०२४

नारायण उवाच ॥
निगूढं शृणु वृत्तान्तं मुनेर्दुर्वाससो मुने ॥
अहोऽस्य दारसंयोगः कथं तदूर्ध्वरेतसः ॥ १ ॥
दृष्ट्वा तयोश्च शृङ्गारं मुनिः कामी बभूव ह ॥
जितेन्द्रियोऽसत्संसर्गाद्दोषः सांसर्गिको भवेत् ॥ २ ॥
सहसा तस्य हृदये बभूव सुरते स्पृहा ॥
तपस्तप्त्वा तत्र दध्यौ कामिनीं मदनातुरः ॥ ३ ॥
एतस्मिन्नन्तरे तेन पथा याति मुनीश्वरः ॥
प्रार्थयन्त्या पतिं सन्तमौर्वश्च सुतया सह ॥ ४ ॥
ऊरूद्भवो ब्रह्मणश्च पुरा कल्पे तपस्यतः ॥
ऊर्ध्वरेताश्च योगीन्द्र ओर्वस्तेन इति स्मृतः ॥ ५ ॥
तस्य जानूद्भवा कन्या कन्दली नाम विश्रुता ॥
दुर्वाससं प्रार्थयन्ती नान्यं मनसि रोचते ॥ ६ ॥
ससुतो हि मुनिश्रेष्ठो मुनेर्दुर्वाससः पुरः ॥
तस्थौ महाप्रसन्नश्च ज्वलदग्निशिखोपमः ॥ ॥ ७ ॥
मुनीन्द्रोऽपि मुनीन्द्रं तं पुरो दृष्ट्वा ससम्भ्रमः ॥
प्रजवेन समुत्तस्थौ ननाम च मुदाऽन्वितः ॥८॥
और्वो दुर्वाससं तत्र समाश्लिष्य मुदाऽन्वितः ॥
उवाच मुनये सर्वं कन्यकाया मनोरथम् ॥ ९ ॥
और्व उवाच ॥
विख्याता कन्दली नाम मम कन्या मनोहरा ॥
प्रौढा त्वामेव ध्यायन्ती श्रुत्वा वाचिकवक्त्रतः ॥ 4.24.१० ॥
अयोनिसम्भवा कन्या त्रैलोक्यं मोहितुं क्षमा ॥
सर्वरूपगुणाधारा दोषेणैकेन संयुता ॥ ११ ॥
अतीव कलहाविष्टा कोपेन कटुभाषिणी ॥
नानागुणयुतं द्रव्यं न त्यजेदेकदोषतः ॥ १२ ॥
और्वस्य वचनं श्रुत्वा हर्षशोकान्वितो मुनिः ॥
ददर्श कन्यां पुरतो गुणरूपसमन्विताम् ॥ १३ ॥
शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम् ॥
ईषद्धास्यप्रसन्नास्यां पीनश्रोणिपयोधराम् ॥ १४ ॥
नवयौवनसंयुक्तां पश्यन्तीं वक्रचक्षुषा ॥
रत्नालङ्कारशोभाढ्यां वह्निशुद्धांशुकान्विताम् ॥ १५ ॥
मुनिर्मुमोह तां दृष्ट्वा कामबाणप्रपीडितः ॥
उवाच तं मुनिश्रेष्ठं हृदयेन विदूयता ॥ १६ ॥
दुर्वासा उवाच ॥
नारीरूपं त्रिभुवने मुक्तिमार्गनिरोधकम् ॥
व्यवधानं तपस्यायाः सततं मोहकारणम् ॥ १७ ॥
कारागारे च संसारे दुर्वहं निगडं परम् ॥
अच्छेद्यं ज्ञानखड्गैश्च महद्भिः शङ्करादिभिः ॥ १८ ॥
सङ्गिच्छायातिरिक्तं च कर्मभोगात्परात्परम् ॥
इन्द्रियादिन्द्रियाधाराद्विद्यायाश्च मतेरपि ॥ १९॥
आदेहं सङ्गिनी छाया भोगान्तं भोग एव च ॥
देहेन्द्रियाणि जीवान्तं विद्या चैवावशीलिनम् ॥ 4.24.२० ॥
मतिश्चैवावशीलान्ता सुखी जन्मनिजन्मनि ॥
यावज्जीवी च सुस्त्रीको न तावज्जन्मखण्डनम् ॥२१ ॥
यावच्च जीविनो जन्म तावद्भोगः सुखावहः ॥
परं मुनीन्द्र सर्वस्माद्धरिपादाब्जसेवनम्॥ २२ ॥
ध्यायतः कृष्णपादाब्जं मम विघ्नो बभूव ह ॥
न जाने कर्मदोषेण केन वा पूर्वजन्मनः ॥ २३ ॥
पुंश्चल्या सह शृङ्गारं दृष्ट्वा दैत्यस्य मन्मनः ॥
बभूव कामसंयुक्तं दत्तं धात्रा च तत्फलम् ॥२४॥
किं त्वहं तव कन्यायाः कटूक्तिशतकं मुने ॥
ध्रुवं क्षमां करिष्यामि दास्यामि च ततः फलम् ॥२५॥
सर्वतोऽपि परा निन्दा स्त्रीकटूक्तिसहिष्णुता ॥
अतीव निन्दितः सत्सु स्त्रीजितो भुवनत्रये ॥ २५ ॥
तवाज्ञां मस्तके कृत्वा ग्रहीष्यामि सुतां तव ॥
उपेतां कामिनीं त्यक्त्वा कालसूत्रं व्रजेन्नरः ॥२७॥
रहस्युपस्थितां कामात्पुंश्चलीं चेज्जितेन्द्रियः ॥
परित्यजेद्धर्मभयादधर्मान्नरकं व्रजेत् ॥ २८ ॥
इत्येवमुक्त्वा दुर्वासा विरराम मुनेः पुरः ॥
मुनिर्वेदोक्तविधिना ददौ तस्मै सुतां मुने ॥ २९ ॥
स्वस्तीत्युवाच दुर्वासा मुनिश्च यौतुकं ददौ ॥
कन्यासमर्पणं कृत्वा मोहाच्चैव रुरोद ह ॥ 4.24.३० ॥
मूर्च्छामवाप स मुनिः स्वकन्याविरहातुरः ॥
अपत्यभेदशोकौघः स्वात्मारामं न मुञ्चति ॥ ३१ ॥
क्षणेन चेतनां प्राप्य बोधयामास कन्यकाम् ॥
मूर्च्छितां तातविच्छेदाद्रुदन्तीं शोकसंयुताम् ॥ ३२ ॥
और्व उवाच ॥
शृणु वत्से प्रवक्ष्यामि नीतिसारं सुदुर्लभम् ॥
हितं सत्यं च वेदोक्तं परिणामसुखावहम् ॥३३॥
स्वकान्तश्च परो बन्धुरिह लोके परत्र च ॥
न हि कान्तात्परः प्रेयान् कुलस्त्रीणां परो गुरुः ॥३४॥
देवपूजा व्रतं दानं तपश्चानशनं जपः ॥
स्नानं च सर्वतीर्थेषु दीक्षा सर्वमखेषु च ॥३५॥
प्रादक्षिण्यं पृथिव्याश्च ब्राह्मणातिथिसेवनम् ॥
सर्वाणि पतिसेवायाः कलां नार्हन्ति षोडशीम् ॥३६॥
किमेतैः पतिभक्ताया अभक्तायाश्च भारते॥
यदा दुःखी सुखारम्भे साकाङ्क्षः प्रथमो भवेत् ॥
पतिसेवा परो धर्मः सर्वशास्त्रेषु पठ्यते॥३७॥
स्वप्रज्ञानेन सततं कान्तं नारायणाधिकम् ॥
दृष्ट्वा तच्चरणत्म्भोजसेवां नित्यं करिष्यति॥ ॥ ३८ ॥
परिहासेन कोपेन भ्रमेणावज्ञया मुने ॥
कटूक्तिं स्वामिनः साक्षात्परोक्षान्न करिष्यति ॥ ३९ ॥
स्त्रिया वाग्योनिदुष्टायाः कामतो भारते भुवि ॥
प्रायश्चित्तं श्रुतौ नास्ति नरकं ब्रह्मणः शतम् ॥4.24.४०॥
सर्वधर्मपरीता या कटूक्तिं कुरुते पतिम् ॥
शतजन्मकृतं पुण्यं तस्या नश्यति निश्चितम् ॥ ४१ ॥
दत्त्वा कन्यां बोधयित्वा जगाम मुनिपुङ्गवः ॥
स्वात्मारामः स्वाश्रमे च तस्थौ स्त्रीसहितो मुदा ॥ ४२ ॥
सम्भोगेच्छावृते चित्ते कामी सम्प्राप कामिनीम् ॥
अहो सुकृतिनां कामो वाञ्छामात्रेण सिध्यति ॥ ४३ ॥
शय्यां रतिकरीं कृत्वा मुनिश्रेष्ठो महामुने॥
शुभे क्षणे गृहीत्वा तां सुष्वाप निर्जने प्रियाम्॥४४॥
नारीरसानभिज्ञः स्यादाजन्म मुनिपुङ्गवः॥
तथाऽपि सुरतौ विज्ञः कामशास्त्रविशारदः ॥४५॥
नानाप्रकारं शृङ्गारं चकार विधिपूर्वकम्॥
नवसङ्गममात्रेण मूर्च्छां सम्प्राप कन्दली ॥ ४६ ॥
मूर्च्छां प्राप मुनिश्रेष्ठो बुबुधे न दिवानिशम् ॥
एवं प्रतिदिनं तत्र चकार सुरतिं मुने ॥४७ ॥
विदग्धाया विदग्धेन बभूव सङ्गमः समः ॥
सम्बभूव गृहासक्तस्तपस्त्यक्त्वा मुनीश्वरः ॥ ४८ ॥
करोति कलहे नित्यं कन्दली स्वामिना सह ॥
मुनीन्द्रो बोधयामास नीतिवाक्येन कामिनीम् ॥
सा तन्न बुबुधे किञ्चित्करोति कलहे स्पृहाम् ॥ ४९ ॥
तातप्रदत्तज्ञानेन सा न शान्ता बभूव ह ॥
न हीयते प्रबोधेन स्वभावो दुरतिक्रमः ॥4.24.५०॥
नित्यं कटूक्तिं कान्तं सा करोति हेतुना विना ॥
जगत्प्रकम्पितं येन तया कोपात्स कम्पितः॥५१॥
तया कृतां कटूक्तिं च क्षमासंस्थां चकार ह ॥
बोधयामास तां नित्यं सद्यो मोहाद्दयानिधिः ॥ ५२ ॥
कटूक्तिशतकं पूर्णं तत्कालेन बभूव ह ॥
क्षमां चकार कृपया कटूक्तिं च शताधिकाम् ॥ ५३ ॥
पत्नीकटूक्त्या नियतं प्रदग्धं मानसं मुनेः ॥
तस्याः कटूक्तिकारिण्याः कर्म पूर्णं बभूव ह ॥ ५४ ॥
स्वात्मारामो दयालुश्च कोपं त्यक्तुं न स क्षमः ॥
शशाप कामिनीं मोहाद्भस्मराशिर्भवेति च ॥ ५५ ॥
मुनेरिङ्गितमात्रेण भस्मसात्सा बभूव ह ॥
एवमत्युच्छ्रितानां च न कल्याणं जगत्त्रये ॥ ५६॥
शरीरे भस्मसाद्भूते प्रतिबिम्बः स चात्मनः ॥
जीवस्तत्रान्तरिक्षस्थो ह्युवाच विनयात्प्रभुम् ॥ ५७ ॥
जीव उवाच ॥
हे नाथ सर्वदर्शी त्वं सततं ज्ञानचक्षुषा ॥
सर्वं जानासि सर्वज्ञः किमहं बोधयामि ते॥ ५८ ॥
सदुक्तिर्वा कटूक्तिर्वा कोपः सन्ताप एव च॥
लोभो मोहश्च कामश्च क्षुत्पिपासादिकं च यत् ॥५९॥
स्थौल्यं कार्श्यं च नाशश्च दृश्यादृश्यं समुद्भवम् ॥
सर्वं शरीरधर्मं च न जीवस्य न चात्मनः ॥4.24.६०॥
सत्त्वं रजस्तम इति शरीरं त्रिगुणात्मकम् ॥
तच्च नानाप्रकारं च निबोध कथयामि ते ॥६१॥
किञ्चित्सत्त्वातिरिक्तं च किञ्चिदेव रजोधिकम् ॥
तमोतिरिक्तं किञ्चिच्च न समं कुत्रचिन्मुने ॥६२॥
सत्त्वोदयाच्च मुक्तीच्छा कर्मेच्छा च रजोगुणात्॥
तमोगुणाज्जीवहिंसा कोपोऽहङ्कार एव च ॥ ६३ ॥
कोपात्कटूक्तिर्नियतं कटूक्त्या शत्रुता भवेत् ॥
तया चाप्रियता सद्यः शत्रुः कः कस्य भूतले ॥ ६४ ॥
को वा प्रियोऽप्रियः कः किं किं मित्रं को रिपुर्भवेत् ॥
इन्द्रियाणि च बीजानि सर्वत्र शत्रुमित्रयोः ॥६५॥
प्राणाधिकः प्रियः स्त्रीणां भर्तुः प्राणाधिका प्रिया ॥
बभूव शत्रुता सद्यो दुरुक्त्या च क्षणाद्द्वयोः ॥ ६६ ॥
यद्गतं तद्गतं सर्वं कामदोषेण वै प्रभो ॥
क्षमापराधं निखिलं किं कर्तव्यं वदाधुना ॥ ६७ ॥
किं करोमि क्व यामीति भविता कुत्र जन्म मे ॥
तव नान्यस्य जायाऽहं भविष्यामि जगत्त्रये ॥ ६८ ॥
इत्येवमुक्त्वा जीवश्च मौनीभूतो बभूव ह ॥
मूर्च्छामवाप स मुनिः शोकेन हृतचेतनः ॥ ६९ ॥
स्वात्मारामो महाज्ञानी जहार चेतनामहो ॥
स्त्रीविच्छेदो विदग्धानां सर्वशोकात्परात्परः ॥ 4.24.७० ॥
क्षणेन चेतनां प्राप्य प्राणांस्त्यक्तुं समुद्यतः ॥
तत्र योगासनं कृत्वा चकार वायुधारणम् ॥७१॥
एतस्मिन्नन्तरे तत्र जगाम ब्राह्मणोऽर्भकः॥
दण्डी छत्री रक्तवासा बिभ्रत्ति लकमुत्त्मम् ॥ ७२ ॥
सस्मितः श्यामवर्णश्च प्रज्वलन्ब्रह्मतेजसा ॥
वयसाऽतिशिशुः शान्तो ज्ञानी वेदविदां वरः ॥ ७३ ॥
दृष्ट्वा तं सम्भ्रमेणैव दुर्वासाः प्रणनाम ह ॥
वासयामास तत्रैव पूजयामास भक्तितः ॥ ७४ ॥
उवाच ब्राह्मणवटुर्दत्त्वा तस्मै सदाशिषम् ॥
तद्दर्शनादाशिषा च सर्वं दुःखं गतं मुनेः ॥ ७५ ॥
शिशुरूपं क्षणं स्थित्वा तमुवाच विचक्षणः ॥
पीयूषतुल्यं नीत्योघं नीतिशास्त्रं विशारदः ॥ ७६ ॥
शिशुरुवाच ॥
सर्वं जानासि सर्वज्ञ गुरोर्मन्त्रप्रसादतः ॥
किं तत्त्वं त्वामहं विप्र पृच्छामि शोककातरम् ॥ ७७ ॥
ब्राह्मणानां तपो धर्मस्तपःसाध्यं जगत्त्रयम् ॥
स्वधर्मं वै परित्यज्य किमिदानीं करोषि भोः ॥ ७८ ॥
का कस्य पत्नी कः कान्तः कस्या वा भुवनत्रये ॥
मूर्खाणां वञ्चनां कर्तुं करोति मायया हरिः ॥ ७९ ॥
मिथ्या पत्नी तवेयं च क्षणात्तेन गताधुना ॥
न हि सत्यमदृश्यं च मिथ्या यत्राचिरस्थितिः ॥ 4.24.८० ॥
एकानंशा च भगिनी वसुदेवसुता हरेः॥
पार्वत्यंशसमुद्भूता सुशीला चिरजीविनी ॥८१ ॥
कल्पे कल्पे सुन्दरी सा तव पत्नी भविष्यति ॥
मनो देहि तपस्यायां मुदा कतिपयं दिनम्॥८२॥
कन्दली कदलीजातिर्भविष्यति महीतले ॥
शुभदा फलदा कान्ता सकृत्सूता सुदुर्लभा ॥ ८३ ॥
कल्पान्तरे शान्तरूपा तव पत्नी भविष्य ति॥
अत्युच्छ्रिस्य दमनमुचितं च श्रुतौ श्रुतम्॥ ८४॥
इत्येवमुक्त्वा शीघ्रं च विप्ररूपी जनार्दनः ॥
दत्त्वा ज्ञानं च विप्राय सोऽन्तर्धानं चकार ह ॥ ८५ ॥
मुनिः सर्वभ्रमं त्यक्त्वा तपस्यायां मनो दधे ॥
कन्दली कदलीजातिर्बभूव धरणीतले ॥ ८६ ॥
दैत्यस्तालवनं गत्वा बभूव गर्दभाकृतिः ॥
तिलोत्तमा बाणपुत्री बभूव समये मुने ॥ ८७॥
दैत्येन्द्रो विष्णुचक्रेण प्राणांस्त्यक्त्वा सुवाञ्छितम् ॥
सम्प्राप्य चरणाम्भोजं मुनेरपि सुदुर्लभम् ॥ ८८ ॥
काले तिलोत्तमा भूत्वा जगाम स्वालयं पुनः ॥
कृष्णपौत्रालिङ्गनेन परिपूर्णमनोरथा ॥ ८९ ॥
इत्येवं कथितं श्रुत्वा श्रीकृष्णाख्यानमुत्तमम् ॥
पदेपदे सुन्दरं च किं भूयः श्रोतुमिच्छसि ॥ 4.24.९० ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे तालफलभक्षणप्रसङ्गे बलिपुत्रमोक्षोनाम चतुर्विशोऽध्यायः ॥ २४ ॥