०३२

श्रीकृष्ण उवाच ॥
मोहिनीस्तवनेनैव कामस्तुष्टो बभूव ह ॥
चकार शरसन्धानमन्तरिक्षे स्थितः स्वयम् ॥ १ ॥
मन्त्रपूतं महास्त्रं च चिक्षेप पितरं मुदा ॥
बभूव चञ्चलो ब्रह्मा कामास्त्रेण च कामुकः ॥ २ ॥
क्षणं निरीक्षणं चक्रे मोहिन्यास्ये पुनःपुनः ॥
ज्ञानं प्राप्य तदा धाता विरराम हरिं स्मरन् ॥३॥
बुबुधे मनसा सर्वं चरितं मन्मथस्य च ॥
शशाप तं सुतमपि विधाता क्रोधविह्वलः ॥ ४ ॥
हे काम यौवनोन्मत्त मूढैश्वर्येण गर्वित ॥
भविता दर्पभङ्गस्ते गुरोर्मे हेलनादिति ॥ ५ ॥
हतोद्यमो जगामाशु मन्मथो मधुना सह ॥
ब्रह्मणः शापभीतश्च शुष्ककण्ठोष्ठतालुकः ॥ ६ ॥
इत्युवाच जगद्धाता मोहिनीं मदनातुराम् ॥
चतुर्वक्त्रं च पश्यन्तीं सस्मितं वक्रचक्षुषा ॥ ७ ॥
ब्रह्मोवाच ॥
मातर्मोहिनि गच्छ त्वं निष्फलं कर्म चात्र ते ॥
ज्ञातस्तवाभिप्रायश्च नाहं योग्योऽस्य कर्मणः ॥ ८ ॥
वेदे जुगुप्सितं कर्म तदेव कर्तुमक्षमः ॥
वेदकर्ता स्वयमहं व्यवस्थाकारको भवे ॥ ९ ॥
अकीर्तिं वेदवक्तुश्च निन्द्यं च किमतः परम् ॥
उपस्थिता च या योषिदत्याज्या रागिणामपि ॥4.32.१०॥
श्रुतौ श्रुतमिति त्याज्या सर्वदैव तपस्विनाम् ॥
अहो सर्वैः परित्याज्या पुंश्चली च विशेषतः ॥ ११ ॥
धनायुःप्राणयशसां नाशिनी दुःखदायिनी ॥
स्वकार्यतत्परा शश्वत्परकार्यविनाशिनी ॥१२॥
निष्ठुरा नवघातिभ्यः सर्वापद्बीजरूपिणी ॥
विद्युद्दीप्तिर्जले रेखा लोभान्मैत्री यथा भवेत् ॥ १३ ॥
परद्रोहाद्यथा सम्पत्कुलटाप्रेम तत्समम् ॥
सर्वेभ्यो हिंस्रजन्तुभ्यो विपद्बीजा सदैव हि ॥१४॥
यो विश्वसेत्तां सम्मूढो विपत्तस्य पदेपदे ॥
त्वं च रूपवती धन्या वञ्चिता कामुकैः सदा॥१५॥
यूनां सम्पत्स्वरूपा च विषतुल्या तपस्विनाम्॥
त्वमेवाप्सरसां श्रेष्ठा सर्वदा स्थिरयौवना ॥१६॥
तवैव कर्म योग्यं च युवानं पश्य सुन्दरि ॥
त्वं विदग्धा च योषित्सु विदग्धान्वेषणं कुरु ॥ १७ ॥
विदग्धाया विदग्धेन सङ्गमो गुणवान्भवेत् ॥
जरातुरोऽहं वृद्धश्च तपस्वी वैष्णवो द्विजः ॥१८॥
अस्वतन्त्रः पराधीनः का रतिः पुंश्चलीषु मे ॥
अये वत्से गच्छ शीघ्रं विहाय पितरं च माम् ॥१९॥
नात्राऽहं च जगत्स्रष्टा तस्मात्तव पिता सदा॥
मन्मथं चन्द्रमित्रं च जयन्तं नलकूबरम् ॥ 4.32.२० ॥
स्वर्वैद्यौ चन्द्रतनयं दितिपुत्रांश्च सुन्दरान् ॥
कामशास्त्रेषु निष्णातान्रतिकर्मविशारदान् ॥ ॥ २१ ॥
या मां यासि हि तांस्त्यक्त्वा सा विदग्धा च कामुकी ॥
सदा सम्भोगविषये स्त्रियं प्रार्थयते पुमान् ॥२२ ॥
स्त्री चेत्प्रयाति पुरुषं विपरीतं विडम्बनम् ॥
सर्वेषां चैव रत्नानां स्त्रीरत्नं दुर्लभं परम् ॥२३ ॥
स्वयं प्रार्थयते स्वामी न तु स्वामिनमेव च॥
योषिज्जातिषु धिक् ताश्च स्वयं याः समुपस्थिताः॥२४॥
भवेद्दूरं स्वल्पमूल्यं रत्नं स्वयमुपस्थितम् ॥
नित्यं पुमान्स्त्रियं याति स्त्री वा याति च न प्रियम् ॥ २५ ॥
लोकाचारेषु वेदेषु न स्त्री याति परप्रियम् ॥
स्ववस्तु भुङ्क्ते यः काले शास्त्रोक्तविधिपूर्वकम् ॥२६॥
स पूज्यो न भवेत्पूज्यो यद्रतिः परवस्तुषु ॥
कः कस्य शत्रुरबले निशामय जगत्त्रये ॥ २७ ॥
स्वेन्द्रियाः शत्रवः सर्वे शत्रुता यन्निमित्ततः ॥
वेदोक्ताचरणे सर्वं मित्रं च जगतां जगत् ॥ २८ ॥
कृते वेदविरुद्धे च मित्रं शत्रुर्भवेद्ध्रुवम् ॥
वेदोक्तं कृतवन्तं च हरिस्तुष्टो दिवानिशम् ॥ २९ ॥
हरौ तुष्टे जगत्तुष्टं तस्मिन्रुष्टे भवो रिपुः ॥
कुत्रास्ति कुलटाजातिः साध्वीजातिश्च कुत्र वा ॥ 4.32.३० ॥
स्वकीयाचरणात्सर्वं भवे भवति कर्मणः ॥
स्त्रीजातिः प्रकृतेरंशा नारायणविनिर्मिता ॥ ३१ ॥
दुःशीला पुंश्चली निन्द्या सुशीला च पतिव्रता ॥
पतिव्रतास्तु त्रिविधाः पुंश्चलीषु च योषितः ॥ ३२ ॥
तासामेवंविधा नास्ति स्वयं याति परप्रियम् ॥
स्त्रीजातीनां च मध्ये च काऽस्त्येवं कुलकज्जला ॥३३॥
भवे रत्यै स्वयं दृष्ट्वा वेषं कृत्वा प्रयाति तम् ॥
क्षोभिता यदि पश्यन्ती भक्ष्यद्रव्यमसाध्यकम् ॥ ॥३४॥
वैकुल्यान्नहि तत्साध्यं सामान्यमेव केवलम् ॥
इत्येवमुक्त्वा जगतां विधाता विरराम च ॥
वक्तुं समुद्यता सा च कोपप्रस्फुरिताधरा ॥ ३५ ॥
मोहिन्युवाच ॥
ज्ञातं सर्वं जगद्धातश्चरितं तव साम्प्रतम् ॥ ३६ ॥
त्वया निबोधिता नीतिर्मनो मे न स्थिरं भवेत् ॥
भूतं त्वयि विशिष्टं च यावद्दृष्टः क्षणे भवान् ॥३७॥
त्वद्वक्त्रदृष्टिमात्रेण सर्वे जाराश्च विस्मृताः ॥
देहं कामाग्निना दग्धं यदा त्यक्तुं समुद्यता ॥ ३८ ॥
निषिषेध च मां रम्भा प्रददौ मन्त्रमीदृशम् ॥
तदा कामसहायेन त्वत्समीपं समागता ॥३९॥
समधुस्तव शापेन स जगाम हतोद्यमः ॥
अहो गन्तुमशक्ताऽहं त्वया यद्यपि भर्त्सिता ॥ 4.32.४० ॥
सर्वाङ्गेष्वेव मे जाड्यं बभूव साम्प्रतं विभो ॥
कृपां कुरु कृपासिन्धो न मां हन्तुं त्वमर्हसि ॥ ४१ ॥
तवाश्लेषणमात्रेण विज्वराऽहं सुनिश्चितम् ॥
त्वमेव जगतां धाता कुलटाऽहं च कर्मणा ॥ ४२ ॥
सन्तो गर्वं न कुर्वन्ति कर्मसाध्याश्च जीविनः ॥
कश्चित्प्रयाति यानेन वहन्ति तं च केचन ॥४३॥
करं गृह्णाति नृपतिः कर्मणा ददति प्रजाः ॥
कश्चित्सिंहासनस्थश्च नृपमात्रश्च कश्चन ॥ ४४ ॥
कर्मणा वाहकाः केचित्केचिद्वाहनपालकाः ॥
सूकरीजठरं कश्चिन्सम्प्रयाति स्वकर्मणा ॥ ४५ ॥
कश्चिच्छच्याश्च जठरं तव पुत्राश्च केचन ॥
केचित्कृत्वा हरेर्भक्तिं कर्मणा तस्य पार्षदाः ॥ ४६ ॥
केचिद्भवन्ति कृमयो विष्ठायां दैवदोषतः ॥
स्वर्गं प्रयान्ति राजेन्द्राः केचिच्च स्वस्वकर्मणा ॥ ४७ ॥
केचित्प्रयान्ति नरकं विण्मूत्रे तत्र पच्यते ॥
कर्मणा कश्चिदिन्द्रेन्द्रः सुराणां प्रवरः स्वयम्॥४८॥
केचित्सुरा नराः केचित्केचिच्च क्षुद्रजन्तवः ॥
केचिच्च कर्मणा विप्रा वर्णश्रेष्ठा महीतले ॥ ४९ ॥
केचिद्भूपा वैश्यशूद्राः केचिच्च म्लेच्छजातयः॥
केचित्स्वकर्मणा प्राज्ञा ज्ञानेन सर्वदर्शिनः ॥4.32.५०॥
केचिन्मूर्खाः केचिदन्धाः स्वाङ्गहीनाश्च केचन ॥
केचिच्छास्त्रं बोधयन्ति शिष्यवर्गान्स्वकर्मणा ॥५१॥
केचित्पठन्ति सर्वार्थं जानन्ति गुरुवक्त्रतः ॥
भवन्ति कर्मणा केचिद्देहे स्थावरजङ्गमे ॥५२॥
तपस्वी नवघाती च त्वं च ब्रह्मा च कर्मणा ॥
काचित्स्वकर्मणा साध्वी पूज्येह च परत्र च ॥५३॥
काचिद्वेश्या तदाहारं भुङ्क्ते कृत्वाऽङ्ग विक्रयम् ॥
स्वर्वेश्याऽहं सुरपुरे सुरभोग्या सुपूजिता ॥५४॥
येषामालिङ्गनेनैव कर्मणां खण्डनं भवेत् ॥
मनः स्वभावबीजं च स्वभावः कर्मबीजकः ॥ ९९ ॥
तत्कर्मफलबीजं च सर्वेषां जनको हरिः ॥
फलं ददाति नियतं कर्मद्वारा विभुः स्वयम् ॥ ५६ ॥
सर्वेभ्यो बलवान्नित्यं कर्मरूपी जनार्दनः ॥
कुतो हेतोर्निन्न्दिताऽहं त्वयैव भर्त्सिता कथम् ॥ ५७ ॥
जगत्स्रष्टुरीश्वरस्य पादाब्जं द्रष्टुमागता ॥
स्वप्ने यस्य पदद्वन्द्वं न हि पश्यन्ति योगिनः ॥ ५८ ॥
तमीश्वरं पतिं कर्तुमिच्छया स्वयमागता ॥
गत्वा हि कस्यचित्स्थानमस्पृश्येह परत्र च ॥ ५९ ॥
कस्यचित्पादरजसा यशसा भान्ति योषितः ॥
इत्युक्त्वा मोहिनी शीघ्रं गत्वोवास हरेः पुरः ॥ 4.32.६० ॥
स्वयं विधाता जगतां चकम्पे कुलटाभयात् ॥
सस्मिता वक्रनयना कामभावं चकार ह ॥ ६१ ॥
स्वाङ्गं च दर्शयामास कामबाणप्रपीडिता ॥
एतस्मिन्नन्तरे कामः सर्वज्ञः सर्वयोगवित् ॥ ६२ ॥
आविर्भूय पञ्च बाणान्निचिक्षेप च ब्रह्मणि ॥
सम्मोहनं समुद्वेगं बीजस्तम्भितकारणम् ॥ ६३ ॥
उन्मत्तबीजं ज्वलदं शश्वच्चेतनहारकम् ॥
एतान्प्रक्षिप्य मदनोऽप्यन्तरिक्षस्थितः स्वयम्॥६४॥
किङ्करान्प्रेषयामास सम्मोहाय पितुर्मुदा ॥
वसन्तं कोकिलालीश्च गन्धवातं मनोहरम् ॥ ६५ ॥
नियुज्याभ्यन्तरं गत्वा तद्विकारं चकार ह ॥
पुंस्कोकिलः कलं रावमुवाच तत्समीपतः॥।
षट्पदः सुन्दरं सूक्ष्मं जुगुञ्जे पुरतः स्थितः॥
शश्वद्ववौ गन्धवहो मन्दोऽतिशीतलः प्रिये ॥ ६७ ॥
सततं मुदितस्तत्र बभ्राम च मधुः स्वयम् ॥
पुलकाञ्चितसर्वाङ्गो बभूव जगतां विधिः ॥ ६८ ॥
ददर्श मोहिनी भावं प्रहस्य च पुनः पुनः ॥
अतीव वक्रनयना कामास्त्रहतचेतना ॥ ६९॥
विधाता बुबुधे सर्वं सर्वबन्धनिबन्धनम्॥
नियन्तुं न मनः शक्तः सस्मार श्रीहरिं भिया ॥ 4.32.७० ॥
तुष्टाव मनसा कृष्णं शान्तं हृत्पङ्कजस्थितम् ॥
द्विभुजं मुरलीहस्तं हरिं पीताम्बरं परम् ॥ ७१ ॥
अतीव कमनीयं च किशोरं स्थिरयौवनम् ॥
रत्नालङ्कारभूषाढ्यं सस्मितं श्यामसुन्दरम् ॥ ७२ ॥
ब्रह्मोवाच ॥
रक्ष रक्ष हरे मां च निमग्नं कामसागरे ॥
दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसङ्कटे ॥ ७३ ॥
भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे ॥
अतीव निर्मलज्ञानचक्षुःप्रछन्नकारणे ॥ ७४ ॥
जन्मोर्मिसङ्घसहिते योषिन्नक्रौघसङ्कुले ॥
रतिस्रोतःसमायुक्ते गम्भीरे घोर एव च ॥ ७५ ॥
प्रथमामृतरूपे च परिणामविषालये ॥
यमालयप्रदेशाय मुक्तिद्वारातिविस्मृते॥७६॥
बुद्ध्या तरण्या विज्ञानैरुद्धरास्मानतः स्वयम् ॥
स्वयं च त्वं कर्णधारः प्रसीद मधुसूदन ॥७७॥
मद्विधाः कतिचिन्नाथ नियोज्या भवकर्मणि॥
सन्ति विश्वेश विधयो हे विश्वेश्वर माधव ॥ ७८ ॥
न कर्मक्षेत्रमेवेदं ब्रह्मलोकोऽयमीप्सितः ॥
तथापि नः स्पृहा कामे त्वद्भक्तिव्यवधायके॥७९ ॥
हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु ॥
त्वं महेश महाज्ञाता दुःस्वप्नं मां न दर्शय ॥ 4.32.८० ॥
इत्युक्त्वा जगतां धाता विरराम सनातनः ॥
ध्यायन्ध्यायं मत्पदाब्जं शश्वत्सस्मार मामिति ॥ ८१ ॥
ब्रह्मणा च कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ॥
स चैवाकर्ण्य विषये न निमग्नो भवेद्ध्रुवम् ॥ ८२ ॥
मम मायां विनिर्जित्य सञ्ज्ञानं लभते ध्रुवम् ॥
इह लोके भक्तियुक्तो मद्भक्तप्रवरो भवेत् ॥ ८३ ॥
॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे ब्रह्ममोहिनीसंवादे द्वात्रिंशोऽध्यायः ॥ ३२ ॥