॥ श्रीराधिकोवाच ॥
किमाश्चर्यं श्रुतं नाथ चरितं सुमनोहरम् ॥
अधुना श्रोतुमिच्छामि ब्रह्मणः शापकारणम् ॥ १ ॥
यो विधाता त्रिजगतां तपसां फलदायकः ॥
स कथं कुलटाशापादपूज्यश्च बभूव ह ॥ २ ॥
श्रीकृष्ण उवाच ॥
मन्वन्तरे रैवतस्य सुचन्द्रो नृपपुङ्गव ॥
तपस्वी वैष्णवः श्रेष्ठो ज्ञानी परमधार्मिकः ॥ ३ ॥
स च पूर्वं तपः कुर्वन्नाजगाम मम प्रिये ॥
इमां च मलयद्रोणीं भारतेषु मनोहराम् ॥४॥
तपश्चकार राजेन्द्रो वर्षाणां च सहस्रकम् ॥
जीर्णं तस्य शरीरं च कठोरेण तपस्विनः ॥५॥
वल्मीकाच्छादितं देहं दृष्ट्वा धाता कृपानिधिः ॥
आजगाम वरं दातुं तपःस्थानं सुनिर्जनम् ॥६॥
कमण्डलुजलेनैव मम देहोद्भवेन च॥
सिषेच तं च मन्त्रेण मया दत्तेन योगवित् ॥ ७ ॥
कमण्डलुजलस्पर्शादुत्थाय नृपतिः स्वयम् ॥
ननाम भक्त्या जगतां स्रष्टारं च पुरः स्थितम्॥८॥
स तं नमन्तं राजानमुवाच कमलोद्भवः ॥
वरं वृण्विति राजेन्द्र यत्ते मनसि वाञ्छितम् ॥ ९ ॥
तस्य तद्वचनं श्रुत्वा वरं वव्रे परात्परम् ॥
ममैव चरणे भक्तिं मदीयं दास्यमेव च ॥4.31.१०॥
कृपया च वरं ब्रह्मा दत्तवानभिवाञ्छितम् ॥
स च तत्पुरतस्तस्थौ कामदेवसमप्रभः ॥११॥
एतस्मिन्नन्तरे राजा ददर्श रथमुत्तमम् ॥
आकाशान्निपतन्तं वै शतसूर्यसमप्रभम् ॥ १२ ॥
तेजसाऽऽच्छादितं सर्वं सुप्रदीप्तं दिशो दश ॥
रत्नेन्द्रसारनिर्माणं शतचक्रसमन्वितम् ॥ १३ ॥
अमूल्यरत्नरचितं विचित्रकलशोज्ज्वलम् ॥
मुक्तामाणिक्यहीराणां मालाजालैश्च राजितम् ॥ १४ ॥
सद्रत्नदर्पणैर्दीप्तैरतीव सुमनोहरम् ॥
भूषितं दिव्यवस्त्रैश्च श्वेतचामरकोटिभिः ॥ १५ ॥
पारिजातप्रसूनानां मालाजालैः सुशोभितम् ॥
मनोयायि महाश्चर्यं नानाचित्रेण चित्रितम् ॥१६॥
वेष्टितं पार्षदैर्दिव्यै रत्नभूषणभूषितैः॥
चतुर्भुजैः श्यामलैश्च ज्वलद्भिः स्थिरयौवनैः ॥ १७ ॥
पीतवस्त्रपरीधानैश्चन्दनागुरुचर्चितैः ॥
दृष्ट्वा रथस्थान्देवांश्च ननाम नृपतिर्मुदा ॥ १८ ॥
सहसा तस्य शिरसि पुष्पवृष्टिर्बभूव ह ॥
नेदुर्दुन्दुभयः स्वर्गे चानकाश्च मनोहराः ॥ १९ ॥
ऋषयो मुनयः सिद्धाः प्रकुर्वन्तो मुदाऽऽशिषम् ॥
प्रशशंसुः सुराः सर्वे राजानं हर्षनिर्भराः ॥ 4.31.२० ॥
राजा च पार्षदान्ध्यात्वा तद्रूपश्च बभूव ह ॥
पार्षदास्तं रथे कृत्वा नीत्वा जग्मुर्ममालयम् ॥ २१ ॥
मदीयः पार्षदो भूत्वा स च तस्थौ ममान्तिके ॥
ततः स्वमन्दिरं यान्तं ददर्श मोहिनी विधिम् ॥२२॥
पुष्पोद्याने च रम्ये च पुष्पचन्दनवायुना॥
सद्यो मुमोह तं दृष्ट्वा प्रदग्धा मदानानलैः॥२३॥
विलोक्य वक्रनयना जुगोप सस्मितं मुखम्॥
सिन्दूरबिन्दुं दधती कस्तूरीबिन्दुना सह॥२४॥
चारुचम्पकवर्णाभा सततं स्थिरयौवना॥
बृहन्नितम्बयुगला पीनश्रोणिपयोधरा ॥२५॥
शरत्पार्वणशुभ्रांशुप्रभामुष्टकरानना ॥
सूक्ष्मवस्त्रपरीधाना रत्नालङ्कारभूषिता ॥ २६ ॥
त्रैलोक्यं मोहितुं शक्ता कटाक्षैरेव लीलया ॥
अतीव कामिनी शश्वद्गजेन्द्रमन्दगामिनी ॥२७॥
पुलकाञ्चितसर्वाङ्गी मूर्च्छां सम्प्राप वर्त्मनि ॥
सन्निरीक्ष्य च तां ब्रह्मा जगाम श्रीहरिं स्मरन् ॥ २८ ॥
स विकारं न हि प्राप ह्यात्मारामो जितेन्द्रियः ॥
ब्रह्मलोकं च सम्प्राप ब्रह्मा च जगतां पतिः ॥ २९ ॥
सकामा सा च कुलटा बभूव हतचेतना ॥
दिवानिशं चिन्तयन्ती स्वप्ने ज्ञाने चतुर्मुखम् ॥ 4.31.३० ॥
सर्वं जारं विसस्मार तत्याज हरिमीश्वरी ॥
उत्तिष्ठन्ती निवसती शयनं कुर्वती क्षणम् ॥३१॥
तप्तपात्रे यथा सस्यं भ्रमत्येव तथा पथि ॥
एतस्मिन्नन्तरे रम्भा विदग्धाऽप्सरसां वरा ॥ ॥ ३२ ॥
गच्छन्ती कामलोकं सा सकामा तेन वर्त्मना ॥
दृष्ट्वा सहचरीं तत्र शुष्ककण्ठोष्ठतालुकाम् ॥
अभिप्रायेण बुबुधे पप्रच्छ सस्मिता तदा ॥ ३३ ॥
रम्भोवाच ॥
कथमेवंविधा त्वं हि त्रैलोक्यचित्तमोहिनि ॥ ३४ ॥
वद शीघ्रं महाभागे रम्भाऽहं चेतनं कुरु ॥
कमुद्दिश्य सकामा त्वं गच्छ त्वं कान्तमीप्सितम् ॥३५॥
कुलटा सर्वसौभाग्या न वयं कुलपालिकाः ॥
सर्वे व्यग्रा इन्द्रियाणां सुखाय भुवनत्रये ॥३६॥
यान्ति प्राणा यतः काले का लज्जा तत्र जीविनाम् ॥
न चात्मनः परः कश्चित्प्रियोऽस्ति भुवनत्रये ॥३७॥
कान्तेऽपत्ये स्वबन्धौ च स्नेहो यः स्वात्महेतुकः ॥
सम्बन्धः स्वात्मनो यावत्तावत्स्नेहोऽस्ति तत्र वै ॥ ३८ ॥
येषु यन्मानसं शश्वत्तेषां प्राणास्त एव हि ॥
गच्छन्तीं कामलोकं च सकामां पश्य मां प्रिये ॥ ३९ ॥
सह सख्या समालोक्य मनसा गच्छ तं प्रियम् ॥
निबद्ध्य नीवी केशांश्च कृत्वा वेषमभीप्सितम् ॥ 4.31.४० ॥
मुनिमोहनबीजं च तं मोहं कुरु मोहिनि ॥
कथयस्व महाभागे वचनं हृदयङ्गमम् ॥ ४१ ॥
रक्षात्मानं प्रभावं च स्त्रीजातीनां जगत्त्रये ॥
स्वाभिप्रायश्च सुरतौ न प्रकाश्यः कदाचन ॥४२॥
स्वान्तं कान्तं स्वानुरक्तमृज्वीं सहचरीं विना ॥
तस्माद्यत्नेन हृद्वाक्यं प्रकाश्यं च प्रिये प्रिये ॥ ४३ ॥
अन्यथा चोपहासाय मरणायैव कल्पते ॥
तस्याश्च वचनं श्रुत्वा सस्मिता सा सुलज्जिता ॥
हृद्यं च कथयामास यद्धेतोस्तादृशी गतिः ॥ ४४ ॥
मोहिन्युवाच ॥
यावद्दृष्टो मया रम्भे निर्जने चतुराननः ॥ ४५ ॥
तावन्मनो मेऽतिदग्धं शश्वन्मनसिजानलैः ॥
न दत्तमात्मने भक्ष्यमन्तरे न हि रोचते ॥ ॥ ४६ ॥
जानामि नाहमुदयं यामिनीशदिनेशयोः ॥
अधुना नहि भेदो मे सततं स्वप्नज्ञानयोः ॥ ४७ ॥
मम प्राणाः प्रतीक्षन्ते तस्यालिङ्गनमेव च ॥
क्षणं विज्ञाय न चिरं यास्यन्ति नान्यथा प्रिये ॥ ४८ ॥
कामज्वालाकलापैश्च स्वर्णाकारं कलेवरम् ॥
अनाहारेण चेदानीं बभूव दग्धशैलवत् ॥४९॥
गन्तुं स्थातुं न शक्ताऽहं शयनं कर्तुमुद्यता॥
धिगस्तु पुंश्चलीजातिं मामेव च विशेषतः ॥4.31.५०॥
कमुपायं करिष्यामि वद रम्भेऽतिसाम्प्रतम् ॥
लज्जां वाऽपि शरीरं वा विसृजामि च किं द्वयोः॥५१॥
मोहिनीवचनं श्रुत्वा प्रहस्याप्सरसां वरा ॥
तामुवाच हितं नीतमुपायं शुभकारणम् ॥ ५२ ॥
रम्भोवाच ॥
एवमेतदहो भद्रे भद्रस्य कारणं तव ॥
सर्वं त्वपनयिष्यामि शृणूपायं भयं त्यज ॥ ५३ ॥
कृत्वा वेषमपूर्वं च पूर्वमाराध्य मन्मथम् ॥
तेन सार्द्धं स्वयं गत्वा मोहं कुरु च भामिनि ॥ ॥५४॥
जितेन्द्रियाणां प्रवरं साक्षान्नारायणात्मकम् ॥
विना कामसहायेन का शक्ता जेतुमीश्वरम् ॥५५॥
भज कामं तपः कृत्वा पुष्करे व्रज मोहिनि ॥
सद्यः साक्षात्स भविता दयालुर्योषितां प्रभुः ॥५६॥
इत्युक्त्वा तामप्सरसां प्रवरा काममन्तिकम् ॥
जगामेन्द्रियशान्त्यर्थं सा जगाम च पुष्करम् ॥ ५७ ॥
पुष्करे च तपः कृत्वा कामं सम्प्राप्य मोहिनी ॥
जगाम तेन सार्द्धं च ब्रह्मलोकमनामयम् ॥ ५८ ॥
ददर्श निर्जनस्थं च मोहिनी कमलोद्भवम् ॥
तमेव मोहनं कर्तुं समारेभे पुरः स्थिता ॥ ५९ ॥
क्षणं ननर्त सुचिरं सुगानेन क्षणं जगौ ॥
सङ्गीतं मम सम्बन्धि भक्तानां चित्तमोहनम् ॥ 4.31.६० ॥
विधाता जगतां तस्याः श्रुत्वा सङ्गीतमीप्सितम् ॥
पुलकाञ्चितसर्वाङ्गो मुमोह साश्रुलोचनः ॥ ६१ ॥
दृष्ट्वा मुग्धं चतुर्वक्त्रं मोहिनी हृष्टमानसा ॥
कलाप्रमाणं भावं च चकार तत्र लीलया ॥ ६२ ॥
स्वाङ्गं सन्दर्शयामास स्मेरभ्रूभङ्गपूर्वकम् ॥
का लज्जा तस्य संसारे यः कामहतचेतनः ॥ ६३ ॥
विज्ञाय ब्रह्मा तद्भावं नतवक्त्रो बभूव ह ॥
प्रदाय तस्या दानं च विरतः श्रीहरिं स्मरन् ॥ ६४ ॥
विज्ञाय ब्रह्मणो भावं शुष्ककण्ठोष्ठतालुका ॥
हतोद्यमा सा तुष्टाव कामं कामप्रदं वरम् ॥ ६५ ॥
मोहिन्युवाच ॥
सर्वेन्द्रियाणां प्रवरं विष्णोरंशं च मानसम् ॥
तदेव कर्मणां बीजं तदुद्भव नमोऽस्तु ते ॥ ६६ ॥
स्वयमात्मा हि भगवाञ्ज्ञानरूपो महेश्वरः ॥
नमो ब्रह्मञ्जगत्स्रष्टस्तदुद्भव नमोऽस्तु ते ॥ ६७ ॥
सृष्टिः सर्वशरीरेषु दृष्टिश्च योगिनामपि ॥
जगत्साध्य दुराराध्य दुर्निवार नमोऽस्तु ते ॥६८॥
सर्वाजित जगज्जेतर्जीव जीवमनोहर॥
रतिबीज रतिस्वामिन्रतिप्रिय नमोऽस्तु ते ॥ ६९ ॥
शश्वद्योषिदधिष्ठान योषित्प्राणाधिकप्रिय ॥
योषिद्वाहन योषास्त्र योषिद्बन्धो नमोऽस्तु ते ॥ 4.31.७० ॥
पतिसाध्यकराशेषरूपाधार गुणाश्रय ॥
सुगन्धिवातसचिव मधुमित्र नमोऽस्तु ते ॥ ७१ ॥
शश्वद्योनिकृताधार स्त्रीसन्दर्शनवर्धन ॥
विदग्धानां विरहिणां प्राणान्तक नमोऽस्तु ते ॥ ७२ ॥
अकृपा येषु तेऽनर्थास्तेषां ज्ञानविनाशनम् ॥
अनूहरूपभक्तेषु कृपासिन्धो नमोऽस्तु ते ॥ ७३ ॥
तपस्विनां च तपसां विघ्नबीजावलीलया ॥
मनः सकामं मुक्तानां कर्तुं शक्त नमोऽस्तु ते ॥ ७४ ॥
तपःसाध्याश्चाराध्याश्च सदैवं पाञ्चभौतिकाः ॥
पञ्चेन्द्रियकृताधार पञ्चबाण नमोऽस्तु ते ॥ ७५ ॥
मोहिनीत्येवमुक्त्वा तु मनसा सा विधेः पुरः ॥
विरराम नम्रवक्त्रा बभूव ध्यानतत्परा ॥ ७६ ॥
उक्तं माध्यन्दिने कान्ते स्तोत्रमेतन्मनोहरम् ॥
पुरा दुर्वाससा दत्तं मोहिन्यै गन्धमादने ॥ ७७ ॥
स्तोत्रमेतन्महापुण्यं कामी भक्त्या यदा पठेत् ॥
अभीष्टं लभते नूनं निष्कलङ्को भवेद् ध्रुवम् ॥७८॥
चेष्टां न कुरुते कामः कदाचिदपि तं प्रियम् ॥
भवेदरोगी श्रीयुक्तः कामदेवसमप्रभः ॥
वनितां लभते साध्वीं पत्नीं त्रैलोक्यमोहिनीम् ॥ ७९ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे मोहिनी स्तोत्रवर्णनं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥