श्रीकृष्ण उवाच ॥
दर्पभङ्गः श्रुतो देवि शङ्करस्य जगद्गुरोः ॥
अधुना श्रूयतां मत्तो दुर्गादर्पविमोचनम् ॥ १ ॥
तेजसा सर्वदेवानामाविर्भूय जगत्प्रसूः ॥
दधार कामिनीरूपं कमनीयं मनोहरम् ॥२ ॥
निहत्य दानवेन्द्रांश्च ररक्ष देवताकुलम् ॥
लेभे जन्म ततो देवी जठरे दक्षयोषितः ॥ ३ ॥
पिनाकपाणिं जग्राह सा देवी सुरसाधनम् ॥
शश्वत्परमभक्त्या च सिषेवे स्वामिनं सती ॥ ४ ॥
दक्षेण सार्द्धं देवेन बभूव शिवशत्रुता ॥
निरर्थकं दैवयोगात्पुरा वै सुरसंसदि ॥ ५ ॥
दक्षश्चकार यज्ञं च तत आगत्य कोपतः ॥
सर्वान्विज्ञापयामास तत्रैव शङ्करं विना ॥ ६ ॥
सस्त्रीका देवताः सर्वा आजग्मुर्दक्षमन्दिरम् ॥
सगणः शङ्करः कोपान्नाजगामाभिमानतः ॥ ७ ॥
सती पतिं च मोहेन बोधयामास यत्नतः ॥
न तं चालयितुं शक्ता बभूव चञ्चला स्वयम् ॥ ८ ॥
आजगाम पितुर्गेहं दर्पात्तस्य विनाऽऽज्ञया ॥
तस्य शापेन तस्याश्च दर्पभङ्गो बभूव ह ॥९॥
न हि सम्भाषणं चक्रे वाङ्मात्रेण पिता च ताम् ॥
श्रुत्वा च निन्दां भर्तुश्च देहं तत्याज मानतः ॥ 4.38.१० ॥
एवं प्रिये निगदितं सतीदर्पविमोचनम् ॥
तस्या जन्मान्तरं नित्यं दर्पभङ्गश्च श्रूयताम् ॥ ११ ॥
लेभे जन्म सती शीघ्रं जठरे शैलयोषितः ॥
शिवस्तस्याश्चिताभस्म चास्थि जग्राह भक्तितः ॥ १२ ॥
चकार मालामस्थ्नां च भस्मना तनुलेपनम् ॥
स्मारंस्मारं सतीं प्रेम्णा भ्रामम्भ्रामं पुनःपुनः ॥ १३ ॥
सुषाव मेना तां देवीमतीव सुमनोहराम् ॥
सृष्टौ विधातुस्तस्याश्च ह्युपमा नास्ति कुत्र च ॥ १४ ॥
गुणप्रसूर्गुणान्सर्वान्सर्वरूपान्बिभर्त्ति सा ॥
सर्वाश्च देवपत्न्यस्तत्कलां नार्हन्ति षोडशीम् ॥ १५ ॥
बभूव वर्द्धमाना सा शुक्ले चन्द्रकला यथा ॥
अतीव यौवनस्था च शैलगेहे दिनेदिने ॥ १६ ॥
बभूवाकाशवाणी च तां सम्बोध्य जगत्प्रसूम् ॥
शिवे शिवं च तपसा कठोरेण लभेति च ॥१७॥
विनेश्वरं न तपसा प्राप्ता हि गर्भसम्भवम् ॥
प्रहस्य तस्थौ श्रुत्वेति सा च यौवनगर्विता ॥१८॥
मम जन्मान्तरीयं च भस्मास्थि च बिभर्ति यः ॥
स मां प्रौढां कथं दृष्ट्वा न गृह्णात्यत्र जन्मनि ॥१९॥
यो विदग्धश्च ब्रह्माण्डं बभ्राम मम शोकतः ॥
स कथं मां न गृह्णाति दृष्ट्वा परमसुन्दरीम् ॥ 4.38.२० ॥
दक्षयज्ञं यो बभञ्ज मम हेतोः कृपानिधिः ॥
स कथं मां न गृह्णाति पत्नीं जन्मनिजन्मनि ॥ २१ ॥
या यस्य पत्नी यो यस्या भर्ता प्राक्तनतः पुरा ॥
कुतो विश्वे तयोर्भेदो निषेको नान्यथा भवेत् ॥ २२ ॥
सर्वरूपगुणाधारं मत्वा स्वमतिमानतः ॥
न चकार तपः साध्वी न विज्ञाय तमीश्वरम् ॥ २३ ॥
सुन्दरीषु च सर्वासु मत्तो नास्त्येव सुन्दरी ॥
हृदीति मत्वा गर्वेण न चकार तपः शिवा ॥ २४ ॥
रूपयौवनवेषाणां पुमान्ग्राही स्वयोषिताम् ॥
शिवो मच्छ्रुतिमात्रेण मां गृह्णाति विना तपः ॥ २९ ॥
हृदीति मत्वा गिरिजा तस्थौ हिमगिरेर्गृहे ॥
शश्वत्सहचरीमध्ये क्रीडोन्मत्ता दिवानिशम् ॥ २६ ॥
एतस्मिन्नन्तरे तूर्णं दूतः शैलेन्द्रसंसदि ॥
उवाचागत्य मधुरं तत्पुरः सम्पुटाञ्जलिः ॥ २७ ॥
दूत उवाच ॥
उत्तिष्ठोत्तिष्ठ शैलेन्द्र गच्छाक्षयवटान्तिकम् ॥
आजगाम महादेवः सगणो वृषवाहनः ॥ २८ ॥
मधुपर्कादिकं दत्त्वा भक्तिनम्रात्मकन्धरः ॥
पूजनं कुरु शैलेन्द्रं देवेन्द्रं तमतीन्द्रियम् ॥ २९ ॥
सिद्धिस्वरूपं सिद्धेशं योगीन्द्राणां गुरोर्गुरुम् ॥
मृत्युञ्जयं कालकालं ब्रह्मज्योतिः सनातनम् ॥ 4.38.३० ॥
परमात्मस्वरूपं च सगुणं निर्गुणं विभुम् ॥
भक्तध्यानार्थममलं दधानं देहमीश्वरम् ॥ ॥३१॥
शैलो दूतवचः श्रुत्वा समुत्तस्थौ मुदाऽन्वितः ॥
मधुपर्कादिकं नीत्वा जगाम शङ्करान्तिकम् ॥ ३२ ॥
देवी दूतवचः श्रुत्वा प्रसन्नवदनेक्षणा ॥
हृदीति मेने मद्धेतोराजगाम महेश्वरः ॥ ३३ ॥
चकार वेषमतुलं दधार वस्त्रमुत्तमम्॥
रत्नेन्द्रसारालङ्कारान्रत्नमालां मनोहराम् ॥ ३४ ॥
पारिजातप्रसूनानां मालां चन्दनसंयुताम् ॥
चकार शङ्करार्थं च मत्वा मालां मनोहराम्॥३५॥
रत्नसिंहासनस्था सा ददर्श दर्पणे मुखम् ॥
कस्तूरीबिन्दुना सार्द्धं सिन्दूरबिन्दुभूषितम् ॥ ३६॥
आरक्त नेत्रयुगलं निर्मलाञ्जनसंयुतम्॥
शरन्मध्याह्नममलं यथालिपङ्क्तिवेष्टितम्॥३७॥
सुकोमलौष्ठयुगुलं ताम्बूलरागसंयुतम्॥
अतीव सुन्दरं रम्यपक्वबिम्बफलं यथा॥३८॥
रत्नकुण्डलदीप्त्या च गण्डस्थलविराजितम् ॥
सूर्योदयेन ज्वलितं सुमेरुशिखरं यथा ॥३९॥
अत्यनिर्वचनीयं च दन्तपङ्क्तिमनोहरम् ॥
यथा मुक्तासमूहं च सजलं जलदागमे॥4.38.४०॥
गजमुक्तासमायुक्तं सुचारुनासिकोत्तमम् ॥
सुशोभितं यथा मेरुं स्वर्णदीजलधारया॥४१ ॥
मालतीमाल्यसंयुक्तकबरीभारसंयुतम्॥
बकपङ्क्तिसुशोभाढ्यं नवीनं जलदं यथा ॥ ४२ ॥
तप्तकाञ्चन वर्णाभं चारुवक्षःस्थलोज्ज्वलम् ॥
रत्नेन्द्रसारहाराक्तं कस्तूरीकुङ्कुमान्वितम् ॥४३॥
चारुचम्पकवर्णाभं स्तनयुग्मं मनोहरम् ॥
बदरीफलतुल्यं च चारुपत्रकशोभितम् ॥४४॥
मध्यं मनोहरं क्षीणं निम्ननाभिस्थलोज्ज्वलम्॥
अतीव सुन्दरं रम्यमुदरं वर्तुलाकृति ॥ ४५ ॥
रम्भास्तम्भविनिन्द्यैकमूरुयुग्मं मनोहरम् ॥
कामालयं सुकठिनं निगूढमंशुकेन च॥ ४६ ॥
स्थलपद्मप्रभामुष्टपदयुग्मं मनोहरम्॥
रत्नपाशकसंयुक्तं सिद्धालक्तकभूषितम् ॥ ४७ ॥
दधतं रत्नमञ्जीरं राजहंसानुकारि च॥
रत्नेन्द्रसाराभरणं निर्मितं विश्वकर्मणा ॥ ४८ ॥
करं सुकोमलतरं सुन्दरं कनकप्रभम् ॥
रत्नकङ्कणकेयूरशङ्खभूषणभूषितम् ॥४९॥
बिभ्रत्सद्रत्नमुकुरं लीलाकमलमुज्ज्वलम्॥
रत्नाङ्गुलीयमतुलं दधतं सुमनोहरम् ॥ 4.38.५० ॥
दृष्ट्वा स्वरूपमतुलं दध्यौ शङ्करमीश्वरम् ॥
विशिष्य मनसा शश्वद्भर्तुश्चरणपङ्कजम् ॥ ५१ ॥
पितरं मातरं बन्धुं साध्वीवर्गं सहोदरम् ॥
अन्तरे सा न सस्मार किञ्चिदेव शिवं विना ॥५२॥
अथ शैलेश्वरस्तत्र ददर्श चन्द्रशेखरम् ॥
स्वर्णदीपुलिनाद्रम्यादुत्पतन्तं च सस्मितम् ॥ ५३ ॥
दधतं संस्कृतां मालां जपन्तं मम नामकम् ॥
तप्तस्वर्णप्रभाजुष्टजटाराशि विराजितम् ॥ ५४ ॥
वृषभस्थं शूलपाणिं सर्वभूषणराजितम् ॥
नागयज्ञोपवीतं च सर्पभूषणभूषितम् ॥ ५५ ॥
शुद्धस्फटिकसङ्काशं व्याघ्रचर्मधरं परम् ॥
विभूतिभूषिताङ्गं तमस्थिमालं दिगम्बरम् ॥५६॥
पञ्चवक्त्रं त्रिनयनं सूर्यकोटिसमप्रभम् ॥
ददर्श रुद्रान्परितो ज्वलतो ब्रह्मतेजसा ॥ ५७ ॥
शिववामे महाकालं दक्षिणे नन्दिकेश्वरम् ॥
भूतप्रेतपिशाचांश्च कूष्माण्डान्ब्रह्मराक्षसान् ॥५८॥
वेतालान्क्षेत्रपालांश्च भैरवान्भीमविक्रमान् ॥
सनकं च सनन्दं च कुमारं च सनातनम् ॥ ५९ ॥
जैगीषव्यं देवलं च काणादं गौतमं तथा ॥
पिप्पलादं कणखनं वोढुं पञ्चशिखं कठम् ॥ 4.38.६० ॥
जाजलिं करखं कर्णं लोमशं सूर्यवर्चसम् ॥
कात्यायनं पाणिनिं च शङ्खं दुर्वाससं ततः ॥ ६१ ॥
शातातपं पारिभद्रमष्टावक्रं मरुद्भवम् ॥
एतान्पुरोगमान्नत्वा प्रणनाम शिवं गिरिः ॥ ६२ ॥
मूर्ध्ना निपत्य भूमौ स दण्डवत्सम्पुटाञ्जलिः ॥
अथो अनल्पया भक्त्या धृत्वा तच्चरणाम्बुजम् ॥
ननाम चाश्रुनेत्रः स पुलकाञ्चितविग्रहः ॥ ६३ ॥
धर्मदत्तेन स्तोत्रेण तुष्टाव परमेश्वरम् ॥
तुष्टे ब्राह्मे दिनेऽतीते पुष्करे सूर्यपर्वणि ॥ ६४ ॥
हिमालय उवाच ॥
त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णुः परिपालकः ॥६५॥
त्वं शिवः शिवदोऽनन्तः सर्वसंहारकारकः ॥
त्वमीश्वरो गुणातीतो ज्योतीरूपः सनातनः ॥ ६६ ॥
प्रकृतः प्रकृतीशश्च प्राकृतः प्रकृतेः परः ॥
नानारूपविधाता त्वं भक्तानां ध्यानहेतवे ॥
येषु रूपेषु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च ॥६७॥
सूर्यस्त्वं सृष्टिजनक आधारः सर्वतेजसाम् ॥
सोमस्त्वं सस्यपाता च सततं शीतरश्मिना॥६८॥
वायुस्त्वं वरुणस्त्वं च त्वमग्निः सर्वदाहकः ॥
इन्द्रस्त्वं देवराजश्च कालो मृत्युर्यमस्तथा ॥ ॥६९॥
मृत्युञ्जयो मृत्युमृत्युः कालकालो यमान्तकः ॥ 4.38.७० ॥
वेदस्त्वं वेदकर्ता च वेदवेदाङ्गपारगः ॥
विदुषां जनकस्त्वं च विद्वांश्च विदुषां गुरुः ॥७१॥
मन्त्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रदः ॥
वाक् त्वं वागधिदेवी त्वं तत्कर्ता तद्गुरुः स्वयम् ॥७२॥
अहो सरस्वतीबीजं कस्त्वां स्तोतुमिहेश्वरः ॥
इत्येवमुक्त्वा शैलेन्द्रस्तस्थौ धृत्वा पदाम्बुजम् ॥७३॥
तत्रोवास तमाबोध्य चावरुह्य वृषाच्छिवः ॥
स्तोत्रमेतन्महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ॥ ७४ ॥
मुच्यते सर्वपापेभ्यो भयेभ्यश्च भवार्णवे ॥
अपुत्रो लभते पुत्रं मासमेकं पठेद्यदि ॥७५॥
भार्याहीनो लभेद्भार्यां सुशीलां सुमनोहराम्॥
चिरकालगतं वस्तु लभते सहसा ध्रुवम् ॥ ७६ ॥
राज्यभ्रष्टो लभेद्राज्यं शङ्करस्य प्रसादतः ॥
कारागारे श्मशाने च शत्रुग्रस्तेऽतिसङ्कटे॥७७॥
गभीरेऽतिजलाकीर्णे भग्नपोते विषादने ॥
रणमध्ये महाभीते हिंस्रजन्तुसमन्विते ॥ ७८ ॥
सर्वतो मुच्यते स्तुत्वा शङ्करस्य प्रसादतः ॥ ७९ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे ऽष्टत्रिंशोऽध्यायः ॥ ३८ ॥