श्रीराधिकोवाच ॥
एवम्भूतस्य च विभोः सर्वेशस्य महात्मनः ॥
न शस्तं कथमुच्छिष्टं ब्रूहि सन्देहभञ्जन ॥ १ ॥
श्रीकृष्ण उवाच ॥
शृणु देवि प्रवक्ष्येऽहमितिहासं पुरातनम् ॥
पापेन्धनानां दहने ज्वलदाग्निशिखोपमम् ॥२॥
सनत्कुमारो वैकुण्ठमेकदा च जगाम ह ॥
ददर्श भुक्तवन्तं च नाथं नारायणं द्विजः ॥३॥
तुष्टाव गूढैः स्तोत्रैश्च प्रणम्य भक्तितो मुदा ॥
अवशेषं ददौ तस्मै सन्तुष्टो भक्तवत्सलः ॥ ४ ॥
प्राप्तमात्रेण तत्रैव भुक्तं तेनैव किञ्चन॥
किञ्चिद्ररक्ष बन्धूनां भक्षणाय च दुर्लभम् ॥५॥
सिद्धाश्रमे च यद्दत्तं गुरवे शूलपाणिने ॥
भक्त्युद्रेकाच्च तत्सर्वं भुक्तं च प्राप्तिमात्रतः॥६॥
भु्क्त्वा सुदुर्लभं वस्तु ननर्त प्रेमविह्वलः ॥
पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रो मुदाऽन्वितः ॥७॥
गायन्मम गुणान्भक्त्या सुकण्ठः पञ्चवक्त्रतः ॥
रागभेदैकतानेन तालमानेन सुन्दरम् ॥ ८ ॥
पपात डमरुर्हस्ताच्छृङ्गं च व्याघ्रचर्म च ॥
स्वयं निपत्य पश्चाच्च रुदन्मूर्च्छामवाप ह ॥ ९ ॥
अतीव कमनीयं तद्रूपं ध्यात्वैकमानमः ॥
सहस्रदलमध्यस्थं मां पश्यन्हृत्सरोरुहे ॥ 4.37.१० ॥
एतस्मिन्नन्तरे देवी दुर्गा दुर्गार्तिनाशिनी ॥
मुदाऽऽजगाम शीघ्रं तत्प्रसन्नवदनेक्षणा ॥ ११ ॥
रुदन्तं मूर्च्छितं दृष्ट्वा निपतन्तं च भक्तितः ॥
प्रहस्य वार्तां पप्रच्छ कुमारं शूलपाणिनः ॥ १२ ॥
सर्वं तां कथयामास कुमारः सम्पुटाञ्जलिः ॥
श्रुत्वा चुकोप सा देवी शिवं प्रस्फुरिताधरा ॥ ॥ १३ ॥
तां शप्तुमुद्यतां देवीमुत्थाय च त्रिलोचनः ॥
बोधयामास विविधं तुष्टाव सम्पुटाञ्जलिः ॥ १४ ॥
श्रुत्वा मनोहरं स्तोत्रं न शशाप शिवं शिवा ॥
दुष्टं चक्रे तदुच्छिष्टमभक्ष्यं विदुषामपि ॥ १५ ॥
न लोकानां प्रभावश्च तपःसौभाग्यतेजसाम् ॥
ब्रह्माण्डे सर्वसंहर्ता चकम्पे पार्वतीभये ॥ १६ ॥
उवाच तं जगन्माता नीतिसारं परं वचः ॥
गणप्रसूः सकोपा च रक्तपङ्कजलोचना ॥ १७ ॥
अहो तपःप्रभावश्च तेजसश्च न जीविनाम् ॥
स ब्रह्माण्डस्य संहर्ता चकम्पे शैलकन्यका ॥ १८ ॥
पार्वत्युवाच॥
त्वं पोष्टा जगतां पाता ममैव च विशेषतः ॥
वक्ता चतुर्णां वेदानां जनकश्च स्वयं विभुः ॥ १९ ॥
मुक्तिप्रदाता भक्तानां दाता च सर्वसम्पदाम् ॥
त्वं चेत्करोषि दुर्नीतिं को वा धर्मं च पाति वै ॥4.37.२०॥
सदा ते परिपाल्याऽहं पोष्या भक्त्या च किङ्करी ॥
वञ्चिता कर्मदोषेण हरनिर्माल्यभक्षणे ॥ २१ ॥
किञ्चिच्छुद्धं हिरण्येन किञ्चिद्वस्तु च वायुना ॥
किञ्चित्प्रक्षालनेनैव सर्वं विष्णोर्निवेदनात् ॥ २२ ॥
विष्णोर्निवेदितान्नेन यष्टव्याः सर्वदेवताः ॥
पितरोऽतिथयश्चैवमिति वेदेषु निश्चितम् ॥ २३ ॥
अनिवेद्यमभक्ष्यं च नैवेद्यमुदरे हरेः ॥
त्यक्त्वा करोति यो भक्त्या पार्षदप्रवरो भवेत् ॥ २४ ॥
अमृतं सर्ववस्तूनामिष्टसारं सुदुर्लभम् ॥
विष्णोर्निवेदितान्नस्य कलां नार्हति षोडशीम् ॥ २५ ॥
हन्त्यकालिकमृत्युं तदमृतं मूढरञ्जनम् ॥
नैवेद्यं च हरेरेव हरितुल्यं करोत्यहो ॥ २६ ॥
यदृच्छया तं नैवेद्यं यो भुङ्क्ते साधुसङ्गतः ॥
षष्टिवर्षसहस्राणां प्राप्नोति तपसः फलम् ॥ २७ ॥
यो निवेद्य हरिं भुङ्क्ते भक्त्या भक्तश्च नित्यशः॥
किं वा तपस्यां कर्ता च स हरेस्तेजसा समः ॥२८॥
श्रुतं पुरा त्वन्मुखतः पुष्करे मुनिसंसदि ॥
अहं वेदविधाता न किमहं वक्तुमीश्वरी ॥ ॥ २९ ॥
सुचिरं च तपस्तप्त्वा मया लब्धस्त्वमीश्वरः ॥
त्वया विष्णोः प्रसादेन वञ्चिताऽहं कथं प्रभो ॥ 4.37.३० ॥
यतो न दत्तं नैवद्यं विष्णोर्मह्यं त्वयाऽधुना॥
अतो मत्तो गृहाणैतत्फलमेव महेश्वर ॥ ३१ ॥
अद्यप्रभृति ये लोका नैवेद्यं भुञ्जते तव ॥
ते जन्मैकं सारमेया भविष्यन्त्येव भारते ॥३२॥
इत्युक्त्वा पार्वती माता रुरोद पुरतो विभोः ॥
दृष्टिः पपात तत्कण्ठे नीलकण्ठो बभूव ह ॥३३॥
तदा शिवः शिवां भक्त्या कृत्वा वक्षसि सादरम् ॥
तन्मानभङ्गं स्तोत्रेण विनयेन चकार ह ॥ ३४ ॥
करेण चक्षुषोर्नीरं सम्मृज्य च पुनःपुनः ॥
बोधयामास विविधैर्नीतिवाक्यैर्मनोहरैः ॥ ३५ ॥
परितुष्टा च सा देवी भर्तारं समुवाच ह ॥
कलेवरं च त्यक्ष्यामि नैवेद्येन विना हरेः ॥ ३६ ॥
बिभर्ति देहं सततं तव सौभाग्यवर्द्धनम् ॥
कथं वहामि सौभाग्यरहितं च कलेवरम् ॥ ३७ ॥
अपूर्वं तव नैवेद्यं जन्ममृत्युजराहरम् ॥
कृतं दुष्टं च यत्तस्मात्पश्य देहं त्यजामि च ॥ ३८ ॥
लिङ्गोपरि च यद्दत्तं तदेवाग्राह्यमीश्वर ॥
सुपवित्रं भवेत्तस्य विष्णोर्नैवेद्यमिश्रितम् ॥ ३९ ॥
इत्येवमुक्त्वा सा देवी देहं त्यक्तुं समुद्यता ॥
त्रस्तो हरस्तत्पुरतः स्तुत्वा च स्वीचकार ह ॥ 4.37.४० ॥
शङ्कर उवाच ॥
स्थिरा भव महादेवि चण्डिके जगदम्बिके ॥
ममापराधमखिलं क्षन्तुमर्हसि सुन्दरि ॥ ॥ ४१ ॥
मां भृत्यं तपसा क्रीतं कृपां कुरु ममोपरि ॥
ब्रह्मविष्णुमहेशानां बीजभूते सनातनि ॥ ४२ ॥
अहो गोलोकनाथस्थ गुणातीतस्य निर्गुणे ॥
सर्वशक्तिस्वरूपे च सदैव सहचारिणि ॥ ४३ ॥
साकारे च निराकारे नित्ये स्वेच्छामये प्रिये ॥
कृपया तद्विभोरेव मम वक्षसि साम्प्रतम् ॥ ४४ ॥
सर्वबीजस्वरूपे च महामाये मनोहरे ॥
सर्वसिद्धिप्रदे देवि मुक्तिदे कृष्णभक्तिदे ॥ ४५
इच्छैव श्रीहरेः साक्षान्नाहं दातुमपि क्षमः ॥
तदा देहं परित्यज्य निर्गुणं व्रज निर्गुणे ॥ ४६ ॥
इत्येवमुक्त्वा पुरतस्तस्थौ च चन्द्रशेखरः ॥
बभूव सुप्रसन्ना सा प्रणनाम हरं परम् ॥ ४७ ॥
इत्येवं पार्वतीस्तोत्रं शङ्करेण कृतं पुरा ॥
यः पठेद्विपदा ग्रस्तः स भयादेव मुच्यते॥४८॥
मित्रभेदो भवेद् दूरं तत्सम्म्प्रीतिर्भवेत्पुरा ॥
पार्वती परितुष्टा च न त्यजेत्तस्य मन्दिरम् ॥ ४९ ॥
॥ श्रीकृष्ण उवाच ॥
श्रुत्वा प्रतिज्ञां नाथस्य परितुष्टा बभूव सा ॥
जगाम स्वर्णदीं तूर्णं स्नानार्थं शङ्कराज्ञया ॥ 4.37.५० ॥
स्नात्वा सम्पूज्य भक्त्या च सुरमिष्टं च निर्गुणम् ॥
चकार प्रस्तुतं शीघ्रं मिष्टान्नं व्यञ्जनानि च ॥ ५१ ॥
शिवः स्नात्वा च सम्पूज्य ब्रह्मज्योतिः सनातनम् ॥
तुष्टाव परया भक्त्या मामेव हृदयस्थितम् ॥ ५२ ॥
गत्वा सर्वमहं भुक्त्वा तस्मै दत्त्वाऽभिवाञ्छितम् ॥
नैवेद्यं पार्वती लेभे तव मूलं समागता ॥ ५३ ॥
भुक्त्वाऽवशेषं सा देवी सह भर्त्रा मुदाऽन्विता ॥
तुष्टाव शङ्करं भक्त्या प्रणनाम मुहुर्मुहुः ॥ ५४ ॥
इत्येवं कथितं सर्वं त्वया पृष्टं सुरेश्वरि ॥
अभिशप्तं शङ्करस्य निर्माल्यं येन हेतुना ॥ ५५ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे हरनिर्माल्यशापप्रसङ्गो नाम सप्तत्रिंशोऽध्यायः ॥३७ ॥