०२९

श्रीनारायण उवाच ॥
अथ गोपाङ्गनाः सर्वाः काममत्ततया मुने ॥
अतिप्रौढाश्च मानिन्यो नेश्वरं मेनिरे पतिम् ॥ १ ॥
काश्चिदूचुरहो कृष्ण सस्मिता वक्रलोचनाः ॥
मालतीपुष्पमुत्तोल्य देहि मे मालिकामिति ॥ २ ॥
काश्चिदूचुरये कृष्ण स्वक्रोडेऽस्मांश्च कुर्विति ॥
गृहीत्वाश्रीहरेः स्कन्धमारुरोह च काचन ॥ ३ ॥
उवाच काचिद्दर्पेण प्रमत्ता प्राणवल्लभम् ॥
स्वकीयपीतवसनं परिधारय मामिति ॥४॥
उवाच काचिदीशं तं सिन्दूरं देहि मामिति ॥
उवाच काचित्प्राणेशं शीघ्रमागत्य साम्प्रतम् ॥ ५ ॥
कृत्वा कुन्तलसंस्कारं कुरु मे कबरीमिति ॥
काश्चित्सम्प्रेरयामासुः श्रीखण्डं बल्लवाय च ॥६॥
स्वाङ्गवेषविधायिन्यो भूषार्थं श्रुतिमूलयोः ॥
उवाच काचित्कामेन परं सङ्केतपूर्वकम् ॥ ७ ॥
पश्यन्ती तन्मुखाम्भोजं सस्मिता मैथुनाय च ॥
काचिज्जग्राह मुरलीं बलादाकृष्य माधवम् ॥ ८ ॥
जहार पीतवसनं कृत्वा नग्नं च कामिनी ॥
कामिन्यः काश्चिदित्यूचुर्मानिन्यो मधुसूदनम् ॥ ९ ॥
अलक्तकद्रवं देहि पादयोर्नखरेषु च ॥
उवाच काचित्प्रेम्णा तं गण्डयोः स्तनयोर्मम ॥4.29.१०॥
नानाचित्रविचित्राढ्यां करु पत्रावलीमिति ॥
कृत्वाऽनुमानं मनसा दृष्ट्वा तासां प्रमत्तताम् ॥ ११ ॥
माधवो राधया सार्द्धमन्तर्धानं चकार ह ॥
अतीव निर्जने स्थाने मुदा स्वेच्छामयो विभुः ॥ १२ ॥
कलामानप्रकारं च शृङ्गारं च चकार ह ॥
पर्वते पर्वते रम्ये द्वीपेद्वीपे सुनिर्जने ॥ ॥ १३ ॥
तटे तटे नदीनां च सर्वजन्तुविवर्जिते ॥
श्रीगोष्ठे रत्नशैले च वेलागङ्गातटेऽपि च ॥ १४ ॥
कालिन्दे च पुलिन्दे च मन्दिरे गन्धमादने ॥
मनोहरे कुन्दवने कावेरीतीरनीरजे ॥ १५ ॥
पुष्पभद्रापुलिनजे पुष्पोद्याने सुपुष्पिते ॥
सर्वत्र रमणं कृत्वा राधावेषं विधाय च ॥ १६ ॥
जगाम मलयद्रोणीं रम्यां चन्दनवायुना ॥
शय्यां पुष्पमयीं कृत्वा तत्र रेमे तया सह ॥ १७ ॥
अतीव सुखसम्भोगान्मूर्च्छां सम्प्राप्य राधिका ॥
कृत्वा वक्षसि गोविन्दं पुलकाञ्चितविग्रहा ॥१८॥
दृष्ट्वा तां मूर्च्छितां कृष्णो घनश्रोणिपयोधराम् ॥
विलुप्तवेषां कामार्तां नग्नां शिथिलकुन्तलाम् ॥ १९ ॥
चेतनां कारयामास कृत्वा वक्षसि तन्द्रिताम् ॥
वासयामास वसनं राधायामेखलाम्बरम् ॥ 4.29.२० ॥
कबरीं रचयामास किञ्चिद्वामेन वक्रताम् ॥
मालतीमाल्यसंयुक्तां कुन्दपुष्पैश्च वेष्टिताम्॥ ॥ २१ ॥
तस्याः कपाले सिन्दूरतिलकं सुन्दरं ददौ ॥
गण्डयोः स्तनयोश्चित्रां चकार पत्रिकां मुदा॥२२ ॥
सालक्तकांश्च नखरांश्चित्रितान्पादपद्मयोः ॥
नखैः कृत्रिमपद्मानि निर्ममे श्रोणिवक्षसोः ॥ २३ ॥
उत्थायाथ तया सार्द्धं जगाम हि सरोवरम् ॥
नानाप्रकारपद्मानां राजिभिश्च विराजितम् ॥ २४ ॥
निर्मलस्फटिकाकारजलपूर्णं मनोहरम् ॥
हंसकारण्डवाकीर्णं जलकुक्कुटकूजितम् ॥२५॥
मधुलुब्धमधुघ्राणां पद्मस्थानं सुपद्मजम् ॥
चारुणा कलशब्देन शब्दितं शश्वदेव हि ॥ २५ ॥
तत्र स्नात्वा जलक्रीडां चकार ह तया सह ॥
जलं ददौ राधिकायै मुदा सा माधवाय च ॥ २७ ॥
सहस्रदलपद्मे च गृहीत्वा माधवः स्वयम्॥
एकं ददौ राधिकायै ररक्ष स्वार्थमेककम् ॥२८ ॥
चन्दनागुरुकस्तूरीकुङ्कुमद्रवमीप्सितम् ॥
स्वाङ्गं दत्त्वा राधिकायै लिलेप राधिकेश्वरः ॥ २९॥
ततो गच्छंस्तया सार्द्धं ददर्श पुरतो वटम् ॥
अतीवोत्तुङ्गशाखाग्रमतिविस्तृतमेव च ॥ 4.29.३० ॥
मूले योजनपर्यन्तं छायया परिवेष्टितम् ॥
उवास तत्र गोविन्दः केतकीवनसन्निधौ ॥३१॥
पुष्पाक्तेन सुशीतेन वायुना सुरभीकृते ॥
चित्रं रहस्यं सुचिरं पुराणं च पुरातनम् ॥ ॥ ३२ ॥
प्रहर्षितश्च श्रीकृष्णः कथयामास राधिकाम्॥
एतस्मिन्नन्तरे तत्र ददर्श मुनिपुङ्गवम् ॥३३ ॥
आगच्छन्तं च तं दृष्ट्वा प्रसन्नवदनेक्षणम् ॥
न दृष्ट्वा हृदये रूपमीशस्य परमात्मनः ॥ ३४ ॥
ध्यानाद्विरतमग्रे च पश्यन्तं बहिरेव तत् ॥
सर्वावयववक्रं च कृष्णं सर्वदिगम्बरम् ॥ ३५ ॥
नाम्नाऽष्टवक्रं जटिलं ज्वलन्तं ब्रह्मतेजसा ॥
मुखतोऽग्निमुद्गिरन्तं तपोराशिमिवोत्थितम् ॥ ३६ ॥
अहो किं वा ब्रह्मतेजो मूर्तिमन्तमिह स्वयम् ॥
नखश्मश्रुसुदीर्घं च शान्तं तेजस्विनं परम् ॥ ३७ ॥
पुटाञ्जलियुतं भक्त्या भीतं प्रणतकन्धरम् ॥
दृष्ट्वा हसन्तीं राधां तां वारयामास माधवः ॥३८॥
प्रभावं कथयामास मुनीन्द्रस्य महात्मनः ॥
अथ प्रणम्य गोविन्दं तुष्टाव मुनिपुङ्गवः ॥
यत्स्तोत्रं च पुरा दत्तं शङ्करेण महात्मना ॥ ३९ ॥
अष्टावक्र उवाच ॥
गुणातीत गुणाधार गुणबीज गुणात्मक ॥
गुणीश गुणिनां बीज गुणायन नमोऽस्तु ते ॥ 4.29.४० ॥
सिद्धिस्वरूप सिद्ध्येश सिद्धिबीज परात्पर ॥
सिद्धिसिद्धिगुणाधीश सिद्धानां गुरवे नमः ॥ ४१ ॥
हे वेदबीज वेदज्ञ वेदिन्वेदविदां वर ॥
वेदाज्ञाताद्यरूपेश वेदाज्ञेश नमोऽस्तु ते॥ ४२ ॥
ब्रह्मानन्तेश शेषेन्द्र धर्मादीनामधीश्वर ॥
सर्व सर्वेश शर्वेश बीजरूप नमोऽस्तु ते ॥ ४३ ॥
प्रकृते प्राकृत प्रज्ञ प्रकृतीश परात्पर ॥
संसारवृक्ष तद्बीज फलरूप नमोऽस्तु ते ॥ ४४ ॥
सृष्टिस्थित्यन्तबीजेश सृष्टिस्थित्यन्तकारण ॥
महाविराट्तरोर्बीज राधिकेश नमोऽस्तु ते ॥ ४५ ॥
अहो यस्य त्रयः स्कन्धा ब्रह्मविष्णुमहेश्वराः ॥
शाखाप्रशाखा वेदाद्यास्तपांसि कुसुमानि च ॥ ४६ ॥
संसारविफला एव प्रकृत्यङ्कुरमेव च ॥
तदाधार निराधार सर्वाधार नमोऽस्तु ते ॥ ४७ ॥
तेजोरूप निराकार प्रत्यक्षानूहमेव च ॥
सर्वाकारातिप्रत्यक्ष स्वेच्छामय नमोऽस्तु ते ॥ ४८ ॥
इत्युक्त्वा स मुनिश्रेष्ठो निपत्य चरणाम्बुजे ॥
प्राणांस्तत्याज योगेन तयोः प्रत्यक्ष एव च ॥ ४९ ॥
पपात तत्र तद्देहः पादपद्मसमीपतः ॥
तत्तेजश्च समुत्तस्थौ ज्वलदग्निशिखोपमम् ॥ 4.29.५० ॥
सप्ततालप्रमाणं तु चोत्थाय च पपात ह॥
भ्रामं भ्रामं च परितो लीनं चाभूत्पदाम्बुजे॥५१॥
अष्टावक्रकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् ॥
परं निर्वाण मोक्षं च समाप्नोति न संशयः ॥ ५२ ॥
प्राणाधिको मुमुक्षूणां स्तोत्रराजश्च नारद ॥
हरिणाऽहो पुरा दत्तो वैकुण्ठे शङ्कराय च ॥ ५३ ॥
इति श्रीब्रह्मवैवर्ते म० श्रीकृ० ज० नाराय० मुनिमोक्षणप्रस्ताव एकोनत्रिंशोऽध्यायः ॥ २९ ॥