०३४

॥ श्रीकृष्ण उवाच ॥ ॥
एतस्मिन्नन्तरे तत्र शङ्करः समुपस्थितः ॥
सस्मितो वृषभेन्द्रस्थो विभूतिभूषणः स्वयम् ॥ १ ॥
व्याघ्रचर्माम्बरधरो नागयज्ञोपवीतकः ॥
स्वर्णाकारजटाधारमर्धचन्द्रं च सन्दधत् ॥ २ ॥
त्रिशूलपट्टिशकरो बिभ्रत्खट्वाङ्गमुत्तमम् ॥
सद्रत्नसाररचितस्वरयन्त्रकरो मुदा ॥ ३ ॥
वाहनादवरुह्याशु भक्तिनम्रात्मकन्धरः ॥
प्रणम्य कमलाकान्तं वामे चोवास भक्तितः॥४॥
आजग्मुर्मुनयः सर्वे सुराः शक्रादयस्तथा॥
आदित्या वसवो रुद्रा मनवः सिद्धचारणाः ॥ ५ ॥
पुलकाञ्चितसर्वाङ्गास्तुष्टुवुः पुरुषोत्तमम् ॥
प्रणम्य तं शिवं सर्वे सुराश्च नम्रकन्धराः॥ ६ ॥
एतस्मिन्नन्तरे तत्र सङ्गीतं शङ्करो जगौ ॥
कृत्वाऽतीव सुतालं च स्वरयन्त्रसमन्वितः ॥७ ॥
आवयोश्च गुणाख्यानं राससम्बन्धि सुन्दरम् ॥
समयोचितरागेण मनोमोहनकारिणा ॥ ८॥
यत्र कण्ठैकमानेन चैकतानेन चारुणा॥
पदभेदविरामेण गुरुणा लघुना क्रमात्॥ ॥ ९ ॥
गमकेनातिदीर्घेण मदेन मधुरेण च ॥
भवेऽतिदुर्लभं सृष्टं प्रीत्या स्वेन विनिर्मितम् ॥ 4.34.१० ॥
पुलकाञ्चितसर्वाङ्गः साश्रुनेत्रः पुनःपुनः ॥
तदेव श्रुतिमात्रेण मूर्च्छां प्रापुर्विचेतनाः ॥ ११ ॥
बभूवु रुद्ररूपाश्च मुनयः पुरतः प्रिये ॥
रुद्ररूपाः सुराः सर्वे विधातृहरिपार्षदाः ॥ १२ ॥
नारायणश्च लक्ष्मीश्च गायकश्च शिवः स्वयम् ॥
जलपूर्णं च वैकुण्ठं दृष्ट्वा त्रस्तोऽहमीश्वरि ॥ १३ ॥
गत्वा मूर्तीर्विनिर्माय सर्वाश्च तादृशीरिति ॥
तत्स्वरूपास्तदस्त्राश्च तत्स्ववाहनभूषणाः ॥ १४ ॥
तत्स्वभावास्तन्मनस्कास्तत्तद्विषयमानसाः ॥
स्थानं निर्माय परितो वैकुण्ठस्य चतुर्दिशि ॥ १५ ॥
तदधिष्ठातृदेवी च आजगाम स्वमालयम् ॥
शरीरजा सुराणां सा बभूव सुरनिम्नगा ॥ १६ ॥
मुक्तिदा च मुमुक्षूणां भक्तानां हरिभक्तिदा ॥
कोटिजन्मार्जितं पापं विविधं पापिनामहो ॥ १७ ॥
यस्याश्च स्पर्शवायोश्च सम्पर्केण विनश्यति ॥
किं वा न जाने प्राणेशि स्पर्शदर्शनयोः फलम् ॥ १८ ॥
किमुत स्नानजन्यं च कथयामि निरूपणम् ॥
सर्वतीर्थात्परं पृथ्व्यां पुष्करं परिकीर्तितम् ॥ १९ ॥
वेदोक्तं च तदेवास्याः कलां नार्हन्ति षोडशीम् ॥
भगीरथेन चानीता तेन भागीरथी स्मृता ॥ 4.34.२० ॥
गामागता स्रोतसोंऽशाद्गङ्गा तेन प्रकीर्तिता ॥
जानुद्वारा पुरा दत्ता जह्नुनाऽऽपीय कोपतः ॥ २१ ॥
तस्य कन्यास्वरूपा सा जाह्नवी तेन कीर्तिता ॥
भीष्मः स्वयं वसुर्जातस्तस्यांशात्तेन भीष्मसूः ॥ २२ ॥
धाराभिस्तिसृभिः स्वर्गं पृथिवीमतलं तथा ॥
ममाज्ञया च गच्छन्ती तेन त्रिपथगामिनी ॥ २३ ॥
प्रधानधारया स्वर्गे सा च मन्दाकिनी स्मृता ॥
योजनायुतविस्तीर्णा प्रस्थे च योजना स्मृता ॥ २४ ॥
क्षीरतुल्यजला शश्वदत्युत्तुङ्गतरङ्गिणी ॥
वैकुण्ठाद्ब्रह्मलोकं च ततः स्वर्गं समागता ॥ २५ ॥
स्वर्गाद्धिमाद्रिमार्गेण पृथिवीमागता मुदा ॥
सा धाराऽलकनन्दाख्या लवणोदेन मिश्रिता ॥ ॥ २६ ॥
शुद्धस्फटिकसङ्काशा बहुवेगवती सती ॥
पापिनां पापशुष्केन्धं दग्धुं पावकरूपिणी ॥ २७ ॥
अहो सगरवंशेभ्यो निर्वाणमुक्तिदायिनी ॥
वैकुण्ठगामिगी सा च सोपानरूपिणी वरा ॥२८ ॥
अतोऽपि मृत्युसमये सतां पुण्यस्वरूपिणाम् ॥
आदौ पादौ च सन्न्यस्य मुखे तोयं प्रदीयते ॥ २९ ॥
गङ्गासोपानमारुह्य सन्तो यान्ति निरामयम् ॥
आब्रह्मलोकं संलङ्घ्य रथस्थाश्च निरापदः ॥ ॥ 4.34.३० ॥
दैवात्पुरा प्राक्तनेन मग्नं चेत्कृतपातकैः ॥
लोमप्रमाणवर्षं च मोदन्ते हरिमन्दिरे ॥ ३१ ॥
ततो भोगो भवेत्तेषां निश्चितं पापपुण्ययोः ॥
अतिस्वल्पेन कालेन कालव्यूहं च बिभ्रताम् ॥ ३२ ॥
ततः पुण्यवतां गेहे लब्ध्वा जन्म च भारते ॥
सम्प्राप्य निश्चलां भक्तिं भवन्ति हरिरूपिणः ॥ ३३ ॥
मृतद्विजानां देहांश्च दैवाच्छूद्रा वहन्ति चेत् ॥
पदप्रमाणवर्षं च तेषां च नरके स्थितिः ॥ ३४॥
ततस्तेषां च साहाय्यं करोति हरिरूपिणी॥
ददाति मुक्तिं तेभ्योऽपि क्रमेण च कृपामयी॥३५॥
जन्म पुण्यवतां गेहे कारयित्वा च भारते॥
स्थलं ददाति वैकुण्ठे निश्चितं जन्मभिस्त्रिभिः ॥ ३६ ॥
यात्रां कृत्वा तु यः शुद्धौ स्नातुं याति सुरेश्वरीम् ॥
पदप्रमाणवर्षं च वैकुण्ठे मोदते ध्रुवम् ॥ ३७ ॥
गङ्गां प्राप्यानुषङ्गेण स्नाति चेत्समलो नरः ॥
मुच्यते सर्वपापेभ्यः पुनर्यदि न लिप्यते ॥ ३८ ॥
कलौ पञ्च सहस्राब्दं स्थितिस्तस्याश्च भारते ॥
तस्यां च विद्यमानायां कः प्रभावः कलेरहो ॥ ३९ ॥
कलौ दशसहस्राणि वर्षाणि प्रतिमा मम॥
तिष्ठन्ति च पुराणानि प्रभावस्तत्र कः कलेः ॥ 4.34.४० ॥
अतलं याति या धारा सा च भोगवती स्मृता ॥
पयःफेननिभा शश्वदतिवेगवती सदा ॥ ४१ ॥
आकरामूल्यरत्नानां मणीन्द्राणां च सन्ततम् ॥
नागकन्याश्च यत्तीरे क्रीडन्ति स्थिरयौवनाः ॥ ४२ ॥
स्वयं देवी च वैकुण्ठं वेष्टयित्वा च सन्ततम् ॥
सहस्रयोजना प्रस्थे दैर्घ्ये च लक्षयोजना ॥ ४३ ॥
अस्या विनाशः प्रलये नास्त्येव दुहितुर्मम ॥
नानारत्नाकरं दिव्यं तत्तीरं सुमनोहरम् ॥ ४४ ॥
इत्येवं कथितं सर्वं जाह्नवीजन्म पुण्यदम् ॥
ब्रह्मणश्च प्रतीकारो मोहिनीशापता शृणु ॥ ४५ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे जाह्नवीजन्मप्रस्तावो नाम चतुस्त्रिंशोऽध्यायः॥ ॥ ३४ ॥