०४०

श्रीराधिकोवाच ॥
अहो विचित्रं चरितमपूर्वं किं श्रुतं विभो ॥
सुन्दरं श्रुतिपीयूषं निगूढं ज्ञानकारणम् ॥ १ ॥
न विशेषं समासं च श्रुतं न व्यासमीप्सितम् ॥
अधुना श्रोतुमिच्छामि विस्तीर्णं कथय प्रभो ॥ २ ॥
किं किं तपः कठोरं च चकार पार्वती स्वयम् ॥
कं कं वरं वा सम्प्राप्य कथमाप महेश्वरम् ॥३॥
रतिः केन प्रकारेण जीवयामास मन्मथम् ॥
पार्वतीशिवयोः कृष्ण विवाहं वर्णय प्रभो ॥ ४ ॥
तयो रहसि सम्भोगं पापिनां पापमोचनम् ॥
कथ्यतां करुणासिन्धो दुःखिनां दुःखमोचनम्॥५॥
दम्पतीविरहोक्तिश्च कर्णज्वाला च योषितः ॥
श्रोतुं कौतूहलं कृष्ण पुनः सम्मेलनं तयोः ॥ ६ ॥
अग्निज्वाला विषज्वाला क्षमा सोढुं च योषितः ॥
दम्पतीविरहज्वाला न श्रोतुं च क्षणं क्षमा ॥७ ॥
राधिकावचनं श्रुत्वा विस्मितश्चकिताननः ॥
विस्तीर्णं वक्तुमारेभे हृदयेन विदूयता ॥ ८ ॥
दम्पतीविरहोक्तिं च यां राधा श्रोतुमक्षमा ॥
विच्छेदे शतवर्षीये किमस्या भविता मम ॥ ९ ॥
इत्येवं मानसे कृत्वा मायेशो माययाऽन्वितः ॥
कृपासिन्धुश्च कृपया कथां कथितुमुद्यतः ॥ 4.40.१० ॥
श्रीकृष्ण उवाच ॥
प्राणाधिके राधिके त्वं श्रूयतां प्राणवल्लभे ॥
प्राणाधिदेवि प्राणेशि प्राणाधारे मनोहरे ॥११॥
वटमूलाद्गते रुद्रे पार्वती तपसे ययौ ॥
पुनः पुनः स्वमात्रा च पित्रा च विनिवारिता॥१२॥
गत्वा सा स्वर्णदीतीरं स्नात्वा त्रिषवणं मुदा ॥
सन्देशे च मया दत्तं जजाप तं मनुं मुदा॥१३॥
वर्षमेकं च सम्पूर्णमनाहारा स्वभक्तितः॥
तप्त्वा तपः कठोरं च चकार जगदम्बिका ॥ १४ ॥
ग्रीष्मे च परितो वह्निं प्रज्वलन्तं दिवानिशम्॥ ॥
कृत्वा प्रतस्थौ तन्मध्ये सन्ततं जपती मनुम्॥१५॥
शश्वत्स्मशाने वर्षासु कृत्वा योगासनं शिवा॥
शिलां दृष्ट्वा च संसिक्ता बभूव जलधारया ॥१६॥
शीते जलान्तरे शश्वत्प्रतस्थौ भक्तिपूर्वकम् ॥
अनाहारा शरद्रौद्रनीहारासु दिशासु च॥१७॥
एवं कृत्वा परं वर्षमप्राप्य शङ्करं सती॥
शुचा कृत्वाऽग्निकुण्डं च प्रवेष्टुं सा समुद्यता॥१८॥
तामग्निकुण्डं विशतीं तपसाऽतिकृशां सतीम्॥
दृष्ट्वा शिवः कृपासिन्धुः कृपया तां जगाम ह ॥१९॥
अतीव वामनो बालो विप्ररूपी स्वतेजसा ॥
प्रज्वलन्मनसा हृष्टो दण्डी छत्री जटाधरः ॥ 4.40.२० ॥
शुक्लयज्ञोपवीती च शुक्लवासाश्च सस्मितः ॥
श्वेताब्जबीजमालां च बिभ्रत्तिलकमुज्ज्वलम् ॥ २१ ॥
निर्जने बालकं दृष्ट्वा स्निग्धा सापि जगाद ह ॥
तत्तेजसाऽतिप्रच्छन्ना तत्याज च तपः स्वयम् ॥२२॥
को भवानिति पप्रच्छ तं शिशुं पुरतः स्थितम् ॥
मनसाऽलिङ्गनं कर्तुमिच्छन्ती परमादरम्॥२३॥
श्रुत्वा शैलसुता प्रश्नं प्रहस्य परमेश्वरः ॥
उवाचातीव मधुरं कर्णपीयूषमीश्वरीम् ॥ २४ ॥
शङ्कर उवाच ॥
इच्छागामी बटुरहं तपस्वी विप्रबालकः ॥
का त्वं कान्ताऽतिकान्तारे तपश्चरसि सुन्दरि ॥ २५ ॥
वद कस्य कुले जाता कस्य कन्या च काऽभिधा ॥
तपसः फलदात्री त्वं कस्माद्धेतोस्तपस्तव ॥ २६ ॥
अहो वा तपसां राशिः स्वयं मूर्तिमती सती। ॥
तपो वा लोकशिक्षार्थं करोषि कमलेक्षणे ॥ २७ ॥
स्वयं तेजःस्वरूपा वा मूलप्रकृतिरीश्वरी ॥
विधाय भक्तध्यानार्थं विग्रहं भारते जनुः ॥ २८ ॥
किं वा त्रिलोके लक्ष्मीस्त्वं सम्पद्रूपा सनातनी ॥
रक्षां विधातुं जगतामागता धातुरन्तिके ॥२९॥
किं वाम्बिका त्वं देवानां स्वयं मूर्तिमती सती ॥
सावित्री भारते जन्म स्वेच्छया लब्धुमागता ॥ 4.40.३० ॥
रागाधिष्ठातृदेवी वा स्वयं साक्षात्सरस्वती ॥
सर्वविद्याः प्रकटितुं स्वेच्छया जन्म भारते॥३१॥
एतासु मध्ये का वा त्वं नाहं तर्कितुमीश्वरः ॥
या सा भवति कल्याणि परितुष्टा च मां भव ॥ ३२ ॥
सति त्वयि प्रसन्नायां प्रसन्नः परमेश्वरः ॥
पतिव्रतायां तुष्टायां तुष्टो नारायणः स्वयम् ॥ ३३ ॥
तुष्टे नारायणे देवे शश्वत्तुष्टं जगत्त्रयम् ॥
तरुमूलेषु सिक्तेषु शाखाः सिक्ता यथा प्रिये ॥ ३४ ॥
शिशोस्तद्वचनं श्रुत्वा प्रहस्य परमेश्वरी ॥
उवाच वचनं चारु कर्णपीयूषमीश्वरी ॥ ३५ ॥
पार्वत्युवाच ॥ नाहं वेदप्रसूर्लक्ष्मीर्वागधिष्ठातृदेवता ॥
जन्म मे भारते वर्षे साम्प्रतं शैलकन्यका ॥ ३६ ॥
पूर्वं जन्म दक्षगेहे सती शङ्करकामिनी ॥
योगेन त्यक्तदेहाऽहं तातभर्तृविनिन्दया ॥ ३७ ॥
अत्र जन्मनि पुण्येन सम्प्राप्ते शङ्करे द्विज ॥
मां त्यक्त्वा भस्मसात्कृत्वा मन्मथं स जगाम ह ॥ ३८ ॥
प्रयाते शङ्करे तापाद्व्रीडयाऽहं पितुर्गृहात् ॥
आगमत्तपसे चित्तं ममेदं स्वर्णदीतटे ॥ ३९ ॥
तपः कृत्वा कठोरं च सुचिरं प्राणवल्लभम् ॥
अप्राप्याग्निं प्रवेष्टुं च त्वां च दृष्ट्वा क्षणं स्थिता ॥ 4.40.४० ॥
गच्छ त्वं प्रविशाम्यग्नौ प्रलयाग्निशिखोपमे ॥
कृत्वा स्वकामनां विप्र हरप्राप्तिमनीषितम् ॥ ४१ ॥
यत्र यत्र जनुर्लब्ध्वा लभिष्यामि शिवं परम् ॥
प्राणाधिकं प्रियं कान्तं विभुं जन्मनि जन्मनि ॥४२॥
सर्वा हि स्वप्रियं लब्धुं लभन्ति जन्म वाञ्छितम् ॥
तज्जन्म पतिलाभार्थं सर्वासां च श्रुतौ श्रुतम् ॥ ४३ ॥
प्राक्तनीयो हि यो भर्ता स तासां प्रतिजन्मनि ॥
या स्त्री येषां सुनियता सा तेषां जन्मजन्मनि ॥ ४४ ॥
तद्देहमिह न प्राप्य कृत्वा घोरतरं तपः ॥
कृत्वाऽग्निकुण्डे काम्यं च लभिष्यामि परत्र तम् ॥४५॥
इत्युक्त्वा पार्वती तत्र तत्पुरः प्रविवेश ह ॥
निषिध्यमाना पुरतो ब्राह्मणेन पुनः पुनः॥४६॥
वह्निप्रवेशं कुर्वन्त्याः पार्वत्याः परमेश्वरि ॥
बभूव तपसा सद्यो वह्निश्चन्दनवद्ध्रुवम्॥ ॥ ४७ ॥
क्षणं तदन्तरे स्थित्वा चोत्पतन्तीं शिवां शिवः ॥
पुनः प्रपच्छ सहसा वृन्दावनविनोदिनि ॥४८ ॥
श्रीमहादेव उवाच ॥
अहो तपस्ते किं भद्रे न बुद्धं किञ्चिदेव हि ॥
न दग्धो वह्निना देहो न च प्राप्तो मनीषितः ॥ ४९ ॥
शिवं कल्याणरूपं च भर्तारं कर्तुमिच्छसि॥
अविग्रहं पतिं कृत्वा किं वा ते वाञ्छितं भवेत् ॥4.40.५०॥
संहर्तारं च भर्तारं यदीच्छसि शुचिस्मिते ॥
कान्तमिच्छति का वा स्त्री सर्वसंहारकारणम् ॥५१॥
मोक्षं वाञ्छसि चेद्देवि कृत्वा कान्तं स्वरूपिणम् ॥
सर्वमुक्तिप्रदा त्वं च तपस्या विफला तव॥ ॥ ५२ ॥
शिवश्च मङ्गले मोक्षे संहर्ता न च दृश्यते ॥
शिवशब्दस्य चान्योऽर्थो न हि वेदे निरूपितः ॥ ५३ ॥
तं च संहारकर्तारं यदि वाञ्छसि सुन्दरि ॥
लभिष्यसे रतं रुद्रं सर्वलोकभयङ्करम् ॥५४॥
न भविष्यति मोक्षस्ते स्वाभीष्टं देवसेवनम् ॥
हरिस्मृतिरमोघा च सर्वमङ्गलदा सदा ॥५५ ॥
शीघ्रं पितुर्गृहं गच्छ तत्र द्रक्ष्यसि शङ्करम् ॥
ममाशिषा स्वतपसां फलेन च सुदुर्लभम्॥५६॥
इत्युक्त्वा पार्वतीं विप्रस्तत्रैवान्तरधीयत ॥
दुर्गा ययौ पितुर्गेहं महादेवेति वादिनी॥५७॥
पार्वत्यागमनं श्रुत्वा मेनका च हिमालयः ॥
दिव्यं यानं पुरस्कृत्य प्रययौ हर्षविह्वलः ॥ ५८ ॥
संस्थाप्य मङ्गलघटान्राजवर्त्मनि राधिके ॥
चन्दनागुरुकस्तूरीफलशाखासमन्वितान् ॥ ५९ ॥
पट्टसूत्रसन्निबद्धरसालपल्लवान्वितैः ॥
परितः परितो रम्भास्तम्भवृन्दसमन्विते ॥ 4.40.६० ॥
पतिपुत्रवतीयोषित्समूहैर्दीपहस्तकैः ॥
पूर्णैर्लाजाधान्यदूर्वाफलपुष्पसमन्वितैः ॥६१॥
सुपुण्यैर्ब्राह्मणैश्चापि मुनिभिर्ब्रह्मचारिभिः ॥
नटीभिर्नर्तकीभिश्च गजेन्द्रैः परिशोभिते ॥ ६२ ॥
पुरोहितैश्च संयुक्तैः कुर्वद्भिर्मङ्गलध्वनिम् ॥
सुचारुमालतीमालाहस्तैः शस्तैः प्रशंसितैः ६३ ॥
नानाप्रकारवाद्यैश्च शङ्खध्वनिसुनादितैः॥
सिन्दूररेणुभिश्चारुचन्दनद्रवपङ्किलम् ॥ ६४ ॥
प्रविश्य नगरं दुर्गा ददर्श पितरौ पुरः ॥
सुप्रसन्नौ प्रधावन्तौ हर्षाश्रुपुलकान्वितौ ॥ ६५ ॥
प्रसन्नवदना देवी चालिभिः प्रणनाम तौ ॥
संयुज्याथाशिषं तौ च चक्रतुस्तां च वक्षसि ॥ ॥ ६६ ॥
हे वत्से वत्सेत्युच्चार्य रुदन्तौ प्रेमविह्वलौ॥
तदा तां च रथे कृत्वा जग्मतुर्निजमन्दिरम् ॥ ६७ ॥
स्त्रियो निर्मञ्च्छनं चक्रुर्विप्रा युयुजुराशिषम्॥
ब्राह्मणेभ्यश्च बन्दिभ्यः पर्वतेन्द्रो धनं ददौ॥६८॥
मङ्गलं कारयामास पाठयामास छान्दसम् ॥
एवं स्वकन्यया सार्द्धं तस्थतुस्तौ स्वमन्दिरे ॥ ६९ ॥
सुखेन वसतौ तौ हि हर्षनिर्भरमानसौ ॥
एकदा च तपः कर्तुं जगाम स्वर्णदीं गिरिः ॥ 4.40.७० ॥
मेनकाकन्यया सार्द्धमुवास प्राङ्गणे मुदा ॥
एतस्मिन्नन्तरे भिक्षुर्नर्तकश्च सुगायनः ॥७१॥
सहसैक आजगाम मेनकासन्निधिं मुदा ॥
शृङ्गवाद्यं वामहस्ते डमरुं दक्षिणे तथा ॥७२॥
कृत्वा विभूतिगात्रोऽतिवृद्धोऽतीव जरातुरः ॥
पृष्ठकन्थो रक्तवासाः सुकण्ठोऽतिमनोहरः ॥ ७३ ॥
जगौ मम गुणाख्यानं कृत्वा नृत्यं मनोहरम् ॥
वादयामास शृङ्गं च क्षणं डमरुकं तथा ॥ ७४ ॥
आजग्मुर्नागरा बाला बालिका हर्षविह्वलाः ॥
वृद्धा युवानो युवतीसमूहो वृद्धयोषितः ॥ ७५ ॥
श्रुत्वा तु सुन्दरं गीतं सुतानस्वरसंयुतम् ॥
सहसा मुमुहुः सर्वे तेन मूर्च्छामवाप्नुवन् ॥७६॥
मूर्छां सम्प्राप सा दुर्गा ददर्श हृदि शङ्करम् ॥
त्रिशूलपट्टिशकरं व्याघ्रचर्मधरं परम् ॥७७॥
विभूतिभूषणं रम्यमस्थिमालां सुनिर्मलाम् ॥
ईषद्धास्यप्रसन्नास्यं सुप्रसन्नं त्रिलोचनम् ॥ ७८ ॥
मालाहस्तं पञ्चवक्त्रं नागयज्ञोपवीतकम्॥
वरं वृण्वित्युक्तवन्तं सुन्दरं चन्द्रशेखरम्॥७९॥
हृदयस्थं हरं दृष्ट्वा मनसा तं ननाम सा ॥
वरं वव्रे मानसे सा त्वं पतिर्मे भवेति च ॥ 4.40.८० ॥
एवं दत्त्वा शिवस्तस्य चान्तर्धानं चकार सः ॥
न दृष्ट्वा हृदि तं दुर्गा सम्प्राप्य चेतनां पुनः ॥ ८१ ॥
ददर्श चक्षुरुन्मील्य भिक्षुकं गायकं पुरः ॥
नृत्यसङ्गीततः सा तु भिक्षुकस्य च मेनका ॥८२॥
दातुं ययौ सा रत्नानि स्वर्णपात्रस्थितानि च ॥
भिक्षां ययाचे भिक्षुस्तां दुर्गां नान्यां गृहीतवान् ॥ ८३ ॥
पुनश्च नर्तनं कर्तुमुद्यतः कौतुकेन च ॥
मेना तद्वचनं श्रुत्वा चुकोप विस्मयं ययौ ॥ ८४ ॥
भिक्षुकं भर्त्सयामास बहिः कर्तुमुवाच तम् ॥
पत्नी त्रिलोकनाथस्य शिवस्य परमात्मनः ॥ ८५ ॥
याञ्चामिमां प्रकुर्वन्तं दूरं कुरु सुभाषिणम्॥
एतस्मिन्नन्तरे तप्त्वा गिरिः स्वालयमाययौ॥८६॥
ददर्श पुरतो भिक्षुं प्राङ्गणस्थं मनोहरम्॥
कृत्वा नारायणार्चां च गङ्गातीरे मनोहरे ॥८७॥
तन्मूर्तिध्यानविश्लेषशोकादुद्विग्नमानसः ॥
श्रुत्वा मेनामुखाद्वार्तां जहास च चुकोप सः ॥८८॥
आज्ञां चकार स्वचरं बहिः कर्तुं च भिक्षुकम् ॥
आकाशामिव दुःस्पर्शं प्रज्वलन्तं स्वतेजसा ॥।८९॥
न शशाक बहिः कर्तुं समीपं गन्तुमक्षमः॥
ददर्श भिक्षुकं शैलः क्षणं चारुचतुर्भुजम्॥4.40.९०॥
किरीटिनं कुण्डलिनं पीताम्बरधरं परम्॥
सुवेषं सुन्दरश्याममीषद्धास्यं मनोहरम् ॥ ९१ ॥
चन्दनोक्षितसर्वाङ्गं भक्तानुग्रहकातरम् ॥
यद्यत्पुष्पं प्रदत्तं च पूजाकाले गदाभृते ॥ ९२ ॥
गात्रे शिरसि तत्सर्वं भिक्षुकस्य ददर्श ह ॥
धूपः प्रदीपो यो दत्तो नैवेद्यं वा मनोहरम् ॥ ९३ ॥
ददर्श शैलस्तत्सर्वं भिक्षुकस्य पुरः स्थितम्॥
क्षणं ददर्श द्विभुजं विनोदमुरलीकरम् ॥ ९४ ॥
गोपवेषं किशोरं च सस्मितं श्यामसुन्दरम् ॥
मयूरपिच्छचूडं च रत्नालङ्कारभूषितम् ॥ ॥ ९५ ॥
चन्दनोक्षितसर्वाङ्गं वनमालाविभूषितम् ॥
क्षणं ददर्श स्वच्छं च शङ्करं चन्द्रशेखरम्॥ ९६ ॥
त्रिशूलपट्टिशकरं व्याघ्रचर्माम्बरं परम् ॥
विभूतिगात्रममलमस्थिमालाविभूषितम् ॥ ९७ ॥
नागयज्ञोपवीतं च तप्तस्वर्णजटाधरम् ॥
डमरुशृङ्गहस्तं च सुप्रशस्तं मनोहरम् ॥ ९८ ॥
प्रजपन्तं हरेर्नाम श्वेताब्जबीजमालया ॥
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकातरम् ॥ ९९ ॥
स्वतेजसा प्रज्वलन्तं पञ्चवक्त्रं त्रिलोचनम् ॥
क्षणं ददर्श जगतां स्रष्टारं च चतुर्मुखम् ॥ 4.40.१०० ॥
जपन्तं श्रीहरेर्नाम स्वच्छस्फटिकमालया ॥
क्षणं सूर्य स्वरूपं च ददर्श त्रिगुणात्मकम् ॥ १ ॥
ददर्श तमतीव्रं तु ज्वलन्तं ब्रह्मतेजसा ॥
क्षणमग्निस्वरूपं च ज्वलन्तमतितेजसा ॥ २ ॥
क्षणमाह्लादजनकं चन्द्ररूपं ददर्श ह ॥
क्षणं तेजःस्वरूपं च निराकारं निरञ्जनम् ॥ ३ ॥
निर्लिप्तं च निरीहं च परमात्मस्वरूपिणम् ॥
एवं स्वेच्छामयं दृष्ट्वा नानारूपधरं परम् ॥ ४ ॥
हर्षाश्रुपुलकः शैलो दण्डवत्प्रणनाम तम् ॥
भक्त्या प्रदक्षिणीकृत्य प्रणम्य च पुनः पुनः ॥ ५ ॥
समुत्पत्य हर्षयुक्तो ददर्श पुनरेव तम्॥
वास्तवं भिक्षुकं दृष्ट्वा शैलेन्द्रो विष्णुमायया ॥ ६ ॥
विसस्मार च तत्सर्वं नानारूपधरं परम् ॥
भिक्षां ययाचे भिक्षुस्तं भिक्षास्थालीस्वपार्श्वकम् ॥ ७ ॥
रक्ताम्बरः शृङ्गवाद्यविचित्रडमरुः करे ॥
आदातुमुत्सुको दुर्गां नान्यां भिक्षुः कदाचन ॥ ८ ॥
न स्वीचकार शैलेन्द्रो मोहितो विष्णुमायया ॥
भिक्षुः किञ्चिन्न जग्राह तत्रैवान्तरधीयत ॥ ९ ॥
तदा बभूव ज्ञानं च मेनकाशैलयोः प्रिये ॥
अहो दृष्टो जगन्नाथ आवाभ्यां स्वप्नवद्दिने ॥ 4.40.११० ॥
आवां शिवौ वञ्चयित्वा स्वस्थानं गतवान्विभुः ॥
तयोर्भक्तिं शिवे दृष्ट्वा सर्वे देवाश्च चिन्तिताः ॥ ११ ॥
चक्रुः शक्रादयो युक्तिं सुमेरो रक्षणे भरात् ॥
एकान्तभक्त्या शैलश्चेत्कन्यां तस्मै प्रदास्यति ॥ १२ ॥
ध्रुवं निर्वाणतां सद्यः सम्प्राप्नोत्येव भारते ॥
अनन्तरत्नाधारश्चेत्पृथ्वी त्यक्त्वा प्रयास्यति ॥ १३ ॥
रत्नगर्भाभिधा भूमेर्मिथ्यैव भविता ध्रुवम् ॥
स्थावरत्वं परित्यज्य दिव्यरूपं विधाय सः ॥ १४ ॥
कन्यां शूलभृते दत्त्वा विष्णुलोकं गमिष्यति ॥
नारायणस्य सारूप्यं भविष्यत्येव लीलया ॥ १५ ॥
सम्प्राप्य पार्षदत्वं च हरिदासो भविष्यति ॥
दशवापीसमा कन्या दीयते ब्राह्मणाय ताम्॥ १६ ॥
वेदज्ञाय पवित्राय चाप्रतिग्रहशालिने ॥
सन्ध्यायज्ञवेदपाठकारिणे सत्यवादिने ॥ १७॥
अस्यै प्रदत्ता कन्या च दशवापीफलप्रदा ॥
त्रिसन्ध्याकारिणे सत्यवादिने गृहशालिने ॥ १८ ॥
वेदज्ञाय सुविप्राय दत्त्वा सुफलदायिनी ॥
परदारगृहीताय याजकाय द्विजातये ॥ १९ ॥
शठाय सन्ध्याहीनाय वाप्यैकफलदा सुता ॥
सर्वसन्ध्यास्वगायत्रीविहीनाय शठाय च ॥ 4.40.१२० ॥
वैश्योद्भवाय दत्ता या वाप्यर्द्धफलदा स्मृता ॥
पापिने शूद्रजाताय विप्रक्षत्रोद्भवाय च ॥२१॥
दत्त्वा चाण्डालतुल्याय कन्या सा नरकप्रदा ॥
विष्णुभक्ताय विदुषे विप्राय सत्यवादिने ॥ २२ ॥
जितेन्द्रियाय दत्ता या विंशद्वापीफलप्रदा ॥
षष्टि वर्षसहस्राणि दिव्यरूपं विधाय च ॥ २३ ॥
एवम्भूताय दत्ता चेन्मोदते विष्णुमन्दिरे ॥
दत्त्वा कन्यां सुशीलां च हराय हरयेऽथ वा ॥ २४ ॥
नारायणस्वरूपं च भवेदेव श्रुतौ श्रुतम् ॥
विष्णुभक्तो यदा कन्यां ददाति विष्णुप्रीतये ॥ २५ ॥
स लभेद्धरिदास्यं च ध्रुवं विप्रोद्भवाय च ॥
इत्यालोच्य सुराः सर्वे कृत्वा च मन्त्रणां प्रिये ॥ २६ ॥
गुरुं प्रस्थापितुं जग्मुर्हिमालयगृहं प्रति ॥
गत्वा प्रणम्य च गुरुं सर्वे चक्रुर्निवेदनम् ॥ २७ ॥
हिमालयगृहं गत्वा कुरु निन्दां च शूलिनः ॥
पिनाकिनं विना दुर्गा वरं नान्यं वरिष्यति ॥ २८ ॥
अनिच्छया सुतां दत्त्वा फलं तूर्णं लभिष्यति ॥
कालेन यातु शैलेन्द्रश्चेदानीं भुवि तिष्ठतु ॥ २९ ॥
अनन्तरत्नाधारं च त्वमेव रक्ष भारते ॥
देवानां वचनं श्रुत्वा प्रददौ कर्णयोः करौ ॥4.40.१३०॥
न स्वीचकार स्वगुरुः स्मरन्नारायणेति च ॥
उवाच देववर्गांश्च सम्भर्त्स्य च पुनः पुनः ॥ ३१ ॥
वेदवेदान्तविज्ञाता महाभक्तो हरौ हरे ॥
बृहस्पतिरुवाच ॥
श्रूयतां मद्वचः सत्यं हे देवाः स्वार्थसाधकाः ॥ ३२ ॥
नीतिसारं च वेदोक्तं परिणामसुखावहम् ॥
हरकेशवयोर्भक्तं ये च निन्दन्ति पापिनः ॥ ३३ ॥
भूदेवान्ब्राह्मणांश्चैव स्वगुरुं च पतिव्रताः॥
पतिभिक्षुब्रह्मचारिसृष्टिबीजान्सुरांस्तथा ॥ ३४॥
पच्यन्ते कालसूत्रे ते यावच्चन्द्रदिवाकरौ ॥
श्लेष्ममूत्रपुरीषेषु शेरते ते दिवानिशम् ॥३५॥
भक्षिताः कीटनिकरैः शब्दं कुर्वन्ति कातराः ॥
ये निन्दन्ति च ब्रह्माणं स्रष्टारं जगतां गुरुम् ॥३६॥
शिवं सुराणां प्रवरं दुर्गां लक्ष्मीं सरस्वतीम् ॥
गीतां च तुलसीं गङ्गां वेदांश्च वेदमातरम् ॥ ३७ ॥
व्रतं तपस्यां पूजां च मन्त्रं मन्त्रप्रदं गुरुम्॥
ते पच्यन्तेऽन्धकूपे वै चायुषोऽर्धं विधेरहो॥३८॥
भक्षिताः सर्पसङ्घैश्च शब्दं कुर्वन्ति सन्ततम् ॥
ये निन्दन्ति हृषीकेशं देवसाम्यं विधाय च ॥ ३९ ॥
विष्णुभक्तिप्रदं चैव पुराणं च श्रुतेः परम् ॥
राधा तदङ्गजा गोपी ब्राह्मणांश्च सदार्चितान् ॥ 4.40.१४० ॥
ते पच्यन्तेऽवटे देवा विधातुरायुषा समम् ॥
अधोमुखा ऊर्ध्वजङ्घाः सर्पसङ्घैश्च वेष्टिताः ॥ ४१ ॥
भक्षिता विकृताकारैः कीटैः सर्पसमाकृतैः ॥
अतीव कातरा भीताः शब्दं कुर्वन्ति सन्ततम् ॥४२॥
श्लेष्ममूत्रपुरीषाणि ध्रुवं भक्षन्ति क्षोभिताः ॥
उल्कां ददति रुष्टाश्च तन्मुखे यमकिङ्कराः ॥ ४३ ॥
त्रिसन्ध्यं तर्जनं कृत्वा कुर्वन्ति दण्डताडनम् ॥
कुर्वन्ति मूत्रपानं च प्रहारैस्तृषितान्भिया॥४४॥
तदा कल्पान्तरे स्रष्टुं सृष्टिं च प्रथमे पुनः ॥
तेषां भवेत्प्रतीकार इत्याह कमलोद्भवः ॥ ४५ ॥
कृत्वा हि शिवनिन्दां च यास्यन्ति नरकं सुराः ॥
इममेवोपकारं च कर्तुमिच्छथ पुत्रकाः ॥ ४६ ॥
ब्रह्मणा प्रेरितो दक्षो दत्त्वा शूलभृते सुताम् ॥
न पापं परमैश्वर्यं सम्प्राप हरनिन्दकः ॥ ४७ ॥
अनिच्छया सुतां दत्त्वा तुर्यपुण्यं ललाभ सः ॥
अहो विहाय सारूप्यं तुच्छं स्वर्गं ललाभ सः ॥ ४८ ॥
कश्चिन्मध्ये च युष्माकं गत्वा शैलगृहं सुराः ॥
सम्पादयतु स्वमतं शैलेन्द्रस्य प्रयत्नतः ॥ ४९ ॥
अनिच्छया सुतां दत्त्वा सुखं तिष्ठतु भारते ॥
तस्मै भक्त्या सुतां दत्त्वा मोक्षं प्राप्स्यति निश्चितम् ॥ 4.40.१५० ॥
पश्चात्सप्तर्षयः सर्वे गृहीत्वा तामरुन्धतीम् ॥
ध्रुवं तस्य गृहं गत्वा बोधयिष्यन्ति पर्वतम् ॥ ५१ ॥
विना पिनाकिनं दुर्गा वरं नान्यं वरिष्यति ॥
अनिच्छया सुतां तस्मै प्रदास्यति सुताज्ञया ॥ ५२ ॥
इत्येवं कथितं सर्वं देवा गच्छन्तु मन्दिरम् ॥
इत्युक्त्वा वाक्पतिः शीघ्रं तपसे स्वर्णदीं गतः ॥ १५३ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे चत्वारिंशोऽध्यायः ॥ ४० ॥