नारद उवाच ॥
द्वादशीलङ्घने दोषः श्रुतस्त्वन्मुखतो मुने ॥
पराभवो मुनेश्चैव नृपत्राणं हरेरहो ॥ १ ॥
अधुना श्रोतुमिच्छामि सर्वेषामीप्सितं च मे ॥
एकादशीव्रतस्यास्य विधानं वद निश्चितम् ॥ २ ॥
अहो श्रुतौ श्रुतं किञ्चिन्मतभेदान्न निश्चितम् ॥
श्रुतीनां कारणमुखाच्छ्रोतुं कौतूहलं मम ॥ ३ ॥
नारायण उवाच ॥
एकादशीव्रतमिदं देवानामपि दुर्लभम् ॥
श्रीकृष्णप्रीतिजनकं तपः श्रेष्ठं तपस्विनाम् ॥४॥
देवानां च यथा कृष्णो देवीनां प्रकृतिर्यथा ॥
आश्रमाणां यथा विप्रो वैष्णवानां यथा शिवः ॥५॥
यथा गणेशः पूज्यानां यथा वाणी विपश्चिताम् ॥
शास्त्राणां च यथा वेदास्तीर्थानां जाह्नवी यथा ॥६॥
तैजसानां यथा स्वर्णं प्राणिनां वैष्णवो यथा ॥
धनानां च यथा विद्या सङ्गिनां च यथा प्रिया ॥७॥
प्रमथानां यथा रुद्रः श्रेयसां च यथा मतिः॥
आत्मा यथेन्द्रियाणां च चञ्चलानां यथा मनः ॥८॥
गुरुस्त्रीणां यथा माता बन्धूनां च यथा पतिः ॥
बलिष्ठानां यथा दैवं कालः कलयतां यथा ॥९॥
सुशीलं चैव मित्राणां शत्रूणां रुग्यथा मुने ॥
यथा कीर्तिः कीर्तिमतां गृहिणां च यथा गृहम् ॥ 4.26.१०॥
यथा खलो हिंसकानां दुष्टानां चैव पुंश्चली ॥
तेजस्विनां ग्रहेशश्च सहिष्णूनां यथा क्षितिः ॥ ११ ॥
यथाऽमृतं भक्षणानां दाहकानां यथाऽनलः ॥
यथा श्रीर्धनदातॄणां सतीनां च यथा सती ॥ १२ ॥
प्रजेशानां यथा ब्रह्मा सरितां सागरो यथा ॥
यथा साम श्रुतीनां च गायत्री छन्दसां यथा ॥१३॥
वृक्षाणां च यथाऽश्वत्थः पुष्पाणां तुलसी यथा ॥
यथा मार्गो हि मासानामृतूनां च यथा मधुः ॥ १४ ॥
आदित्यानां यथा सूर्यो रुद्राणां शङ्करो यथा॥
यथा भीष्मो वसूनां च वर्षाणां भारतं यथा ॥ १५ ॥
देवर्षीणां यथा त्वं च ब्रह्मर्षीणां यथा भृगुः ॥
नृपाणां च यथा रामः सिद्धानां कपिलो यथा ॥ १६ ॥
यथा सनत्कुमारश्च योगिनां ज्ञानिनां वरः ॥
ऐरावतो गजेन्द्राणां पशूनां शरभो यथा ॥ १७ ॥
यथा हिमाद्रिः शैलानां मणीनां कौस्तुभो यथा ॥
सरस्वती नदीनां च यथा पुण्यस्वरूपिणी ॥ १८ ॥
गन्धर्वाणां चित्ररथो यथा श्रेष्ठश्च नारद ॥
यथा कुबेरो यक्षाणां सुमाली रक्षसां यथा ॥ १९ ॥
यथा श्रेष्ठा च नारीणां शतरूपा वरा परा ॥
मनूनां च यथा श्रेष्ठः स्वयं स्वायम्भुवो मनुः ॥4.26.२०॥
सुन्दरीणां यथा रम्भा यथा माया च मायिनाम् ॥
एकादशीव्रतमिदं व्रतानां च वरं तथा ॥२१॥
कर्तव्यं च चतुर्णां च वर्णानां नित्यमेव च ॥
यतीनां वैष्णवानां ब्राह्मणानां विशेषतः ॥ २२ ॥
सत्यं सर्वाणि पापानि ब्रह्महत्यादिकानि च ॥
सन्त्येवौदनमाश्रित्य श्रीकृष्णव्रतवासरे ॥ २३ ॥
भुक्त्वैतानि च पापानि यो भुङ्क्ते तत्र मन्दधीः ॥
इहातिपातकी सोऽपि यात्यन्ते नरकं ध्रुवम्॥२४॥
एकादशीप्रमाणानि युगसङ्ख्याकृतानि च ॥
कुम्भीपाके महाघोरे स्थित्वा चण्डालतां व्रजेत्॥२९॥
गलितव्याधियुक्तश्च ततः सप्तसु जन्मसु॥
पश्चान्मुक्तो भवेत्पापादित्याह कमलोद्भवः ॥२९॥
इत्येवं कथितं ब्रह्मन्यो दोषस्तत्र भोजने ॥
द्वादशीलङ्घने दोषो मयोक्तश्च श्रुतः पुरा ॥२७॥
दशमीलङ्घने दोषं निबोध कथयामि ते ॥
पुरा श्रुतो धर्मवक्त्राद्वेदसारोद्धृतोऽपि च ॥२८॥
दशमीं यः कलामात्रां मूढोऽज्ञानेन लङ्घयेत् ॥
याति श्रीस्तद्गृहात्तूर्णं शापं दत्त्वा तु दारुणम् ॥२९॥
इह तद्वंशहानिश्च यशोहानिर्भवेद्ध्रुवम् ॥
अन्ते मन्वन्तरशतमन्धकूपे वसेद्द्विज ॥4.26.३०॥
दशम्येकादशी वापि द्वादशी यत्र वासरे ॥
तत्र भुक्त्वा परदिने उपोष्य व्रतमाचरेत् ॥३१॥
द्वादश्यां च व्रतं कृत्वा त्रयोदश्यां च पारणम् ॥
द्वादशीलङ्घने दोषो व्रतिनां तन्न विद्यते ॥ ३२ ॥
सम्पूर्णैकादशी यत्र प्रभाते किञ्चिदेव सा॥
तत्रोपोष्या द्वितीया च परा चेद्यदि वर्धते ॥३३॥
षष्टिदण्डात्मिका यत्र प्रभाते च तिथित्रयम् ॥
कुर्वन्ति गृहिणः पूर्वं चैव यत्यादयस्तथा ॥३४॥
परत्रानशनं कृत्वा नित्यकृत्यं समाचरेत् ॥
व्रते जागरणं सर्वं पूर्वत्रैवाचरेद्बुधः ॥३५॥
तत्पूर्वदिवसे नित्यं व्रते कृत्वा परेऽहनि ॥
एकादश्यां व्यतीतायां पारणं तु समाचरेत् ॥ ३६ ॥
वैष्णवानां यतीनां च विधवानां तथैव च ॥
सर्वाः समा उपोष्यास्ता भिक्षूणां ब्रह्मचारिणाम् ॥ ३७ ॥
शुक्लामेव तु कुर्वन्ति गृहिणो वैष्णवेतराः ॥
न कृष्णालङ्घने दोषस्तेषां वेदेषु नारद ॥ ३८ ॥
शयनीबोधिनीमध्ये या कृष्णैकादशी भवेत् ॥
सैवोपोष्या गृहस्थेन नान्या कृष्णा कदाचन ॥३९॥
इत्येवं कथितो ब्रह्मन्निर्णयोऽयं श्रुतौ श्रुतः ॥
व्रतस्यास्य विधानं च निबोध कथयामि ते ॥ 4.26.४० ॥
कृत्वा हविष्यं पूर्वाह्णे न च भुङ्क्ते पुनर्जलम् ॥
एकाकी कुशशय्यायां नक्तं शयनमाचरेत् ॥ ४१ ॥
ब्राह्मे मुहूर्ते चोत्थाय प्रातःकृत्यं विधाय च ॥
नित्यकृत्यं विधायाथ ततः स्नानं समाचरेत् ॥ ॥ ४२ ॥
व्रतोपवासं सङ्कल्प्य श्रीकृष्णप्रीतिपूर्वकम् ॥
कृत्वा सन्ध्यां तर्पणं च विधायाह्निकमाचरेत् ॥ ४३ ॥
नित्यपूजां दिने कृत्वा व्रतद्रव्यं समाहरेत् ॥
कृत्वा षोडशोपचारं प्रदृष्टं विधिबोधितम् ॥ ४४ ॥
आसनं वसनं पाद्यमर्घ्यं पुष्पानुलेपनम् ॥
धूपं दीपं च नैवेद्यं यज्ञसूत्रं च भूषणम् ॥ ४५ ॥
गन्धं स्नानीयताम्बूले मधुपर्कं पुनर्जलम् ॥
एतान्याहृत्य दिवसे व्रतं नक्तं समाचरेत् ॥ ४६ ॥
उपविश्यासने पूतो धृत्वा धौतेयवाससी ॥
आचम्य श्रीहरिं नत्वा स्वस्तिवाचनमाचरेत्॥ ४७ ॥
आरोप्य मङ्गलघटं धान्याधारे शुभे क्षणे ॥
फलशाखाचन्दनाक्तं वेदोक्तं मुनिभिर्मुदा ॥४८॥
देवषट्कं समावाह्य पृथग्धान्यैः समाचरेत् ॥
पूजां पञ्चोपचारैश्च प्रकृष्टैश्च विचक्षणः ॥ ४९ ॥
गणेश्वरं दिनकरं वह्निं विष्णुं शिवं शिवाम् ॥
सम्पूज्यैतान्प्रणम्याथ व्रतं कुर्याद्धरिं स्मरन् ॥ 4.26.५० ॥
नाराध्य देवषट्कं च यदि कर्म समाचरेत् ॥
नित्यं नैमित्तिकं चापि तत्सर्वं निष्फलं भवेत् ॥ ५१ ॥
इत्येवं कथितं सर्वं व्रताङ्गभूतमेव च ॥
कण्वशाखोक्तमिष्टं च व्रतं शृणु महामुने ॥५२ ॥
सामवेदोक्तध्यानेन ध्यात्वा कृष्णं परात्परम् ॥
पुष्पं च शिरसि न्यस्य पुनर्ध्यानं समाचरेत् ॥९३॥
ध्यानं शृणु निगूढं च सर्वेषामपि वाञ्छितम् ॥
न प्रकाश्यमभक्ताय भक्तप्राणाधिकं परम् ॥५४ ॥
नवीननीरदो यद्वच्छ्यामसुन्दरविग्रहम् ॥
शरत्पार्वणचन्द्राभाविनिन्द्यास्यमनुत्तमम् ॥ ५५ ॥
शरत्सूर्योदयाब्जानां प्रभामोचनलोचनम्॥
स्वाङ्गसौन्दर्यशोभाभी रत्नभूषणभूषितम् ॥५६॥
गोपीलोचनकोणैश्च प्रसन्नैरतिसूचकैः ॥
शश्वन्निरीक्ष्यमाणं तत्प्राणैरिव विनिर्मितम् ॥ ५७ ॥
रासमण्डलमध्यस्थं रासोल्लाससमुत्सुकम्॥
राधावक्त्रशरच्चन्द्रसुधापानचकोरकम्॥५८॥
कौस्तुभेन मणीन्द्रेण वक्षःस्थलसमुज्ज्वलम्॥
पारिजातप्रसूनानां मालाजालैर्विराजितम् ॥ ५९ ॥
सद्रत्नसारनिर्माणं किरीटोज्ज्वलशेखरम् ॥
विनोदमुरलीन्यस्तहस्तं पूज्यं सुरासुरैः ॥ 4.26.६० ॥
ध्यानासाध्यं दुराराध्यं ब्रह्मादीनां च वन्दितम् ॥
कारणं कारणानां यस्तमीश्वरमहं भजे ॥ ६१ ॥
ध्यात्वाऽनेन तमावाह्य चोपहाराणि षोडश ॥
दत्त्वा सम्पूजयेद्भक्त्या मन्त्रैरेभिश्च नारद ॥ ६२ ॥
आसनं स्वर्णनिर्माणं रत्नसारपरिच्छदम् ॥
नानाचित्र विचित्राढ्यं गृह्यतां परमेश्वर ॥ ६३ ॥
वह्निप्रक्षालितं वस्त्रं निर्मितं विश्वकर्मणा ॥
मूल्यानिर्वचनीयं च गृह्यतां राधिकापते ॥ ॥ ६४ ॥
पादप्रक्षालनार्हं च सुवर्णपात्रसंस्थितम् ॥
सुवासितं शीतलं च गृह्यतां करुणानिधे ॥ ६५ ॥
इदमर्घ्यं पवित्रं च शङ्खतोयसमन्वितम् ॥
पुष्पदूर्वाचन्दनाक्तं गृह्यतां भक्तवत्सल ॥ ६६ ॥
सुवासितं शुक्लपुष्पं चन्दनागुरुसंयुतम् ॥
सद्यस्ते प्रीतिजनकं गृह्यतां सर्वकारण ॥ ६७ ॥
चन्दनागुरुकस्तूरीकुङ्कुमोशीरमुत्तमम् ॥
सर्वेप्सितमिदं कृष्ण गृह्यतामनुलेपनम् ॥ ६८ ॥
रसो वृक्षविशेषस्य नानाद्रव्यसमन्वितः॥
सुगन्धियुक्तः सुखदो धूपोऽयं प्रतिगृह्यताम् ॥ ६९ ॥
दिवानिशं सुप्रदीप्तो रत्नसारविनिर्मितः ॥
पुनर्ध्वान्तनाशबीजं दीपोऽयं प्रतिगृह्यताम् ॥ 4.26.७० ॥
नानाविधानि द्रव्याणि स्वादूनि सुरभीणि च ॥
चोष्यादीनि पवित्राणि स्वात्माराम प्रगृह्यताम् ॥७१॥
सावित्रीग्रन्थिसयुक्तं स्वर्णतन्तुविनिर्मितम् ॥
गृह्यतां देवदेवेश रचितं चारु कारुणा॥७२॥
अमूल्यरत्नरचितं सर्वा वयवभूषणम्॥
त्विषा जाज्वल्यमानं च गृह्यतां नन्दनन्दन॥७३॥
प्रधानो वर्णनीयश्च सर्वमङ्गलकर्मणि ॥
प्रगृह्यतां दीनबन्धो गन्धोऽयं मङ्गलप्रदः ॥७४॥
धात्री श्रीफलपत्रोत्थं विष्णुतैलं मनोहरम्॥
वाञ्छितं सर्वलोकानां भगवन्प्रतिगृह्यताम् ॥७५॥
वाञ्छनीयं च सर्वेषां कर्पूरादिसुवासितम्॥
मया निवेदितं नाथ ताम्बूलं प्रतिगृह्यताम्॥७६॥
सर्वेषां प्रीतिजनकं सुमिष्टं मधुरं मधु॥
सद्रत्नसारपात्रस्थं गोपीकान्त प्रगृह्यताम् ॥ ७७ ॥
निर्मलं जाह्नवीतोयं सुपवित्रं सुवासितम् ॥
पुनराचमनीयं च गृह्यतां मधुसूदन ॥ ७८ ॥
इति षोडशोपचारान्दत्त्वा भक्तो मुदाऽन्वितः ॥
मन्त्रेणानेन पुष्पाणि माल्यं दत्त्वा प्रयत्नतः ॥७९॥
नानाप्रकारपुष्पैश्च ग्रथितं शुक्लतन्तुना ॥
प्रवरं भूषणानां च माल्यं च गृह्यतां प्रभो ॥ 4.26.८० ॥
इति पुष्पाञ्जलिं दद्यान्मूलमन्त्रेण च व्रती ॥
कुर्यात्तत्स्तवनं भक्त्या पुटाञ्जलियुतः सुधीः ॥ ८१ ॥
भक्त उवाच ॥
हे कृष्ण राधिकानाथ करुणासागर प्रभो ॥
संसारसागरे घोरे मामुद्धर भयानके ॥ ८२ ॥
शतजन्मकृतायासादुद्विग्नस्य मम प्रभो ॥
स्वकर्मपाशनिगडैर्बद्धस्य मोक्षणं कुरु ॥ ८३ ॥
प्रणतं पादपद्मे ते पश्य मां शरणागतम् ॥
भवपाशभयाद्भीतं पाहि त्वं शरणागतम् ॥ ८४ ॥
भक्तिहीनं क्रियाहीनं विधिहीनं च वेदतः ॥
वस्तुमन्त्रविहीनं यत्तत्सम्पूर्णं कुरु प्रभो ॥ ८९ ॥
वेदोक्तविहिताऽज्ञानात्स्वाङ्गहीने च कर्मणि ॥
त्वन्नामोच्चारणेनैव सर्वं पूर्णं भवेद्धरे॥८६॥
इति स्तुत्वा तं प्रणम्य दत्त्वा विप्राय दक्षिणाम् ॥
महोत्सवं विधायाथ कुर्याज्जागरणं व्रती ॥८७॥
कृत्वा व्रतोपवासं च यदि निद्रां निषेवते ॥
पुनरेव जलं भुङ्क्ते व्रतार्धफलभाग्भवेत् ॥ ८८ ॥
यत्नेन च हविष्यान्नं सकृदेव समाचरेत् ॥
मन्त्रेणानेन विप्रेन्द्र श्रीकृष्णचरणं स्मरन् ॥ ८९ ॥
अन्नं हि प्राणिनां प्राणा ब्रह्मणा निर्मितं पुरा ॥
देहि मे विष्णुरूपं त्वं व्रतोपवासयोः फलम् ॥ 4.26.९० ॥
एवं यः कुरुते भक्त्या भारते व्रतमुत्तमम् ॥
पूर्वान्सप्त परान्सप्त स्वात्मानमुद्धरेद्ध्रुवम् ॥९१॥
मातरं भ्रातरं चैव श्वश्रूं च श्वशुरं सुताम् ॥
जामातरं तथा भृत्यमुद्धरेन्निश्चितं नरः ॥ ९२ ॥
इत्येवं कथितं विप्र श्रीकृष्णचरितव्रतम् ॥
सुखदं मोक्षदं सारमपरं कथयामि ते ॥ ॥ ९३ ॥
इति श्रीब्रह्मववर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे एकादशीव्रतनिरूपणं नाम षड्विंशोऽध्यायः ॥ ॥ २६ ॥