॥ श्रीकृष्ण उवाच ॥
इति स्तुत्वा हिमगिरिर्वसतः शङ्करस्य च ॥
उवास पुरतो दूरे लब्धाज्ञः सर्वसम्मतः ॥ १ ॥
मधुपर्कादिकं तस्मै प्रददौ भक्तिपूर्वकम् ॥
मुनीन्सम्पूजयामास ततः शङ्करपार्षदान् ॥ २ ॥
तदा तत्र समागत्य मेनका स्त्रीगणैः सह ॥
ददर्श वटमूलस्थं शङ्करं चन्द्रशेखरम् ॥ ३ ॥
ईषद्धास्यप्रसन्नास्यं वसन्तं व्याघ्रचर्मणि ॥
मध्ये मुनिगणानां च ज्वलन्तं ब्रह्मतेजसा ॥४॥
यथाऽऽकाशे तारकाणां द्विजराजं विराजितम् ॥
परमाह्लादकं रूपं कन्दर्पकोटिसन्निभम् ॥५॥
विहाय वार्द्धकावस्थां दधतं नवयौवनम् ॥
अतीव सुन्दरं रम्यं चित्तचोरं च योषिताम् ॥ ६ ॥
कामं कामातुराणां च सतीनां च सुतं यथा ॥
वैष्णवानां महाविष्णुं शैवानां च सदाशिवम् ॥ ७ ॥
शक्तिस्वरूपं शाक्तानां सौराणां सूर्यरूपिणम् ॥
कालस्वरूपं दुष्टानां शिष्टानां परिपालकम्॥८॥
कालकालसमं मृत्योर्मृत्युमृत्यु भयानकम् ॥
व्याघ्रचर्म चारुवस्त्रं बभूव भस्म चन्दनम्॥९॥
सर्पाः सुन्दरमाल्यानि कस्तूरी या विषप्रभा ॥
जटासु ललिता चूडा चन्द्रस्त्वलिकचन्दनम् ॥ 4.39.१० ॥
सुचार्वी मालतीमाला गङ्गाधारा मनोहरा ॥
अस्थिमाला रत्नमाला धत्तूरं चारुचम्पकम् ॥११॥
एकीभूतं पञ्चवक्त्रं नेत्रयुग्माब्जशोभितम् ॥
शरत्पार्वणचन्द्राभं प्रच्छाद्य दीप्तमुत्तमम्॥ १२ ॥
बन्धुजीवविनिन्द्यैकमोष्ठाधरमनोहरम् ॥
श्वेतश्चन्द्रो वृषेन्द्रश्च भूताद्या नर्तका इव ॥१३॥
सद्यो व्यतिक्रमं सर्वं महेशस्य महेश्वरि ॥
दृष्ट्वैवं शिवरूपं च मेना तुष्टा बभूव ह ॥१४॥
काश्चिन्निमेषरहिताः कामेन पुलकाञ्चिताः ॥
अतिकामातुराः सत्यः प्रापुर्मूर्च्छां च काश्चन ॥ ॥ १९ ॥
काश्चिद्विनिन्द्य कान्तांश्च प्रशशंसुर्महेश्वरम् ॥
मनोरथेन मनसा समाश्लिष्यन्ति काश्चन ॥ १६ ॥
काचिन्मानसिकं कामात्कुर्वन्ती चुम्बनं मुदा ॥
ध्रुवं कामं करिष्यामो वयं च कामसागरे ॥ १७ ॥
अस्माकमेव भर्ता चेत्परत्रैव यशो भवेत् ॥
इहैवं किं करिष्यामो वयं कान्तैरतैरलम् ॥ १८ ॥
दृष्ट्वा तमेवं सुचिरमिति जल्पन्ति काश्चन ॥
काश्चिद्दृष्ट्वा शिवं किञ्चिन्मुखमाच्छाद्य वाससा ॥ १९ ॥
सस्मिता वक्रनयनाः पश्यन्त्येव पुनःपुनः ॥
वयं गृहं न यास्यामो यास्यामः शिवसन्निधिम् ॥ 4.39.२० ॥
शरत्सुधांशुवदनं द्रक्ष्यामोऽहर्निशं मुदा ॥
संसारं न करिष्यामः प्रविशामो हुताशनम् ॥२१ ॥
भविता नः शिवः स्वामीत्येवं जल्पन्ति काश्चन ॥
अहो पुण्यवती दुर्गा श्लाघ्यते जन्म भारते ॥ २२ ॥
यस्या अयं शिवः स्वामीत्येवं जल्पन्ति काश्चन ॥
मुदा मेना शिवं दृष्ट्वा गृहं ताभिर्जगाम ह ॥ २३ ॥
शिवं सम्पूज्य शैलेन्द्रः प्रणम्य स्वगृहं ययौ ॥
कृत्वाऽनुमानं रहसि गिरीशो मेनया सह ॥ २४ ॥
दुर्गां प्रस्थापयामास शिवाय शिवसन्निधिम् ॥
पार्वती सखिभिः सार्द्धं वेषं कृत्वा मनोहरम् ॥ २५ ॥
भावानुरक्ता हर्षेण जगाम शिवसन्निधिम् ॥
दृष्ट्वा शिवा शिवं शान्तं प्रसन्नवदनेक्षणम् ॥ २६ ॥
सप्तप्रदक्षिणं कृत्वा सस्मिता प्रणनाम सा ॥
अनन्यभावं गुणिनमपरं ज्ञानिनां वरम् ॥ २७ ॥
सुन्दरं लभ भर्तारं सुन्दरीत्याशिषं ददौ ॥
भविता तव सौभाग्यं शुभे स्वामिनि सन्ततम् ॥ २८॥
पुत्रस्ते भविता साध्वि नारायणसमो गुणैः ॥
भविता ते परा पूजा त्रैलोक्ये जगदम्बिके ॥२९॥
ब्रह्माण्डेषु च सर्वेषु सर्वेषां च परा भव ॥
सप्तप्रदक्षिणाः कृत्वा यतो भक्त्या त्वया नतम् ॥4.39.३०॥
सप्तजन्मनि तुष्टोऽहं तत्फलं लभ सुन्दरि ॥
तीर्थे कान्तेऽभीष्टदेवे गुरौ मन्त्रे तथौषधे ॥ ३१ ॥
आस्था च यादृशी यासां सिद्धिस्तासां च तादृशी ॥
इत्युक्त्वा शङ्करस्तूर्णं ब्रह्मज्योतिः परं च माम् ॥ ३२ ॥
दध्यौ योगासनं कृत्वा योगीशो व्याघ्रचर्मणि ॥
प्रक्षाल्य चरणौ देवी पपौ तच्चरणोदकम् ॥ ३३ ॥
चकार मार्जनं भक्त्या वह्निशौचेन वाससा ॥
रत्नसिंहासनं रम्यं विश्वकर्मादिनिर्मितम् ॥३४॥
अपूर्वं कांस्यपात्रस्थं नैवेद्यं प्रददौ किल ॥
अर्घ्यं मन्दाकिनीतोय संयुक्तं चरणे ददौ ॥३५॥
सुगन्धिचन्दनं चारु कस्तूरीकुङ्कुमान्वितम् ॥
प्रददौ मालतीमालां गले गरलसुन्दरे ॥३६॥
भक्त्या पूजां चकाराथ पुष्पवृष्टिं च तुष्टये ॥
पीयूषं स्वर्णपात्रस्थं प्रददौ मधुरं मधु ॥ ३७ ॥
रत्नप्रदीपशतकं समन्ताद्धूपमुत्तमम् ॥
त्रैलोक्यदुर्लभं वस्त्रं स्वर्णयज्ञोपवीतकम् ॥ ३८ ॥
सुगन्धिशीततोयं च पानार्थं पार्वती ददौ ॥
अतीव सुन्दरं रम्यं रत्नसारेन्द्रभूषणम्॥३९॥
दुर्लभां कामधेनुं च स्वर्णशृङ्गसमन्विताम् ॥
स्नानीयं तीर्थतोयं च ताम्बूलं च मनोहरम् ॥ 4.39.४० ॥
दत्त्वा षोडशोपचारं प्रणनाम पुनः पुनः ॥
सम्पूज्य शूलिनं भक्त्या ययौ नित्यं पितुर्गृहम् ॥४१॥
शुश्रावाप्सरसां वक्त्राद्देवीमिन्द्रो महेश्वरः ॥
श्रुत्वा वार्तां शुनासीरो ननर्त हर्षसंयुतः ॥ ४२ ॥
दूतद्वारा कामदेवमानिनाय त्वरान्वितः ॥
इन्द्राज्ञया कामदेवः प्रजगामामरावतीम् ॥ ४३ ॥
तूर्णं प्रस्थापयामास तं च यत्र शिवः शिवा ॥
पञ्चसायकसंयुक्तो जगाम पञ्चसायकः ॥४४॥
प्रसन्नवदनः श्रीमान्यत्र शक्तियुतः शिवः॥
गत्वा ददर्श मदनः शिवायुक्तं शिवं विभुम्॥४५॥
शान्तं त्रैलोक्यकान्तं च प्रसन्नवदनेक्षणम्॥
कामः स्थितोऽन्तरिक्षे च धृत्वा च सशरं धनुः ॥ ४६ ॥
चिक्षेपास्त्रं दुर्निवार्यममोघं शङ्करे मुदा ॥
बभूवामोघमस्त्रं च मोघं तत्परमात्मनि॥४७॥
आकाश इव निर्लिप्ते निर्लिप्ते परमात्मनि ॥
मोघीभूते च शस्त्रे च भयमाप च मन्मथः ॥ ४८ ॥
चकम्पे पुरतः स्थित्वा दृष्ट्वा मृत्युञ्जयं विभुम् ॥
सस्मार त्रिदशान्कामः शक्रादीन्भयविह्वलः ॥।४९॥।
आययुर्देवताः सर्वाः शम्भुकोपेन वेपिताः॥
चक्रुः स्तुतिं च स्तोत्रेण शङ्करं त्रिदशेश्वरम् ॥4.39.५०.॥
कोपाग्निमुद्गिरन्तं तं कपाललोचनादहो ॥
स्तुतिं कुर्वत्सु देवेषु स वह्निः शम्भुसम्भवः॥५१॥
जज्वालोर्ध्वशिखो दीप्तः प्रलयाग्निशिखोपमः ॥
उत्पत्य गगने घूर्णन्निपत्य धरणीतले ॥
भ्रामम्भ्रामं च परितः पपात मदनोपरि ॥ ५२ ॥
बभूव भस्मसात्कामः क्षणेन हरकोपतः॥
विषण्णा देवताः सर्वा नतवक्त्रा च पार्वती ॥५३॥
विललाप बहुतरं हरस्य पुरतो रतिः ॥
तुष्टुवुर्देवताः सर्वाः कम्पिताश्चन्द्रशेखरम् ॥ ५४ ॥
रतिमूचुः सुराः सर्वे रुरुदुश्च मुहुर्मुहुः ॥
किञ्चिद्भस्म गृहीत्वा च रक्ष मातर्भयं त्यज ॥५५॥
वयं तं जीवयिष्यामो लभिष्यसि प्रियं पुनः ॥
हरकोपापनयने सुप्रसन्ने दिने तथा ॥५६॥
दृष्ट्वा रतेर्विलापं च मूर्च्छां सम्प्राप पार्वती ॥
अतीन्द्रियं गुणातीतं तुष्टाव चन्द्रशेखरम्॥५७॥
रुदन्तीं पार्वतीं त्यक्त्वा स्वस्थानं प्रययौ शिवः॥
सद्यो बभूव तत्रैव पार्वतीदर्पमोक्षणम्॥५८॥
रूपयौवनयोर्गर्वं तत्याज शैलकन्यका ॥
मुखं दर्शयितुं लज्जा तद्बभूव सखीगणे ॥ ५९ ॥
सुराश्च रतिमाश्वास्य सर्वे जग्मुः स्वमन्दिरम् ॥
प्रणम्य दण्डवद्रुद्रं शोकादुद्विग्नमानसाः ॥4.39.६०॥
स्तुत्वा रुदित्वा शोकेन भयेन कामकामिनी ॥
कोपरक्तेक्षणं रुद्रं राधिके स्वालयं ययौ ॥ ६१ ॥
न जगाम पितुर्गेहं पार्वती सा तु लज्जया ॥
स्वालिभिर्वार्यमाणाऽपि जगाम तपसे वनम् ॥ ६२ ॥
प्रजग्मुः सहचारिण्यस्तत्पश्चाच्छोकविह्वलाः ॥
मातृभिर्वार्यमाणा सा स्वर्णदीतीरजं वनम् ॥६३॥
सुचिरं च तपस्तप्त्वा सा सम्प्राप त्रिलोचनम् ॥
रतिः सम्प्राप मदनं शङ्करस्य वरेण च ॥ ६४ ॥
इत्येवं कथितं सर्वं पार्वतीदर्पमोक्षणम् ॥
निगूढचरितं राधे किं भूयः श्रोतुमिच्छसि ॥ ६५ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे एकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥