॥ श्रीराधिकोवाच ॥ ॥
एतेन नियमेनैव ब्रह्मा तत्याज मोहिनीम् ॥
कथं स कुलटाशापादपूज्यः सम्बभूव ह ॥ १ ॥
कथं तस्य दर्पभङ्गं चकार कमलापतिः ॥
कथयस्व सर्वबीजं सर्वेषामीश्वरः स्वयम् ॥२॥ ॥
॥ श्रीनारायण उवाच ॥ ॥
रासेश्वरीवचः श्रुत्वा प्रहस्य रसिकेश्वरः ॥
निगूढमितिहासं च तां वक्तुमुपचक्रमे ॥ ३ ॥ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
ब्रह्मा चिरं तपस्तप्त्वा मत्तो लब्ध्वा वरं वरम् ॥
सृष्टिं नानाविधां कृत्वा विधाता स बभूव ह ॥ ४ ॥
तपसां फलदाता च सर्वेषां शास्तिकृत्प्रभुः ॥
आत्मानमीश्वरं ज्ञात्वा महागर्वो बभूव ह ॥५॥
ब्रह्माण्डेषु च सर्वेषु गर्वपर्यन्तमुन्नतिः ॥
इति मत्वा ब्रह्मणश्च दर्पभङ्गः कृतो मया ॥६॥
येषां येषां भवेद्दर्पो ब्रह्माण्डेषु परात्परः ॥
विज्ञाय सर्वं सर्वात्मा तेषां शास्ताऽहमेव च ॥ ७ ॥
प्रथमे ब्रह्मणो गर्वो मया चूर्णीकृतः श्रुतः ॥
शङ्करस्य च पार्वत्याश्चन्द्रस्य च रवेस्तथा॥८॥
वह्नेर्दुर्वाससश्चैव तथा धन्वन्तरेः प्रिये॥
क्रमेण दर्पभङ्गं च कथयामि निशामय ॥ ९ ॥
क्षुद्राणां महतां चैव येषां गर्वो भवेत्प्रिये ॥
एवंविधमहं तेषां चूर्णीभूतं करोमि च ॥ 4.36.१०॥
॥ श्रीनारायण उवाच ॥ ॥
श्रीकृष्णस्य वचः श्रुत्वा शुष्ककण्ठोष्ठतालुका ॥
पप्रच्छ राधा यत्नेन सन्त्रस्ता भयविह्वला ॥ ११ ॥
॥ श्रीराधिकोवाच ॥ ॥
कस्य केन प्रभावेण महादर्पो बभूव ह ॥
त्वया केन प्रभावेण तस्य भङ्गः कृतः पुरा ॥ १२ ॥
कथयस्व प्राणनाथ सर्वेषां दर्पभञ्जन ॥
दर्पदो भयदः प्राणदानैककारणेश्वर ॥ १३ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
येन भूतं गर्वचूर्णं श्रुतं त्रिजगतां विधेः ॥
अन्येषां श्रूयतां राधे व्यासेन कथयामि ते ॥ १४॥
स्वयं शिवो मदंशश्च संहर्ता जगतां च यः ॥
तेजसा मत्समः पूर्णो ज्ञानेन च गुणेन च ॥ १९॥
ध्यायन्ति योगिनो यं स योगीन्द्राणां गुरोर्गुरुः ॥
ज्ञानानन्दस्वरूपोऽयं तस्याख्यानं शृणु प्रिये॥१६॥
युगषष्टिसहस्राणि तपस्तप्त्वा दिवानिशम् ॥
भूत्वा च मत्कलापूर्णो बभूव मत्समो विभुः॥१७॥
तपसा तेजसा शश्वत्तेजोराशिर्बभूव ह ॥
सूर्यकोटिप्रभावश्च भक्तानां कल्पपादपः ॥१८॥
ध्यायन्ध्यायं च योगीन्द्रास्तत्तेजो बहुकालतः ॥
तदन्तरे च पश्यन्ति स्वरूपमतिसुन्दरम्॥१९॥
शुद्धस्फटिकसङ्काशं पञ्चवक्त्रं त्रिलोचनम् ॥
त्रिशूलपट्टिशकरं व्याघ्रचर्माम्बरं वरम्॥4.36.२०॥
जपन्तं स्वात्मनाऽऽत्मानं श्वेताब्जबीजमालया ॥
ईषद्धास्यप्रसन्नास्यं चन्द्रचूडं परात्परम् ॥ २१ ॥
स्वर्णाकारं जटाभारं दधतं शिरसा मुदा॥
शान्तं कान्तं त्रिजगतां भक्तानुऽग्रहकातरम्॥२२॥
अथ स्वमीश्वरं मत्वा प्रदाता सर्वसम्पदाम्॥
ददाति सर्वं सर्वेभ्यो वाञ्छितं कल्पपादपः॥२३॥
यो यं वाञ्छति तं तस्मै वरं दत्त्वा वरेश्वरः ॥
बभूव गर्वसंयुक्तः स्वात्मारामः स्वलीलया ॥२४॥
एकदा च वृको दैत्यस्तपस्तेपे शिवस्य च ॥
केदारे च कठोरेण वर्षमेकं दिवानिशम् ॥ २५ ॥
नित्यं याति तत्समीपं कृपया च कृपानिधिः ॥
वरं दातुं यथाऽभीष्टं न जग्राहासुरो वरम् ॥ २६ ॥
वर्षान्ते शङ्करः शश्वत्तस्थौ तत्पुरतः स्वयम् ॥
वरदो भक्तिपाशेन क्षणं गन्तुं न स क्षमः ॥ २७ ॥
सर्वैश्वर्यं सर्वसिद्धिं भुक्तिं मुक्तिं हरः पदम् ॥
दैत्यः किञ्चिन्न गृह्णाति परितः शूलपाणिनः ॥ २८ ॥
ध्यायमानं तत्पदाब्जं दृष्ट्वा त्रस्तो महेश्वरः ॥
अयाचितारं निश्चेष्टं रुरोद प्रेमविह्वलः ॥ २९ ॥
अतीव रोदनात्तस्य ध्यानभङ्गो बभूव ह ॥
ददर्श पुरतः साक्षाद्दातारं सर्वसम्पदाम् ॥ 4.36.३० ॥
यन्मायया वरं वव्रे दैत्येन्द्रो भक्तिपूर्वकम् ॥
हस्तं दधे च यन्मूर्ध्नि स भस्म भवितेति च ॥३१ ॥
ओमित्युक्त्वा प्रयान्तं तं दुद्राव दैत्यपुङ्गवः॥
मृत्युञ्जयो मृत्युभयाद्दुद्राव त्रासविह्वलः ॥ ३२ ॥
पपात डमरुस्तस्य व्याघ्रचर्म मनोहरम् ॥
दिगम्बरो दशदिशो भेजे दानवभीतये ॥ ३३ ॥
न हन्ति तं च कृपया भक्तं च भक्तवत्सलः ॥
दुष्टानुसारं साधुश्च न करोति कदाचन ॥ ३४ ॥
साधवो घ्नन्ति घ्नन्तं च भृत्यं पुत्रं प्रियां विना ॥
प्रबोधितुं न शक्तश्च स्वात्मानं कृपया समम् ॥ ३५ ॥
शिवः स्वमृत्युं मत्वा च भीतश्च निरहङ्कृतः ॥
स्मारंस्मारं च मां भद्रे मामेव शरणं ययौ ॥ ३६ ॥
दृष्ट्वा स्वाश्रममायान्तं शुष्ककण्ठोष्ठतालुकम् ॥
हे हरे रक्ष रक्षेति जपन्तं भयविह्वलम् ॥३७॥
संस्थाप्य तत्समीपे च स दैत्यो बोधितो मया ॥
पृष्टश्च सर्ववृत्तान्तमुवाच मां क्रमेण च ॥ ३८ ॥
तदा ममाज्ञया तूर्णं वञ्चितो माययाऽसुरः ॥
दत्त्वा स्वमूर्ध्नि हस्तं च सद्यो भस्म बभूव ह ॥३९॥
तदा सिद्धाः सुरेन्द्राश्च मुनीन्द्रा मनवो मुदा ॥
तुष्टुवुर्मां सुभक्त्या च लज्जया लज्जितः शिवः ॥4.36.४०॥
बभूव चूर्णस्तद्गर्वो जगाम बोधितो मया ॥
वरं ददाति वरदस्ततो बोध्यो ह्यहं शिवः ॥ ४१ ॥
अथ गर्वान्वितो रुद्रो हन्तुं त्रिपुरमुल्बणम् ॥
मत्वा मनसि संहर्ता सर्वेषां जगतामिति ॥ ४२ ॥
कोऽयं पतङ्गवद्दैत्य इति मत्वा ययौ रणम् ॥
विहाय शूलं मद्दत्तं मदीयकवचं परम् ॥ ४३ ॥
चिरं बभूव समरं वर्षमेकं दिवानिशम् ॥
न कोऽपि जेतुं कं शक्तो द्वौ समौ समरे तदा ॥४४॥
पृथिव्यां चरणं कृत्वा दैत्येन्द्रो मायया प्रिये ॥
अत्यूर्ध्वं च समुत्तस्थौ पञ्चाशत्कोटियोजनम् ॥ ४५ ॥
उत्तस्थौ शङ्करस्तूर्णं हन्तुं दैत्यं जगत्प्रभुः ॥
बभूव तत्र युद्धं च मासमेकं निराश्रये ॥ ॥ ४६ ॥
अस्त्राणि चापं चिच्छेद शङ्करस्यासुरो बली ॥
रथं बभञ्ज दैत्येन्द्रश्चापमस्त्राणि शङ्करात् ॥ ४७ ॥
जघान मुष्टिना रुद्रो दानवेन्द्रं प्रकोपतः ॥
वज्रमुष्टिप्रहारेण सद्यो मूर्च्छामवाप सः ॥ ४८ ॥
क्षणेन चेतनां प्राप्य कोपाद्दानवपुङ्गवः ॥
शिवं शयानमुत्तोल्य पातयामास भूतले ॥ ४९ ॥
सरथे पातिते रुद्रे देवा देवर्षयो भिया ॥
तुष्टुवुर्मां परित्राहि कृष्णेत्युक्त्वा पुनःपुनः ॥ 4.36.५० ॥
हरः सस्मार मामेव निर्भयो भयकारणम् ॥
तुष्टाव भक्त्या स्तोत्रेण मया दत्तेन सङ्कटे ॥ ५१ ॥
तदाऽहं कलया शीघ्रं वृषरूपं विधाय च ॥
शयानं शङ्करं धृत्वा विषाणाभ्यामुरुक्रमम् ॥ ५२ ॥
ददौ तस्मै स्वकवचं स्वशूलमरिमर्दनम् ॥
प्राप्य तद्दानवस्थानमत्यूर्ध्वं च निराश्रयम् ॥ ५३ ॥
मया दत्तेन शूलेन जघान त्रिपुरं हरः ॥
मामेव दर्पहन्तारं तुष्टाव व्रीडितः पुनः ॥ ५४ ॥
सद्यः पपात दैत्येन्द्रश्चूर्णीभूतश्च भूतले ॥
देवता मुनयः सर्वे तुष्टुवुः शङ्करं मुदा ॥५५॥
तत्याज शङकरो दर्पं विघ्नबीजं ततो विभुः ॥
ज्ञानानन्दस्वरूपश्च निर्लिप्तः सर्वकर्मसु॥५६॥
ततोऽहं वृषरूपेण वहामि तेन तं प्रियम् ॥
मम प्रियतमो नास्ति त्रैलोक्येषु शिवात्परः ॥५७॥
मनःस्वरूपो ब्रह्मा मे ज्ञानरूपो महेश्वरः ॥
बुद्धिर्भगवती दुर्गा मूलप्रकृतिरीश्वरी ॥ ५८ ॥
निद्रादयः शक्तयो यास्ताः सर्वाः प्रकृतेः कलाः ॥
वागधिष्ठातृदेवी या सा स्वयं च सरस्वती ॥५९॥
मम कल्याणाधिदेवो हर्षरूपो गणेश्वरः ॥
परमार्थः स्वयं धर्मो मम भक्तो हुताशनः ॥ 4.36.६० ॥
सर्वैश्वर्याधिदेवी मे सर्वगोलोकवासिनः ॥
प्राणाधिष्ठातृदेवी त्वं सदा प्राणाघिका मम ॥ ६१ ॥
गोपाङ्गनास्तव कला अत एव मम प्रियाः ॥
मल्लोमकूपजा गोपाः सर्वे गोलोकवासिनः ॥ ६२ ॥
तेजःस्वरूपः सूर्यश्च प्राणा मे वायवः स्मृताः ॥
जलाधिदेवो वरुणः पृथिवी मे मलोद्भवा ॥ ६३ ॥
मम शून्यो महाकाशो मदनो मानसोद्भवः ॥
इन्द्रादयः सुराः सर्वे मत्कलांशांशसम्भवाः ॥ ६४ ॥
एतानि सृष्टिबीजानि महदादीनि चैव हि ॥
सर्वेषां बीजरूपोऽहं स्वयमात्मा निराश्रयः ॥ ६५ ॥
जीवो मे प्रतिबिम्बश्च कर्मभोगाधिकारकः ॥
अहं साक्षी निरीहश्च न भोगी सर्वकर्मसु ॥ ६६ ॥
भक्तध्यानार्थदेहोऽयं मम स्वेच्छामयस्य च ॥
प्रकृतिः पुरुषोऽहं च एक एव परात्परः ॥ ६७ ॥
इत्येवं कथितं राधे शिवदर्पविमोचनम् ॥
सृष्टिबीजं च शृणु मे पार्वतीदर्पमोचनम् ॥६८॥
श्रीनारायण उवाच ॥
इत्युक्तवन्तं श्रीकृष्णं परमात्मानमीश्वरम् ॥
पप्रच्छ राधिका देवी निगूढमभिवाञ्छितम् ॥ ६९ ॥
श्रीराधिकोवाच ॥
भगवन्सर्वतत्त्वज्ञ सर्वबीज सनातन ॥
वद मे वाञ्छितं प्रश्नं सर्वसन्देहभञ्जनम् ॥ 4.36.७० ॥
सर्वज्ञानाधिदेवश्च शङ्करः सर्वतत्त्ववित् ॥
मृत्युञ्जयः कालकालो भगवांस्त्वत्समो महान् ॥७१॥
कथं विभूतिगात्रश्च पञ्चवक्त्रस्त्रिलोचनः ॥
दिगम्बरो जटाधारी नागसङ्घातभूषणः ॥ ७२ ॥
वृषेणाटति देवेन्द्रो विहाय वरवाहनम् ॥
न बिभर्ति कथं रत्नसारनिर्माणभूषणम् ॥७३॥
वह्निशुद्धांशुकं त्यक्त्वा धत्ते शार्दूलचर्मकम् ॥
धत्ते धत्तूरकुसुमं पारिजातं विहाय च ॥७४॥
नास्ति रत्नकिरीटेच्छा जटायां प्रीतिरुत्तमा ॥
दिव्यलोकं परित्यज्य श्मशानेषु स्पृहा विभोः ॥ ७५ ॥
चन्दनागुरुकस्तूरीसुगन्धिकुसुमानि च ॥
त्यक्त्वा स्पृहा बिल्वपत्रे बिल्वकाष्ठानुलेपने॥७६॥
एतद्वेदितुमिच्छामि व्यासेन कथय प्रभो ॥
श्रोतुं कौतूहलं नाथ वर्द्धते मे मनःस्पृहा ॥ ७७ ॥
राधिकावचनं श्रुत्वा प्रहस्य मधुसूदनः॥
कथां कथितुमारेभे कृत्वा राधां स्ववक्षसि ॥ ७८ ॥
श्रीकृष्ण उवाच ॥
युगषष्टिसहस्राणि तपः कृत्वा महेश्वरः ॥
विरराम पूर्णतमो ध्यात्वा मां मनसा मुदा ॥७९॥
एतस्मिन्नन्तरे मां च ददर्श पुरतः स्थितम् ॥
अतीव कमनीयाङ्गं किशोरं श्यामसुन्दरम्॥ ॥4.36.८०.॥
अहोनिर्वचनीयं च दृष्ट्वा रूपमनुत्तमम् ॥
न बभूव वितृष्णश्च लोचनाभ्यां त्रिलोचनः ॥ ८१ ॥
पश्यन्निमेषरहित इति मत्वा स्वमानसे ॥
भक्त्युद्रेकान्महाभक्तो रुरोद प्रेमविह्वलः ॥ ८२ ॥
सहस्रवदनोऽनन्तो भाग्यवांश्च चतुर्मुखः ॥
बहुभिर्लोचनैर्दृष्ट्वा तुष्टाव बहुभिर्मुखैः ॥ ८३ ॥
पश्यामि किं वा किं स्तौमि सम्प्राप्य नाथमीदृशम् ॥
आस्यैकेन लोचनाभ्यां चतुर्द्धा स पुनः पुनः ॥ ८४ ॥
स्व मानसे कुर्वतीदं शङ्करे च तपस्विनि ॥
तद्बभूव चतुर्वक्त्रं पूर्वेण सह पञ्चमम् ॥ ८५ ॥
एकैकवक्त्रं शुशुभे लोचनैश्च त्रिभिस्त्रिभिः।
बभूव तेन तन्नाम पञ्चवक्त्रस्त्रिलोचनः ॥ ८६ ॥
स्तवनादधिकप्रीतिः शिवस्य दर्शने मम ॥
तेनाधिकानि तस्यैवं बभूवुर्लोचनानि च॥ ॥ ८७ ॥
चक्षूंषि गुणरूपाणि तस्य ब्रह्मस्वरूपिणः ॥
सत्त्वं रजस्तम इति तस्य हेतुं निशामय ॥ ८८ ॥
सत्त्वांशेन दृशा शम्भुः पश्यन्पाति च सात्त्विकान् ॥
राजसेन राजसिकांस्तामसेन च तामसान् ॥ ८९ ॥
चक्षुषस्तामसात्पश्चाल्ललाटस्थाद्धरस्य च ॥
संहारकाले संहर्तुरग्निराविर्भवेत्क्रुधा ॥ 4.36.९० ॥
कोटितालप्रमाणश्च सूर्यकोटिसमप्रभः ॥
लेलिहानो दीर्घशिखस्त्रैलोक्यं दग्धुमीश्वरः ॥९१॥
विभूतिगात्रः स विभुः सतीसंस्कारभस्मना ॥
धत्ते तस्या अस्थिमालां प्रेमभावेन भस्म च ॥ ९२ ॥
स्वात्मारामो यद्यपीशस्तथाऽपि पूर्णमब्दकम् ॥
सतीशवं गृहीत्वा च भ्रामम्भ्रामं रुरोद ह ॥ ९३ ॥
प्रत्यङ्गं चापि तस्याश्च पपात यत्र यत्र ह ॥
सिद्धपीठस्तत्र तत्र बभूव मन्त्रसिद्धिकृत् ॥ ९४ ॥
तदा शवावशेषं च कृत्वा वक्षसि शङ्करः ॥
पपात मूर्च्छितो भूत्वा सिद्धिक्षेत्रे च राधिके ॥९५॥
तदा गत्वा महेशं तं कृत्वा क्रोडे प्रबोध्य च ॥
अददां दिव्यतत्त्वं च तस्मै शोकहरं परम्॥९६॥
तदा शिवश्च सन्तुष्टः स्वं लोकं च जगाम ह ॥
मूर्त्यन्तरेण कालेन तां सम्प्राप प्रियां सतीम् ॥ ९७ ॥
दिव्यस्रग्धारियोगेन नेच्छा नित्ये परे विभोः ॥
जटां तपस्याकालीनां धत्तेऽद्यापि विवेकतः ॥९८॥
न चेच्छा केशसंस्कारे स्वाङ्गवेषेण योगिनः ॥
समता चन्दने पङ्के लोष्टे रत्ने मणीश्वरे॥९९॥
गरुडद्वेषिणो नागाः शङ्करं शरणं ययुः ॥
बिभर्ति कृपया स्वाङ्गे तानेव शरणागतान्॥4.36.१००॥
वाहनं वृषरूपोऽहमन्यस्तं वोढुमक्षमः ॥
त्रिपुरस्य वधे पूर्वं मत्कलांशसमुद्भवः ॥१॥
पारिजातादिकं पुष्पसुगन्धि चन्दनादिकम्॥
मयि सन्न्यस्य तेष्वेवं प्रीतिर्नास्ति कदाचन॥२॥
धत्तूरे तत्सदा प्रीतिर्बिल्वपत्रानुलेपने ॥
गन्धहीने सुगन्धे च योगीष्टे व्याघ्रचर्मणि ॥३॥
दिव्यलोके दिव्यतल्पे जनतायां न तन्मनः॥
श्मशानेऽतीवरहसि ध्यायते मामहर्निशम्॥४॥
आब्रह्मस्तम्बपर्यन्तं समं च मन्यते शिवः॥
ममानिर्वचनीयेऽत्र रूपे तन्मग्नमानसम्॥५॥
ब्रह्मणः पतनेनापि शूलपाणेः क्षणो भवेत् ॥
तस्यायुषः प्रमाणं च नाहं जानामि का श्रुतिः॥६॥
ज्ञानं मृत्युञ्जयः शूलं धत्ते मत्तेजसा समम् ॥
विना मया न कश्चित्तं शङ्करं जेतुमीश्वरः ॥ ७ ॥
शङ्करः परमात्मा मे प्राणेभ्योऽपि परः शिवः॥
त्र्यम्बके मन्मनः शश्वन्न प्रियो मे भवात्परः ॥ ८ ॥
ब्रह्माण्डनिकरं छन्नं मया मन्मायया सदा ॥
स कम्पति हरं शश्वन्न च तं मोहितुं क्षमः ॥९॥
न संवसामि गोलोके वैकुण्ठे तव वक्षसि ॥
सदा शिवस्य हृदये निबद्धः प्रेमपाशतः ॥4.36.११०॥
स्वरसिद्धं सुतानेन पञ्चवक्त्रेण शङ्करः ॥
शश्वद्गायति मद्गाथां तेनाहं तत्समीपतः ॥११॥
स्रष्टुं शक्तो हि नष्टुं च भ्रूभङ्गलीलयाऽपि यः॥
ब्रह्माण्डनिकरं योगान्न योगी शङ्करात्परः ॥१२॥
दिव्यज्ञानेन यः स्रष्टुं नष्टुं भ्रूभङ्गलीलया ॥
मृत्युं कालादिकं भक्तो न ज्ञानी शङ्करात्परः ॥ १३॥
मम भक्तिं च दास्यं च मुक्तिं च सर्वसम्पदः॥
सर्वसिद्धिं दातुमीशो न दाता शङ्करात्परः ॥१४॥
पञ्चवक्त्रेण मन्नाम यो हि गायत्यहर्निशम् ॥
मद्रूपं ध्यायते शश्वन्न भक्तः शङ्करात्परः ॥ १५ ॥
अहं सुदर्शनं शम्भुस्तेजसा च वयं समाः ॥
ब्रह्मा स्रष्टा च योगेन नास्माभिस्तेजसा समः ॥१६॥
इत्येवं कथितं सर्वे शङ्करस्य यशोऽमलम् ॥
तथाऽप्यस्य दर्पभङ्गं किं भूयः श्रोतुमिच्छसि ॥११७॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे श्रीकृष्णकृतशङ्करप्रशंसा नाम षट्त्रिंशोऽध्यायः ॥३६॥