०४१

श्रीकृष्ण उवाच ॥
तदा देवाः समालोच्य जग्मुस्ते ब्रह्मणोऽन्तिकम् ॥
सर्वे निवेदनं चक्रुर्ब्रह्माणं जगतां पतिम् ॥ १ ॥
देवा ऊचुः ॥ ॥
तव सृष्टौ जगत्स्रष्टा रत्नाधारो हिमालयः ॥
स चेत्प्राप्स्यति मोक्षं च रत्नगर्भा कुतो मही ॥ २ ॥
सुतां शूलभृते दत्त्वा भक्त्या शैलेश्वरः स्वयम् ॥
नारायणस्य सारूप्यं सम्प्राप्स्यति न संशयः ॥ ३ ॥
त्वं तस्य निन्दनं कृत्वा विमतिं प्रतिपादय ॥
त्वया विना क्षमो नान्यो गच्छ शैलगृहे प्रभो ॥ ४ ॥
देवानां वचनं श्रुत्वा तानुवाच विधिः स्वयम् ॥
वचनं नीतिसारं च कर्णपीयूषमुत्तमम् ॥ ५ ॥ ॥
॥ ब्रह्मोवाच ॥
नाहं कर्तुं क्षमो वत्साः शिवनिन्दां सुदुष्कराम् ॥
सम्पद्विनाशरूपां च विपदो बीजरूपिणीम् ॥ ६ ॥
भूतेशं प्रस्थापयत स्वात्मनिन्दां करोति सः ॥
परनिन्दा विनाशाय स्वनिन्दा यशसे परम् ॥७॥
ब्रह्मणो वचनं श्रुत्वा तं प्रणम्य सुराः प्रिये॥
शीघ्रं ययुस्ते कैलासं गत्वा च तुष्टुवुः शिवम् ॥ ८ ॥
सर्वे निवेदनं चक्रुः शङ्करं करुणालयम् ॥
स ययौ शैलमूलं च तानाश्वास्य प्रहस्य च ॥ ९ ॥
देवा मुमुदिरे सर्वे शीघ्रं गत्वा स्वमन्दिरम् ॥
इष्टसिद्धिर्मुदे शश्वदसिद्धिर्दुःखवर्धिनी ॥ 4.41.१० ॥
अथ शैलः सभामध्ये समुवास मुदाऽन्वितः ॥
बन्धुवर्गैः परिवृतः पार्वतीसहितः स्वयम् ॥११॥
एतस्मिन्नन्तरे तत्र विप्ररूपी शिवः स्वयम् ॥
समाजगाम सहसा प्रसन्नवदनेक्षणः ॥ १२ ॥
दण्डी छत्री दीर्घवासा बिभ्रत्तिलकमुत्तमम् ॥
करे स्फटिकमालां च शालग्रामं गले दधत् ॥ १३ ॥
तं च दृष्ट्वा समुत्तस्थौ सगणश्च हिमालयः ॥
ननाम दण्डवद्भूमौ भक्त्याऽतिथिमपूर्वकम् ॥१४॥
ननाम पार्वती भक्त्या प्राणेशं विप्ररूपिणम् ॥
आशिषं युयुजे विप्रः सर्वेषां प्रीतिपूर्वकम् ॥ १५ ॥
शैलदत्तासने शीघ्रमुवास ब्राह्मणः स्वयम् ॥
मधुपर्कादिकं सर्वं जग्राह प्रीतिपूर्वकम् ॥ १६ ॥
पप्रच्छ कुशलं शैलो ब्राह्मणं को भवानिति ॥
उवाच सर्वं विप्रेन्द्रो गिरीन्द्रं सादरेण च ॥ १७ ॥
॥ ब्राह्मण उवाच ॥
घाटिकां वृत्तिमाश्रित्य भ्रमामि धरणीतले ॥
मनोयायी सर्वगामी सर्वज्ञोऽहं गुरोर्वरात् ॥ १८ ॥
मया ज्ञातं शङ्कराय सुतां दातुं त्वमिच्छसि ॥
इमां पद्मासमां दिव्यामज्ञातकुलशीलिने ॥ १९ ॥
निराश्रयायासङ्गयारूपाय निर्गुणाय च॥
श्मशानगामिने सर्वभूतनाथाय योगिने ॥ 4.41.२० ॥
दिग्वाससेऽहिगात्राय विभूतिभूषणाय च ॥
व्यालग्राहिस्वरूपाय कालव्यापादनाय च॥२१॥
अज्ञातमृत्यवेऽज्ञायानाथायाबन्धवे भवे॥
तप्तस्वर्णजटाभारधारिणे निर्धनाय च ॥ २२ ॥
अज्ञातवयसेऽतीव वृद्धाय चाविकारिणे॥
सर्वाश्रयाय भ्रमिणे नागहाराय भिक्षवे ॥ २३ ॥
निबोध ज्ञानिनां श्रेष्ठं नारायणं कुलोद्भवम् ॥
स ते पात्रानुरूपश्च पार्वतीदातृकर्मणि ॥ २४ ॥
महाजनः स्मेरमुखः श्रुतिमात्राद्भविष्यति ॥
लक्षशैलाधिपस्त्वं च न तस्यैकोऽस्ति बान्धवः ॥ २५ ॥
बान्धवान्मेनकां प्रश्नं कुरु शीघ्रं प्रयत्नतः॥
सर्वान्पृच्छ च यत्नेन हे बन्धो पार्वतीं विना ॥ २६ ॥
रोगिणे नौषधं शश्वत्कुपथ्यं रोचते सदा ॥
इत्युक्त्वा ब्राह्मणः शीघ्रं स्नात्वा भुक्त्वा मुदाऽन्वितः ॥२७ ॥
जगाम स्वालयं शान्तो वृन्दावनविनोदिनि ॥
ब्राह्मणस्य वचः श्रुत्वा मेनोवाच हिमालयम् ॥
शोकेन साश्रुनयना हृदयेन विदूयता ॥ २८ ॥
मेनकोवाच ॥
शृणु शैलेन्द्र मद्वाक्यं परिणामसुखावहम् ॥ २९ ॥
पृच्छ शैलवरानस्मै न दास्यामि सुतामहम् ॥
त्यक्ष्यामि सर्वान्विषयान्भक्ष्यामि विषमेव च ॥ 4.41.३० ॥
गले बद्ध्वाऽम्बिकां पश्य यास्यामि घोरकाननम् ॥
गृहीत्वा पार्वतीं मेना गत्वा कोपालयं रुषा ॥३१॥
त्यक्त्वाऽऽहारं रुदन्ती च चकार शयनं भुवि॥
एतस्मिन्नन्तरे तत्र वसिष्ठो भ्रातृभिः सह ॥ ३२ ॥
आजगाम पुनस्तैश्च युक्ता पश्चादरुन्धती ॥
प्रणम्य शैलस्तान्सर्वान्स्वर्णसिंहासनं ददौ ॥ ३३ ॥
दत्त्वा षोडशोपचारान्पूजयामास भक्तितः ॥
ऋषयश्च सभामध्ये सुखमूषुः सुखासने ॥ ३४ ॥
जगामारुन्धती तूर्णं यत्र मेना च पार्वती॥
गत्वा ददर्श मेनां च शयानां शोकमूर्च्छिताम् ॥ ३५ ॥
उवाच मधुरं साध्वी सावधानां हितं वचः ॥
अरुन्धत्युवाच ॥
उत्तिष्ठ मेनके साध्वि त्वद्गृहेऽहमरुन्धती ॥ ३६ ॥
पितॄणां मानसी कन्या मां जानीहि विधेर्वधूम् ॥
अरुन्धत्याः स्वरं श्रुत्वा शीघ्रमुत्थाय मेनका ॥
उवाच शिरसा नत्वा तां पद्मामिव तेजसा ॥ ३७ ॥
मेनकोवाच ॥
अहोऽद्य किमिदं पुण्यमस्माकं पुण्यजन्मनाम् ॥ ३८ ॥
वधूर्जगद्विधेः पत्नी वसिष्ठस्य ममालये ॥
सम्भ्रमेणेदमेवोक्ते गृहं तेऽहं च किङ्करी ॥ ॥ ३९ ॥
ईश्वरी जगतां स्रष्टुरागता बहुपुण्यतः ॥
पाद्यं दत्त्वा स्वर्णपीठे वासयामास तां सतीम् ॥ 4.41.४० ॥
भोजयामास मिष्टान्नं बुभुजे कन्यया सह ॥
शिवस्य हेतोर्नीतिं च बोधयामास मेनकाम् ॥ ४१ ॥
अरुन्धती प्रसङ्गेन सम्बन्धयोजनानि च ॥
अथ शैलमृषीन्द्राश्च नीतिसारं परं वचः ॥
बोधयामासुः सम्बन्धयोजनानि प्रसङ्गतः ॥ ४२ ॥
ऋषय ऊचुः ॥
शैलेन्द्र श्रूयतां वाक्यमस्माकं शुभकारकम् ॥ ४३ ॥
शिवाय पार्वतीं देहि संहर्तुः श्वशुरो भव ॥
अयाचितारं देवेशं बोधयाशु प्रयत्नतः ॥ ४४ ॥
तव शङ्काविनाशाय ब्रह्मसम्बन्धकर्मणि ॥
नेच्छको दारसंयोगे शङ्करो योगिनां वरः ॥ ४५ ॥
विधेः प्रार्थनया देव तव कन्यां ग्रहीष्यति॥
दुहितुस्ते तपस्यान्ते प्रतिज्ञानं चकार सः ॥ ४६ ॥
हेतुद्वयेन योगीन्द्रो विवाहं च करिष्यति ॥
ऋषीणां वचनं श्रुत्वा प्रहस्य च हिमालयः ॥
उवाच किञ्चिद्भीतश्च परं विनयपूर्वकम् ॥ ४७ ॥
हिमालय उवाच ॥
शिवस्य राजसामग्रीं न हि पश्यामि काञ्चन ॥
किञ्चिदाश्रममैश्वर्यं किं वा स्वजनबान्धवम् ॥ ४८ ॥
न कन्यामतिनिर्लिप्तयोगिने दातुमर्हति ॥
यूयं विधातुः पुत्राश्च सत्यं वदत निश्चितम् ॥ ४९ ॥
नानुरूपाय पुत्राय पिता कन्या ददाति चेत् ॥
कालाल्लोभाद्भयान्मोहाच्छताब्दं नरकं व्रजेत् ॥ 4.41.५० ॥
न हि दास्याम्यहं कन्यामिच्छया शूलपाणिने ॥
यद्विधानं भवेद्योग्यमृषयस्तद्विधीयताम् ॥ ५१ ॥
हिमालयवचः श्रुत्वा वसिष्ठो विधिनन्दनः ॥
वेदवेदाङ्गविज्ञाता वेदोक्तं वक्तुमुद्यतः ॥ ५२ ॥
वसिष्ठ उवाच ॥
वचनं विविधं शैल लौकिके वैदिके तथा ॥
सर्वं जानाति शास्त्रज्ञो निर्मलज्ञानचक्षुषा ॥ ५३ ॥
असत्यमहितं पश्चात्साम्प्रतं श्रुतिसुन्दरम् ॥
सुबुद्धं शत्रुर्वदति न हितं च कदाचन ॥ ५४ ॥
आपातप्रीतिजनकं परिणामसुखावहम् ॥
दयालुर्धर्मशीलश्च बोधयत्येव बान्धवम् ॥ ॥ ५५ ॥
श्रुतिमात्रात्सुधातुल्यं सर्वकाले सुखावहम् ॥
सत्यसारं हितकरं वचसां श्रेष्ठमीप्सितम् ॥ ५६ ॥
एवं च त्रिविधं शैल नीतिशास्त्रनिरूपितम् ॥
कथ्यतां त्रिषु मध्ये किं वदामि वाक्यमीप्सितम् ॥५७॥
बाह्यसम्पद्विहीनश्च शङ्करस्त्रिदशेश्वरः ॥
तत्त्वज्ञानसमुद्रेषु सन्निमग्नैकमानसः ॥५८ ॥
आपातभ्रमसम्पत्तिर्विद्युच्छ्रीरिव नाशिनी ॥
सदानन्दस्येश्वरस्य स्वात्मारामस्य का स्पृहा ॥ ५९ ॥
गृही ददाति स्वसुतां राज्यसम्पत्तिशालिने ॥
कन्यां विद्वेषिणे दत्त्वा कन्याघाती भवेत्पिता ॥ 4.41.६० ॥
को वदेच्छङ्करो दुःखी कुबेरो यस्य किङ्करः॥
भ्रूभङ्गलीलया सृष्टिं स्रष्टुं नष्टुं क्षमो हि यः॥६१॥
निर्गुणः परमात्मा च य ईशः प्रकृतेः परः ॥
सर्वेशः स च निर्लिप्तो लिप्तश्च सर्वजन्तुषु ॥ ६२ ॥
स एकः सृष्टिसंहारे स सर्वः सृष्टिकर्मणि ॥
निराकारश्च साकारो विभुः स्वेच्छामयः स्वयम् ॥ ६३ ॥
य ईशस्त्रिविधां मूर्तिं विधत्ते सृष्टिकर्मणि ॥
सृष्टिस्थित्यन्तजननीं ब्रह्मविष्णुशिवाभिधाम्॥६४॥
ब्रह्मा च ब्रह्मलोकस्थो विष्णुः क्षीरोदवासकृत् ॥
शिवः कैलासवासी च सर्वाः कृष्णविभूतयः ॥ ६५ ॥
श्रीकृष्णश्च द्विधाभूतो द्विभुजश्च चतुर्भुजः ॥
चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम् ॥६६ ॥
तस्य देवस्य तेंऽशाश्च ब्रह्मविष्णुमहेश्वराः ॥
केचिद्देवाः कलास्तस्य कलांशाश्चैव केचन ॥ ६७ ॥
कृष्णः सृष्ट्युन्मुखश्चापि प्रकृतिं तत्र निर्ममे ॥
निर्माय तां च तद्योनौ वीर्याधानं चकार ह ॥६८॥
ततो डिम्भः समुद्भूतस्तन्मध्ये च महाविराट् ॥
महाविष्णुः स विज्ञेयो श्रीकृष्णषोडशांशकः ॥ ६९ ॥
नाभिपद्मोद्भवो ब्रह्मा तस्यैव जलशायिनः ॥
भालोद्भवस्तस्य स्रष्टुः शङ्करश्चन्द्रशेखरः ॥ 4.41.७० ॥
महाविष्णुर्वामपार्श्वात्सम्भूतो विष्णुरेव च ॥
सर्वे प्राकृतिकाः शैल ब्रह्मविष्णुशिवादयः ॥ ७१ ॥
धत्ते चतुर्विधां मूर्तिं प्रकृतिः कृष्णसम्भवा ॥
अंशेन लीलया सृष्ट्यै कलया बहुधा तया ॥७२॥
कृष्णवामाङ्गसम्भूता राधा रासेश्वरी स्वयम् ॥
मुखोद्भवा स्वयं वाणी रागाधिष्ठातृदेवता ॥ ७३ ॥
वक्षःस्थलोद्भवा लक्ष्मीः सर्वसम्पत्स्वरूपिणी ॥
शिवा तेजःसु देवानामाविर्भावं चकार सा ॥ ७४ ॥
निहत्य दानवान्सर्वान्देवेभ्यश्च श्रियं ददौ ॥
प्राप्य कल्पान्तरे जन्म जठरे दक्षयोषितः ॥ ७९ ॥
नाम्ना सती शिवं प्राप दक्षस्तस्मै ददौ च ताम् ॥
योगेन देहं तत्याज श्रुत्वा सा भर्तृनिन्दनम्॥७६॥
पितॄणां मानसी कन्या मेनका तव गेहिनी ॥
ललाभ तस्या जठरे जन्म सा जगदम्बिका ॥ ७७ ॥
शिवा शिवस्य पत्नीयं शैल जन्मनिजन्मनि ॥
कल्पे कल्पे बुद्धिरूपा ज्ञानिनां जननी परा ॥७८॥।
जतिस्मरा च सर्वज्ञा सिद्धिदा सिद्धिरूपिणी ॥
अस्या अस्थिचिताभस्म भक्त्या धत्ते शिवः स्वयम॥७९॥
देहि त्वं स्वेच्छया कन्यां देहि भद्र शिवाय च ॥
अथवा सा स्वयं कान्तस्थानं यास्यति द्रक्ष्यति ॥4.41.८०॥
प्राक्तनाद्यस्य या कान्ता सा तं प्राप्नोति वल्लभम् ॥
प्रजापतेर्निबन्धं च न कोऽपि खण्डितुं क्षमः ॥८१॥
विवाहे नोत्सुकः शम्भुः स्वात्मारामश्च तत्त्ववित् ॥
तुष्टुवुस्तं सुराः सर्वे तारकाख्येन पीडिताः ॥ ८२ ॥
देवानां पीडनं दृष्ट्वा ब्रह्मणा प्रार्थितो विभुः ॥
कृपया स्वीचकाराशु कृपालुर्देवसंसदि ॥ ८३ ॥
कृत्वा प्रतिज्ञां योगीन्द्रो दृष्ट्वा क्लेशमसङ्ख्यकम् ॥
दुहितुस्ते तपःस्थानमाजगाम द्विजात्मकः ॥ ८४ ॥
तामाश्वास्य वरं दत्त्वा जगाम निजमन्दिरम् ॥
तच्छ्रुत्वैवाययुः सर्वे सुराः शक्रादयो मुदा ॥ ८५ ॥
नारायणश्च भगवान्ब्रह्मा धर्मश्च साम्प्रतम् ॥
ऋषयो मुनयः सर्वे गन्धर्वा यक्षराक्षसाः ॥ ८६ ॥
तत्र सर्वे मुदा युक्तैः समालोचनकर्तृभिः ॥
प्रस्थापिता वयं शीघ्रमनृणा सा अरुन्धती॥ ८७ ॥
तव प्रबोधने प्रीतिर्वर्द्धते महती सदा ॥
सम्प्राप्तं शुभकार्यं च सर्वकालसुखावहम् ॥ ८८ ॥
शिवां शिवाय शैलेन्द्र स्वेच्छया चेन्न दास्यसि ॥ ।
भविता वा विवाहश्च भवितव्यबलेन च ॥ ८९ ॥
आगमिष्यति देवो यो नारायणसहायवान् ॥
रत्नसाररथे कृत्वा देवानां प्रवरं वरम् ॥ 4.41.९० ॥
योगीन्द्राणां वरेण्यं तं ज्ञानिनां च गुरोर्गुरुम् ॥
आदिमध्यान्तरहितमविकारमजं परम् ॥ ९१ ॥
वरं ददौ शिवायै स शिवश्च तपसः स्थले ॥
न हीश्वरप्रतिज्ञातं दुर्लभं विफलं भवेत् ॥ ९२ ॥
ब्रह्मादिस्तम्बपर्यतं सर्वं नश्वरमस्थिरम् ॥
अहो प्रतिज्ञा दुर्लङ्घ्या साधूनामविनाशिनी ॥ ९३ ॥
एको महेन्द्रः शैलानां पक्षांश्चिच्छेद लीलया ॥
पवनो लीलया मेरोः शृङ्गभङ्गं चकार ह ॥ ॥ ९४ ॥
के वा शैलेषु योद्धारः सुरैः सह हिमालय ॥
पतिष्यन्ति समुद्रेषु पवनैः प्रेरिताः क्षणात् ॥ ९५ ॥
एकार्थे यदि शैलेन्द्र सर्वसम्पद्विनश्यति ॥
सर्वान्रक्षति तद्दत्त्वा विना च शरणागतम् ॥ ९६ ॥
शरणागतरक्षार्थं प्राणांश्च दातुमर्हति ॥
पुत्रदारधनं सर्वानिति नीतिविदो विदुः ॥ ९७ ॥
दत्त्वा विप्राय स्वसुतामनरण्यो नृपेश्वर ॥
ब्रह्मशापाद्विमुक्तश्च ररक्ष सर्वसम्पदम् ॥ ९८ ॥
तमाशु बोधयामासुर्नीतिशास्त्रविदो जनाः ॥
ब्रह्मशापनिमग्नं च ब्रह्मण्यमतिकातरम् ॥ ९९ ॥
त्वमेव शैलराजेन्द्र सुतां दत्त्वा शिवाय च ॥
रक्ष सर्वान्बन्धुवर्गान्वशे कुरु सुरानपि ॥ 4.41.१०० ॥
वसिष्ठस्य वचः श्रुत्वा प्रहस्य पर्वतेश्वरः ॥
पप्रच्छ नृपवृत्तान्तं हृदयेन विदूयता ॥ १०१ ॥
हिमालय उवाच ॥
कस्य वंशोद्भवो ब्रह्मन्ननरण्यो नृपेश्वरः ॥
सुतां दत्त्वा स च कथमरक्षत्सर्वसम्पदम् ॥ १०२ ॥
वसिष्ठ उवाच ॥
मनुवंशोद्भवो राजा सोऽनरण्यो नृपेश्वरः ॥
चिंरजीवी धर्मशीलो वैष्णवो विजितेन्द्रियः ॥ १०३ ॥
स्वायम्भुवो मनुः पूर्वं ब्रह्मपुत्रोऽतिधार्मिकः ॥
राज्यं चकार धर्मेण युगानामेकसप्ततिम् ॥ १०४ ॥
ततो जगाम वैकुण्ठं सहितः शतरूपया ॥
सम्प्राप्य दास्यं सान्निध्यं हरेर्दासो बभूव ह ॥ १०५ ॥
मनुर्बभूव तत्पश्चात्स्वयं स्वारोचिषो महान् ॥
स्वारोचिषे गते शैल बभूव मनुरुत्तमः ॥ ६ ॥
उत्तमे निर्गते धर्मी तामसो मनुरेव च ॥
ततो मनुर्बभूवात्र रैवतो ज्ञानिनां वरः ॥ ७ ॥
चाक्षुषश्च ततो ज्ञेयः श्राद्धदेवश्च सप्तमः ॥
सावर्णिरष्टमो ज्ञेयः श्रीसूर्यतनयो महान् ॥ ८ ॥
चैत्रवंशोद्भवो राजा पुराऽऽसीत्सुरथो भुवि ॥
नवमो दक्षसावर्णिर्ब्रह्मसावर्णिको दश ॥ ९ ॥
एकादशो मनुश्रेष्ठो धर्मसावर्णिरुच्यते ॥
ततश्च रुद्रसावर्णिर्विष्णुभक्तो जितेन्द्रियः ॥ 4.41.११० ॥
तत्परो देवसावर्णिरिन्द्रसावर्णिकस्ततः ॥
इत्येवं कथिता बन्धो मनवश्च चतुर्दश ॥ ११ ॥
एतेषु समतीतेषु बभूव ब्रह्मणो दिनम्॥
इन्द्रसावर्णिवृत्तातं सर्वं मत्तो निशामय ॥ १२ ॥
मनूनां प्रवरो धर्मी शुद्धभक्तो गदाभृतः ॥
चकार राज्यं धर्मेण युगानामेकसप्ततिम् ॥ १३ ॥
राज्यं दत्त्वा सुरेन्द्राय जगाम तपसे वनम्॥
सुरद्रेंस्य सुतः श्रीमाञ्छ्रीनिकेतुर्महाबलः ॥१४॥
तस्य पुत्रो महायोगी पुरीषतरुरेव च ॥
तस्य पुत्रोऽतितेजस्वी गोकामुख इति स्मृतः ॥ १५ ॥
वृद्धश्रवाः सुतस्तस्य तत्पुत्रो भानुरेव च ॥
पुण्डरीकः सुतस्तस्य तत्पुत्रो जिह्वलस्तथा ॥ ॥ १६ ॥
जिह्वलस्य सुतः शृङ्गी तत्पुत्रो भीम एव च ॥
तत्पुत्रोऽपि यशश्चन्द्रो यशसा च शशी जितः ॥ १७ ॥
तत्कीर्तिं निर्मलां सन्तो गायन्ति सन्ततं सुराः ॥
तस्य पुत्रो वरेण्यश्च पुरारण्यश्च तत्सुतः ॥१८॥
तत्पुत्रो धार्मिकः श्रीमान्धरारण्यश्च एव च ॥
तत्पुत्रो मङ्गलारण्यस्तपस्वी ज्ञानिनां वरः ॥ १९ ॥
अपुत्रको नृपश्रेष्ठस्तपसे पुष्करं गतः ॥
सुचिरं च तपस्तप्त्वा वरं लब्ध्वा महेश्वरात् ॥ ॥ 4.41.१२० ॥
सम्प्राप्य वैष्णवं पुत्रमनरण्यं जितेन्द्रियम् ॥
दत्त्वा तस्मै च राज्यं च जगाम तपसे वनम् ॥ २१ ॥
अनरण्यो नृपश्रेष्ठः सप्तद्वीपमहीपतिः ॥
चकार यज्ञशतकं भृगुणा च पुरोधसा॥२२॥
तुच्छं मत्वाशु शक्रत्वं न लेभे नश्वरं सुधीः ॥
लीलया च जितः शक्रो लीलया च जितो बलिः ॥२३॥
जिताश्च दानवेन्द्रा वै ज्वलता स्वेन तेजसा ॥
बभूवुः शतपुत्राश्च राज्ञस्तस्य हिमालय ॥२४॥
कन्यैका सुन्दरी रम्या पद्मा पद्मालयासमा॥
सा कन्या यौवनस्था च बभूव पितृमन्दिरे॥२५॥
चारं प्रस्थापयमास वराय नृपतीश्वरः ॥
एकदा पिप्पलादश्च गन्तुं स्वाश्रममुत्सुकः॥२६॥
तपःस्थाने निर्जने च गन्धर्वं स ददर्श ह ॥
स्त्रीषु निर्मग्नचित्तं च शृङ्गाररससागरे ॥२७॥
कामादतीव मत्तं च न जानन्तं दिवानिशम्॥
दृष्ट्वा तं मुनिशार्दूलः सकामश्च बभूव ह॥२८॥
ततः सुभग्नचित्तः सञ्चिन्तयन्दारसङ्ग्रहम् ॥
एकदा पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः ॥२९॥
ददर्श पद्मां युवती पद्मामिव मनोरमाम् ॥
केयं कस्येति पप्रच्छ समीपस्थाञ्जनान्मुनिः ॥ 4.41.१३० ॥
जना निवेदनं चक्रुः पद्माऽनरण्यकन्यका ॥
मुनिः स्नात्वाऽभीष्टदेवं सम्पूज्य राधिकेश्वरम् ॥ ३१ ॥
जगाम कामी भिक्षार्थमनरण्यसभाजिरे ॥
राजा शीघ्रं मुनिं दृष्ट्वा प्रणनाम भयाकुलः ॥ ३२ ॥
मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ॥
कामात्सर्वं गृहीत्वा च ययाचे कन्यकां मुनिः ॥ ३३ ॥
मौनी बभूव नृपतिः किञ्चिन्निर्वक्तुमक्षमः ॥
मुनिः पुनर्ययाचे तं कन्या देहीति मे नृप ॥ ३४ ॥
अथवा भस्मसात्सर्वं करिष्यामि क्षणेन च ॥
सर्वे बभूवुराच्छन्ना गणाश्च तेजसा मुनेः ॥ ३५॥
रुरोद राजा सगणो दृष्ट्वा वृद्धं जरातुरम् ॥
महिष्यो रुरुदुः सर्वा इति कर्त्तव्यमक्षमाः ॥३६॥
मूर्च्छां प्राप महाराज्ञी कन्यामाता शुचाकुला ॥
पण्डितो नीतिशास्त्रज्ञो बोधयामास भूमिपम् ॥ ३७ ॥
महिषीं च नृपसुतान्कन्यकानीतिमुत्तमाम् ॥
अद्य वापि दिनान्ते वा दातव्या कन्यका नृप ॥ ३८ ॥
पराय विप्रादन्यस्मै कस्मै वा दातुमर्हसि ॥
सत्पात्रं ब्राह्मणादन्यं न पश्यामि जगत्त्रये ॥ ३९ ॥
सुतां दत्त्वा च मुनये रक्षस्व सर्वसम्पदम् ॥
राजकन्यानिमित्तेन सर्वसम्पत्प्रणश्यति ॥ 4.41.१४० ॥
सर्वं रक्षति तत्त्यक्त्वा विना तं शरणागतम् ॥
राजा प्राज्ञवचः श्रुत्वा विलप्य च मुहुर्मुहुः ॥४१॥
कन्यां सालङ्कृतां कृत्वा मुनीन्द्राय ददौ किल ॥
कान्तां गृहीत्वा स मुनिर्मुदितः स्वालयं ययौ ॥४२॥
राजा सर्वान्परित्यज्य जगाम तपसे शुचा ॥
भर्तुश्च दुहितुः शोकात्प्राणांस्तत्याज सुन्दरी॥४३॥
पुत्राः पौत्राश्च भृत्याश्च मूर्च्छां प्रापुर्नृपं विना ॥
अनरण्यस्तपस्तप्त्वा चिन्तयन्राधिकेश्वरम्॥४४॥
गोलोकनाथं संसेव्य गोलोकं च जगाम ह ॥
बभूव कीर्तिमान्राजा ज्येष्ठपुत्रो नृपस्य च ॥
पुत्रवत्पालयामास प्रजाः सर्वा महीतले ॥१४५॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे राधाकृष्णसंवादे एकचत्वारिंशोऽध्यायः ॥ ४१ ॥