श्रीनारायण उवाच ॥
शृणु नारद वक्ष्यामि श्रीकृष्णचरितं पुनः ॥
गोपीनां वस्त्रहरणं वरदानं मनीषितम् ॥ १ ॥
हेमन्ते प्रथमे मासि गोपिकाः काममोहिताः ॥
कृत्वा हविष्यं भक्त्या च यावन्मासं सुसंयुताः ॥ २ ॥
स्नात्वा सूर्यसुतातीरे पार्वतीं वालुकामयीम् ॥
कृत्वाऽवाह्य च मन्त्रेण पूजां कुर्वन्ति नित्यशः ॥ ३ ॥
चन्दनागुरुकस्तूरीकुङ्कुमैश्च मनोहरैः ॥
नानाप्रकारपुष्पैश्च माल्यैर्बहुविधैरपि ॥ ४ ॥
धूपैर्दीपैश्च नैवेद्यैर्वस्त्रैर्नानाफलैर्मुने ॥
मणिमुक्ताप्रवालैश्च वाद्यैर्नानाविधैरपि ॥ ५ ॥
हे देवि जगतां मातः सृष्टिस्थित्यन्तकारिणि ॥
नन्दगोपसुतं कान्तमस्मभ्यं देहि सुव्रते ॥ ६ ॥
मन्त्रेणानेन देवेशीं परिहारं विधाय च ॥
ततः कृत्वा तु सङ्कल्पं पूजयन् मूलमन्त्रतः ॥ ७ ॥
मन्त्रस्तु सामवेदोक्तोऽयातयामः सबीजकः ॥
ॐ श्रीदुर्गायै सर्वविघ्नविनाशिन्यै नम इति ॥८ ॥
पुष्पं माल्यं च नैवेद्यं धूपं दीपं तथा शुभम् ॥
मन्त्रेणानेन तद्भक्त्या ददुः सर्वा मुदान्विताः ॥ ९ ॥
प्रवालमालया भक्त्या चेमं मन्त्रं सहस्रधा ॥
जपं कृत्वा च स्तुत्वा च प्रणेमुः शिरसा भुवि ॥ 4.27.१० ॥
सर्वमङ्गलमाङ्गल्ये सर्वकामप्रदे शिवे ॥
देहि मे वाञ्छितं देवि नमस्ते शङ्करप्रिये ॥ ११ ॥
इत्युक्त्वा च नमस्कारं कृत्वा दत्त्वा च दक्षिणाम्॥
नैवेद्यानि च सर्वाणि ब्राह्मणेभ्यो ययुर्गृहम् ॥ १२ ॥
श्रीनारायण उवाच ॥
स्तवराजं शृणु मुने तुष्टुवुर्येन पार्वतीम् ॥
भक्त्या गोपाङ्गनाः सर्वाः सर्वाभीष्टफलप्रदाम् ॥ १३ ॥
जगत्येकार्णवे घोरे रुद्रसूर्यविवर्जिते ॥
अञ्जनाकारतोयेन सम्प्लुते च चराचरे ॥ १४ ॥
दत्तं पुरा ब्रह्मणे च हरिणा जलशायिना ॥
तस्मै दत्त्वा सर्वमिदं निद्रां भेजे जगत्पतिः ॥ १५ ॥
नाभिपद्मे जगत्स्रष्टा मधुना कैटभेन च ॥
पीडितः परितुष्टाव मूलप्रकृतिमीश्वरीम् ॥ १६ ॥
ब्रह्मोवाच ॥
दुर्गे शिवेऽभये माये नारायणि सनातनि ॥
जये मे मङ्गलं देहि नमस्ते सर्वमङ्गले ॥ १७ ॥
दैत्यनाशार्थवचनो दकारः परिकीर्तितः ॥
उकारो विघ्ननाशार्थं वाचको वेदसम्मतः ॥ १८ ॥
रेफो रोगघ्नवचनो गश्च पापघ्नवाचकः ॥
भयशत्रुघ्नवचनश्चाकारः परिकीर्तितः ॥ १९ ॥
स्मृत्युक्ति स्मरणाद्यस्या एते नश्यन्ति निश्चितम् ॥
अतो दुर्गा हरेः शक्तिर्हरिणा परिकीर्तिता ॥ 4.27.२० ॥
विपत्तिवाचको दुर्गश्चाकारो नाशवाचकः ॥
दुर्गं नश्यति या नित्यं सा दुर्गा परिकीर्तिता॥। २१ ॥
दुर्गो दैत्येन्द्रवचनोऽप्याकारो नाशवाचकः ॥
तं ननाश पुरा तेन बुधैर्दुर्गा प्रकीर्तिता ॥ २२ ॥
शश्च कल्याणवचन इकारोत्कृष्टवाचकः ॥
समूहवाचकश्चैव वाकारो दातृवाचकः ॥ २३ ॥
श्रेयःसङ्घोत्कृष्टदात्री शिवा तेन प्रकीर्तिता ॥
शिवराशिर्मूर्त्तिमती शिवा तेन प्रकीर्तिता ॥ २४ ॥
शिवो हि मोक्षवचनश्चाकारो दातृवाचकः ॥
स्वयं निर्वाणदात्री या सा शिवा परिकीर्तिता ॥ २५ ॥
अभयो भयनाशोक्तश्चाकारो दातृवाचकः ॥
प्रददात्यभयं सद्यः साऽभया परिकीर्तिता ॥ २६ ॥
राज्यश्रीवचनो माश्च याश्च प्रापणवाचकः ॥
तां प्रापयति या सद्यः सा माया परिकीर्तिता ॥ २७ ॥
माश्च मोक्षार्थवचनो याश्च प्रापणवाचकः ॥
तं प्रापयति या नित्यं सा माया परिकीर्तिता॥२८॥
नारायणार्धाङ्गभूता तेन तुल्या च तेजसा॥
सदा तस्य शरीरस्था तेन नारायणी स्मृता ॥२९ ॥
निर्गुणस्य च नित्यस्य वाचकश्च सनातनः ॥
सदा नित्या निर्गुणा या कीर्तिता सा सनातनी ॥ 4.27.३० ॥
जयः कल्याणवचनो याकारो दातृवाचकः ॥
जयं ददाति या नित्यं सा जया परिकीर्तिता ॥ ३१ ॥
सर्व मङ्गलशब्दश्च सम्पूणैश्वर्यवाचकः ॥
आकारो दातृवचनस्तद्दात्री सर्वमङ्गला ॥३२॥
नामाष्टकमिदं सारं नामार्थसहसंयुतम् ॥
नारायणेन यद्दत्तं ब्रह्मणे नाभिपङ्कजे ॥ ३३ ॥
तस्मै दत्त्वा निद्रितश्च बभूव जगतां पतिः ॥
मधुकैटभौ दुर्गां तौ ब्रह्माणं हन्तुमुद्यतौ ॥ ३४ ॥
स्तोत्रेणानेन स ब्रह्मा स्तुतिं नत्वा चकार ह ॥
साक्षात्स्तुता तदा दुर्गा ब्रह्मणे कवचं ददौ ॥ ३५ ॥
श्रीकृष्णकवचं दिव्यं सर्वरक्षणनामकम् ॥
दत्त्वा तस्मै महामाया साऽन्तर्धानं चकार ह ॥ ३६ ॥
स्तोत्रं कुर्वन्ति निद्रां च संरक्ष्य कवचेन वै ॥
निद्रानुग्रहतः सद्यः स्तोत्रस्यैव प्रभावतः ॥ ३७ ॥
तत्राजगाम भगवान्वृषरूपी जनार्दनः ॥
शक्त्या च दुर्गया सार्धं शङ्करस्य जयाय च ॥ ३८ ॥
सरथं शङ्करं मूर्ध्नि कृत्वा च निर्भयं ददौ॥
अत्यूर्ध्वं प्रापयामास जया तस्मै जयं ददौ ॥ ३९ ॥
स्तोत्रस्यैव प्रभावेण सम्प्राप्य कवचं विधिः ॥
वरं च कवचं प्राप्य निर्भयं प्राप निश्चितम् ॥ 4.27.४० ॥
ब्रह्मा ददौ महेशाय स्तोत्रं च कवचं वरम्॥
त्रिपुरस्य च सङ्ग्रामे सरथे पतिते हरौ ॥ ४१ ॥
ब्रह्मास्त्रं च गृहीत्वा स सनिद्रं श्रीहरिं स्मरन् ॥
स्तोत्रं च कवचं प्राप्य जघान त्रिपुरं हरः ॥ ४२ ॥
स्तोत्रेणानेन तां दुर्गां कृत्वा गोपालिका स्तुतिम्॥
लेभिरे श्रीहरिं कान्तं स्तोत्रस्यास्य प्रभावतः ॥४३॥
गोपकन्या कृतं स्तोत्रं सर्वमङ्गलनामकम् ॥
वाञ्छितार्थप्रदं सद्यः सर्वविघ्नविनाशनम् ॥ ४४ ॥
त्रिसन्ध्यं यः पठेन्नित्यं भक्तियुक्तश्च मानवः॥
शैवो वा वैष्णवो वाऽपि शाक्तो दुर्गात्प्रमुच्यते ॥४५॥
राजद्वारे श्मशाने च दावाग्नौ प्राणसङ्कटे ॥
हिंस्रजन्तुभयग्रस्तो मग्नः पोते महार्णवे ॥४६॥
शत्रुग्रस्ते च सङ्ग्रामे कारागारे विपद्गते ॥
गुरुशापे ब्रह्मशापे बन्धुभेदे च दुस्तरे ॥४७॥
स्थानभ्रष्टे धनभ्रष्टे जातिभ्रष्टे शुचाऽन्विते ॥
पतिभेदे पुत्रभेदे खलसर्पविषान्विते ॥४८॥
स्तोत्रस्मरणमात्रेण सद्यो मुच्येत निर्भयः ॥
वाञ्छितं लभते सद्यः सर्वैश्वर्यमनुत्तमम् ॥ ४९ ॥
इह लोके हरेर्भक्तिं दृढां च सततं स्मृतिम् ॥
अन्ते दास्यं च लभते पार्वत्याश्च प्रसादतः॥4.27.५०॥
इति श्रीब्रह्मवैवर्ते गोपकन्याकृतं सर्वमङ्गलास्तोत्रम् ॥
अनेन स्तवराजेन तुष्टुवुर्नित्यमीश्वरीम् ॥
प्रणेमुः परया भक्त्या यावन्मासं व्रजाङ्गनाः ॥ ५१ ॥
एवं पूर्णे च मासे च समाप्तिदिवसे तथा ॥
स्नातुं प्रजग्मुर्गोप्यश्च वस्त्राण्याधाय तत्तटे ॥५२॥
नानाविधानि द्रव्याणि रत्नमूल्यानि नारद ॥
पीतलोहितशुक्लानि चारूणि मिश्रितानि च ॥ ५३ ॥
तीरावृतान्यसङ्ख्यानि तैश्च तीरं सुशोभनम् ॥
चन्दनागुरुकस्तूरी वायुना सुरभीकृतम् ॥५४॥
नैवेद्यैश्च बहुविधैः कालदेशोद्भवैः फलैः ॥
धूपैः प्रदीपैः सिन्दूरैः कुङ्कुमैश्च विराजितम् ॥ ५५ ॥
जले क्रीडोन्मुखा गोप्यो बभूवुः कौतुकेन च ॥
नग्नाः क्रीडाभिरासक्ताः श्रीकृष्णार्पितमानसाः ॥ ५६ ॥
दृष्ट्वा कृष्णश्च वस्त्राणि द्रव्याणि विविधानि च ॥
वासांस्यादाय वस्तूनि चखाद शिशुभिः सह ॥५७॥
गत्वा दूरं च गोपालास्तस्थुः सर्वे मुदाऽन्विताः॥
वस्त्राणि पुञ्जीकृत्यादावूचुः स्कन्धेऽतिलोलुपाः ॥ ५८ ॥
श्रीदामा च सुदामा च वसुदामा तथैव च ॥
सुबलश्च सुपार्श्वश्च शुभाङ्गः सुन्दरस्तथा ॥ ५९ ॥
चन्द्रभानो वीरभानः सूर्यभानस्तथैव च ॥
वसुभानो रत्नभानो गोपाला द्वादश स्मृताः ॥ 4.27.६० ॥
श्रीकृष्णो बलदेवश्च प्रधानाश्च चतुर्दश ॥
गोपा हरेर्वयस्याश्च कोटिशः कोटिशो मुने ॥ ६१ ॥
वस्त्राण्यादाय ते सर्वे तस्थुरेकत्र दूरतः ॥
शतशः पुञ्जिकास्तत्र स्थापयामासुरुन्मुखाः ॥ ६२ ॥
किञ्चिद्वस्त्रं समादाय कृत्वा च पुञ्जिकां मुदा ॥
समारुह्य कदम्बाग्रमुवाच गोपिका हरिः ॥ ६३ ॥
श्रीकृष्ण उवाच ॥
भोभो गोपालिकाः सर्वा विनष्टा व्रतकर्मणि ॥
कृत्वा विधानं मद्वाक्यं श्रुत्वा क्रीडत मन्मथात् ॥ ६४ ॥
सङ्कल्पिते व्रतार्हे च मासे मङ्गलकर्मणि ॥
यूयं नग्नाः कथं तोये व्रताङ्गहानिकारिकाः ॥ ६५ ॥
परिधेयानि वासांसि पुष्पमाल्यानि यानि च ॥
व्रतार्हाणि च वस्तूनि केन नीतानि वोऽधुना ॥ ६६ ॥
व्रते तु नग्ना या स्नाति तां रुष्टो वरुणः स्वयम्॥
वरुणानुचराश्चक्रुर्वासोवस्तूपनिर्हृतिम् ॥ ६७ ॥
कथं यास्यथ नग्नाश्च न व्रतस्या भविष्यति॥
व्रताराध्या कथं सा च वस्तूनि किं न रक्षति ॥६८॥
चिन्तां कुरुत तां पूज्यां तुष्टाव बलिरीश्वरीम् ॥
युष्माकमीदृशी देवी न शक्ता वस्तुरक्षणे ॥ ६९ ॥
कथं व्रतफलं सा वा दातुं शक्ता सुरेश्वरी ॥
फलं प्रदातुं या शक्ता सा शक्ता सर्वकर्मणि ॥ 4.27.७० ॥
श्रीकृष्णस्य वचः श्रुत्वा चिन्तामापुर्व्रजस्त्रियः ॥
ददृशुर्यमुनातीरं वस्त्रवस्तुविहीनकम् ॥७१॥
चक्रुर्विषादं तोये च नग्नास्ता रुरुदुर्भृशम् ॥
क्व गतानि च वस्त्राणि वस्तूनीत्यूचुरत्र नः ॥ ७२ ॥
कृत्वा विषादं तत्रैव तमूचुर्गोपकन्यकाः ॥
पुटाञ्जलियुताः सर्वा भक्त्या विनयपूर्वकम् ॥७३ ॥
गोपालिका ऊचुः ॥
परिधेयानि वस्त्राणि किङ्करीणां सदीश्वर ॥
निबोधयात्मानमेव स्पर्शं कर्तुं त्वमर्हसि ॥ ७४ ॥
व्रतार्हाणि च वस्तूनि देवस्वानि च साम्प्रतम् ॥
अदत्तानि मोचितानि ग्रहीतुं वेदविद्वद ॥७५॥
देहि धौतानि धृत्वा च करिष्यामो व्रतं वयम्॥
वस्तुनाऽन्येन गोविन्द वस्तूनां भक्षणं कुरु ॥ ७६॥
एतस्मिन्नन्तरे तत्र श्रीदामा वस्त्रपुञ्जिकाम् ॥
दर्शयित्वा च ताः सर्वा दूरं दुद्राव तत्पुरः ॥ ७७ ॥
दृष्ट्वा सवस्त्रं गोपालं सर्वासामीश्वरी परा ॥
सर्वा वयस्याश्चाववाच कोपयुक्ता जलप्लुता ॥७८॥
श्रीराधिकोवाच ॥
हे सुशीले शशिकले हे चन्द्रमुखि माधवि ॥
कदम्बमाले हे कुन्ति यमुने सर्वमङ्गले॥७९ ॥
हे पद्ममुखि सावित्रि पारिजाते च जाह्नवि॥
सुधामुखि शुभे पद्मे हे गौरि हे स्वयम्प्रभे ॥ 4.27.८० ॥
कालिके कमले दुर्गे हे सरस्वति भारति ॥
अपूर्णे रति हे गङ्गे चाम्बिके सति सुन्दरि ॥ ८१ ॥
कृष्णप्रिये मधुमति चम्पे चन्दननन्दिनि ॥
यूयं सर्वाः समुत्थाय बद्ध्वाऽऽनयत बल्लवम् ॥८२॥
सर्वा राधाज्ञया तूर्णं समुत्थाय जलात्क्रुधा ॥
प्रजग्मुर्गोपिका नग्ना योनिमाच्छाद्य पाणिना ॥ ८३ ॥
एतासां सहचारिण्यो गोप्यस्तूर्णं सहस्रशः ॥
प्रजग्मुस्तेन रूपेण कोपादारक्तलोचनाः ॥ ८४ ॥
वेगेन दुद्रुवुः सर्वाः श्रीदामानं च बालिकाः ॥
वेगेन च प्रधावन्तं बिभ्रतं वस्त्रपुञ्जिकाम् ॥ ८५ ॥
जगाम शीघ्रं श्रीदामा यत्र गोपाः सहांशुकाः ॥
जवेन दुद्रुवुर्गोप्यस्तत्पश्चाद्बलसंयुताः ॥ ८६ ॥
वस्त्रचोरांश्च गोपांश्च वेष्टयामासुराशु ताः ॥
भिया प्रदुद्रुवुर्बाला यत्र कृष्णः सहांशुकः ॥ ८७ ॥
श्रीकृष्णसहितान्बालान्वरयामासुराशु च ॥
गोपिकानां भिया गोपा ददुर्वस्त्राणि माधवम् ॥ ८८ ॥
माधवः स्थापयामास स्कन्धे स्कन्धे तरोस्तथा॥
कदम्बवृक्षः शुशुभे वस्त्रैर्नानाविधैरपि ॥८९ ॥
वस्त्राणां पुञ्जिकाः सर्वाः स्कन्धेषु विनिधाय च ॥
उवाच गोपिकाः कृष्णः परिहासपरं वचः ॥ 4.27.९० ॥
श्रीकृष्ण उवाच ॥
भो भो गोपालिका नग्ना इदानीं किं करिष्यथ ॥
वस्त्रयाञ्चां प्रकर्तुं च कुरुताशु पुटाञ्जलिम् ॥ ९१ ॥
गत्वा वदत युष्माकमीश्वरीमथ राधिकाम् ॥
करोतु शीघ्रं वस्त्राणां याञ्चां कृत्वा पुटाञ्जलिम् ॥९२॥
अन्यथाऽहं न दास्यामि युष्मभ्यमंशुकानि च ॥
युष्माकमीश्वरी राधा किं करिष्यति मेऽधुना ॥९३॥
व्रताराध्या च या देवी सा वा मे किं करिष्यति॥
इत्येवं कथितं सर्वं ब्रूत यूयं च राधिकाम् ॥ ९४ ॥
श्रीकृष्णवचनं श्रुत्वा ताः सर्वा गोपकन्यकाः ॥
वीक्ष्य लोचनकोणेन प्रजग्मू राधिकान्तिकम् ॥ ९५ ॥
चक्रुर्निवेदनं गत्वा यदुवाच हरिः स्वयम् ॥
श्रुत्वा जहास सा राधा बभूव कामपीडिता ॥ ९६ ॥
श्रुत्वा तासां च वचनं पुलकाञ्चितविग्रहा ॥
न जगाम हरेः स्थानं व्रीडया सस्मिता सती ॥९७॥
जले योगासनं कृत्वा दध्यौ कृष्णपदाम्बुजम् ॥
ब्रह्मेशानन्तधर्माणां वन्द्यमीप्सितदं परम् ॥ ९८ ॥
स्मारंस्मारं पदाम्भोजं साऽश्रुसम्पूर्णलोचना ॥
भावातिरेकात्प्राणेशं तुष्टाव निर्गुणं परम् ॥ ९९ ॥
॥ राधिकोवाच ॥ ॥
गोलोकनाथ गोपीश मदीश प्राणवल्लभ ॥
हे दीनबन्धो दीनेश सर्वेश्वर नमोऽस्तु ते ॥ 4.27.१०० ॥
गोपेश गोसमूहेश यशोदानन्दवर्धन ॥
नन्दात्मज सदानन्द नित्यानन्द नमोऽस्तु ते ॥ १०१ ॥
शतमन्योर्मन्युभग्न ब्रह्मदर्पविनाशक॥
कालीयदमन प्राणनाथ कृष्ण नमोऽस्तु ते॥ १०२ ॥
शिवानन्तेश ब्रह्मेश ब्राह्मणेश परात्पर ॥
ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मबीज नमोऽस्तु ते ॥१०३॥
चराचरतरोर्बीज गुणातीत गुणात्मक ॥
गुणबीज गुणाधार गुणेश्वर नमोऽस्तु ते ॥१०४॥
अणिमादिकसिद्धीश सिद्धेः सिद्धिस्वरूपक ॥
तपस्तपस्विंस्तपसा बीजरूप नमोऽस्तु ते ॥ १०५ ॥
यदनिर्वचनीयं च वस्तु निर्वचनीयकम् ॥
तत्स्वरूप तयोर्बीजं सर्वबीज नमोऽस्तु ते ॥१०६॥
अहं सरस्वती लक्ष्मीर्दुर्गा गङ्गा श्रुतिप्रसूः ॥
यस्य पादार्चनान्नित्यं पूज्या तस्मै नमोनमः ॥ ॥ १०७ ॥
स्पर्शने यस्य भृत्यानां ध्यानेन च दिवानिशम् ॥
पवित्राणि च तीर्थानि तस्मै भगवते नमः ॥ १०८ ॥
इत्येवमुक्त्वा सा देवी जले सन्न्यस्य विग्रहम् ॥
मनः प्राणांश्च श्रीकृष्णे तस्थौ स्थाणुसमा सती ॥ १०९ ॥
राधाकृतं हरेः स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः ॥
हरिभक्तिं च दास्यं च लभेद्राधागतिं ध्रुवम् ॥ 4.27.११० ॥
विपत्तौ यः पठेद्भक्त्या सद्यः सम्पत्तिमाप्नुयात् ॥
चिरकालगतं द्रव्यं हृतं नष्टं च लभ्यते ॥१११॥
वस्तुवृद्धिर्भवेत्तस्य प्रसन्नं मानसं परम् ॥
चिन्ताग्रस्तः पठेद्भक्त्या परां निर्वृतिमाप्नुयात् ॥११२॥
पतिभेदे पुत्रभेदे मित्रभेदे च सङ्कटे ॥
मासं भक्त्या यदि पठेत्सद्यः सन्दर्शनं लभेत् ॥ ११३ ॥
भक्त्या कुमारी स्तोत्रं च शृणुयाद्वत्सरं यदि ॥
श्रीकृष्णसदृशं कान्तं गुणवन्तं लभेद्ध्रुवम् ॥११४॥
इति श्रीब्रह्मवैवर्ते श्रीकृष्णजन्मखण्डे राधाकृतं श्रीकृष्ण स्तोत्रम् ॥
जलस्था राधिका ध्यात्वा श्रीकृष्णचरणाम्बुजम् ॥
स्तुत्वैवं चक्षुरुन्मील्य दृष्ट्वा कृष्णमयं जगत् ॥ ११५ ॥
ददर्श यमुनातीरं वस्त्रद्रव्यमयं मुने ॥
दृष्ट्वा तन्द्राऽथवा स्वप्नमिति मेने च राधिका ॥११६॥
यत्र स्थाने यदाधारे यद्द्रव्यं संस्थितं पुरा ॥
वस्त्रैश्च सहितं सर्वं तत्प्रापुर्गोपकन्यकाः ॥ ११७ ॥
जलादुत्थाय ताः सर्वा व्रतं कृत्वा मनीषितम् ॥
सम्प्राप्य च वरं देव्यस्ता सर्वाः स्वालयं ययुः ॥ ११८ ॥
नारद उवाच ॥
व्रतस्य किं विधानं च किं नाम किं फलं प्रभो ॥
कानि द्रव्याणि देयानि का देया तत्र दक्षिणा ॥ ११९ ॥
व्रतान्ते किं रहस्यं च बभूव सुमनोहरम् ॥
व्यासं कृत्वा महाभाग वद नारायणीं कथाम् ॥ ॥ 4.27.१२० ॥
सूत उवाच ॥
नारदस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ॥
कथां कथितुमारेभे कवीन्द्राणां गुरोर्गुरुः ॥ १२१ ॥
नारायण उवाच ॥
सर्वं व्रतविधानं च मत्तो वत्स निशामय ॥
ख्यातं गौरीव्रतं नाम मार्गे मासि कृतं स्त्रिया ॥ ॥ १२२ ॥
पुंसां च धर्मकामार्थमोक्षदं कृष्णभक्तिदम्॥
देशभेदे प्रसिद्धं च व्रतं पौर्वापरं स्मृतम् ॥१२३ ॥
कामदं कामुकानां च फलं कान्तनिमित्तकम् ॥
उपोष्य पूर्वदिवसे वस्त्रं प्रक्षाल्य संयता ॥ १२४ ॥
प्रातश्च मार्गसङ्क्रान्त्यां भक्त्या गत्वा सरित्तटम् ॥
धृत्वा धौते च स्नात्वा च नानाद्रव्येण कन्यका ॥ १२५॥
देवषट्कं च सम्पूज्य कृत्वा चावाहनं घटे ॥
गणेशं च दिनेशं च वह्निं नारायणं शिवम् ॥ १२६ ॥
दुर्गां पञ्चोपचारैश्च सम्पूज्य व्रतमारभेत् ॥
घटाधः पिण्डिकां कृत्वा चतुरस्रां सुविस्तृताम् ॥
चन्दनागुरुकस्तूरीकुङ्कुमैश्च सुसंस्कृताम् ॥ १२७॥
निर्माय बालुकानां च दुर्गां दशभुजां पराम् ॥
धृत्वा कपाले सिन्दूरं तदधश्चन्दनेन्दुकम् ॥१२८॥
तां ध्यात्वाऽऽवाहयेद्देवीं ततो भूत्वा पुटाञ्जलिः ॥
इमं मन्त्रं पठित्वाऽऽदौ ततः पूजां समारभेत्॥१२९॥
हे गौरि शङ्करार्धाङ्गि यथा त्वं शङ्करप्रिया ॥
तथा मां कुरु कल्याणि कान्तकान्तां सुदुर्लभाम्॥ 4.27.१३० ॥
इमं मन्त्रं पठित्वा तु ध्यायेद्देवीं जगत्प्रसूम् ॥
ध्यानं तत्सामवेदोक्तं निगूढं सर्वकामदम् ॥ १३१ ॥
शृणु नारद वक्ष्यामि मुनीन्द्राणां च दुर्लभम् ॥
ध्यायन्त्यनेन सिद्धाश्च दुर्गां दुर्गतिनाशिनीम् ॥१३२॥
शिवां शिवप्रियां शैवां शिववक्षःस्थलस्थिताम् ॥
ईषद्धास्यप्रसन्नास्यां सुप्रतिष्ठां सुलोचनाम् ॥ १३३ ॥
नवयौवनसम्पन्नां रत्नाभरणभूषिताम् ॥
रत्नकङ्कणकेयूररत्ननूपुरभूषिताम्।ा१३४॥
रत्नकुण्डलयुग्मेन गण्डस्थलविराजिताम्॥
मालती माल्यसंसक्तकबरभ्रमरान्विताम् ॥ १३५ ॥
सिन्दूरतिलकं चारुकस्तूरीबिन्दुना सह ॥
वह्निशुद्धांशुकां रत्नकिरीटां सुमनोहराम् ॥ ॥ १३६ ॥
मणीन्द्रसारसंसक्तरत्नमालासमुज्ज्वलाम् ॥
पारिजातप्रसूनानां मालाजालानुलम्बिताम् ॥ १३७ ॥
सुपीनकठिनश्रोणीं बिभ्रतीं च स्तनानताम् ॥
नवयौवनभारौघादीषन्नम्रां मनोहराम् ॥ १३८ ॥
ब्रह्मादिभिः स्तूयमानां सूर्यकोटिसमप्रभाम् ॥
पक्वबिम्बाधरोष्ठीं च चारुचम्पकसन्निभाम्॥१३९॥
मुक्तापङ्क्तिविनिन्द्यैकदन्तराजिविराजिताम् ॥
मुक्तिकामप्रदां देवीं शरच्चन्द्रमुखीं भजे॥ ॥ 4.27.१४० ॥
ध्यात्वैवं मस्तके पुष्पं विन्यस्य च व्रती मुदा ॥
पुष्पं गृहीत्वा भक्त्या च पुनर्ध्यात्वा च पूजयेत् ॥ १४१ ॥
दत्त्वा षोडशोपचारान्प्रहृष्टं तत्र नित्यशः ॥
पूर्वोक्तेनैव मन्त्रेण मुदा भक्त्या व्रते व्रती ॥१४२॥
पूर्वोक्तेनैव स्तोत्रेण स्तुत्वा च प्रणमेत्तदा ॥
कृत्वा प्रणामं भक्त्या च संयतः शृणुयात्कथाम् ॥ १४३ ॥
नारद उवाच ॥
व्रतं व्रतविधानं च फलं च स्तोत्रमद्भुतम् ॥
अधुना श्रोतुमिच्छामि गौरीव्रतकथां शुभाम् ॥ १४४ ॥
व्रतं केन कृतं पूर्वं भूमौ केन प्रकाशितम् ॥
एतत्सर्वं सुविस्तार्य वद सन्देहभञ्जन ॥ ॥ १४५ ॥
श्रीनारायण उवाच ॥
कुशध्वजस्य हि सुता नाम्ना वेदवती सती ॥
तया कृतं व्रतमिदं महातीर्थे च पुष्करे ॥ १४६ ॥
समाप्तिदिवसे साक्षाद्बभूव जगदम्बिका ॥
योगिनीलक्षसंयुक्ता सूर्यकोटिसमप्रभा ॥ १४७ ॥
शातकुम्भविनिर्माणरथस्था परमेश्वरी ॥
ईषद्धास्यप्रसन्नास्या तामुवाच सुसंयुताम् ॥ १४८ ॥
पार्वत्युवाच ॥
हे वेदवति भद्रं ते वरं वृणु यथेप्सितम् ॥
तव व्रतेन तुष्टाऽहं तुभ्यं दास्यामि वाञ्छितम् ॥ १४९ ॥
पार्वतीवचनं श्रुत्वा दृष्ट्वा तां हृष्टमानसाम् ॥
पुटाञ्जलियुता साध्वी प्रणम्योवाच नारद ॥ 4.27.१५० ॥
वेदवत्युवाच ॥
देवि नारायणं कान्तं मह्यं देहि मनीषितम् ॥
वरेऽन्यस्मिन्स्पृहा नास्ति दृढां भक्तिं च तत्पदे ॥ १५१ ॥
श्रुत्वा वेदवतीवाक्यं प्रहस्य जगदम्बिका ॥
अवरुह्य रथात्तूर्णं तामुवाच हरिप्रियाम् ॥ १५२ ॥
पार्वत्युवाच ॥
ज्ञातं सर्वं जगन्मातस्त्वं च लक्ष्मीः स्वयं सती ॥
भारतं पादरजसा पूतं कर्तुं समागता ॥
त्वत्पादरजसा साध्वि सद्यः पूता वसुन्धरा ॥ १५३ ॥
निखिलानि च तीर्थानि पूतानि परमेश्वरी ॥
व्रतं ते लोकशिक्षार्थं तपश्चर तपस्विनि ॥ १५४ ॥
नारायणस्य कान्ता त्वं प्रिया जन्मनि जन्मनि ॥
भारावतरणे विष्णुर्वसुधामागमिष्यति ॥ १५५ ॥
रामो दाशरथिः पूर्णः कर्तुं दस्युविनिग्रहम् ॥
ब्रह्मशापाच्च च्युतयोर्मोक्षणाय च भक्तयोः ॥ १५६ ॥
अयोध्यायां च त्रेतायामाविर्भावो हरेरपि ॥
त्वमेव मिथिलां गच्छ विधाय शिशुविग्रहम् ॥ १५७ ॥
त्वामिमां प्राप्य जनकोऽप्ययोनिसम्भवां सुताम् ॥
पालयिष्यति यत्नेन सीता त्वं च भविष्यसि ॥ १५८ ॥
गत्वा रामोऽपि मिथिलां त्वद्विवाहं करिष्यति ॥
नारायणस्य कान्ता त्वं कल्पे कल्पे भविष्यसि ॥ १५९ ॥
इत्युक्त्वा तां समालिङ्ग्य पार्वती स्वालयं ययौ॥
गत्वा सा मिथिलां साध्वी शिशुरूपं विधाय च ॥4.27.१६०॥
लाङ्गलस्य च रेखायां सुखात्तस्थौ च मायया ॥
विलोक्य जनकस्तां च नग्नां मुद्रितलोचनाम् ॥ १६१ ॥
तप्तकाञ्चनवर्णां च रुदन्तीं तेजसाऽन्विताम् ॥
दृष्ट्वा तां च गृहीत्वा च कृत्वा वक्षसि नारद ॥ १६२ ॥
गच्छन्तं प्रति तत्रैव वाग्बभूवाशरीरिणी ॥
अयोनिसम्भवां कन्यां कमलां ग्रहणं कुरु ॥ १६३ ॥
नारायणस्ते जामाता भवितेत्येव मे वचः ॥
श्रुत्वा तदा देववाणीं गृहीत्वा कन्यकामृषिः ॥ १६४ ॥
गत्वा ददौ स्वकान्तायै पालनाय मुदाऽन्वितः ॥
सा लब्धयौवना प्राप रामं दाशरथिं सती ॥ १६५ ॥
व्रतस्यास्य प्रभावेण कान्तं त्रिजगतां पतिम् ॥
प्रकाशितं वशिष्ठेन पृथिव्यां भक्तिभावतः ॥ १६६ ॥
राधा कृत्वा व्रतमिदं श्रीकृष्णं प्राणवल्लभम् ॥
गोपाङ्गनाश्च तं प्रापुर्व्रतस्यास्य प्रभावतः ॥ १६७ ॥
इत्येवं कथिता विप्र कथा गौरीव्रतस्य च ॥
भारते च व्रतमिदं या करोति कुमारिका ॥
स्वामिनं कृष्णतुल्यं च सा प्राप्नोति न संशयः ॥ १६८ ॥
श्रीनारायण उवाच ॥
एवं व्रतं च चक्रुस्ता यावन्मासं च गोपिकाः ॥
पूर्वस्तोत्रेण तां देवीं तुष्टुवुश्च दिनेदिने ॥ १६९ ॥
समाप्तिदिवसे गोप्यो व्रतं कृत्वा मुदाऽन्विताः ॥
कण्वशाखोक्तस्तोत्रेण तुष्टुवुः परमेश्वरीम् ॥ 4.27.१७० ॥
येन स्तोत्रेण तां स्तुत्वा सीता सत्यपरायणा ॥
सद्यः सम्प्राप कान्तं च रामं राजीवलोचनम् ॥ १७१ ॥
जानक्युवाच ॥
शक्तिस्वरूपे सर्वेषां सर्वाधारे गुणाश्रये ॥
सदा शङ्करयुक्ते च पतिं देहि नमोऽस्तु ते ॥१७२॥
सृष्टिस्थित्यन्तरूपेण सृष्टिस्थित्यन्तरूपिणी ॥
सृष्टिस्थित्यन्तबीजानां बीजरूपे नमोऽस्तु ते ॥१७३॥
हे गौरि पतिमर्मज्ञे पतिव्रतपरायणे ॥
पतिव्रते पतिरते पतिं देहि नमोस्तु ते ॥ १७४ ॥
सर्वमङ्गलमाङ्गल्ये सर्वमङ्गलसंयुते ॥
सर्वमङ्गलबीजे च नमस्ते सर्वमङ्गले ॥ १७५ ॥
सर्वप्रिये सर्वबीजे सर्वाशुभविनाशिनि ॥
सर्वेशे सर्वजनके नमस्ते शङ्करप्रिये ॥ १७६ ॥
परमात्मस्वरूपे च नित्यरूपे सनातनि ॥
साकारे च निराकारे सर्वरूपे नमोऽस्तु ते ॥ १७७ ॥
क्षुत्तृष्णेच्छा दया श्रद्धा निद्रा तन्द्रा स्मृतिः क्षमा ॥
एतास्तव कलाः सर्वा नारायणि नमोऽस्तु ते ॥ १७८ ॥
लज्जा मेधा तुष्टिपुष्टी शान्तिसम्पत्तिवृद्धयः ॥
एतास्तव कलाः सर्वाः सर्वरूपे नमोऽस्तु ते ॥ १७९ ॥
दृष्टादृष्टस्वरूपे च तयोर्बीजफलप्रदे ॥
सर्वानिर्वचनीये च महामाये नमोऽस्तु ते ॥ 4.27.१८० ॥
शिवे शङ्करसौभाग्ययुक्ते सौभाग्यदायिनि ॥
हरिं कान्तं च सौभाग्यं देहि देवि नमोऽस्तु ते ॥ १८१ ॥
स्तोत्रेणानेन याः स्तुत्वा समाप्तिदिवसे शिवाम् ॥
नमन्ति परया भक्त्या ता लभन्ते हरिं पतिम्॥१८२॥
इह कान्तसुखं भुक्त्वा पतिं प्राप्य परात्परम्॥
दिव्यं स्यन्दनमारुह्य यात्यन्ते कृष्णसन्निधिम् ॥ १८३ ॥
इति श्रीब्रह्मवैवर्ते सीताकृतं पार्वतीस्तोत्रम् ॥
समाप्तिदिवसे राधा गोपीभिः सह संयुता ॥
देवीं प्रणम्य स्तुत्वा च व्रतं पूर्णं चकार ह ॥ १८४ ॥
गोसहस्रं ब्राह्मणेभ्यः सुवर्णशतकं मुदा ॥
विप्राय दक्षिणां दत्त्वा स्वगृहं गन्तुमुद्यता ॥ १८९ ॥
ब्राह्मणानां सहस्रं च भोजयामास सादरम् ॥
वाद्यानि वादयामास भिक्षुकाय धनं ददौ ॥ १८६ ॥
एतस्मिन्नन्तरे तत्र दुर्गा दुर्गार्तिनाशिनी ॥
आविर्बभूव गगनाज्ज्वलन्ती ब्रह्मतेजसा ॥ १८७ ॥
ईषद्धास्यप्रसनास्या योगिनीशतसंयुता ॥
सिंहस्था च दशभुजा रत्नालङ्कारभूषिता ॥१८८॥
शातकुम्भमयाद्दिव्याद्रत्नसारपरिच्छदात् ॥
अवरुह्य रथात्तूर्णमालिङ्ग्योरसि राधिकाम् ॥१८९॥
दृष्ट्वा गोपाङ्गना देवीं प्रणेमुश्च मुदाऽन्विताः ॥
आशिषं युयुजे दुर्गा वाञ्छासिद्धिर्भविष्यति ॥ 4.27.१९० ॥
गोपिकाभ्यो वरं दत्त्वा ताः सम्भाष्य च सादरम् ॥
उवाच राधिकां दुर्गा स्मेराननसरोरुहा ॥ १९१ ॥
पार्वत्युवाच ॥
राधे सर्वेश्वरप्राणादधिके जगदम्बिके ॥
व्रतं ते लोकशिक्षार्थं मायामानुषरूपिणि ॥ १९२ ॥
गोलोकनाथं गोलोकं श्रीशैलं गिरिजातटम् ॥
श्रीरासमण्डलं दिव्यं वृन्दावनमनोहरम् ॥ १९३ ॥
चरितं रतिचोरस्य स्त्रीणां मानसहारकम् ॥
विदुषः कामशास्त्राणां किंस्वित्स्मरसि सुन्दरि ॥ १९४ ॥
श्रीकृष्णार्धाङ्गसम्भूता कृष्णतुल्या च तेजसा ॥
तवांशकलया देव्यः कथं त्वं मानुषी सती ॥ १९५ ॥
भवती च हरेः प्राणा भवत्याश्च हरिः स्वयम् ॥
वेदे नास्ति द्वयोर्भेदः कथं त्वं मानुषी सती ॥ १९६ ॥
षष्टिवर्षसहस्राणि ब्रह्मा तप्त्वा तपः पुरा ॥
न ते ददर्श पादाब्जं कथं त्वं मानुषी सती ॥ १९७ ॥
कृष्णाज्ञया च त्वं देवि गोपीरूपं विधाय च ॥
आगताऽसि महीं शान्ते कथं त्वं मानुषी सती ॥ १९८ ॥
सुयज्ञो हि नृपश्रेष्ठो मनुवंशसमुद्भवः ॥
त्वत्तो जगाम गोलोकं कथं त्वं मानुषी सती ॥ १९९ ॥
त्रिःसप्तकृत्वो निर्भूपां चकार पृथिवीं भृगुः ॥
तव मन्त्रेण कवचात्कथं त्वं मानुषी सती ॥ 4.27.२०० ॥
शङ्करात्प्राप्य त्वन्मन्त्रं सिद्धं कृत्वा च पुष्करे ॥
जघान कार्तवीर्यं च कथं त्वं मानुषी सती ॥ २०१ ॥
बभञ्ज दर्पाद्दन्तं च गणेशस्य महात्मनः ॥
त्वत्तो नाम भयं चक्रे कथं त्वं मानुषी सती ॥ २०२ ॥
मय्युद्धतायां कोपेन भस्मसात्कर्तुमीश्वरः ॥
ररक्षागत्य मत्प्रीत्या कथं त्वं मानुषी सती ॥ २०३ ॥
कल्पे कल्पे तव पतिः कृष्णो जन्मनि जन्मनि ॥
व्रतं लोकहितार्थाय जगन्मातस्त्वया कृतम् ॥ २०४ ।
अहो श्रीदामशापेन भारावतरणेन च ॥
भूमौ तवाधिष्ठानं च कथं त्वं मानुषी सती ॥ २०५ ॥
अयोनिसम्भवा त्वं च जन्ममृत्युजरापहा ॥
कलावतीसुता पुण्या कथं त्वं मानुषी सती ॥ २०६ ॥
त्रिषु मासेष्वतीतेषु मधुमासे मनोहरे ॥
निर्जने निर्मले रात्रौ सुयोग्ये रासमण्डले ॥ २०७ ॥
सर्वाभिर्गोपिकाभिश्च सार्धं वृन्दावने वने ॥
हर्षेण हरिणा सार्धं क्रीडा ते भविता सति ॥ २०८ ॥
विधात्रा लिखिता क्रीडा कल्पे कल्पे महीतले ॥
तव श्रीहरिणा सार्धं केन राधे निवार्यते ॥ २०९ ॥
यथा सौभाग्ययुक्ताऽहं हरस्य श्रीहरिप्रिये ॥
तथा सौभाग्ययुक्ता त्वं भव कृष्णस्य सुन्दरि ॥ 4.27.२१० ॥
यथा क्षीरेषु धावल्यं यथा वह्नौ च दाहिका ॥
भुवि गन्धो जले शैत्यं तथा कृष्णे स्थितिस्तव ॥ २११ ॥
देवी वा मानुषी वाऽपि गान्धर्वी राक्षसी तथा ॥
त्वत्तः परा च सौभाग्या न भूता न भविष्यति ॥ २१२ ॥
परात्परो गुणातीतो ब्रह्मादीनां च वन्दितः ॥
स्वयं कृष्णस्तवाधीनो मद्वरेण भविष्यति ॥ २१३ ॥
ब्रह्मानन्तशिवाराध्यो भविता त्वद्वशः सति ॥
ध्यानासाध्यो दुराराध्यः सर्वेषामपि योगिनाम् ॥२१४॥
त्वं च भाग्यवती राधे स्त्रीजातिषु न ते परा ॥
कृष्णेन सार्धं पश्चात्त्वं गोलोकं च गमिष्यसि ॥२१५॥
इत्युक्त्वा पार्वती सद्यस्तत्रैवान्तर्दधे मुने ॥
सार्धं गोपालिकाभिश्च राधिका गन्तुमुद्यता॥२१६॥
एतस्मिन्नन्तरे कृष्णो जगाम राधिकापुरः॥
राधा ददर्श श्रीकृष्णं किशोरं श्यामसुन्दरम्॥२१७॥
पीतवस्त्रपरीधानं नानालङ्कारभूषितम् ॥
आजानुमालतीमालावनमालाविभूषितम्॥ २१८ ॥
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकातरम्॥
चन्दनोक्षितसर्वाङ्गं शरत्पङ्कजलोचनम् ॥२१९॥
शरत्पार्वणचन्द्रास्यं सद्रत्नमुकुटोज्ज्वलम् ॥
पक्वदाडिमबीजाभदशनं सुमनोहरम् ॥ 4.27.२२० ॥
विनोदमुरलीहस्तन्यस्तलीलासरोरुहम् ॥
कोटिकन्दर्पलावण्यं लीलाधाममनोहरम् ॥२२१॥
गुणातीतं स्तूयमानं ब्रह्मानन्तशिवादिभिः॥
ब्रह्मस्वरूपं ब्रह्मण्यं श्रुतिभिश्चानिरूपितम्॥२२२॥
अव्यक्तमक्षराव्यक्तं ज्योतीरूपं सनातनम् ॥
माङ्गल्यं मङ्गलाधारं मङ्गलं मङ्गलप्रदम् ॥ २२३ ॥
दृष्ट्वा तदद्भुतं रूपं सम्भ्रमात्प्रणनाम तम् ॥
तं दृष्ट्वा मूर्च्छिता राधा कामबाणप्रपीडिता ॥ २२४ ॥
दर्शन्दर्शं मुखाम्भोजं सस्मिता वक्रलोचना ॥
मुखस्याच्छादनं चक्रे व्रीडया च पुनः पुनः ॥२२५॥
दृष्ट्वा हरिस्तामुवाच प्रसन्नवदनेक्षणः ॥
गोपालिकासमूहानां सर्वेषां पुरतः स्थितः ॥ २२६ ॥
श्रीकृष्ण उवाच ॥ ॥
प्राणाधिके राधिके त्वं वरं वृणु मनीषितम् ॥
भो भो गोपालिका सर्वा वरं वृणुत वाञ्छितम्॥२२७॥
कृष्णस्य वचनं श्रुत्वा वरं वव्रे च राधिका ॥
गोपालिकाः प्रहृष्टाश्च सर्वसङ्कल्पपादपात् ॥ २२८ ॥
राधिकोवाच ॥
त्वत्पादाब्जे मन्मनोलिः सततं भ्रमतु प्रभो ॥
पातुं भक्तिरसं पद्मे मधुपश्च यथा मधु॥२२९ ॥
मदीय प्राणनाथस्त्वं भव जन्मनि जन्मनि ॥
त्वदीयचरणाम्भोजे देहि भक्तिं सुदुर्लभाम्॥ 4.27.२३० ॥
तव स्मृतौ गुणे चित्तं स्वप्ने ज्ञाने दिवानिशम् ॥
भवेन्निमग्नं सततमेतन्मम मनीषितम् ॥ २३१ ॥
गोपालिका ऊचुः ॥
यथा राधां तथा नश्च प्राणबन्धो दिवानिशम् ॥
भविष्यसि प्राणनाथः पास्यसि प्रतिजन्मनि ॥ २३२ ॥
आसां च वचनं श्रुत्वा तथाऽस्त्वेवमुवाच ह ॥
प्रसन्नवदनः श्रीमान्यशोदानन्दवर्धनः ॥ २३३ ॥
क्रीडापद्मं राधिकायै सहस्रदलसंयुतम् ॥
ललितां मालतीमालां ददौ प्रीत्या जगत्पतिः ॥२३४॥
मालासमूहं पुष्पाणि गोपीभ्यो गोपिकापतिः ॥
प्रहस्य परमप्रीत्या प्रददावित्युवाच ह ॥ २३९ ॥
श्रीकृष्ण उवाच ॥
त्रिषु मासेष्वतीतेषु यूयं क्रीडां मया सह ॥
रासमण्डलरम्ये च वृन्दारण्ये करिष्यथ ॥ २३६ ॥
यथाऽहं च तथा यूयं नाहं भेदः श्रुतौ श्रुतः ॥
प्राणोऽहं चैव युष्माकं यूयं प्राणा मम प्रभोः ॥ २३७ ॥
व्रतं वो लोकरक्षार्थं न हि स्वार्थमिदं प्रियाः ॥
सहागताश्च गोलोकाद्गमनं च मया सह ॥ २३८ ॥
गच्छत स्वालयं शीघ्रं वोऽहं जन्मनि जन्मनि ॥
प्राणेभ्योऽपि गरीयस्यो यूयं मे नात्र संशयः ॥ २३९ ॥
इत्युक्त्वा श्रीहरिस्तत्र तस्थौ सूर्यसुतातटे ॥
तस्थुर्गोपालिकाः सर्वा वीक्ष्य कृष्णं पुनःपुनः ॥4.27.२४०॥
सर्वाः प्रहृष्टवदनाः सस्मिता वक्रलोचनाः ॥
प्रीत्या चक्षुश्चकोराभ्यां मुखचन्द्रं पपुर्हरेः ॥ २४१ ॥
ताः शीघ्रं प्रययुर्गेहं जयं दत्त्वा पुनःपुनः ॥
हरिश्च शिशुभिः सार्द्धं प्रसन्नः स्वालयं ययौ ॥ २४२ ॥
इत्येवं कथितं सर्वं हरेश्चरितमङ्गलम् ॥
गोपीनां वस्त्रहरणं सर्वलोकसुखावहम् ॥ २४३ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे गोपिकावस्त्रहरणप्रस्तावो नाम सप्तविंशोऽध्यायः ॥ २७ ॥