॥ श्रीकृष्ण उवाच ॥
नारायणश्च ब्रह्माणमुवाच कृपया पुनः ॥
दृष्ट्वा गङ्गां च सर्वे तां मम मायां च मेनिरे ॥ १ ॥ ॥
॥ श्रीनारायण उवाच ॥
उत्तिष्ठ गच्छ भद्रं ते भविष्यति चतुर्मुख ॥
अत्र स्नात्वाऽभिशप्तस्त्वं पूतो भव ममाज्ञया॥२॥
त्वं चेत्सत्यं स्वयं पूतः स्पर्शं वाञ्छन्ति तानि ते ॥
वैष्णवेशस्य तीर्थानि सर्वाणि सततं मुने॥३॥
तथापि शापमुक्तस्त्वमत्र प्रकृतिहेलनात् ॥
अहङ्कारश्च सर्वेषां पापबीजममङ्गलम् ॥ ४ ॥
शीघ्रं त्वं गच्छ गोलोकं ममालयं परात्परम् ॥
प्रकृत्यंशां मङ्गलदां तत्र प्राप्स्यसि भारतीम् ॥ ५ ॥
प्रकृतिं भज कल्याण सृष्टिबीजस्वरूपिणीम् ॥
अहो कल्पान्तपर्यन्तं तपस्तप्तं त्वयाऽधुना॥६॥
तव मन्त्रं न गृह्णन्ति केऽपि वेश्याऽभिशापतः ॥
यदन्यदेवपूजायां तव पूजा भविष्यति ॥ ७ ॥
त्वमेव जगतां धाता स्वात्मारामश्च योषितः ॥
सर्वरूपी च पूजः च सर्वदेहेषु सर्वतः ॥ ८ ॥
तदा ममाज्ञया ब्रह्मा स्नात्वा च जाह्नवीजले ॥
शीघ्रं जगाम गोलोकं मां प्रणम्य जगद्गुरुः ॥ ९ ॥
ते देवा मुनयः सर्वे प्रजग्मुः स्वालयं मुदा ॥
सुनिर्मलं मम यशो गायन्तश्च पुनःपुनः ॥ 4.35.१० ॥
विधिरागत्य गोलोकं सम्प्राप्य भारतीं सतीम् ॥
सर्वविद्याधिदेवीं तां मद्वक्त्राब्जविनिर्मिताम् ॥११ ॥
वागीश्वरीं च सम्प्राप्य ब्रह्मा प्रमुदितः स्वयम् ॥
कामास्त्राणां च व्यापारमनुमेने स्वयं विभुः॥१२॥
तत आगत्य मां नत्वा प्राप्य त्रैलोक्यमोहिनीम् ॥
क्रीडां चकार भगवान्स्थानेस्थानेऽतिनिर्जने॥१३॥
रतिं चिरतरं कृत्वा विरराम स्वयं विधिः ॥
वागीश्वरीमुवाचेदं त्वं वै ब्रह्मा च कर्मणा ॥ १४ ॥
काचित्स्वकर्मणा साध्वी पूज्या च स्थिरयौवना ॥
तवैव कर्मयोगं च युवानं पश्य सुन्दरि ॥ १५ ॥
विदग्धाया विदग्धेन सङ्गमो गुणवान्भवेत् ॥
जरातुरोऽहं वृद्धश्च तपस्वी वैष्णवो द्विजः ॥ १६ ॥
अस्वतन्त्रः पराधीनः का रतिः पुंश्चलीषु मे ॥
आजगाम ब्रह्मलोकं पुनरेव निजालयम् ॥ १७ ॥
ददृशुब्रर्ह्मलोकस्थास्तां देवीं कौतुकान्विताः ॥
अतीव सुन्दरीं रम्यां शुभ्रवर्णां च सस्मिताम् ॥ १८ ॥
शरच्छीतांशुवदनां शरत्पङ्कजलोचनाम् ॥
पक्वबिम्बप्रभामुष्टदीप्तौष्ठाधरपल्लवाम् ॥१९॥
मुक्तापङ्क्तिविनिन्द्यैकदन्तपङ्क्तिमनोहराम्॥
रत्नकेयूरवलयरत्ननूपुरशोभिताम् ॥ 4.35.२० ॥
रत्नकुण्डलयुग्मेन कर्णमूलविराजिताम् ॥
रत्नेन्द्रसारहारेण वक्षःस्थलसमुज्ज्वलाम् ॥ २१ ॥
वह्निशुद्धांशुकं सूक्ष्मं बिभ्रतीं नवयौवनाम् ॥
अतीव कमनीयां च पीनश्रोणिपयोधराम् ॥ २२ ॥
वीणापुस्तकहस्तां च व्याख्यामुद्राकरां वराम् ॥
ते च निर्मञ्छनं कृत्वा चक्रुः परममङ्गलम् ॥ २३ ॥
पुरीं प्रवेशयामासुर्ब्रह्माणं भारतीं मुदा ॥
ब्रह्मा तया सह क्रीडां चकार स दिवानिशम् ॥ २४ ॥
अतीव सुखसम्भोगे निमग्नः सततं मुदा ॥
गूढे सर्वपुराणेषु किं पुनः श्रोतुमिच्छसि ॥ २९ ॥
॥श्रीनारायण उवाच ॥
प्राणेशवचनं श्रुत्वा प्रहस्य परमेश्वरी ॥
भूयोऽपि परिपप्रच्छ कौतुकान्मानसं पुरा ॥ २६ ॥
श्रीराधिकोवाच ॥
ब्रह्मा कथं न जग्राह वेश्यां स्वयमुपस्थिताम् ॥
न कर्मक्षेत्रे रहसि फलदाता च कर्मणाम् ॥ २७ ॥
उपस्थितायास्त्यागे च महान्दोषो हि योषितः ॥
ज्ञात्वा देवो विधाता स कथं तत्याज मोहिनीम् ॥ २८ ॥
श्रीनारायण उवाच ॥
राधिकावचनं श्रुत्वा प्रहस्य मधुसूदनः ॥
पाद्मकल्पस्य वृत्तान्तमुवाच परमेश्वरीम् ॥ २९ ॥
श्रीकृष्ण उवाच॥
शृणु कान्ते प्रवक्ष्यामि पुरावृत्तान्तमीप्सितम् ॥
अकथ्यं गोपनीयं च महतामभिनिन्दितम् ॥ 4.35.३० ॥
एकदा च प्रजाः स्रष्टुं विधाता प्रेरितो मया ॥
ससर्ज मनसा पुत्राञ्ज्वलतो ब्रह्मतेजसा॥ ३१ ॥
सनकं च सनन्दं च सनातनमनुत्तमम् ॥
सनत्कुमारं वोढुं च कविं पञ्चशिखं विभुम् ॥३२ ॥
असितं कपिलं सिद्धं सिद्धान्मम कुलोद्भवान्॥
तान्नग्नान्पञ्चवर्षीयान्पिता स्रष्टुं जगाद ह॥ ३३ ॥
प्रजाः स्रष्टुं प्रेरकं च जनकं तेऽवमन्य च ॥
प्रजग्मुस्तपसे तूर्णं ममार्चनपरायणाः ॥ ३४ ॥
तदा रुष्टो जगद्धाता पुनः पुत्रान्विनिर्ममे ॥
रुद्रानेकादश वरान्रुदतो भीमविग्रहान् ॥ ३५ ॥
तस्मिन्प्रयुज्य तरसा पुनः पुत्रान्विनिर्ममे ॥
योगी योगेन मां ध्यात्वा स्वात्मारामः स्वविग्रहे ॥ ३६ ॥
वसिष्ठं पुलहं चैव क्रतुमङ्गिरसं तथा ॥
भृगुमत्रिं पुलस्त्यं च दक्षं कर्दममेव च ॥ ३७ ॥
मरीचिं च विनिर्माय प्रजाः स्रष्टुं नियुज्य च ॥
प्रहृष्टमानसः पुत्रं कन्यैका च ससर्ज ह ॥ ३८ ॥
कृष्णस्य कामिनः पुत्रः कामदेवो बभूव ह ॥
कन्या षोडशवर्षीया रत्नभूषणभूषिता ॥ ३९ ॥
उवाच पुत्रं स विधिः सुदीप्तं पुरतः स्थितम् ॥
दुर्निवार्यं मत्कलांशं स्वात्मारामं मनोहरम् ॥ 4.35.४० ॥
ब्रह्मोवाच ॥
स्त्रीपुंसोः क्रीडनार्थाय मुदा त्वं च विनिर्मितः ॥
हृष्टियोगेन सर्वेषामधिष्ठानं करिष्यसि ॥ ४१ ॥
सम्मोहनं समुद्वेगं बीजस्तम्भितकारणम् ॥
उन्मत्तबीजं ज्वलदं शश्वच्चेतनहारकम् ॥ ४२ ॥
प्रगृह्यैतान्मया दत्तान्सर्वान्सम्मोहनं कुरु ॥
दुर्निवार्यो मम वराद्भव वत्स भवेषु च ॥ ४३ ॥
बाणान्दत्त्वैवमुक्त्वा च प्रहृष्टश्च जगद्विधिः ॥
दृष्ट्वोवाच दुहितरं वरं दातुं समुद्यतः ॥ ४४॥
एतस्मिन्नन्तरे कामो मनसाऽऽलोच्य मन्त्रणाम् ॥
कर्तुं शस्त्रपरीक्षां च बाणांश्चिक्षेप ब्रह्मणि ॥ ४५ ॥
मन्त्रपूतैश्च बाणैश्च दुर्वार्यैः स्मरणेन च ॥
अतिविद्धो महायोगी मूर्च्छितो हतचेतनः॥ ४६ ॥
क्षणेन चेतनां प्राप्य ददर्शाग्रे च कन्यकाम् ॥
तां सम्भोक्तुं मनश्चक्रे सा दुद्राव भिया सती ॥ ४७ ॥
दृष्ट्वा पश्चाच्च पितरं धावन्तं हतचेतनम् ॥
जगाम शरणं शीघ्रं भ्रातॄणां च तपस्विनाम् ॥ ४८ ॥
ते तां समीपे संस्थाप्य तमूचुः पितरं क्रुधा ॥
हितं तथ्यं च वेदोक्तं नीतिसारं परं वचः ॥ ४९ ॥
ऋषय ऊचुः ॥
अहो किमेतज्जनक कर्म तेऽतिविगर्हितम् ॥
नीचानां चरितं यत्तत्करोषि त्वं जगद्विधे ॥ 4.35.५० ॥
पश्यन्ति सततं सन्तः प्रसूमिव परस्त्रियम् ॥
ये ते सर्वत्र पूज्याश्च परत्रेह जितेन्द्रियाः ॥५१ ॥
त्वं स्वयं वेदकर्ता च कन्यां सम्भोक्तुमिच्छसि ॥
कन्या च मातृवर्गेषु प्रविष्टा च श्रुतौ श्रुता ॥ ५२ ॥
गुरोः पत्नी राजपत्नी विप्रपत्नी च या सती ॥
पत्नी च भ्रातृसुतयोर्मित्रपत्नी च तत्प्रसूः ॥ ५३ ॥
प्रसूः पित्रोस्तथा भ्रातुः पत्नी श्वश्रूः स्वकन्यकाः ॥
जननी तत्सपत्नी च भगिनी सुरभी तथा ॥ ५४ ॥
स्वाभीष्टसुरपत्नी च धात्रिकाऽन्नप्रदायिका ॥
गर्भधात्री स्वनाम्ना च भयात्त्रातुश्च कामिनी ॥ ५५ ॥
एता वेदप्रणीताश्च सर्वेषां मातरः स्मृताः॥
एतास्वपि च सर्वासु न्यूनता नास्ति कासु च ॥५६॥
कन्यादाताऽन्नदाता च ज्ञानदाताऽभयप्रदः ॥
जन्मदो मन्त्रदो ज्येष्ठभ्राता च पितरः स्मृताः ॥५७ ॥
एता वहन्ति ये मूढा य एताञ्जनकानपि ॥
पच्यन्ते नरके ते च यावद्वै ब्रह्मणो वयः ॥ ५८ ॥
तानन्धकूपे संस्थाप्य दूरतो यमकिङ्कराः॥
कुर्वन्ति ताडनं शश्वत्पुरीषं पाययन्ति च ॥ ५९ ॥
त्वमेव विश्वकर्ता च शास्ता वै शमनस्य च ॥
वयं विधाता जगतां तेन गृह्णासि कन्यकाम् ॥ 4.35.६० ॥
अस्माकं पुरतो दूरं गच्छ कामार्तमानस॥
न कुर्मो भस्मसात्कर्तुं शक्ताश्च जनकं वयम् ॥६१॥
गुरोर्दोषसहस्राणि क्षन्तुमर्हन्ति पण्डिताः ॥
सर्वघ्नं तं विनिघ्नन्ति नीतिज्ञाः स्वगुरुं विना ॥६२॥
गृह्णन्ति यदि सर्वस्वं शपन्तं निष्ठुरं गुरुम् ॥
साधवस्तं न निन्दन्ति प्रणमन्ति स्वभक्तितः ॥६३॥
ये द्विषन्ति च निन्दति गुरुमिष्टं सुरात्परम् ॥
पच्यन्ते तेऽन्धकूपे च यावच्चन्द्रदिवाकरौ॥६४॥
पुरीषं भुञ्जते नित्यं क्षुभिता यमताडनैः ॥
सर्पप्रमाणकीटैश्च दंशिताश्च दिवानिशम् ॥ ६५॥
इत्येवमुक्त्वा मुनयः प्रणेमुस्तत्पदाम्बुजम् ॥
सर्वं भवति दैवेन प्रशान्तमनसा ध्रुवम् ॥ ६६ ॥
उन्मुखा मुनयः सर्वे बभूवुश्च स्वकर्मणि॥
ब्रह्मा शरीरं सन्त्यक्तुं व्रीडया च समुद्यतः ॥६७॥
योगेन भित्त्वा षट्चक्रं सर्वान्प्राणान्निरुद्ध्य च॥
ब्रह्मरन्ध्रं समानीय तत्याज स्वेन वर्त्मना ॥६८॥
मनसा श्रीहरिं स्मृत्वा नमस्कारं चकार ह ॥
न मे मनः परद्रव्ये भविता स्तोकमीश्वर ॥६९॥
प्राणत्यागात्परं दुःखमयशश्च यशस्विनाम् ॥
बभूव हृदि कृत्वैकं ब्रह्मा लीनश्च ब्रह्मणि॥ ॥ 4.35.७० ॥
कन्या तातं मृतं दृष्ट्वा विलप्य च भृशं मुहुः॥
योगेन देहं तत्याज सा प्रलीना च ब्रह्मणि॥७१॥
मृतं तातं च भगिनीं दृष्ट्वा च मुनिपुङ्गवाः ॥
सस्मरुः श्रीहरिं कोपात्स्वात्मारामं विलप्य च ॥७२॥
नारायणो मदंशश्च कृपयाऽऽगत्य सत्वरम् ॥
ब्रह्माणं जीवयामास ब्रह्मज्ञानात्सुतां च ताम् ॥७३॥
ब्रह्मा पुरो हरिं दृष्ट्वा वरं वव्रे स्म वाञ्छितम् ॥
भक्तिं त्वच्चरणे शश्वन्निश्चलामनपायिनीम् ॥७४॥
ब्रह्माणं विरसं दृष्ट्वा तमुवाच कृपानिधिः ॥
प्रबोधवचनं सत्यं नीतिसारं मनोहरम् ॥ ७५ ॥
श्रीनारायण उवाच ॥
शृणु ब्रह्मन्प्रवक्ष्येऽहं मुखमुत्तोल्य साम्प्रतम् ॥
त्यज लज्जां जगन्नाथ हृदयज्वररूपिणीम् ॥ ७६ ॥
सत्कीर्तिरपकीर्तिर्वा सुप्रतिष्ठाप्युपद्रवः ॥
क्षुद्राणां चैव महतां भवत्येव स्वकर्मणा ॥७७॥
सर्वेषामपि सर्वेभ्यः स्वकर्म बलवत्तरम् ॥
तस्मात्सन्तः प्रकुर्वन्ति नित्यं सत्कर्म सन्ततम् ॥ ७८ ॥
केचित्कुर्वन्ति निर्मूलं सर्वेषामपि कर्मणाम् ॥
कृतं कर्म परं भुक्त्वा हरिपादाब्जचेतसः ॥७९ ॥
कुकर्मणश्चापकीर्तिस्ततो लज्जा भवेद्ध्रुवम् ॥
सुकर्मणः सुप्रतिष्ठा सर्वत्र निर्मलं यशः ॥ 4.35.८० ॥
कालेन रजसा देहो बलं रूपं शुभाशुभम् ॥
कीर्तिर्या त्रिगुणा चैव मोहश्चापयशो विधे ॥ ८१ ॥
ऋणव्रणापवादाश्च जन्तूनां यान्ति कालतः ॥
महतां तौ च पूर्वोक्तौ नेतरश्च कदाचन ॥ ८२ ॥
सदाऽपकीर्तिर्वसति परस्त्रीषु च वस्तुषु॥
तस्मात्ते नैव गृह्णन्ति सन्तः स्वक्लेशकारणे ॥ ८३ ॥
स्मर मामन्तरे ब्राह्मे मदीयं विषयं कुरु॥
अतस्ते न मनो लोलं भविता परवस्तुषु ॥ ८४ ॥
योषिद्रूपा च मे माया सर्वेषां मोहकारिणी ॥
लीलया कुरुते मोहं स्वात्मारामस्य सन्ततम् ॥ ८५ ॥
नानामुद्राश्रये देशे रागिणो सन्ततं रतिः॥
स्तनाभिधे मांसपिण्डेऽधरे लालालयेऽशुचौ ॥८६॥
श्रोणिवक्त्रस्तनं तासां कामदेवालयं सदा ॥
तस्मात्ते न हि पश्यन्ति सन्तो हि धर्मभीरवः ॥८७॥
को धर्मः किं यशस्तेषां का प्रतिष्ठा च किं तपः॥
किं बुद्धिर्विद्या दानं च परस्त्रीषु च यन्मनः ॥ ८८ ॥
इहाप्यपयशो दुःखं नरकेषु परत्र च ॥
वासः प्रहारस्तेषां च ताडनैः कृमिभक्षणैः ॥ ८९ ॥
दुःखबीजं सुखं मत्वा मूढाश्च दैवदोषतः ॥
परस्त्रीसेवनं प्रीत्या कुर्वन्ति सन्ततं मुदा ॥ 4.35.९० ॥
उत्तमा मत्पदाम्भोजं सत्कर्म मध्यमाः सदा ॥
स्मरन्ति शश्वदधमाः परस्त्रीसेवनं मुदा ॥ ९१ ॥
विपत्तिः सन्ततं तस्य परवस्तुषु यन्मनः ॥
विशेषतः परस्त्रीषु सुवर्णेषु च भूमिषु ॥ ९२ ॥
दैवात्परस्त्रियं दृष्ट्वा विरमेद्यो हरिं स्मरन् ॥
दृष्ट्वा परसुवर्णं च हस्तप्रक्षालनाच्छुचिः ॥ ९३ ॥
सततं नैव संसक्ताः सन्तः स्वस्त्रीषु कामतः ॥
यक्ष्मव्याधिज्ञानहानिलोकनिन्दाभयेन च ॥९४॥
तपस्विनस्तपस्यायां शास्त्रचिन्तासु पण्डिताः॥
योगिनो योगचिन्तासु वेदार्थेषु च वैदिकाः ॥९५॥
साध्यश्च पतिसेवासु गृहस्था गृहकर्मसु ॥
विषयेषु विषयिणो मद्भक्ता मम सेवने ॥ ९६ ॥
एते नियुक्ता एतेषु सभासु च प्रशंसिताः॥।
वेदोक्ताचरणेनैव तद्विरुद्धेन निन्दिताः ॥९७॥
सर्वे नित्यं प्रशंसन्ति शश्वत्सन्मार्गगामिनम् ॥
हालिका अपि निन्दन्ति कुवर्त्मगामिनं विधे ॥९८॥
भविता न परस्त्रीषु परवस्तुषु ते मनः ॥
अद्यप्रभृति जीवन्तं निविष्टं मद्वरेण च ॥ ९९ ॥
मदीयविषये बाह्ये मया दत्तं कुरु प्रियम् ॥
अन्तरा मत्पदाम्भोजचिन्तां विघ्नविनाशिनीम् ॥ 4.35.१०० ॥
कन्या भवतु मे ब्रह्मन्कामदेवस्य कामिनी ॥
रतिर्नाम परित्याज्या रत्यधिष्ठातृदेवता ॥१०१॥
इत्येवमुक्त्वा ब्रह्माणमाश्वास्य कमलापतिः ॥
जगाम नित्यं वैकुण्ठं वृन्दावनविनोदनः ॥ १०२ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे राधाकृष्णसंवादो नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥