०४२

वसिष्ठ उवाच ॥
अथानरण्यस्य कन्या सिषेवे भक्तितो मुनिम् ॥
कर्मणा मनसा वाचा लक्ष्मीर्नारायणं यथा ॥ १ ॥
एकदा स्वर्णदीं स्नातुं गच्छन्तीं सस्मितां सतीम् ॥
ददर्श पथि धर्मश्च मायया नृपलिङ्गकः ॥ २ ॥
चारुरत्नरथस्थश्च रत्नालङ्कारभूषितः ॥
नवीनयौवनश्रीमान्कामदेवसमप्रभः ॥३॥
दृष्ट्वा तां सुन्दरीं रम्यामुवाच मायया विभुः ॥
विज्ञातुमन्तस्तत्त्वं च तस्याश्च मुनियोषितः ॥ ४ ॥
धर्म उवाच ॥
अयि सुन्दरि लक्ष्मीव राजयोग्ये मनोहरे ॥
अतीव यौवनस्थे च कामिनि स्थिरयौवने॥५॥
जरातुरस्य वृद्धस्य समीपे त्वं न राजसे ॥
चन्दनागुरुसंलिप्ता राजसे राजवक्षसि॥६॥
विप्रं तपःसु निरतं सत्यज्ञं मरणोन्मुखम्॥
विहाय पश्य राजेन्द्रं रतिशूरं स्मरातुरम् ॥७॥
प्राप्नोति सुन्दरं पुण्यात्सौन्दर्यं पूर्वजन्मतः ॥
सफलं तद्भवेत्सर्वं रसिकालिङ्गनेन च ॥ ८ ॥
सहस्रसुन्दरीकान्तं कामशास्त्र विशारदम् ॥
किङ्करं कुरु मां कान्ते परित्यक्ष्यामि ता अपि ॥९॥
निर्जले निर्जने रम्ये शैलेशैले नदेनदे ॥
पुष्पोद्याने पुष्पिते च सुगन्धिपुष्पवायुना ॥4.42.१०॥
मलये चन्दनारण्ये चारुचन्दनवायुना ॥
विहरिष्यामि कामेन कामिन्या च त्वया सह॥११॥
कामज्वरेण दग्धायाः शान्तिं कर्तुमहं क्षमः ॥
विहरस्व मया सार्द्धं जन्मेदं सफलं कुरु ॥१२॥
इत्येवमुक्तवन्तं तं स्वरथादवरुह्य च ॥
ग्रहीतुमुत्सुकं हस्तं तमुवाच पतिव्रता ॥ १३ ॥
पद्मोवाच ॥
दूरं गच्छ गच्छ दूरं पापिष्ठ भूमिपाधम ॥
मां चेत्पश्यसि कामेन सद्यो भस्म भविष्यसि ॥ १४ ॥
पिप्पलादं मुनिश्रेष्ठं तपसा पूतविग्रहम्॥
विहाय त्वां भजिष्यामि स्त्रीजितं रतिलम्पटम् ॥१५॥
स्त्रीजितस्पर्शमात्रेण सर्वपुण्यं प्रणश्यति ॥
न भूमौ पातकी पापात्पापिनां स्त्रीजितात्परः ॥ १६ ॥
मां मातरं च स्त्रीभावं कृत्वा येन ब्रवीषि च ॥
भविष्यति क्षयस्तेन कालेन मम शापतः ॥ १७ ॥
श्रुत्वा धर्मः सतीशापं नृपमूर्तिं विहाय च ॥
धृत्वा स्वमूर्तिं देवेशः कम्पमान उवाच ताम् ॥ १८ ॥
धर्म उवाच ॥
मातर्जानीहि मां धर्मं धर्मज्ञानां गुरोर्गुरुम् ॥
परस्त्रीमातृबुद्धिं च कुर्वन्तं सन्ततं सति ॥ १९ ॥
अहं तवान्तर्विज्ञातुमागतस्तव सन्निधिम् ॥
युष्माकं च मनो जाने तथापि दैवबोधितः ॥ 4.42.२० ॥
कृतं मे दमनं साध्वि न विरुद्धं यथोचितम् ॥
शास्तिः समुत्पथस्थानामीश्वरेण विनिर्मिता ॥ २१ ॥
धर्मं स्वधर्मं विज्ञातुं कालं कलयितुं क्षमः ॥
विधातारं संविधातुं तस्मै कृष्णाय ते नमः ॥२२॥
संहर्तुं यः क्षमः काले संहर्तारं भवं विभुः ॥
स्रष्टारं लीलया स्रष्टुं तस्मै कृष्णाय ते नमः ॥ २३ ॥
शत्रुं विधातुं मित्रं च सुप्रीतिं कलहं क्षमः ॥
स्रष्टुं नष्टम् तदेवं च तस्मै कृष्णाय ते नमः ॥ २४ ॥
शापं प्रदातुं सर्वाश्च सुखदुःखवरान्क्षमः ॥
सम्पदं विपदं यो हि तस्मै कृष्णाय ते नमः ॥ २५ ॥
प्रकृतिर्निर्मिता येन महाविष्णुश्च निर्मितः ॥
ब्रह्मविष्णुमहेशाद्यास्तस्मै कृष्णाय ते नमः ॥ २६ ॥
येन शुक्लीकृतं क्षीरं जलं शीतं कृतं पुरा ॥
दाहीकृतो हुताशश्च तस्मै कृष्णाय ते नमः ॥ २७ ॥
अतितेजः समुत्थाय तेजोरूपाय मूर्त्तये ॥
गुणश्रेष्ठनिर्गुणाय तस्मै कृष्णाय ते नमः ॥२८॥
सर्वस्मै सर्वबीजाय सर्वेषामन्तरात्मने॥
सर्वबन्धुस्वरूपाय तस्मै कृष्णाय ते नमः ॥ २९ ॥
इत्युक्त्वा पुरतस्तस्यास्तस्थौ धर्मो जगद्गुरुः ॥
सा साध्वी तं च विज्ञाय सहसोवाच पर्वत ॥ 4.42.३० ॥
पद्मोवाच ॥
त्वमेव धर्मः सर्वेषां साक्षी च सर्वकर्मणाम् ॥
सर्वान्तरेषु सर्वात्मा सर्वज्ञः सर्वतत्त्ववित् ॥ ३१ ॥
कथं मनो मे विज्ञातुं विडम्बयसि किङ्करीम् ॥
यत्कृतं त्वत्कृते ब्रह्मन्नपराधो बभूव मे ॥३२॥
त्वं च शप्तो मयाऽज्ञानात्स्त्रीस्वभावात्क्रुधा विभो ॥
का व्यवस्था भवेत्तस्य चिन्तयामीति साम्प्रतम् ॥ ३३ ॥
आकाशोऽसौ दिशः सर्वा यदि नश्यन्ति वायवः ॥
तथापि साध्वीशापस्तु न नश्यति कदाचन ॥ ३४ ॥
त्वं च नष्टो भवसि चेत्सृष्टिनाशो भवेत्तदा ॥
इति कर्तव्यतामूढा तथापि त्वां वदाम्यहम् ॥ ३५ ॥
सत्ये पूर्णश्चतुष्पादैः पौर्णमास्यां यथा शशी ॥
विराजसे देवराज सर्वकालं दिवानिशम् ॥ ३६ ॥
पादक्षयश्च त्रेतायां भगवन्भविता तव ॥
पादौ परौ द्वापरे च तृतीयश्च कलौ विभो ॥ ३७ ॥
कलिशेषे शेषपादस्तवाच्छन्नो भविष्यति ॥
पुनः सत्ये समायाते परिपूर्णो भविष्यसि ॥ ३८ ॥
सत्ये सर्वव्यापकस्त्वं तदन्येषु च कुत्रचित् ॥
यत्र स्थानं तवाधारो वदामि श्रूयतां विभो ॥३९ ॥
वैष्णवेषु च सर्वेषु यतिषु ब्रह्मचारिषु ॥
पतिव्रतासु प्राज्ञेषु वानप्रस्थेषु भिक्षुषु ॥ 4.42.४० ॥
नृपेषु धर्मशीलेषु सत्सु सद्वैश्यजातिषु ॥
द्विजसेविषु शूद्रेषु सत्संसर्गस्थितेषु च ॥ ४१॥
एषु त्वं सततं पूर्णो धर्मराज विराजसे ॥
युगेयुगे तदाधारा यत्र पुण्यतमा जनाः ॥ ४२ ॥
अश्वत्थवटबिल्वेषु तुलसीचन्दनेषु च ॥
दीक्षापरीक्षाशपथगोष्ठगोष्पदभूमिषु ॥४३॥
विवाहेषु च पुष्पेषु विद्यमानोऽसि शाखिषु ॥
देवालयेषु तीर्थेषु सतां शश्वद्गृहेषु च ॥ ४४ ॥
वेदवेदाङ्गश्रवणे जलेषु च सभासु च ।
श्रीकृष्णगुणनामोक्त श्रुतिगीतस्थलेषु च ॥ ४५ ॥
व्रतपूजातपोन्याययज्ञसाक्षिस्थलेषु च ॥
गवां गृहेषु गोष्वेव विद्यमानो हि पश्यसि ॥ ४६ ॥
कृशता तेन भविता धर्म तेषु स्थलेषु च ॥
एतदन्येषु कृशता यदगम्यं च तच्छृणु ॥ ४७ ॥
पुंश्चलीषु च सर्वासु गृहेषु नरघातिनाम् ॥
नरघातिषु नीचेषु मूर्खेषु च खलेषु च ॥ ४८ ॥
देवतागुरुविप्रेष्टपाल्यानां धनहारिषु ॥
असन्नरेषु धूर्तेषु चौरेषु रतिभूमिषु ॥४९॥
दुरोदरसुरापानकलहानां स्थलेषु च ॥
शालग्रामसाधुतीर्थपुराणरहितेषु च ॥ 4.42.५० ॥
दस्युस्नेहेषु वादेषु तालच्छायासु गर्विषु॥
असिजीविमषीजीविदेवलग्रामयाजिषु ॥५१॥
वृषवाहस्वर्णकारजीवहिंसोपजीविषु ॥
भर्तृनिन्दितनारीषु स्त्रीजितेषु च पुंसु च ॥ ५२ ॥
दीक्षासन्ध्याविष्णुभक्तिविहीनेषु द्विजेषु च ॥
स्वाङ्गकन्याविक्रयिषु स्वयोषिद्विक्रयेष्वथ ॥ ५३ ॥
शालग्रामसुरग्रन्थभूमिविक्रयिषु प्रभो ॥
मित्रदोहिकृतघ्नेषु सत्यविश्वासघातिषु ॥ ५४ ॥
शरणागतदीनेषु चाश्रितघ्नेषु नृष्वपि ॥
शश्वन्मिथ्योक्तिशीलेषु तथा सीमापहारिषु ॥ ५५ ॥
कामात्क्रोधात्तथा लोभान्मिथ्यासाक्षिप्रवादिषु ॥
पुण्यकर्मविहीनेषु पुण्यकर्मविरोधिषु ॥ ५६ ॥
स्थातुमेतेषु निन्द्येषु नाधिकारस्तव प्रभो ॥
ममापि वचनं सत्यं बभूव तत्क्षणं तव ॥ ५७ ॥
यास्यामि पतिसेवायै गच्छ तात स्वमन्दिरम् ॥
इत्येवंवादिनीं साध्वीमुवाच विधिनन्दनः ॥
प्रसन्नवदनः श्रीमानतीव विनयं वचः ॥ ५८ ॥
धर्म उवाच ॥
धन्याऽसि पतिभक्ताऽसि स्वस्ति तेऽस्तु च सन्ततम् ॥ ५९ ॥
वरं गृहाण दास्यामि मत्परित्राणकारिणि ॥
युवा भवतु भर्ता ते रतिशूरश्च कन्यके ॥ ॥ 4.42.६० ॥
रूपवान्गुणवान्साध्वि सन्ततं स्थिरयौवनः ॥
परमैश्वर्यसंयुक्ता त्वं भव स्थिरयौवना ॥ ६१ ॥
चिरजीवी भवतु स मार्कण्डेयात्परः सुते ॥
कुबेराद्धनवांश्चैव शक्रादैश्वर्यवानपि ॥ ६२ ॥
विष्णुभक्तः शिवसमः सिद्धस्तु कपिलात्परः ॥
स्वामिसौभाग्यसंयुक्ता भव त्वं जीवनावधि ॥ ६३ ॥
गृहा भवन्तु ते साध्वि कुबेरभवनाधिकाः ॥
माता त्वं दशपुत्राणां गुणिनां चिरजीविनाम् ॥ ॥ ६४ ॥
स्वभर्तुरधिकानां च भविष्यसि न संशयः ॥
इत्येवमुक्त्वा सन्तस्थौ धर्मराजश्च पर्वत ॥६९॥
सा तं प्रदक्षिणीकृत्य प्रणम्य स्वगृहं ययौ ॥
धर्मस्तामाशिषं युक्त्वा जगाम निजमन्दिरम् ॥ ६६ ॥
पतिव्रतां प्रशशंस प्रतिसंसदि संसदि ॥
सा रेमे स्वामिना सार्द्धं यूना रहसि सन्ततम् ॥ ६७ ॥
पश्चाद्बभूव सत्पुत्रा तद्भर्तुरधिका गुणैः ॥
शैलेन्द्र कथितं सर्वमितिहासं पुरातनम् ॥ ६८ ॥
दत्त्वाऽनरण्यः स्वसुतां ररक्ष सर्वसम्पदम् ॥
त्वमेव कन्यकां दत्त्वा सर्वेषामीश्वराय च ॥६९॥
रक्ष सर्वबन्धुवर्गानात्मनः सर्वसम्पदम् ॥
सप्ताहे समतीते च दुर्लभेऽतिशुभे क्षणे ॥4.42.७०॥
लग्नाधिपे च लग्नस्थे चन्द्रे स्वतनयान्विते ॥
मोदते रोहिणीयुक्ते विशुद्धे चन्द्रतारके ॥ ७१ ॥
मार्गशीर्षे चन्द्रवारे सर्वदोषविवर्जिते ॥
सर्वसद्ग्रहसन्दृष्टे ह्यसद्ग्रहविवर्जिते ॥ ७२ ॥
सदपत्यप्रदेऽतीव पतिसौभाग्यदायिनि ॥
अवैधव्यप्रदे सौख्यप्रदे जन्मनि जन्मनि ॥ ७३ ॥
अत्यन्तप्रेमाविच्छेदप्रदायिनि परात्परे ॥
कन्यां प्रदाय देवाय त्वं कृती भव पर्वत ॥ ७४ ॥
जगदम्बां जगत्पित्रे मूलप्रकृतिमीश्वरीम् ॥
तेजःस्वरूपां सर्वेषां देवानां देवपूजिताम् ॥ ७९ ॥
आविर्भूता पुरा कल्पे देवानां रक्षणाय च ॥
तेजोराशिः सुरौघाणां प्रज्वलन्तो दिशो दश ॥ ७६ ॥
अस्याः स्वतेजसा दैत्याः केचिद्दग्धाः पलायिताः ॥
केचिद्बभूवुः शैलेन्द्र भस्मीभूताश्च भूतले ॥ ७७ ॥
बिलं प्रविविशुः केचिन्मूर्च्छां प्रापुश्च केचन ॥
केचिद्दन्ते तृणं कृत्वा जग्मुः शरणमीश्वरीम् ॥ ७८ ॥
केचिच्चिक्षिपुरस्त्राणि स्तम्भिता अपि केचन ॥
केचिच्चिरं रणं कृत्वा ययुः स्वर्गमनामयम् ॥ ७९ ॥
निःशत्रवो बभूवुस्ते सुरा अस्याः प्रसादतः ॥
कृष्णाज्ञया सा कल्पान्ते दक्षकन्या बभूव ह ॥ 4.42.८० ॥
दक्षश्च विधिवद्देवीं प्रददौ शूलपाणये ॥
दैवेन मत्पितुर्यज्ञे सहसा सुरसंसदि ॥ ८१ ॥
बभूव कलहः शैल तेन शूलभृता महान् ॥
ब्रह्माणं च नमस्कृत्य ययौ रुष्टस्त्रिलोचनः ॥ ८२ ॥
दक्षश्च सगणो रुष्टः प्रययौ स्वालयं तदा ॥
कोपात्सम्भृतसम्भारो दक्षो यज्ञं चकार ह ॥ ८३ ॥
न ददौ यज्ञभागं च मात्सर्याच्छूलपाणये ॥
दृष्ट्वा सती प्रकुपिता जनकं रक्तलोचना ॥ ८४ ॥
निर्भर्त्स्य च बहुतरं हृदयेन विदूयता ॥
यज्ञस्थानात्समुत्थाय जगाम मातुरन्तिकम् ॥ ८५ ॥
भविष्यं कथयामास त्रिकालज्ञा परात्परा ॥
यज्ञभङ्गादिकं वाऽपि स्वपितुश्च पराभवम् ॥ ८६ ॥
पलायनं च देवानां यज्ञस्थानाद्गिरीश्वरम् ॥
मुनीनामृत्विजां चैव पर्वतानां तथैव च ॥ ८७ ॥
जयं शङ्करसैन्यानां स्वात्मनो मृत्युमेव च ॥
शोकात्पर्यटनं भर्तुर्विरहातुरचेतसा ॥ ८८ ॥
निर्माणं नेत्ररसः प्रबोधं च जनार्दनात् ॥
मूर्तिभेदात्पुनः प्राप्तिं विहारं तस्य तत्समम् ॥८९॥
अपरं भवितव्यं च सर्वमुक्त्वा जगाम सा ॥
स्वमात्रा भगिनीभिश्च प्रतिषिद्धा च दुःखिता ॥ 4.42.९० ॥
बभूवादर्शना योगात्सर्वासां सिद्धियोगिनी ॥
गत्वा सा जाह्नवीतीरं स्मृत्वा सम्पूज्य शङ्करम् ॥ ९१ ॥
स्मृत्वा तच्चरणाम्भोजं देहं तत्याज सुन्दरी ॥
गन्धमादनद्रोणीस्थं शरीरं प्रविवेश ह ॥ ९२ ॥
सञ्जहार पुरा येन दैत्यानामखिलं कुलम् ॥
हाहाकारं प्रचक्रुश्च सुराः सर्वेऽतिविस्मिताः ॥ ९३ ॥
जग्मुः शङ्करसेनाश्च देशयज्ञं विनश्य च ॥
पराभवं च सर्वेषां कृत्वा शोकातुराः पराः ॥ ९४ ॥
सत्वरं सर्ववृत्तान्तं कथयामासुरीश्वरम् ॥
श्रुत्वा प्रवृत्तिं संहर्ता सर्वरुद्रगणैर्वृतः ॥
जगाम स्वर्णदीतीरं यत्र देवीकलेवरम् ॥ ९५ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे सतीदेहत्यागो नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥