ते स्वप्नानीव विपश्चितः ॥
ज्ञानं लभ महादेव ज्ञानबीज सनातन ॥ 4.43.४० ॥
चेतनां कुरु भद्रं ते सतीं प्राप्स्यसि निश्चितम् ॥
तत्तोयं शीतता नित्यं नाग्निं मुञ्चति दाहिका ॥ ४१ ॥
तेजः सूर्यं महीं गन्धो तथा त्वां च सती शिव ॥
शैलेत्येवं समाकर्ण्य हरिं किञ्चिदुवाच ह ॥ ४२ ॥
नेत्राण्युन्मीलनं कृत्वा त्रिनेत्रः श्रूयतामिति ॥
त्रिनेत्र उवाच ॥
कस्त्वं तेजःस्वरूपोऽसि क इमे तव सन्निधौ ॥ ४३ ॥
किन्नाम भवतश्चैषां कानि नामानि का सती ॥
कोऽहं को मे भवान्ब्रूते किङ्कराः कुत आगताः ॥ ४४ ॥
क्व यास्यसि क्व यास्यामि क्व गच्छन्त इमे वद॥
हरिरित्येवमाकर्ण्य रुरोद सगणो गिरे ॥ ४५ ॥
नेत्रनीरैस्त्रिनेत्रं तं रुदन्तं प्रसिषेच सः ॥
हरित्रिनेत्रयोर्नेत्रनीरपातेन तत्र वै ॥४६॥
बभूव सरसां श्रेष्ठं तीर्थं भुवनपावनम् ॥
भारतेऽस्तगिरेः पश्चात्तत्राक्षयवटान्तिके ॥ ४७ ॥
स्थलं बभूव तपसां मुक्तिबीजं तपस्विनाम् ॥
अथोवाच पुनः शीघ्रमाध्यात्मं च हरं हरिः ॥ ४८ ॥
शृण्वतां सर्वदेवानां मुनीनामूर्ध्वरेतसाम् ॥
श्रीभगवानुवाच ॥
शृणु शङ्कर वक्ष्यामि ज्ञानानन्द सनातन ॥४९॥
ज्ञानं ज्ञाननिधे शोकाद्विस्मृतोऽसि परात्पर ॥
सुदिनं दुर्दिनं शश्वद्भवत्येव भवे भवे ॥ 4.43.५० ॥
सर्वेषां प्राकृतानां च ते बीजे सुखदुःखयोः॥
सुखाद्भवति हर्षश्च दर्पः शौर्यप्रमत्तता ॥ ५१ ॥
राग ऐश्वर्यकामश्च विद्वेषश्च निरन्तरम् ॥
दुःखाच्छोकात्समुद्वेगाद्भयं नित्यं प्रवर्तते ॥ ५२॥
हतान्येतानि सर्वाणि हते बीजे महेश्वर ॥
सुदिनं दुर्दिनं चैव सर्वकर्मोद्भवं भव ॥ ५३ ॥
तत्कर्म तपसा साध्यं कर्मणा च शुभाशुभम् ॥
तपः स्वभावसाध्यं च स्वभावोऽभ्यासतो भवेत्॥५४॥
संसर्गसाध्यो ऽध्यासश्च संसर्गः पुण्यतो भवेत्॥
पुण्यबीजं मनश्चैव पापबीजं च चञ्चलम् ॥ ९५ ॥
मनः शम्भो ममांशश्च सर्वेन्द्रियपुरःसरम्॥
सर्वेषां जनकोऽहं च चित्त्वं ब्रह्मा पतिस्त्वयम् ॥ ५६ ॥
ब्रह्रैकं मूर्तिभेदस्तु गुणभेदेन सन्ततम् ॥
तद्ब्रह्म विविधं वस्तु सगुणं निर्गुणं शिव ॥ ५७ ॥
मायाश्रितो यः सगुणो मायाऽतीतश्च निर्गुणः ॥
स्वेच्छामयश्च भगवानिच्छया विकरोति च॥ ५८ ॥
इच्छाशक्तिश्च प्रकृतिर्नित्या सर्वप्रसूः सदा ॥
केचिदेकं वदन्त्येव ब्रह्मज्योतिः सनातनम् ॥ ५९॥
केचिद्वदन्ति द्विविधं ब्रह्म प्रकृतिपूर्वकम् ॥
शृणु ये च वदन्त्येकं मायापुरुषयोः परम् ॥4.43.६०॥
तस्माद्भवति तौ द्वौ च तद्ब्रह्म सर्वकारणम् ॥
अथ चैकं परं ब्रह्म द्विविधं भवतीच्छया ॥ ॥ ६१ ॥
इच्छाशक्तिश्च प्रकृतिः सर्वशक्तिप्रसूः .सदा ॥
तत्राशक्तश्च सगुणः सर्वाधारः सनातनः ॥ ६२ ॥
सर्वेश्वरः सर्वसाक्षी सर्वत्रास्ति फलप्रदः ॥
शरीरं द्विविधं शम्भो नित्यं प्राकृतमेव च ॥ ६३ ॥
नित्यं विनाशरहितं नश्वरं प्राकृतं सदा ॥
अहं त्वं चापि भगवान्नावयोर्नित्यविग्रहः ॥ ६४ ॥
आवयोरंशभूता ये प्राकृता नष्टविग्रहाः ॥
रुद्रादयस्त्वदंशाश्च मदंशा विष्णुरूपिणः ॥ ६५ ॥
ममाप्येवं द्विधा रूपं द्विभुजं च चतुर्भुजम्॥
चतुर्भुजोऽहं वैकुण्ठे पद्मया पार्षदैः सह ॥ ६६ ॥
गोलोके द्विभुजोऽहं च गोपीभिः सह राधया ॥
द्विविधं ये वदन्त्येवं द्वौ प्रधानौ तु तन्मते॥ ६७ ॥
पुरुषश्च सदा नित्यो नित्या प्रकृतिरीश्वरी ॥
सदा तौ द्वौ च संश्लिष्टौ सर्वेषां पितरौ शिव ॥ ६८ ॥
सशरीरौ निःशरीरौ स्वेच्छया सर्वरूपिणौ ॥
प्राधान्यं च यथा पुंसः प्रकृतेश्च सदा तथा ॥ ६९ ॥
सतीमिच्छसि चेच्छम्भो प्रकृतेः स्तवनं कुरु ॥
यत्स्तोत्रं च त्वया दत्तं पुरा दुर्वाससे मुदा ॥ 4.43.७० ॥
तद्दिव्यं कण्वशाखोक्तं भज तेन जगत्प्रसूम् ॥
शोकनाशो भवतु ते शिवं शिव ममाशिषा ॥ ७१ ॥
दूरं विप्लवहेतुश्च यातु स्त्रीविरहज्वरः ॥
इत्येवमुक्त्वा लक्ष्मीशो विरराम गिरीश्वरम् ॥७२॥
स्तवनं कर्तुमारेभे प्रकृतेश्च महेश्वरः ॥
स्नात्वा नत्वा च श्रीकृष्णं ब्रह्माणं भक्तिसंयुतः॥
पुटाञ्जलियुतो भूत्वा पुलकाञ्चितविग्रहः ॥ ७३ ॥
महेश्वर उवाच ॥
ओं नमः प्रकृत्यै मन्त्रः ॥
ब्राह्मि ब्रह्मस्वरूपे त्वं मां प्रसीद सनातनि ॥
परमात्मस्वरूपे च परमानन्दरूपिणि ॥ ७४ ॥
भद्रे भद्रप्रदे दुर्गे दुर्गघ्ने दुर्गनाशिनि ॥
पोतस्वरूपे जीर्णे त्वं मां प्रसीद भवार्णवे ॥ ॥ ७९ ॥
सर्वस्वरूपे सर्वेशि सर्वबीजस्वरूपिणि ॥
सर्वाधारे सर्वविद्ये मां प्रसीद जयप्रदे ॥ ७६ ॥
सर्वमङ्गलरूपे च सर्वमङ्गलदायिनि ॥
समस्तमङ्गलाधारे प्रसीद सर्वमङ्गले ॥ ७७ ॥
निद्रे तन्द्रे क्षमे श्रद्धे तुष्टिपुष्टिस्वरूपिणि ॥
लज्जे मेधे बुद्धिरूपे प्रसीद भक्तवत्सले ॥ ७८ ॥
वेदस्वरूपे वेदानां कारणे वेददायिनि ॥
सर्ववेदाङ्गरूपे च वेदमातः प्रसीद मे ॥ ७९ ॥
दये जये महामाये प्रसीद जगदम्बिके ॥
क्षान्ते शान्ते च सर्वान्ते क्षुत्पिपासास्वरूपिणि ॥ 4.43.८० ॥
लक्ष्मीर्नारायणक्रोडे स्रष्टुर्वक्षसि भारति ॥
मम क्रोडे महामाये विष्णुमाये प्रसीद मे ॥ ८१ ॥
कलाकाष्ठास्वरूपे च दिवारात्रिस्वरूपिणि ॥
परिणामप्रदे देवि प्रसीद दीनवत्सले ॥ ८२ ॥
कारणे सर्वशक्तीनां कृष्णस्योरसि राधिके ॥
कृष्णप्राणाधिके भद्रे प्रसीद कृष्णपूजिते ॥ ८३ ॥
यशःस्वरूपे यशसां कारणे च यशःप्रदे ॥
सर्वदेवीस्वरूपे च नारीरूपविधायिनि ॥ ८४ ॥
समस्तकामिनीरूपे कलांशेन प्रसीद मे ॥
सर्वसम्पत्स्वरूपे च सर्वसम्पत्प्रदे शुभे ॥ ८५ ॥
प्रसीद परमानन्दे कारणे सर्वसम्पदाम् ॥
यशस्विनां पूजिते च प्रसीद यशसां निधे ॥ ८६ ॥
आधारे सर्वजगतां रत्नाधारे वसुन्धरे ॥
चराचरस्वरूपे च प्रसीद मम मा चिरम् । ८७ ॥
योगस्वरूपे योगीशे योगदे योगकारणे ॥
योगाधिष्ठात्रि देवीशे प्रसीद सिद्धयोगिनि ॥ ८८ ॥
सर्वसिद्धिस्वरूपे च सर्वसिद्धिप्रदायिनि ॥
कारणे सर्व सिद्धीनां सिद्धेश्वरि प्रसीद मे ॥८९ ॥
व्याख्यानं सर्वशास्त्राणां मतभेदे महेश्वरि ॥
ज्ञाने यदुक्तं तत्सर्वं क्षमस्व परमेश्वरि ॥ 4.43.९० ॥
केचिद्वदन्ति प्रकृतेः प्राधान्यं पुरुषस्य च ॥
केचित्तत्र मतद्वैधे व्याख्याभेदं विदुर्बुधाः ॥ ९१ ॥
महाविष्णोर्नाभिदेशे स्थितं तं कमलोद्भवम् ॥
मधुकैटभौ महादैत्यौ लीलया हन्तुमुद्यतौ ॥ ९२ ॥
दृष्ट्वा स्तुतिं प्रकुर्वन्तं ब्रह्माणं रक्षितुं पुरा ॥
बोधयामास गोविन्दं विनाशहेतवे तयोः ॥ ९३ ॥
नारायणस्त्वद्भक्त्या च जघान तौ महासुरौ ॥
सर्वेश्वरस्त्वया सार्द्धमनीशोऽयं त्वया विना ॥ ९४ ॥
पुरा त्रिपुरसङ्ग्रामे गगनात्पतिते मयि ॥
त्वया च विष्णुना सार्द्धं रक्षितोऽहं सुरेश्वरि ॥९५॥
अधुना रक्ष मामीशे प्रदग्धं विरहाग्निना॥
स्वात्मदर्शनपुण्येन क्रीणीहि परमेश्वरि॥९६॥
इत्युक्त्वा विरतः शम्भुर्ददर्श गगनस्थिताम् ॥
रत्नसाररथस्थां तां देवीं शतभुजां मुदा ॥ ९७ ॥
तप्तकाञ्चनवर्णाभां रत्नाभरणभूषिताम् ॥
ईषद्धास्यप्रसन्नास्यां जगतां मातरं सतीम् ॥ ९८ ॥
दृष्ट्वा तां विरहासक्तः पुनस्तुष्टाव सत्वरम् ॥
दुःखं निवेदयामास प्ररुदन्विरहोद्भवम् ॥ ९९ ॥
दर्शयामासास्थिमालां स्वाङ्गस्थं भस्मभूषणम् ॥
कृत्वा बहु परीहारं तोषयामास सुन्दरीम् ॥ 4.43.१०० ॥
नारायणश्च ब्रह्मा च धर्मः शेषः सुरर्षयः ॥
शिवं रक्षेश्वरीत्युक्त्वा तुष्टुवुस्ते सनातनीम् ।१॥
बभूव परितुष्टा सा तेषां स्तोत्रेण तत्क्षणम् ॥
उवाच कृपया शम्भुं प्राणेशं प्राणवल्लभा ॥ २ ॥
प्रकृतिरुवाच ॥
स्थिरो भव महादेव प्राणाधिक मम प्रभो ॥
भवानात्मा च योगीशः स्वामी जन्मनि जन्मनि॥३॥
अहं शैलेन्द्रकामिन्यां लब्ध्वा जन्म महेश्वर ॥
तव पत्नी भविष्यामि मुञ्च त्वं विरहज्वरम् ॥४॥
इत्युक्त्वा शिवमाश्वास्य चान्तर्धानं चकार सा ॥
सुरा जग्मुस्तमाश्वास्य लज्जानम्रात्मकन्धरम् ॥ ५ ॥
हर्षान्तरात्मा गिरिशः कैलासं तु जगाम ह ॥
ननर्त सगणस्तूर्णं सन्त्यज्य विरहज्वरम् ॥ ६॥
इदं शिवकृतं स्तोत्रं प्रकृत्या यः पठेन्नरः ॥
न भवेत्कामिनीभेदस्तस्य जन्मनि जन्मनि ॥ ७ ॥
इहलोके सुखं भुक्त्वा स याति शिवमन्दिरम् ॥
धर्मार्थकाममोक्षांश्च लभते नात्र संशयः ॥ १०८ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे शङ्करशोकापनो दनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥