०२८

नारद उवाच ॥
त्रिषु मासेष्वतीतेषु तासां च हरिणा सह ॥
वद केन प्रकारेण बभूव तनुसङ्गमः ॥१॥
वृन्दावनं किम्प्रकारं किंविधं रासमण्डलम् ॥
हरिरेकस्ताश्च बह्व्यः केन क्रीडा बभूव ह ॥ २ ॥
कुतूहलं भवति मे इदं श्रोतुं नवं नवम् ॥
कथयस्व महाभाग पुण्यश्रवणकीर्तन ॥ ३ ॥
कथा पुराणसाराणां रासयात्रा हरेरहो ॥
हरिलीलाः पृथिव्यां तु सर्वाः प्रतिमनोहराः ॥ ४ ॥
सूत उवाच ॥
नारदस्य वचः श्रुत्वा ऋषिर्नारायणः स्वयम् ॥
प्रहस्य सुप्रसन्नास्यः प्रवक्तुमुपचक्रमे ॥ ५ ॥
श्रीनारायण उवाच ॥
एकदा श्रीहरिर्नक्तं वनं वृन्दावनं ययौ ॥
शुभे शुक्लत्रयोदश्यां पूर्णे चन्द्रोदये मुने ॥ ६ ॥
यूथिकामालतीकुन्दमाधवीपुष्पवायुना ॥
वासितं कलनादेन मधुभ्राणां मनोहरम् ॥ ७ ॥
नवपल्लवसंयुक्तं पुंस्कोकिलरुतश्रुतम् ॥
नवलक्षरासवाससंयुक्तं सुमनोहरम् ॥ ८ ॥
चन्दनागुरुकस्तूरीकुङ्कुमेन सुवासितम् ॥
कर्पूरान्वितताम्बूलभोगद्रव्यसमन्वितम् ॥९ ॥
प्रसूनैश्चम्पकानां च कस्तूरीचन्दनान्वितैः॥
रतियोग्यैर्विरचितैर्नानातल्पैः सुशोभितम् ॥ 4.28.१० ॥
दीप्तं रत्नप्रदीपैश्च धूपेन सुरभीकृतम् ॥
नानापुष्पैश्च रचितं मालाजालैर्विराजितम् ॥ ११ ॥
परितो वर्तुलाकारं तत्रैव रासमण्डलम् ॥
चन्दनागुरुकस्तूरीकुङ्कुमेन सुसंस्कृतम् ॥ १२॥
पुष्पोद्यानैः पुष्पितैश्च युक्तक्रीडासरोवरैः॥
हंसकारण्डवाकीर्णैर्जलकुक्कुटकूजितैः ॥ १३ ॥
क्रीडनीयैः सुन्दरैश्च सुरतश्रमहारिभिः ॥
शुद्धस्फटिकसङ्काशतोयपूर्णैः सुनिर्मलैः ॥ १४॥
दधिपूर्णशुक्लधान्यजलैर्निर्मञ्छनीकृतम् ॥
रम्भास्तम्भसमूहेन सुन्दरेण सुशोभितम् ॥ १५ ॥
आम्रपल्लवयुक्तेन सूत्रबन्धेन चारुणा ॥
भूषितं मङ्गलघटैः सिन्दूरचन्दनान्वितैः॥१६॥
मालतीमाल्यसंयुक्तैर्नारिकेलफलान्वितैः॥
स रासमण्डलं दृष्ट्वा जहास मधुसूदनः॥१७॥
चकार तत्र कुतुकाद्विनोदमुरलीरवम् ॥
गोपीनां कामुकीनां च कामवर्धनकारणम् ॥ १८ ॥
तच्छ्रुत्वा राधिका सद्यो मुमोह मदनातुरा ॥
बभूव स्थाणुवद्देहा ध्यानैकतानमानसा ॥ १९ ॥
क्षणेन चेतनां प्राप्य पुनः शुश्राव सा ध्वनिम् ॥
उवास सा समुत्तस्थौ समुद्विग्ना पुनः पुनः ॥ 4.28.२० ॥
त्यक्त्वा चावश्यकं कर्म निःससार द्रुतं गृहात् ॥
ययौ तदनुसारेण प्रसमीक्ष्य चतुर्दिशम् ॥ २१ ॥
ध्यायन्ती चरणाम्भोजं श्रीकृष्णस्य महात्मनः ॥
तेजसा च द्योतयन्ती सद्रत्नसारभूषतैः ॥ २२ ॥
बहिर्बभूवुस्तास्त्रस्ता वरेण हृतचेतनाः ॥
कुलधर्मं परित्यज्य निशङ्काः काममोहिताः ॥ २३ ॥
त्रयस्त्रिंशद्वयस्याश्च ताः सुशीलादयः स्मृताः ॥
राधिकायाः प्रियतमा गोपीनां प्रवरा ययुः ॥२४॥
तासां पश्चाद्ययुर्गोप्यस्तासां सङ्ख्या निबोध मे॥
समा वेषेण वयसा रूपेण च गुणेन च ॥२५॥
ययुः सुशीलासङ्गेन सहस्राणि च षोडश ॥
ययुश्चन्द्रमुखी पश्चात्सहस्राणि च षोडश ॥ २६ ॥
एकादशसहस्राणि माधव्याल्यश्च निर्ययुः ॥
जग्मुः कदम्बमालाल्यः स सहस्राणि त्रयोदश ॥२७॥
ययुः कुन्तीवयस्याश्च सहस्राणि दश स्मृताः ॥
चतुर्दश सहस्राणि ययुस्ता यमुनानुगाः ॥२८॥
जाह्नवीसहचारिण्यः सहस्राणि ययुर्नव ॥
ययुर्नवसहस्राणि पद्ममुख्याल्य एव च ॥२९॥
सावित्र्याल्यः पञ्चदश सहस्राणि ययुर्व्रजात् ॥
पारिजातावयस्याश्च सहस्राणि ययुर्दश ॥4.28.३०॥
स्वयम्प्रभानुगाः सप्त सहस्राणि ययुर्व्रजात् ॥
ययुः सुधामुखीगोप्यः सहस्राणि चतुर्दश ॥३१॥
शुभानुगा ययुर्गोप्यः सहस्राणि चतुर्दश ॥
पद्मानुगा ययुर्गोप्यः सहस्राणि चतुर्दश ॥३२॥
गौरी पद्मा ययुर्गोप्यः सहस्राणि चतुर्दश ॥
ययुः सर्वमङ्गलाल्यः सहस्राणि च षोडश ॥३३॥
कालिकाल्यो ययुर्गोप्यः सहस्राणि च षोडश ॥
निर्ययुः कमलाल्यश्च सहस्राणि त्रयोदश ॥ ३४ ॥
दुर्गानुगा ययुर्गोप्यः सहस्राणि च षोडश ॥
ययुः सरस्वतीपश्चात्सहस्राणि त्रयोदश ॥ ३५ ॥
प्रजग्मुर्भारतीपश्चात्सहस्राणि दश व्रजात् ॥
अपर्णासहचारिण्यः सहस्राणि चतुर्दश ॥ ३६ ॥
रतिपश्चाद्वयस्याश्च सहस्राणि ययुर्दश ॥
गङ्गावयस्याः प्रययुः सहस्राणि चतुर्दश ॥ ३७ ॥
प्रजग्मुरम्बिकापश्चात्सहस्राणि च षोडश ॥
सतीपश्चाद्ययुर्गोप्यः सहस्राणि त्रयोदश ॥३८॥
नन्दिनीसहचारिण्यः सहस्राणि ययुर्दश ॥
प्रययुः सुन्दरीपश्चात्सहस्राणि त्रयोदश। ॥३९॥
ययुः कृष्णप्रियापश्चात्सहस्राणि च षोडश ॥
ययुर्मधुमतीपश्चात्सहस्राणि च षोडश॥4.28.४०॥
ययुश्चम्पानुगा गोप्यः सहस्राणि त्रयोदश ॥
चन्दनाल्यो ययुः पश्चात्सहस्राणि च षोडश ॥ ४१॥
सर्वा बभूवुरेकत्र तत्र तस्थुः पलं मुदा ॥
तत्राययुर्गोपिकाश्च मालाहस्ताश्च काश्चन ॥ ४२ ॥
चारुचन्दनहस्ताश्च काश्चित्तत्राययुर्व्रजात् ॥
श्वेतचामरहस्ताश्च काश्चित्तत्राययुर्मुदा ॥ ४३ ॥
तत्राययुर्गोपकन्याः काश्चित्कस्तूरिकाकराः ॥
तत्राययुर्गोपकन्याः काश्चित्कुङ्कुमवाहिकाः ॥ ४४ ॥
काश्चित्तत्राययुगोप्यस्ताम्बूलपात्रवाहिकाः ॥
यावत्काञ्चनवस्त्राणां वाहिका गोपकन्यकाः ॥
काश्चित्तत्राययुः शीघ्रं यत्र चन्द्रावली मुदा॥४९॥
सर्वाश्चैकत्र सम्भूय सस्मिताश्च मुदान्विताः ॥
विधाय राधिकावेषं स्थानाच्च प्रययुर्मुदा॥४६॥
चक्रुः पुनः पुनस्ताश्च हरिशब्दजपं पथि ॥
प्रापुर्वृन्दावनं रम्यं ददृशू रासमण्डलम्॥४७॥
स्वर्गेभ्यः सुन्दरं दृश्यं राकापतिकरान्वितम् ॥
सुनिर्जनं कुसुमितं वासितं पुष्पवायुना॥४८॥
नारीणां कामजननं मुनिमोहनकारणम् ॥
शुश्रुवुस्तत्र ताः सर्वाः पुंस्कोकिलकलध्वनिम् ॥ ४९ ॥
अतिसूक्ष्मकलं चातिभ्रमराणां मनोहरम् ॥
प्रसूनमधुमत्तानां भ्रमरीसङ्गसङ्गिनाम् ॥4.28.५० ॥
शुभे क्षणे प्रविवेश राधिका रासमण्डलम् ॥
सर्वाभिरालिभिः सार्धं ध्यात्वा कृष्णपदाम्बुजम् ॥ ५१ ॥
राधामारात्तु संवीक्ष्य कृष्णस्तत्र मुदाऽन्वितः ॥
जगामानुव्रजन्प्रीत्या सस्मितो मदनातुरः ॥ ५२ ॥
मध्यस्थां सखिसङ्घानां रत्नालङ्कारभूषिताम् ॥
दिव्यवस्त्रपरीधानां सस्मितां वक्रलोचनाम्॥ ५३ ॥
गजेन्द्रगामिनीं रम्यां मुनिमानसमोहिनीम्॥
नवीनवेषवयसा रूपेणातिमनोहराम् ॥५४॥
तलश्रोणिनितम्बानां भारशेषान्वितां पराम् ॥
चारुचम्पकवर्णाभां शरच्चन्द्रनिभाननाम् ॥
बिभ्रतीं कबरीभारं मालतीमाल्यसंयुतम् ॥ ५५ ॥
राधा ददर्श श्रीकृष्णं किशोरं श्यामसुन्दरम् ॥
नवयौवनसम्पन्नं रत्नाभरणभूषितम् ॥ ॥ ५६ ॥
कन्दर्पकोटिलावण्यलीलाधाम मनोहरम् ॥
प्राणाधिकां तां पश्यन्तीं पश्यन्तीं वक्रचक्षुषा ॥ ९७ ॥
परमाद्भुतरूपं च सर्वत्रानुपमं परम् ॥
विचित्रवेषं चूडां च बिभ्रतं सस्मितं मुदा ॥ ५८ ॥
वक्रलोचनकोणेन दर्शन्दर्शं पुनःपुनः ॥
मुखमाच्छादयाञ्चक्रे व्रीडया सस्मिता सती ॥ ५९ ॥
मूर्च्छामवाप सा सद्यः कामबाणप्रपीडिता ॥
पुलकाञ्चितसर्वाङ्गी बभूव हतचेतना ॥ 4.28.६० ॥
कटाक्षकामबाणैश्च विद्धः क्रीडारसोन्मुखः ॥
मूर्च्छां प्राप्य न पपात तस्थौ स्थाणुसमो हरिः ॥६१॥
पपात मुरली तस्य क्रीडाकमलमुज्ज्वलम् ॥
द्वितीयं पीतवस्त्रं च शिखिपिच्छं शरीरतः ॥६२॥
क्षणेन चेतनां प्राप्य ययौ राधान्तिकं मुदा ॥
कृत्वा वक्षसि तां प्रीत्या समाश्लिष्य चुचुम्ब सः ॥ ६३ ॥
श्रीकृष्णस्पर्शमात्रेण सम्प्राप्य चेतनां सती ॥
प्राणाधिकं प्राणनाथं समाश्लिष्य चुचुम्ब ह ॥ ६४ ॥
मनो जहार राधायाः कृष्णस्तस्य च सा मुने ॥
जगाम राधया सार्धं रसिको रतिमन्दिरम् ॥ ६५ ॥
रत्नप्रदीपसंयुक्तं रत्नदर्पणसंयुतम् ॥
चारुचम्पकशय्याभिश्चन्दनाक्ताभी राजितम् ॥ ६६ ॥
कर्पूरान्वितताम्बूलैर्भोगद्रव्यैः समन्वितम् ॥
उवाच राधया सार्धं कृष्णस्तत्र मुदान्वितः ॥ ६७ ॥
राधया दत्तताम्बूलं चखाद मधुसूदनः ॥
रासेश्वरी कृष्णदत्तं ताम्बूलं बुभुजे मुदा ॥ ६८ ॥
दत्तं चर्वितताम्बूलं राधायै प्रभुणा मुदा ॥
चखाद भक्त्वा सा तूर्णं प्रहस्य मदनातुरा ॥ ६९ ॥
राधाचर्वितताम्बूलं ययाचे माधवो मुदा ॥
न ददौ राधिका भीता पपात चरणाम्बुजे ॥ 4.28.७० ॥
एतस्मिन्नन्तरे तत्र सकामः सुरतोन्मुखः ॥
सुष्वाप राधया सार्धं रतितल्पे मनोहरे ॥ ७१ ॥
शृङ्गाराष्टप्रकारं च विपरीतादिकं विभुः ॥
नखदन्तकराणां च प्रहारं च यथोचितम् ॥ ७२ ॥
कामशास्त्रेषु यद्गोप्यं चुम्बनाष्टविधं परम् ॥
कामिनीनां मनोहारि चकार रसिकेश्वरः ॥ ७३ ॥
अङ्गैरङ्गानि प्रत्यङ्गैः प्रत्यङ्गानि स्मरातुरः ॥
चकाराश्लेषणं तत्र कामुकीनां सुखावहम् ॥७४॥
शृङ्गारकुशलौ तौ तु कामशास्त्रसुपण्डितौ ॥
रतियुद्धविरामश्च न बभूव द्वयोरपि ॥ ७५ ॥
एवं गृहे गृहे रम्ये नानामूर्तिं विधाय च॥
रेमे गोपाङ्गनाभिश्च सुरम्ये रासमण्डले ॥ ७६ ॥
गोपीनां नव लक्षाणि गोपानां च तथैव च ॥
लक्षाण्यष्टादश मुने युक्तानि रासमण्डले ॥ ७७ ॥
मुक्तकेशानि नग्नानि विच्छिन्नभूषणानि च ॥
वेषोच्छिन्नानि मत्तानि मूर्च्छितानि स्मरेण च ॥७८॥
कङ्कणानां किङ्किणीनां वलयानां च नारद ॥
सद्रत्ननूपुराणां च शब्दयुक्तानि सन्ततम् ॥७९॥
एवं कृत्वा स्थलक्रीडां ययुस्तानि जलं मुदा ॥
कृत्वा तत्र जलक्रीडां परिश्रान्तानि साम्प्रतम् ॥ 4.28.८० ॥
तूर्णं जलात्समुत्थाय वासांसि परिधाय च ॥
ददृशुर्मुखपद्मानि सद्रत्नदर्पणेषु च ॥ ८१ ॥
चन्दनागुरुकस्तूरीद्रव्याणि पुष्पमालिकाः ॥
मुदा परिदधुस्तानि सम्प्रापुश्चेतनानि च ॥ ॥ ८२ ॥
सकर्पूरं च ताम्बूलं भुक्त्वा सर्वाणि कौतुकात् ॥
ददृशुर्मुखपद्मानि सद्रत्ने दर्पणेऽमले ॥ ८३ ॥
काचित्कामातुरा कृष्णं बलादाकृष्य कौतुकात् ॥
हस्ताद्वंशी निजग्राह वसनं च चकर्ष ह ॥ ८४ ॥
काचित्कामप्रमत्ता च नग्नं कृत्वा तु माधवम् ॥
निजग्राह पीतवस्त्रं परिहस्य पुनर्ददौ ॥८५॥
युक्तिं शृण्वित्येवमुक्त्वा काचित्सङ्गृह्य स्वामिनम् ॥
चुचुम्ब गण्डे बिम्बोष्ठे समाश्लिष्य पुनःपुनः ॥८६ ॥
सस्मितं सकटाक्षं च मुखचन्द्रं स्तनोन्नतम् ॥
काचिच्छ्रोणीं सुललितां दर्शयामास कामतः ॥ ८७ ॥
काचित्कान्तं करे कृत्वा संस्थाप्य श्रोणिदेशतः ॥
चकार चूडानिर्माणं मालतीमाल्यसंयुतम् ॥८८॥
काचिच्चूडां समाकृष्य मयूरपिच्छकं ददौ ॥
गुञ्जामाल्यं च चूडायां वेष्टयामास काचन ॥ ८९ ॥
प्रददौ स्वामिने कामात्प्रेमवर्धनहेतवे ॥
काचित्काञ्चित्समाकृष्य नग्नां कृत्वा तु कामतः ॥ 4.28.९० ॥
प्रेषयामास कृष्णस्य क्रोडे चन्दनचर्चिते ॥
ननृतुश्च जगुः काश्चित्कान्तं कृत्वा तु कामतः ॥ ९१ ॥
नर्तनं कारयामास तं च काचिद्बलेन च ॥
कृष्णश्च वस्त्रं कस्याश्च विचकर्ष कुतूहलात् ॥ ९२ ॥
काञ्चित्कृत्वा तु नग्नां च कस्यैचिदंशुकं ददौ ॥
कृष्णो राधां समाकृष्य वासयामास वक्षसि॥९३॥
तस्याश्च कबरीं रम्यां सुनिर्माणं चकार ह ॥
सिन्दूरं च ददौ भाले कस्तूरीं बिन्दुभिः सह ॥ ९४ ॥
अतिसूक्ष्मं चन्दनेन्दुं कौतुकात्तदधो ददौ ॥
पत्रावलीं सुललितां सुकपोले चकार ह ॥९५॥
वह्निशुद्धांशुकं चारु परिधार्य्य प्रयत्नतः ॥
पदोः सद्रत्नमञ्जीरे गृहीत्वा चरणाम्बुजे॥९६॥
नखनिर्मार्जनं कृत्वा सुन्दरं यावकं ददौ ॥
भूषणैर्भूषितां कृत्वा सम्प्रलिप्यानुलेपनैः ॥ ९७ ॥
दत्त्वा च मालतीमालां चुचुम्ब च पुनः पुनः ॥
चारुलोचनपद्मे च चकाराञ्जनसंयुते ॥ ९८ ॥
प्रददौ नासिकामध्ये दुर्लभं गजमौक्तिकम्॥
श्रोणिदेशे च स्तनयोर्नखच्छिद्रं चकार ह ॥९९॥
चकार दन्तदलनं पक्वबिम्बाधरे वरे ॥
सरसश्च तटे रम्ये पुष्पोद्याने सुनिर्जने॥ 4.28.१०० ॥
बहिश्चन्द्रोदये रम्ये पुष्पचन्दनचर्चिते ॥
अगुरुचन्दनाक्तेन वायुना सुरभीकृते ॥ १०१ ॥
भ्रमरध्वनिसंयुक्ते पुंस्कोकिलरुतश्रुते ॥
बहुमूर्तीः संविधाय योगिनां परमो गुरुः ॥ १०२ ॥
पुनश्चकार शृङ्गारं गोपीनां चित्तहारकः ॥
किङ्किणीनां कङ्कणानां नूपुराणां च नारद ॥ १०३ ॥
शृङ्गारोद्रेकतस्तत्र बभूव सुन्दरो रवः ॥
मूर्च्छामवापुस्ताः सर्वा नवसङ्गममात्रतः ॥ १०४ ॥
बभूवुरचलास्पन्दाः पुलकाञ्चितविग्रहाः ॥
शृङ्गारविरते भूते सम्प्रापुश्चेतनां पुनः ॥ १०५ ॥
नखदन्तप्रहारं च प्रचकार परस्परम् ॥
कृष्णः कररुहाघातं ददौ तासां कुचोपरि ॥ १०६ ॥
श्रोणीदेशे सुकठिने नखचिह्नं चकार ह ॥
नीवी विस्रंसिता तासां कबरी क्षुद्रघण्टिका ॥ १०७ ॥
दूरीभूतं सुवसनं सुवेषं सुमनोहरम् ॥
आलिङ्गनं नवविधं चुम्बनाष्टविधं मुदा ॥ १०८ ॥
शृङ्गारं षोडशविधं चकार रसिकेश्वरः ॥
अङ्गैरङ्गानि प्रत्यङ्गैः प्रत्यङ्गानि च योषिताम् ॥ १०९ ॥
चकारालिङ्गनं प्रीत्या कामुकीनां च कामुकः ॥
नारीणां षोडश कलाः शृङ्गारस्तत्प्रमाणकः ॥ ॥ 4.28.११० ॥
कलाभेदेन तद्भेदं कामशास्त्रविदो विदुः ॥
प्राकृतं द्वादशविधं चकार रसिकेश्वरः ॥ १११ ॥
निरूपितं कामशास्त्रे चकारेशस्ततोऽधिकम् ॥
क्रीडारम्भे च मध्ये च विरतौ कर्म योषिताम् ॥ ११२ ॥
प्रीत्यर्थमपि कर्तव्यं चकारेशस्ततोऽधिकम् ॥
गोपीकङ्कणरेखाभिः पादालक्तकचिह्नितः ॥
शुशुभे कृष्णदेहश्च यथाऽद्रिर्गैरिकेण च ॥ ११३ ॥
एवम्भूते पूर्णराससम्भूते रासमण्डले ॥
समाजग्मुः सुराः सर्वे सकलत्राश्च सानुगाः ॥ ११४ ॥
सुवर्णस्यन्दनस्थाश्च कौतुकात्स्वगणावृताः ॥
पुलकाञ्चितसर्वाङ्गाः कामबाणप्रपीडिताः ॥ ११५ ॥
ऋषयो मुनयश्चैव सिद्धाश्च पितरस्तथा ॥
विद्याधराश्च गन्धर्वा यक्षराक्षसकिन्नराः ॥
सस्त्रीकाश्च समाजग्मुर्ददृशुश्च मुदाऽन्विताः ॥ ११६ ॥
दिव्यस्यन्दनमारुह्य शातकौम्भविनिर्मितम् ॥
सुशोभितं च मणिना रत्नसारपरिच्छदम् ॥ ११७ ॥
वह्निशुद्धांशुकेनैव वेष्टितं सुमनोहरम् ॥
श्वेतचामरयुक्तं च सद्रत्नदर्पणाम्बुजम् ॥ ११८ ॥
शतचक्रं चित्रयुक्तं मनोयायि मनोहरम् ॥
सद्रत्नसारनिर्माणकलशोज्ज्वलशेखरम् ॥ ११९ ॥
समाजगाम भगवान्पार्वत्या सह शङ्करः ॥
वामपार्श्वे महाकालो दक्षिणे नन्दिकेश्वरः ॥ 4.28.१२० ॥
पुरतः कार्तिकेयश्च स्वयं देवो गणेश्वरः ॥
पिङ्गलाक्षादयः सर्वे पार्षदाः परितस्तयोः ॥ १२१ ॥
क्षेत्रपालादयः सर्वे तथाऽष्टौ भैरवेश्वराः ॥
वक्षःस्थलस्थिता दुर्गा सस्मिता वक्रलोचना ॥ १२२ ॥
भारत्या सह ब्रह्मा च शातकौम्भरथस्थितः॥
वामे सप्तर्षयस्तस्य दक्षिणे सनकादयः ॥१२३॥
सुवर्णस्यन्दनस्थश्च धर्मः साक्षी च कर्मणाम्॥
वक्षस्थलस्थिता तस्य मूर्तिः स्मेरानना सती ॥ १२४ ॥
पश्यन्ती पूर्णरासं च सकामा वक्रलोचना ॥
परितः पार्षदाः सर्वे ज्वलन्तो ब्रह्मतेजसा ॥ १२५ ॥
शच्या सह महेन्द्रश्च रोहिण्या च कलानिधिः ॥
स्वाहा सार्द्धं स्वयं वह्निः सूर्यश्च सञ्ज्ञया सह ॥ १२६ ॥
समाजगाम कामश्च रतिं कृत्वा च वक्षसि ॥
सर्वे ग्रहाश्च दिक्पाला आजग्मुः सकलत्रकाः ॥ १२७ ॥
आकाशस्थाश्च ददृशुः सरासं रासमण्डलम् ॥
केचिच्च मुमुहुस्तत्र मूर्च्छामापुश्च केचन ॥ १२८ ॥
मुहूर्तं च सुराः सर्वे सस्मिताश्च मुदाऽन्विताः॥
चन्दनद्रववृष्टिं च पुष्पवृष्टिं च चिक्षिपुः॥१२९॥
कस्तूरीयुक्तमाल्यानां वृष्टिं चक्रुर्मुनीश्वराः॥
रासं दृष्ट्वा देवपत्न्यः कामबाणप्रपीडिताः॥4.28.१३०॥
स्थले रतिरसं कृत्वा जगाम यमुनाजलम् ॥
राधया सह कृष्णश्च पूर्णब्रह्म सनातनः ॥ १३१ ॥
गोपीभिः सह जग्मुश्च मायाः श्रीकृष्णरूपिकाः ॥
प्रपीडिताः कामबाणैः क्रीडां चक्रुर्जले मुदा ॥ १३२ ॥
जलं ददौ राधिकायै सकामो माधवः स्वयम् ॥
ददौ सा च माधवाय कामार्तायाञ्जलित्रयम् ॥ १३३ ॥
वस्त्रं जग्राह तस्याश्च सा च नग्ना बभूव ह ॥
मालां चिच्छेद कबरीं चकार शिथिलां हरिः ॥ १३४ ॥
सिन्दूरपक्षकं लुप्तं वेषं च जलताडनैः ॥
भ्रूविचित्रमोष्ठरागं लुप्तं कज्जललोचनम् ॥ १३५ ॥
तां च नग्नां समाश्लिष्य निममज्ज जले हरिः ॥
प्रकृत्याऽभ्यन्तरे क्रीडां सुतस्थौ च तया सह ॥१३६॥
तां च नग्नां दर्शयित्वा गोपिकां क्रीडया नताम् ॥
सस्मितां प्रेरयामास दूरतो यमुनाजले ॥ १३७ ॥
सा वेगेन समुत्थाय बलाज्जग्राह माधवम्॥
गृहीत्वा मुरलीं कोपात्प्रेरयामास दूरतः ॥ १३८ ॥
गृहीत्वा पीतवसनं तं चकार दिगम्बरम् ॥
वनमालां च चिच्छेद ददौ तोयं पुनः पुनः ॥ १३९ ॥
हरिं पुनः समाकृष्य प्रेषयामास पाथसि ॥
गभीरे स्रोतसि मुने निममज्ज जगत्पतिः ॥ 4.28.१४० ॥
उत्थाय माधवः शीघ्रं तां गृहीत्वा प्रहस्य च ॥
कृत्वा वक्षसि नग्नां च चुचुम्ब च पुनःपुनः॥
एवं ता मूर्तयः सर्वा गोपीभिः सह कौतुकात् ॥
क्रीडां विचक्रुर्यमुनातीरनीरे मनोहरे ॥ १४२ ॥
तीरं गत्वा तया सार्धं हरिर्नग्नश्च मग्नया ॥
सा तं ययाचे वसनं स च तां सस्मितां सतीम् ॥१४३॥
राधिकायै ददौ वस्त्रं रम्यां मालां च माधवः ॥
प्रददौ हरये वस्त्रं वंशी रासेश्वरी तथा ॥१४४॥
चन्दनागुरुकस्तूरीं सर्वाङ्गे कुङ्कुमान्विताम्॥
कृष्णस्य परया भक्त्या ददौ श्रोणिस्थितस्य च ॥ १४५ ॥
निर्माय चूडां ललितां कामिनीं चित्तमोहिनीम्॥
शोभनैर्मालतीमाल्यैश्चकार वेष्टनं पुनः ॥ १४६ ॥
श्रीकृष्णो राधिकायाश्च कबरीं सुमनोहराम् ॥
कृत्वा कुण्डलसंस्कारं निर्ममे पत्रकावलीम् ॥ १४७ ॥
ददौ ललाटे सिन्दूरं कस्तूरीबिन्दुभिः सह ॥
तदधश्चन्दनेन्दुं च सुसूक्ष्मं सुमनोहरम् ॥ १४८ ॥
नखाङ्गं स्तनयोरूर्वोरुरस्येव घनं मुदा ॥
दत्त्वा तां वासयामास वह्निशुद्धांशुकेन वै ॥ १४९ ॥
चन्दनागुरुकस्तूरीकुङ्कुमानां द्रवेण सः ॥
कृत्वा वक्षसि संलिप्य चुचुम्ब च मुहुर्मुहुः ॥ 4.28.१५० ॥
पुनराश्लेषणं कृत्वा ददौ मालां गले पुनः ॥
भूषणैर्भूषितां कृत्वा मञ्जीरचरणे ददौ ॥ १५१ ॥
अलक्तकं चरणयोर्नखेषु च ददौ पुनः ॥
एवं गोपाश्च गोपीनां विदधौ च पृथक्पृथक् ॥ १५२ ॥
पुनः प्रजग्मुस्ता मत्ताः सुन्दरं रासमण्डलम्॥
पूर्णेन्दुचन्द्रिकायुक्तं रतियोग्यं सुनिर्जनम् ॥१५३॥
माधवीकेतकीकुन्दमालतीनां मनोहरैः ॥
चम्पयूथीमल्लिकानां पुष्पैश्च सुरभीकृतम् ॥ १५४ ॥
दृष्ट्वा च स्फुटितं पुष्पं चयनं कर्तुमीश्वरी ॥
गोपीर्नियोजयामास कौतुकेन च राधिका ॥ १५५ ॥
काश्चिन्नियोजयामास मालानिर्माणकर्मणि ॥
काश्चित्ताम्बूलसज्जेषु काश्चिञ्चन्दनघर्षणे॥।१५६॥
माला चन्दनताम्बूलं गोपीदत्तं च सुन्दरी ॥
ददौ कृष्णाय सम्प्रीत्या सस्मिता वक्रलोचना ॥१५७॥
काश्चिन्नियोजनं चक्रुः कृष्णसङ्गीतकर्मणि ॥
मृदङ्गमुरजादीनां वादनेषु च काश्चन ॥ १५८ ॥
एवं रासे रतिं कृत्वा लीलया हरिणा सह ॥
विजहार च सर्वत्र निर्जनेषु मनोहरम् ॥ १५९ ॥
पुष्पोद्यानेषु रम्येषु सरसां च तटेषु च ॥
कन्दरे कन्दरे रम्ये नदेषु च नदीषु च ॥ 4.28.१६० ॥
अतीव निर्जनस्थाने श्मशाने गिरिगह्वरे ॥
वाञ्छितेषु च नारीणां त्रयस्त्रिंशद्वनेषु च ॥ १६१ ॥
भाण्डीरे श्रीवने रम्ये कदम्बकानने तथा ॥
तुलसीकानने कुन्दवने चम्पककानने ॥१६२॥
निम्बारण्ये मधुवने जम्बीरकानने तथा ॥
नालिकेरवने पूगवने च कदलीवने ॥ १६३ ॥
बदरीकानने बिल्ववने नारिङ्गकानने ॥
अश्वत्थकानने वंशवने दाडिमकानने ॥ १६४ ॥
मन्दारकानने तालवने चूतवने तथा ॥
केतकीकाननेऽशोकवने खर्जूरकानने ॥ १६५ ॥
आम्रातकवने जम्बूगहने शालकानने ॥
कटके कानने पद्मवने जातिवने मुने ॥ १६६ ॥
न्यग्रोधगहने घोरे तथा श्रीखण्डकानने ॥
प्रहृष्टकेसरवने सर्वतोऽपि विलक्षणे ॥ १६७ ॥
एवं रेमे कौतुकेन कामात्त्रिंशद्दिवानिशम् ॥
तथाऽपि मानसं पूर्णं न च किञ्चिद्बभूव ह ॥ १६८ ॥
न कामिनीनां कामश्च शृङ्गारेण निवर्तते ॥
अधिकं वर्धते शश्वद्यथाऽग्निर्घृतधारया ॥ १६९ ॥
जग्मुर्देवाः स्वगेहं च देव्यश्च मुनयस्तथा ॥
ते सर्वे प्रशशंसुश्च विस्मयं च ययुर्मुदा ॥ 4.28.१७० ॥
गेहे गेहे नृपेन्द्राणां लेभिरे जन्म भारते ॥
दग्धाः कामाग्निनांऽशेन देव्यः शृङ्गारलालसाः ॥ १७१ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे रासक्रीडाप्रस्तावो नाम अष्टाविंशोऽध्यायः ॥ २८ ॥