॥ नारद उवाच ॥ ॥
श्रुतं किमद्भुतं ब्रह्मन् हरेश्चरितमङ्गलम् ॥
विशेषतस्तव मुखे ह्यतीव सुमनोहरम् ॥ १ ॥
मृतायां मुनिकन्यायां शापाद्दुर्वाससो मुनेः ॥
किं चकार समागत्य तन्मे ब्रूहि तपोधन ॥ २ ॥
॥ श्रीनारायण उवाच ॥ ॥
सरस्वतीनदीतीरे तपस्यां कुर्वतो मुनेः ॥
पपात धौतमूर्ध्वाच्च धार्यमाणं च वायुना ॥ ३ ॥
पृथिव्यां पतिते वस्त्रे तपस्त्यक्त्वा मुनीश्वरः ॥
ध्यानेन बुबुधे सर्वं कन्यासम्बन्धि सङ्कटम्॥४॥
जगाम शोकाविष्टोऽपि तूर्णं जामातुराश्रमम्॥
सिषेच पृथिवीरेणूच्छश्वन्नयनबिन्दुना ॥५॥
गत्वाऽऽलयसमीपं च विप्रः कातरमानसः ॥
हे वत्से कन्दलीत्येवमुवाच च पुनःपुनः॥ ॥ ६ ॥
श्वशरस्य स्वरं ज्ञात्वा दुर्वासा भयविह्वलः ॥
बहिर्बभूव शीघ्रं च पपात चरणाम्बुजे ॥ ७ ॥
प्रणम्य श्वशुरं शोकाद्विललाप भृशं पुनः ॥
प्रवृत्तिं कथयामास मूलतो मुनिसत्तमम् ॥ ८ ॥
श्रुत्वा वार्तां शुचाऽऽविष्टः पपात धरणीतले ॥
मूर्च्छामाप महाज्ञानी निश्चेष्टो हि यथा मृतः ॥ ९ ॥
मृतं दृष्ट्वा स दुर्वासा मुने मनसि सङ्कटम् ॥
चेतनां कारयामास प्रयत्नेन महामुनेः ॥ 4.25.१० ॥
सम्प्राप्य चेतनां शीघ्रमुवाच तं पुरः स्थितम् ॥
जामातरं शोकयुतं भीतं प्रणतकन्धरम् ॥ ११ ॥
महाशोकादश्रुपूर्णं रक्तपङ्कजलोचनम् ॥
कोपात्कम्पितवाञ्छश्वत्सन्त्रस्तः स्फुरिताधरः ॥ १२ ॥
और्व उवाच ॥
अये ब्रह्मन्नत्रिवंश पौत्रस्त्वं जगतीपतेः ॥
स्वल्पदोषे बहुतरः कृतो दण्डस्त्वया कथम् ॥१३॥
त्वज्जन्म शङ्करांशेन शिष्यस्तस्य जगद्गुरोः ॥
वेदवेदाङ्गविज्ञश्च सर्वज्ञो गुणवान्स्वयम् ॥ १४ ॥
अनसूया महासाध्वी कमलांशा तव प्रसूः ॥
न जाने केन दोषेण तव चैतादृशी मतिः ॥ १५ ॥
गुणवाञ्जनको यस्य माता गुणवती सती ॥
तयोः पुत्रो दयाहीनो गतिः सूक्ष्मा श्रुतेरहो ॥ १६ ॥
मम प्राणाधिका कन्या मुदा त्वयि समर्पिता॥
महागुणान्विता स्वल्पदोषेण परिमिश्रिता ॥ १७ ॥
वाग्दुष्टायाश्च दण्डो हि परित्यागः श्रुतौ श्रुतः ॥
त्वया क्रोधाद्यदि त्यक्ता पित्रा यत्नेन पालिता ॥१८॥
मदपत्यं स्वल्पदोषे यतो भस्मीकृतं त्वया ॥
पराभवस्तव महान्भविष्यति न संशयः ॥ १९ ॥
महतां क्षुद्रजन्तूनां सर्वेषां जीविनां सदा ॥
स्रष्टा पाता च शास्ता च भगवान्करुणानिधिः ॥ 4.25.२० ॥
इत्युक्त्वा च मुनिश्रेष्ठो विलप्य च पुनः पुनः ॥
हेऽम्ब वत्से ह्ययीत्युक्त्वा जगाम स्वालयं रुषा ॥२१॥
गते मुनीन्द्रे दुर्वासा विललाप भृशं पुनः ॥
ज्ञानेन विस्मृतः शोको बभूव द्विगुणः पुनः ॥ २२ ॥
शोकानलो हि कालेन विच्छिन्नो ज्ञानभस्मना ॥
बन्धुदर्शनशुष्केन्धदानेन वर्धते पुनः ॥ ॥ २३ ॥
स्मारंस्मारं प्रियां तत्र विलप्य च पुनःपुनः ॥
बोधयित्वा स्वमात्मानं तपस्यायां मनो दधौ ॥ २४ ॥
इत्येवं कथितं सर्वं मुनेः शापस्य कारणम् ॥
बभूव तस्य कालेन दुःसहश्च पराभवः ॥ २५ ॥
नारद उवाच ॥
दुर्वासाः शङ्करस्यांशः शिवतुल्यश्च तेजसा ॥
तेजस्वी को महानेव चकार तत्पराभवम् ॥ २६ ॥
श्रीनारायण उवाच ॥
अम्बरीषो हि राजेन्द्रः सूर्यवंशसमुद्भवः ॥
श्रीकृष्णचरणाम्भोजे तन्मनाः सन्ततं मुने ॥ २७ ॥*
न राज्येषु न भार्यासु न पुत्रेषु प्रजासु च ॥
न सम्पत्सु क्षणं चित्तं पुण्यकर्मार्जिन्तासु च ॥ २८ ॥
ध्यायतेऽहर्निशं धर्मी स्वन्ते ज्ञाने हरिं मुदा ॥
महाजितेन्द्रियः शान्तो विष्णुव्रतपरायणः ॥ २९ ॥
एकादशी व्रतरतः कृष्णपूजासु तत्परः ॥
सर्वकर्मस्वलिप्तश्च कर्ता कृष्णार्पितेषु च ॥4.25.३०॥
सुतीक्ष्णं षोडशारं च हरेश्चक्रं सुदर्शनम् ॥
तेजसा हरितुल्यं च सूर्यकोटिसमप्रभम् ॥ ३१ ॥
ब्रह्मादिभिः स्तूयमानं पूजितं च सुरासुरैः ॥
प्रभुणा रक्षितं शश्वद्रक्षायै नृपसन्निधौ ॥ ॥ ३२ ॥
एकादशीव्रतं कृत्वा द्वादशीदिवसे सति ॥
स्नात्वा विधाय पूजां च कालेन विधिपूर्वकम् ॥३३॥
दत्त्वा दानं ब्राह्मणेभ्यः सुवर्णरजतादिकम् ॥
ब्राह्मणान्भोजयित्वा च भोजनार्थमुवास ह ॥ ३४ ॥
एतस्मिन्नन्तरे विप्रस्तपस्वी क्षुधितो मुने ॥
दण्डी छत्री शुक्लवासा बिभ्रत्तिलकमुत्तमम् ॥ ३५ ॥
जटिलोऽतिकृशस्त्रस्तः शुष्ककण्ठोष्ठतालुकः ॥
तत्राजगाम भगवान्दुर्वासा नृपतेः पुरः ॥ ३६ ॥
स च दृष्ट्वा मुनीन्द्रं तमुत्थाय च प्रणम्य च ॥
दत्त्वा पाद्यं च सम्प्रीत्या स्वर्णसिंहासनं ददौ ॥ ३७ ॥
तस्मै दत्त्वा ऽऽशिषं विप्रः समुवास सुखासने ॥
पप्रच्छ राजा तं प्रीतः काऽऽज्ञा ते वद कामितम् ॥ ३८ ॥
नृपेन्द्रवचनं श्रुत्वा तमुवाच महामुनिः॥
बुभुक्षितस्य मे राजन्देह्यन्नं विधिपूर्वकम्॥३९॥
किन्त्वघमर्षणमन्त्रं तु जप्त्वाऽऽयाम्यचिरेण वै ॥
क्षणं प्रतीक्षतां राजन्नित्युक्त्वा च गतो मुनिः ॥ 4.25.४० ॥
गते विप्रे तु राजर्षिश्चिन्तां प्राप दुरत्ययाम् ॥
विलोक्य विगतप्रायां द्वादशीं भयसंयुतः ॥ ४१ ॥
एतस्मिन्नन्तरे तत्र समायान्तं गुरुं मुदा ॥
नत्वा निवेद्य सर्वं तु नृपतिः समुवाच ह ॥ ४२ ॥
नायाति मुनिशार्दूलः प्रयाति द्वादशी तिथिः ॥
सङ्कटेऽस्मिन्विधेयं च विविच्य विधिपूर्वकम् ॥
शीघ्रं वद मुनिश्रेष्ठ भद्राभद्रं च मामिति ॥ ४३ ॥
श्रुत्वा नृपोक्तिं त्वरितमुवाच मुनिपुङ्गवः ॥
हितं तथ्यं च वेदोक्तं परिणामसुखावहम् ॥ ४४ ॥
वशिष्ठ उवाच ॥
द्वादश्यां समतीतायां त्रयोदश्यां तु पारणम् ॥
उपवासफलं हत्वा व्रतिनं हन्ति निश्चितम् ॥ ४५ ॥
ब्रह्महत्यासमं पापं भवेत्तस्य श्रुतौ श्रुतम्॥
भक्ष्यद्रव्यं सुरातुल्यमित्याह कमलोद्भवः ॥४६॥
न भोजयित्वा मूढश्चेदतिथिं समुपस्थितम् ॥
स त्रस्तः क्षुधितो भुङ्क्ते कुम्भीपाके व्रजेद्धुवम्॥४७॥
शतवर्षं तत्र तिष्ठन्नरश्चाण्डालतां व्रजेत् ॥
व्याधियुक्तो दरिद्रश्च भवेज्जन्मनि जन्मनि ॥ ४८ ॥
अतोऽतिसूक्ष्मं किं ब्रूमोऽधुना परम सङ्कटे ॥
रक्षां कुरु द्वयोर्धर्मं समालोक्य वदामि ते ॥४९॥
उपवासफलं रक्ष कृष्णस्य चरणोदकम् ॥
भुक्त्वा शीघ्रमपो राजंस्तद्भक्षणमभक्षणम् ॥4.25.५०॥
इत्युक्त्वा ब्रह्मणः पुत्रो विरराम महामुने ॥
बुभुजे तज्जलं किञ्चित्कृष्णपादाम्बुजं स्मरन्॥५१॥
एतस्मिन्नन्तरे ब्रह्मन्नाजगाम मुनीश्वरः ॥
चिच्छेद कोपात्सर्वज्ञः स्वजटां नृपतेः पुरः ॥ ५२ ॥
ततः समुत्थितः शीघ्रं पुरुषोऽग्निशिखोपमः ॥
खड्ग हस्तो महाभीमो राजेन्द्रं हन्तुमुद्यतः ॥५३॥
हरेश्चक्रं च तं दृष्ट्वा सूर्यकोटिसमप्रभम्॥
चिच्छेद कृत्यापुरुषं ब्राह्मणं छेत्तुमुद्यतम् ॥५४॥
दृष्ट्वा सुदर्शनं विप्रो दुद्राव भयविह्वलः ॥
द्विजः पश्चात्तं ददर्श ज्वलदग्निशिखोपमम् ॥ ५५ ॥
ब्रह्माण्डक्रमणं कृत्वा निर्विण्णोऽति भयाकुलः ॥
तं च मत्वा जगन्नाथं ब्रह्माणं शरणं ययौ ॥ ५६ ॥
त्राहित्राहीत्येवमुक्त्वा विवेश ब्रह्मणः सभाम् ॥
उत्थाय ब्रह्मा विप्रेन्द्रं पप्रच्छ कुशलं मुने ॥ ५७ ॥
सर्वं स कथयामास वृत्तान्तं मूलतो विधिम् ॥
श्रुत्वा ब्रह्मा निशश्वास तमुवाच भयाकुलः ॥ ५८ ॥
ब्रह्मोवाच ॥
हरिदासं वत्स शप्तुं गतोऽसि कस्य तेजसा ॥
रक्षिता यस्य भगवांस्तं को हन्ता जगत्त्रये ॥ ५९ ॥
क्षुद्राणां महतां चैव भक्तानां रक्षणाय च ॥
ररक्ष सन्ततं चक्रं श्रीहरिर्भक्तवत्सलः ॥ 4.25.६० ॥
यो मूढो वैष्णवं द्वेष्टि विष्णुप्राणसमं द्विज ॥
तस्य संहारकर्तारं संहर्तुमीश्वरो हरिः ॥६१॥
शीघ्रं स्थानान्तरं गच्छ वत्स त्राणं न वाऽधुना ॥
अन्यथा त्वां मया सार्धं हनिष्यति सुदर्शनम् ॥ ६२ ॥
किं ब्रह्मलोकं ब्रह्माण्डं दग्धुं शक्तं क्षणेन यत् ॥
तेजसा विष्णुतुल्यं यत्केनान्येन निवार्यते ॥ ६३ ॥
ब्रह्मणो वचनं श्रुत्वा ततो दुद्राव ब्राह्मणः ॥
त्रस्तो जगाम कैलासं शङ्करं शरणं भिया ॥ ६४ ॥
कृपानिधान मां रक्षेत्युवाच शङ्करं भिया ॥
न प्रच्छ कुशलं सर्वज्ञो ब्राह्मणं शिवः ॥ ६५ ॥
उवाच दीनदीनेशः संहर्ता जगतां क्षणात् ॥
स्थिरो भव द्विजश्रेष्ठ मदीयं वचनं शृणु ॥ ६६ ॥
शङ्कर उवाच ॥
पौत्रस्त्वं जगतां धातुरत्रेश्च तनयो मुने ॥
वेदज्ञाताऽसि सर्वज्ञ मूर्खतुल्यं तु कर्म ते ॥ ६७ ॥
वेदेषु च पुराणेषु सेतिहासेषु सर्वतः ॥
निरूपितो यः सर्वेशस्तं न जानासि मूढवत् ॥ ६८ ॥
अहं ब्रह्मा च इन्द्रश्च आदित्या वसवस्तथा ॥
धर्मेन्द्रौ च सुराः सर्वे मुनीन्द्रा मनवस्तथा ॥६९॥
आविर्भूतास्तिरोभूता यस्य भ्रूभङ्गलीलया ॥
तस्य प्राणाधिकं भक्तं हंसि त्वं कस्य तेजसा ॥ 4.25.७० ॥
अहं ब्रह्मा च कमला दुर्गा वाणी च राधिका ॥
न हि भक्तात्पराः प्रेम्णा भक्ताश्च सर्वतः प्रियाः ॥७१॥
क्षुद्रांश्च महतो भक्ताञ्छश्वद्रक्षति यत्नतः ॥
सर्वान्तरात्मा भगवांश्चक्रेण दुःसहेन च ॥ ॥ ७२ ॥
नियुज्य चक्रं दुर्वार्यं स्वात्मतुल्यं च तेजसा ॥
तथाऽपि न प्रतीतिश्च स्वयं गच्छति रक्षितुम् ॥ ७३ ॥
स्वकीयगुण नाम्नां च श्रवणादतिसम्भ्रमः ॥
भक्तसङ्गे भ्रमत्येव छायेव सततं हरिः ॥ ७४ ॥
कान्ता प्राणाधिका शश्वन्न हि कोऽपि ततोऽधिकः ॥
भक्तान्द्वेष्टि स्वयं सा चेत्तूर्णं त्यजति तां प्रभुः ॥ ७५ ॥
सर्वेषां च प्रिया विप्राः स्वशरीरादपि द्विज ॥
ब्राह्मणेभ्यः प्रिया भक्ताः प्राणेभ्यश्च हरेरपि ॥ ७६ ॥
ईश्वरस्य प्रियः को वाऽप्रियः को वा जगत्त्रये ॥
यः शिष्टस्तं भजेच्छश्वद्ध्यायते सततं सदा ॥ ७७ ॥
महति प्रलये ब्रह्मन्ब्रह्मण्डौघे जलप्लुते ॥
न तत्र नाशो भक्तानां सर्वेषां च भविष्यति ॥ ७८ ॥
भज ब्राह्मण गोविन्दं स्मर तस्य पदाम्बुजम् ॥
सर्वापदो विनश्यन्ति श्रीहरेः स्मरणादपि ॥ ७९ ॥
व्रज शीघ्रं च वैकुण्ठं वैकुण्ठः शरणं तव ॥
दास्यत्येवाभयं तुभ्यं करुणासागरो विभुः ॥ 4.25.८० ॥
एतस्मिन्नन्तरे व्याप्तं कैलासं चक्रतेजसा ॥
यथा च सूर्यकिरणैः सुप्रदीप्तं महीतलम् ॥ ८१ ॥
दग्धा ज्वालाकरालैश्च सर्वे कैलासवासिनः ॥
त्राहि त्राहीत्येवमुक्त्वा शङ्करं शरणं ययुः ॥ ८२ ॥
दृष्ट्वा चक्रं दुर्विषहं शङ्करः करुणानिधिः ॥
पार्वत्या सह सम्प्रीत्या ब्राह्मणायाशिषं ददौ ॥ ८३ ॥
तेजः सत्यं तपः सत्यं यदि चेच्चिरसञ्चितम् ॥
कृतापराधो भीतश्च द्विजो भवतु विज्वरः ॥ ८४ ॥
पार्वत्युवाच ॥
यत्प्रभोर्मम पुण्येषु ब्राह्मणः शरणागतः ॥
ममाशिषा महाभीत्या शीघ्रं भवतु विज्वरः ॥ ८५॥
इत्येवमुक्त्वा कृपया विरराम शिवा शिवः ॥
मुनिः प्रणम्य देवेशं वैकुण्ठं शरणं ययौ ॥ ८६ ॥
गत्वा वैकुण्ठभवनं मनोयायी मुनीश्वरः ॥
दृष्ट्वा सुदर्शनं पश्चाद्विवेशान्तःपुरं हरेः ॥ ८७ ॥
ददर्श श्रीहरिं विप्रो रत्नसिंहासनस्थितम् ॥
शङ्खचक्रगदापद्मधरं पीताम्बरं परम् ॥ ८८ ॥
श्यामं चतुर्भुजं शान्तं लक्ष्मीकान्तं मनोहरम् ॥
रत्नालङ्कारशोभाढ्यं रत्नमालाविभूषितम् ॥ ८९ ॥
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकातरम् ॥
सद्रत्नसाररचितं किरीटोज्ज्वलशेखरम् ॥ 4.25.९० ॥
पार्षदप्रवरेन्द्रैश्च सेवितं श्वेतचामरैः ॥
पद्मासेवितपादाब्ज सरस्वत्या स्तुतं पुरः ॥ ९१ ॥
सुनन्दनन्दकुमुदप्रचण्डादिभिरावृतम् ॥
गुणानुवादं गायन्तं तन्त्रैः पश्यन्तमीप्सितम् ॥ ९२ ॥
एवम्भूतं प्रभुं दृष्ट्वा दण्डवत्प्रणनाम च ॥
तुष्टाव सामवेदोक्तस्तोत्रेण परमेश्वरम् ॥ ९३ ॥
॥ दुर्वासा उवाच ॥ ॥
त्राहि मां कमलाकान्त त्राहि मां करुणानिधे ॥
दीनबन्धोऽतिदीनेश करुणासागर प्रभो ॥ ९४ ॥
वेदवेदाङ्गसंस्रष्टुर्विधातुश्च स्वयं विधे ॥
मृत्योर्मृत्युः कालकाल त्राहि मां सङ्कटार्णवे ॥ ९५ ॥
संहारकर्तुः संहारः सर्वेशः सर्वकारणः ॥
महाविष्णुतरोर्बीजं रक्ष मां भवसागरे ॥ ९६ ॥
शरणागतशोकार्तभयत्राणपरायण ॥
भगवन्नव मां भीतं नारायण नमोऽस्तु ते ॥ ९७ ॥
वेदेष्वाद्यं च यद्वस्तु वेदाः स्तोतुं न च क्षमाः ॥
सरस्वती जडीभूता किं स्तुवन्ति विपश्चितः ॥ ॥ ९७ ॥
शेषः सहस्रवक्त्रेण यं स्तोतुं जडतां व्रजेत् ॥
पञ्चवक्त्रो जडीभूतो जडीभूतश्चतुर्मुखः ॥ ९९ ॥
श्रुतयः स्मृतिकर्तारो वाणी चेत्स्तोतुमक्षमा ॥
कोऽहं विप्रश्च वेदज्ञः शिष्यः किं स्तौमि मानद ॥ 4.25.१०० ॥
मनूनां च महेन्द्राणामष्टाविंशतिमे गते ॥
दिवानिशं यस्य विधेरष्टोत्तरशतायुषः ॥ १०१ ॥
तस्य पातो भवेद्यस्य चक्षुरुन्मीलनेन च ॥
तमनिर्वचनीयं च किं स्तौमि पाहि मां प्रभो ॥ १०२ ॥
इत्येवं स्तवनं कृत्वा पपात चरणाम्बुजे ॥
नयनाम्बुजनीरेण सिषेच भयविह्वलः ॥१०३॥
दुर्वाससा कृतं स्तोत्रं हरेश्च परमात्मनः ॥
पुण्यदं सामवेदोक्तं जगन्मङ्गलनामकम् ॥ १०४ ॥
यः पठेत्सङ्कटग्रस्तो भक्तियुक्तश्च संयतः ॥
नारायणस्तं कृपया शीघ्रमागत्य रक्षति ॥ १०५ ॥
राजद्वारे श्मशाने च कारागारे भयाकुले ॥
शत्रुग्रस्ते दस्युभीतौ हिंस्रजन्तुसमन्विते ॥ ॥ १०६॥
वेष्टिते राजसैन्येन मग्ने पोते महार्णवे॥
स्तोत्रस्मरणमात्रेण मुच्यते नात्र संशयः ॥ १०७ ॥
इति श्रीब्रह्मवैवर्ते दुर्वाससा कृतं श्रीकृष्णस्तोत्रं समाप्तम् ॥
नारायण उवाच ॥
मुनेश्च स्तवनं श्रुत्वा भगवान्भक्तवत्सलः ॥
प्रहस्योवाच मधुरं पीयूषवृष्टिवन्मुदा ॥ १०८ ॥
श्रीभगवानुवाच ॥
उत्तिष्ठोत्तिष्ठ भद्रं ते भविष्यति वरेण मे ॥
किं तु मे वचनं नित्यं शृणु सत्यं सुखावहम् ॥ १०९ ॥
अन्येषां च भवेज्ज्ञानं श्रुत्वा शास्त्रं सतां मुखात् ॥
स्वमूर्तिमन्ति शास्त्राणि भवेत्सन्तश्चरन्ति हि ॥ 4.25.११० ॥
कर्म वेदविरुद्धं च सर्वेषामतिगर्हितम् ॥
करोति विद्वांश्चेज्ज्ञात्वा स च जीवन्मृताधिकः ॥ १११ ॥
पुराणेषु च वेदेषु चेतिहासेषु ब्राह्मण ॥
वैष्णवानां च महिमा श्रुतः सर्वैश्च सर्वतः ॥११२॥
अहं प्राणा वैष्णवानां मम प्राणाश्च वैष्णवाः ॥
तानेव द्वेष्टि यो मूढो ममासूनां च हिंसकः ॥ ११३ ॥
पुत्रान्पौत्रान्कलत्रांश्च राज्यं लक्ष्मीं विहाय च ॥
ध्यायन्ते सततं ये मां को मे तेभ्यः परः प्रियः ॥ ॥ ११४ ॥
परा भक्तान्न मे प्राणा न च लक्ष्मीर्न शङ्करः ॥
न भारती न च ब्रह्मा न दुर्गा न गणेश्वरः ॥ ११५ ॥
न ब्राह्मणा न वेदाश्च न वेदजननी परा ॥
न गोपी न च गोपाला न राधा प्रणतः प्रियाः ॥११६॥
इत्येवं कथितं सर्वं सत्यं सारं च वास्तवम् ॥
न प्रशंसापरं तेषां ते च प्राणाधिकाः प्रियाः ॥ ११७ ॥
मां द्विषन्ति च ये मूढा ज्ञानहीनाश्च वञ्चिताः ॥
आत्मानं ये न जानन्ति ते यान्ति निरयं चिरम् ॥११८॥
ये द्विषन्ति च मद्भक्तान्प्राणानामधिकं प्रियान्॥
तेषां शास्ता त्वहं तूर्णं परत्र निरयं चिरम् ॥ ११९ ॥
प्रभावोऽहं च सर्वेषामीश्वरः परिपालकः॥
न च व्यापी स्वतन्त्रोऽहं भक्ताधीनो दिवानिशम्॥4.25.१२०॥
गोलोके वाऽथ वैकुण्ठे द्विभुजं च चतुर्भुजम् ॥
रूपमात्रमिदं शश्वत्प्राणा मे भक्तसन्निधौ ॥ १२१ ॥
यदुक्तं भक्तदत्तं च भक्षणीयं च तन्मम ॥
अभक्ष्यं द्रव्यमन्येन दत्तं चेदमृतोपमम् ॥ १२२ ॥
अम्बरीषं नृपश्रेष्ठं निरीहं तमहिंसकम् ॥
कथं हंसि दयाशीलं सर्वप्राणिहिते रतम् ॥ १२३ ॥
दयां कुर्वन्ति ये सन्तः सततं सर्वजन्तुषु ॥
तान्द्विषन्ति च ये मूढास्तेषां हन्ताऽहमेव च ॥१२४॥
भक्तानां हिंसकं शत्रुमहं रक्षितुमक्षमः॥
अम्बरीषालयं गच्छ स त्वां रक्षितुमीश्वरः ॥ १२५ ॥
नारायण उवाच ॥
इदं वाक्यं च तच्छ्रुत्वा ब्राह्मणो भयविह्वलः ॥
विषण्णमानसस्तस्थौ स्मरन्कृष्णपदाम्बुजम् ॥१२६॥
एतस्मिन्नन्तरे ब्रह्मा भवान्या सह शङ्करः ॥
धर्मश्चेन्द्रादयो देवा आजग्मुर्मुनिपुङ्गवाः॥। ॥ १२७ ॥
प्रणम्य तुष्टुवुः सर्वे परमात्मानमीश्वरम् ॥
पुलकाञ्चितसर्वाङ्गा भक्तिनम्रात्मकन्धराः ॥ १२८ ॥
ब्रह्मोवाच ॥
स्वात्मस्वरूप निर्लिप्त भक्तानुग्रहकातर ॥
भक्तापराधजनकं रक्ष ब्राह्मणपुङ्गवम् ॥ १२९ ॥
महादेव उवाच ॥
दीनबन्धो जगन्नाथ नायं विप्रो जगद्बहिः ॥
कृतापराधं दीनं च पाहीमं शरणागतम् ॥ 4.25.१३० ॥
पार्वत्युवाच ॥
भक्त एवाम्बरीषस्ते न द्विजा न सुरा वयम् ॥
सर्वेषामीश्वरस्त्वं च रक्ष विप्रं कृतागसम् ॥ १३१ ॥
धर्म उवाच ॥
सर्वेषां जनकस्त्वं च पाता दण्डकृदीश्वरः॥
शिशुहेतोः शिशुं हन्ति पितेत्येवं कुतः प्रभो ॥ १३२ ॥
इन्द्र उवाच ॥
कृपया समता शश्वत्सर्वेषु जीविषु प्रभो ॥
अपराधफलं भूतमधुना पातुमर्हसि ॥ १३३ ॥
रुद्र उवाच ॥
शान्तिं कर्तुं समुचितमुचितं साम्प्रतं कुरु ॥
कृतकुण्ठस्य मूलस्य पालनं कर्तुमर्हसि ॥ १३४ ॥
दिक्पाल उवाच ॥
कृतापराधं विप्रं च छेत्तुमर्हसि न श्रुतौ ॥
अपराधशमं कृत्वा सदा पाति सदीश्वरः ॥ १३५ ॥
ग्रहा ऊचुः ॥
यो द्वेष्टि वैष्णवं मूढस्तं रुष्टा सर्वदेवताः ॥
पीडां कुर्मो वयं शश्वत्पश्चात्त्वं पातुमर्हसि ॥ १३६ ॥
मुनय ऊचुः ॥
नाथ विप्रे पराभूते सर्वे जीवन्मृता वयम् ॥
दण्डं विधातुमेकस्य भवेल्लज्जा स्वजातिषु ॥ १३७ ॥
अत्रिरुवाच ॥
त्वयैव दत्तः पुत्रो मे क्रोधी त्वत्सेवकः सदा ॥
न कं बिभेति त्रैलोक्ये तेजस्वी तेजसा तव ॥ १३८ ॥
लक्ष्मीरुवाच ॥
क्षमापराधं भगवन् ब्राह्मणं शरणागतम् ॥
स्तुवन्ति देव विप्राश्च न विप्रं हन्तुमर्हसि ॥ १३९ ॥
सरस्वत्युवाच ॥
बोधयिष्यामि देवानां जनकं कामदं श्रुतिम् ॥
भगवन्स्वामी सर्वेषां सर्वांश्च पातुमर्हसि ॥ 4.25.१४० ॥
पार्षदा ऊचुः ॥
भवतः स्मृतिमात्रेण सर्वेषां सर्वमङ्गलम् ॥
भवेत्सर्वापदो यान्ति पाहीमं शरणागतम् ॥ १४१ ॥
नर्तका ऊचुः ॥
दारिद्र्यभञ्जन वयं भिक्षुकास्तव सन्ततम् ॥
भिक्षां नः साम्प्रतं देहि परित्राणं द्विजस्य च ॥ १४२ ॥
एतेषां स्तवनं श्रुत्वा प्रभुः शरणवत्सलः ॥
प्रहस्योवाच वचनं सर्वसन्तोषकारणम् ॥ १४३ ॥
श्रीभगवानुवाच ॥
सर्वे शृणुत मद्वाक्यं नीतियुक्तं सुखावहम्॥
विप्ररक्षां करिष्यामि युष्माकमाज्ञया ध्रुवम् ॥१४४॥
किं त्वयं यातु वैकुण्ठादम्बरीषालयं पुनः ॥
करोतु पारणं तत्र राज्ञः सुप्रीतये मुनिः ॥ १४५ ॥
विप्रस्तस्यातिथिर्भूत्वा निर्दोषं शप्तुमुद्यतः ॥
सुदर्शनं तु तं रक्ष्यं ब्राह्मणं हन्तुमुद्यतम् ॥१४६॥
पूर्णं वर्षमयं भीतो भ्रमत्येव भुवं मुदा ॥
उपवासी स राजेन्द्रः सस्त्रीकश्च शुचाऽन्वितः ॥१४७॥
ततोऽहमुपवासी च भक्तोपवासकारणात् ॥
स्तनान्धं बालकं दृष्ट्वा न भुङ्क्ते जननी यथा ॥ १४८ ॥
ममाशिषा मुनिश्रेष्ठः सद्यो भवतु विज्वरः ॥
पथि तत्रास्य हिंसां च मच्चक्रं न करिष्यति ॥ १४९ ॥
अहमेवाद्य निश्चिन्तः सुखं भोक्ष्यामि निश्चितम् ॥
भक्तदत्तं च यद्वस्तु प्रीत्या कृत्वा सुधोपमम् ॥4.25.१५०॥
लक्ष्मीदत्तं च यद्द्रव्यं न चाहं भोक्तुमीश्वरः ॥
विना भक्तप्रदानेन न तृप्तिं दातुमीश्वरः ॥ ॥ १५१ ॥
हे मुनीन्द्र महाप्राज्ञ गच्छ वत्स नृपालयम् ॥
सर्वे देवाश्च देव्यश्च गच्छन्तु मुनयो गृहम् ॥१५२॥
इत्युक्त्वा श्रीहरिस्तूर्णं ययौ स्वान्तःपुरं मुदा ॥
ययुः सर्वे मुदा युक्ताः प्रणम्य जगदीश्वरम् ॥ १५३ ॥
ब्राह्मणश्च मनोयायी जगाम नृपमन्दिरम् ॥
सुदर्शनं च तच्चक्रं सूर्यकोटिसमप्रभम् ॥ १५४ ॥
उपोष्य वत्सरं राजा शुष्ककण्ठोष्ठतालुकः ॥
सिंहासनस्थः पुरतो ददर्श मुनिपुङ्गवम् ॥ १५५ ॥
उत्थाय सम्भ्रमात्सद्यः प्रणम्य सादरं मुदा ॥
भोजयित्वा तु मिष्टान्नं ब्राह्मणं बुभुजे स्वयम् ॥ १५६ ॥
भुक्त्वा तुष्टो द्विजश्रेष्ठो युयुजे परमाशिषम् ॥
जगाम स्वालयं तूर्णं प्रशशंस पुनःपुनः ॥ १५७ ॥
उवाच पथि विप्रेन्द्रो मनसा विस्मयाकुलः॥
माहात्म्यं दुर्लभमहो वैष्णवानामिति द्विजः ॥ १५८ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे मुनिमो क्षणप्रस्तावो नाम पञ्चविंशोऽध्यायः ॥ २५ ॥