॥ नारद उवाच ॥ ॥
महामुने रहस्यं च श्रुतं ब्रह्मन्किमद्भुतम् ॥
मृते मुनौ किं चकार श्रीकृष्णो भक्तवत्सलः ॥ १ ॥
श्रीनारायण उवाच ॥
दृष्ट्वा मृतं मुनिं कृष्णः संस्कारं कर्तुमुद्यतः ॥
कृत्वा वक्षसि तद्देहं रुरोदोच्चैर्यथा नरः ॥२॥
बाहुभ्यां च समाश्लिष्य पिपेषोद्रिक्तमोहतः ॥
निर्गतं भस्मनिकरं शवाद्वज्राङ्गघर्षणात् ॥ ३ ॥
रक्तमांसास्थिहीनं तच्छरीरं च महात्मनः ॥
षष्टिवर्षसहस्राणि निराहारः कृतो मुने ॥ ४ ॥
दग्धं लोहितमांसास्थि ज्वलता जठराग्निना ॥
बाह्यज्ञानविहीनस्य हरिपादाब्जचेतसः ॥ ५ ॥
चितां चन्दनकाष्ठेन निर्माय मधुसूदनः ॥
कृत्वाऽग्निकार्यं तत्रैव स्थापयामास शोकतः ॥ ६ ॥
ददौ चितायामग्निं च काष्ठं दत्त्वा शवोपरि ॥
ज्वलितायां चिता यां च मूर्च्छामाप क्षणं विभुः ॥७॥
तद्देहे भस्मसाद्भूते नेदुर्दुन्दुभयो दिवि ॥
बभूव पुष्पवृष्टिश्च तत्क्षणाद्गगनादहो ॥ ८ ॥
एतस्मिन्नन्तरे तत्र रत्नसारविनिर्मितम् ॥
स्यन्दनं च मनोयायि वस्त्रमाल्यपरिच्छदम् ॥ ९ ॥
पार्षदप्रवरैर्युक्तं श्रीकृष्णसदृशैर्वरैः ॥
आविर्बभूव गोलोकात्सुन्दरं पुरतो हरेः ॥ 4.30.१० ॥
अवरुह्य रथात्तूर्णं पार्षदप्रवरा हरेः ॥
सर्वे समानरूपास्ते प्रणम्य राधिकेश्वरौ ११ ॥
धृतवन्तं सूक्ष्मदेहं प्रणमय्य मुनीश्वरम् ॥
रथे कृत्वा तु तं देहं जम्मुर्गोलोकमुत्तमम् ॥ १२ ॥
गते मुनीन्द्रे गोलोकं वृन्दावनविनोदिनी ॥
बभूव विस्मिता साध्वी पप्रच्छ जगदीश्वरम् ॥ १३ ॥
श्रीराधिकोवाच ॥
कोऽयं नाथ मुनिश्रेष्ठः सर्वावयवव क्रिमः ॥
अतिखर्वजनाकारस्तेजीयानतिकुत्सितः ॥ १४ ॥
कथं वा निर्गतं भस्म देहादस्य किमद्भुतम् ॥
साक्षाद्विलीनं यत्तेज स्त्वत्पादाब्जेऽनलोपमम् ॥ १५ ॥
रथस्थः पुण्यवान्सद्यो गोलकं च जगाम ह ॥
स्वात्मारामस्य यद्धेतो रोदनं ते बभूव ह ॥ १६ ॥
त्वया कृतं च सत्कारमश्रुपूर्णेन चक्षुषा ॥
सर्वं विवरणं तूर्णं संव्यस्य कथय प्रभो ॥ १७ ॥
राधिकावचनं श्रुत्वा प्रहस्य मधुसूदनः
कथां कथितुमारेभे युगान्तरगतामपि ॥ १८ ॥
श्रीकृष्ण उवाच ॥
रहस्यमष्टावक्रीयं विख्यातं सर्वतः प्रिये ॥
पश्चाच्छ्रोष्यसि कालेन प्रसङ्गे विदुषां मुखात् ॥१९॥
अष्टावक्रो मुनीन्द्रोऽपि विख्यातो भुवनत्रये ॥
परिपूर्णं यद्यशसा जन्मना तज्जगत्त्रयम्॥4.30.२०॥
कृष्णस्य वचनं श्रुत्वा विमनस्का हरिप्रिया ॥
उवाच मधुरं यत्नाच्छुष्ककण्ठोष्ठतालुका ॥ २१ ॥
राधिकोवाच ॥
यत्तृषालोर्मनः पूर्ण न बभूव सुधाम्बुधौ ॥
स वितृप्तो भवति किं गोष्पदोदकपानतः ॥ २२ ॥
वेदानां वेदवक्तॄणां विधातुर्जनकस्य च ॥
महाविष्णोरीश्वरस्त्वं कोऽन्यो वक्ताऽस्ति त्वत्परः ॥२३॥
राधिकावचनं श्रुत्वा तुष्टः कृष्णो बभूव ह ॥
उवाच गोपनीयं च रहस्यं परमाद्भुतम् ॥ २४ ॥
श्रीकृष्ण उवाच ॥
शृणु कान्ते प्रवक्ष्येऽहमितिहासं पुरातनम् ॥
श्रवणात्कथनाद्यस्य सर्वं पापं प्रणश्यति ॥ २५ ॥
महाविष्णोर्नाभिपद्माद्बभूव जगतां विधिः ॥
ममांशस्य मत्कलया जलाकीर्णे जगत्त्रये ॥ २६ ॥
पुत्रा बभूवुश्चत्वारो ब्रह्मणो मानसात्पुरा ॥
नारायणपराः सर्वे ज्वलन्तो ब्रह्मतेजसा ॥ २७ ॥
शिशवः पञ्चवर्षीया नग्ना अज्ञानिनो यथा ॥
बाह्यज्ञानविहीनाश्च ब्रह्मतत्त्वविशारदाः ॥ २८ ॥
सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥
सनत्कुमारो भगवानेते चत्वार एव च ॥२९॥
तानुवाच जगद्धाता सृष्टिं कुरुत पुत्रकाः ॥
ते न तस्थुः पितुर्वाक्ये प्रययुस्तपसे मम ॥4.30.३०॥
विधाता विमनस्कश्च तनयेषु गतेषु च ॥
पितुर्दुःखाय प्रभवेत्पुत्रश्चेदवचस्करः ॥ ३१ ॥
ज्ञानेन निर्ममे पुत्रान्स्वाङ्गेषु च तपोधनान् ॥
वेदवेदाङ्गविज्ञांश्च ज्वलतो ब्रह्मतेजसा ॥३२॥
अत्रिः पुलस्त्यः पुलहो मरीचिर्भृगुरङ्गिराः ॥
क्रतुर्वसिष्ठो वोढुश्च कपिलश्चासुरिः कविः ॥३३॥
शङ्कुः शङ्खः पञ्चशिखः प्रचेतास्ते तपोधनाः ॥
बहुकालं तपस्तप्त्वा चक्रुः सृष्टिं तदाज्ञया ॥ ३४ ॥
कलत्रवन्तस्ते सर्वे संसारं कर्तुमु न्मुखाः ॥
बभूवुः पुत्रपौत्राश्च सर्वेषां च तपस्विनाम्॥ ३९॥
तदस्तु च कथा बह्वी मुनिवंशानुकीर्तनी ॥
चार्वी पुण्यस्वरूपा च प्रकृतं शृणु सुन्दरि ॥ ३६ ॥
प्रचेतसः सुतः श्रीमानसितो मुनिपुङ्गवः ॥
सकलत्रस्तपस्तेपे दिव्यं वर्षसहस्रकम् ॥ ३७ ॥
न बभूव सुतस्तस्य प्राणांस्त्यक्तुं समुद्यतः ॥
तं सम्बोद्धुं बभूवाथ सत्या वागशरीरिणी॥३८॥
कथं त्यजसि प्राणांस्त्वं गच्छ शङ्करसन्निधिम् ॥
सिद्धं कुरु गृहीत्वा च मन्त्रं शङ्करवक्त्रतः ॥ ३९ ॥
मन्त्राधिष्ठातृदेवीं ते सद्यः साक्षाद्भविष्यति ॥
वरेणाभीष्टदेव्याश्च पुत्रस्ते भविता धुवम् ॥ 4.30.४० ॥
श्रुत्वैतच्चरितं विप्रो जगाम शिवसन्निधिम् ॥
योगिनामप्यगम्यं च शिवलोकं निरामयम् ॥ ४१ ॥
सकलत्रो यथा योगी तुष्टाव योगिनां गुरुम् ॥
पुटाञ्जलियुतो भूत्वा भक्तिनम्रात्मकन्धरः ॥४२॥
असित उवाच ॥
जगद्गुरो नमस्तुभ्यं शिवाय शिवदाय च ॥
योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥ ४३ ॥
मृत्योमृर्त्युस्वरूपेण मृत्युसंसारखण्डन॥
मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु ते ॥ ४४ ॥
कालरूपं कलयतां कालकालेश कारण ॥
कालादतीत कालस्य कालकाल नमोऽस्तु ते ॥ ४५ ॥
गुणातीत गुणाधार गुणबीज गुणात्मक ॥
गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥ ४६ ॥
ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर ॥
ब्रह्मबीजस्वरूपेण ब्रह्मबीज नमोस्तु ते ॥ ४७ ॥
इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः ॥
दीनवत्साश्रुनेत्रश्च पुलकां चितविग्रहः ॥ ४८ ॥
असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ॥
वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ॥ ४९ ॥
स लभेद्वै ष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ॥
भवेदनाढ्यो दुःखी च मूको भवति पण्डितः ॥ 4.30.५० ॥
अभार्यो लभते भार्यां सुशीलां च पतिव्र ताम् ॥
इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम् ॥ ५१ ॥
इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे ॥
प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम् ॥ ५२ ॥
श्रीकृष्ण उवाच ॥
समाकर्ण्य मुनेः स्तोत्रं भगवाञ्छङ्करः स्वयम् ॥
उवाच ब्रह्मणः पुत्रं स्वभक्तं भक्तव त्सलः ॥ ५१३ ॥
शङ्कर उवाच ॥
स्थिरो भव मुनिश्रेष्ठ जानामि तव वाञ्छितम् ॥
पुत्रस्ते भविता सत्यं मदंशेन च मत्समः ॥५४॥
दास्यामि मन्त्रमतुलं सर्वेषां च सुदुर्लभम् ॥
इत्युक्त्वा च ददौ मन्त्रं तवैव षोडशाक्षरम् ॥ ५५ ॥
स्तोत्रं पूजाविधानं च कवचं परमाद्भुतम् ॥
संसारविजयं नाम पुरश्चरणपूर्वकम् ॥५६॥
वरं दातुमिष्टदेवी प्रत्यक्षा भवितेति च ॥
इत्युक्त्वा विरतो रुद्रः स तं नत्वा जगाम ह ॥ ५७ ॥
जजाप परमं मन्त्रं सोऽसितः शतवत्सरम् ॥
साक्षाद्भूत्वा वरस्तस्मै त्वया दत्तः पुरा सति ॥ ५८ ॥
पुत्रस्ते भविता सत्यं महाज्ञानी सुतेति च ॥
वरं दत्त्वा त्वमगमो गोलोकं मम सन्निधिम् ॥ ५९ ॥
कालेन च सुतस्तस्य शिवांशेन बभूव ह ॥
ब्रह्मिष्ठो देवलो नाम्ना कन्दर्पसमसुन्दरः ॥4.30.६० ॥
सुयज्ञनृपतेः कन्यां रत्नमालावतीं मुदा ॥
तां सुन्दरीं विवाहेन जगृहे सर्वमोहिनीम् ॥ ६१ ॥
स्थाने स्थाने च रहसि शतवर्षं तया सह ॥
स रेमे निपुणः श्रेष्ठः स्त्रीणां रमणकर्मणि ॥ ६२ ॥
कालान्तरे स विरतो बभूव मुनिपुङ्गवः ॥
सुखं सर्वं परित्यज्य धर्मिष्ठः श्रीहरिं स्मरन् ॥ ६३ ॥
उत्थाय रात्रौ शयनाद्विरक्तश्च तपोधनः ॥
स ययौ तपसे कान्ते गन्धमादनपर्वते ॥६४॥
निद्रां त्यक्त्वा च तत्कान्ता न दृष्ट्वा स्वामिनं सती ॥
विललाप भृशं शोकात्प्रदग्धा विरहाग्निना॥६५॥
उत्तिष्ठन्ती निर्विशन्ती रुरोदोच्चैर्मुहुर्मुहुः ॥
तप्तपात्रे यथा धान्यं बभूव तन्मनस्तदा ॥ ६६ ॥
आहारं च परित्यज्य प्राणांस्तत्याज सुन्दरी ॥
चकार तत्सुतस्तस्याः कर्म निर्हरणादिकम् ॥६७॥
तपश्चकार स मुनिर्गन्धमादनगह्वरे ॥
दिव्यं वर्षसहस्रं च मम भक्तो जितेन्द्रियः ॥६८॥
तं ददर्श ह दैवेन रम्भा शृङ्गारलोलुपा॥
अतीवसुन्दरं शान्तं कन्दर्पमिव सुन्दरम् ॥ ६९ ॥
सा च तं कथयामास निर्जने समुपस्थिता ॥
विधाय वेषं यत्नेन त्रैलोक्यचित्तमोहिनी ॥ 4.30.७० ॥
रम्भोवाच ॥
निबोध साधो मद्वाक्यं कामिनीनां मनोहरम् ॥
त्यक्त्वा कठोरं रहसि भज मां सुखदायिकाम् ॥ ७१ ॥
त्वं वरेषु वरः पृथ्व्यां वरारोहा स्वयंवरा ॥
विदग्धाया विदग्धस्य दुर्लभो नव सङ्गमः ॥ ७२ ॥
यज्ञं कुर्वन्ति भूपाला भारते स्वर्गहेतुकम् ॥
स्वर्गभोगनिमित्तं च भोगसारा वयं मुने ॥ ७३ ॥
स्तनयोर्युग्ममूर्वोर्मे सुन्दरं मुखपङ्कजम् ॥
हास्यभ्रूभङ्गसहितं दृष्ट्वा को न लभेत्सुखम्॥ ७४ ॥
स्त्रीरसः सुखसारश्च मुनीनामभिवाञ्छितः ॥
रसिकासुखसम्भोगो निर्जने चातिदुर्लभः ॥७५॥
देवो वा मानवो वाऽपि गन्धर्वो वाऽथ राक्षसः ॥
स्त्रीसुखेष्वप्यविज्ञेयो रम्भाया रतिवञ्चितः॥७६॥
रहस्युपस्थितां कान्तां न भजेद्यो जितेन्द्रियः ॥
गात्रलोमप्रमाणाब्दं कुम्भीपाके वसेद्ध्रुवम् ॥७७॥
सत्यं तस्याश्च वधभाक्तच्छापेन प्रणश्यति ॥
विधाता मोहिनीशापादपूज्यो भुवनत्रये ॥ ७८ ॥
येन त्यक्तोपस्थिता तं यथा पश्यति पुंश्चली ॥
स्वामिपुत्रस्वबन्धूनां न तथा घातकं रुषा ॥ ७९ ॥
परं प्रियं च सर्वेषां जारं जानाति पुंश्चली ॥
यदि तेन परित्यक्ता तं हन्तुं सा तु दक्षिणा॥4.30.८०॥
पुंश्चली हिंस्रजन्तुभ्यो नवघातिभ्य एव च॥
दुष्टा शश्वद्दयाहीना दुरन्ता प्रतिजन्मनि ॥ ८१ ॥
त्यज ध्यानं मुनिश्रेष्ठ भुङ्क्ष्वेदं तपसः फलम् ॥
रहस्युपस्थितां मां च गृहीत्वा सुचिरं सुखम् ॥ ८२ ॥
स रम्भावचनं श्रुत्वा तामुवाच भयाकुलः ॥
हितं तथ्यं नीतिसारं परिणामसुखावहम् ॥ ८३ ॥
देवल उवाच ॥
शृणु रम्भे प्रवक्ष्यामि वेदसारं परं वचः ॥
कुलधर्मोचितं सत्यं ब्राह्मणानां तपस्विनाम् ॥ ८४ ॥
धर्मोऽयं युक्तकाले च स्वयोषिति रतो द्विजः ॥
सर्वत्र पूजितः शश्वदिह लोके परत्र च ॥ ८५ ॥
ब्राह्मणः क्षत्रियो वैश्यो यो रतः परयोषिति ॥
याति तस्यापूजितस्य रुष्टा लक्ष्मीर्गृहादपि॥ ८६ ॥
इहातिनिन्द्यः सर्वत्र नाधिकारी स्वकर्मसु ॥
परत्रैवान्धकूपे च यावद्वर्षशतं वसेत् ॥।७७ ॥
ग्राह्या चोपस्थिता स्त्री च गृहिणा न तपस्विना ॥
त्यागे दोषः कामिनीनां शापभाक्पापभाग्गृही ॥ ८८ ॥
ब्रह्मा जगद्विधाताऽपि न विरक्तः कलत्रवान् ॥
त्यागे दोषस्तत्कदाचिन्नास्माकं त्यक्तयोषिताम् ॥ ८९ ॥
स्वभार्यां च परित्यज्य यो गृह्णाति परस्त्रियम् ॥
यशोधनायुषां हानिर्भवेज्जीवन्मृतस्य च ॥ 4.30.९० ॥
भुवि नास्ति यशो यस्य जीवनं तस्य निष्फलम् ॥
सुसम्पदा किं राज्येन सुखेन च तपस्विनः ॥ ९१ ॥
निष्कामेन च वृद्धेन मया किं ते प्रयोजनम्॥
सुवेषं सुन्दरं मातर्युवानं पश्य सुन्दरि॥९२॥
इत्येवं वचनं श्रुत्वा चुकोपाप्सरसां वरा ॥
उवाच भूयो वाक्यं तं त्रस्ता प्रस्फुरिताधरा ॥ ९३ ॥
रम्भोवाच ॥
चारुचम्पकवर्णाभः कन्दर्पसमसुन्दरः ॥
तपःप्रभावात्सश्रीकः सुवेषः सम्मतः स्त्रियाः॥९४॥
त्वया विनाऽन्यं कं यामि को वास्ति त्वत्परः पुमान्॥
पुंश्चली त्वां परित्यज्य का जीवति स्मरा तुरा ॥ ९५ ॥
शीघ्रं मां भज विप्रेन्द्र दग्धां कामाग्निना सदा ॥
कामो नश्यति मां त्वत्तो यथा रम्भां मतङ्गजः ॥ ९६ ॥
न चेच्छापं प्रदास्यामि वद वेदविदां वर ॥
मां वा दारुणशापं वा सत्वरं ग्रहणं कुरु ॥९७॥
दग्धाः प्राणा मनोदग्धं स्वात्मा वा इति सन्ततम्॥
नवशृङ्गारपीयूषपाननिर्वाणतां व्रजेत् ॥ ९८ ॥
स्वान्तर्दुःखेन दुःखार्तो यो यं शपति निश्चितम्॥
तं शापं खण्डितुं शक्तो न विधाता जगत्पतिः ॥ ९९ ॥
द्विजो रम्भावचः श्रुत्वा बभूव ध्यानतत्परः ॥
नोवाच किञ्चिन्मौनस्थः सा तं कोपाच्छशाप ह ॥4.30.१००॥
हे वक्रचित्त ते विप्र सर्वावयववक्रिमम् ॥
शरीरमञ्जनाकारं रूपयौवनवर्जितम् ॥ १ ॥
अतीवविकृताकारं त्रिषु लोकेषु गर्हितम् ॥
पुरातनं तपो नष्टं सद्यो भवतु निश्चितम् ॥ २ ॥
इत्युक्त्वा पुंश्चली कामात्कामलोकं जगाम ह ॥
अचिरेण मुनीन्द्रश्च न ददर्श हरेः पदम् ॥३॥
पदारविन्दविरहात्समुद्विग्नो बभूव ह॥
स्वाङ्गं च दृष्ट्वा विकृतं पूर्वपुण्यविवर्जितम्॥४ ॥
कृत्वाऽग्निकुण्डं शोकेन प्राणांस्त्यक्तुं समुद्यतः ॥
मया दृष्टो वरो दत्तो दिव्यज्ञानेन बोधितः ॥५॥
आश्वासश्च कृतः प्रीत्या ततः शान्तो बभूव ह ॥
अङ्गान्यष्टौ च वक्राणि दृष्ट्वा तूर्णं महामुनेः ॥ ६ ॥
अष्टावक्रेति तन्नाम कौतुकेन मया कृतम् ॥
मद्वाक्यान्मलयद्रोणीमयमागम्य सत्वरः ॥ ७ ॥
षष्टि वर्षसहस्राणि चकार परमं तपः ॥
तपोऽवसाने मद्भक्तो मया युक्तः कृतः प्रिये ॥ ८ ॥
सर्वस्मिन्प्रलये नष्टे न मद्भक्तः प्रणश्यति॥
सुचिरेणैव तपसा ज्वलता जठराग्निना ॥ ९ ॥
त्यक्ताहारस्यान्तरं च भस्मपूर्णं ततो मुनेः ॥
आगतं मलयद्रोणीं मुनिहेतोर्मया प्रिये ॥ 4.30.११० ॥
अष्टावक्राच्च मद्भक्तो न भूतो न भविष्यति ॥
एवम्भूतस्तपोनिष्ठः प्रपौत्रो ब्रह्मणो मुनिः ॥ ११ ॥
निष्कलः पुंश्चली शापाद्ब्रह्माऽपूज्यो यथा पुरा ॥
इत्येवं कथितं सर्वं रहस्यं च महात्मनः ॥
सुखदं पुण्यदं गूढं किं भूयः श्रोतुमिच्छसि ॥ ११२ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे राधाप्रश्ने त्रिंशत्तमोऽध्यायः ॥ ३०