॥श्रीनारायण उवाच ॥
एकदा राधिकानाथो बलेन सह बालकैः ॥
जगाम तत्तालवनं परिपक्वफलान्वितम् ॥ १ ॥
वृक्षाणां रक्षिता दैत्यः खर रूपी च धेनुकः॥
कोटिसिंहसमबलो देवानां दर्पनाशनः ॥२॥
शरीरं पर्वतसमं कूपतुल्ये च लोचने ॥
ईषापङ्क्तिसमा दन्तास्तुण्डं पर्वतगह्वरम् ॥ ३ ॥
शतहस्तपरिमिता जिह्वा लोला भयानका ॥
कासारसदृशी नाभिः शब्दस्तस्य भयानकः ॥ ४ ॥
दृष्ट्वा तालवनं बाला हर्षमापुरनिन्दिताः ॥
कौतुकात्कृष्णमूचुस्ते स्मेराननसरोरुहाः ॥ ५ ॥
बाला ऊचुः ॥
हे कृष्ण करुणासिन्धो दीन बन्धो जगत्पते ॥
महाबल बलभ्रातः समस्तबलिनां वर ॥ ६ ॥
अवधानं कुरु विभो क्षणार्द्धं नो निवेदने ॥
क्षुधितानां शिशूनां च भक्तानां भक्तवत्सल ॥ ७ ॥
स्वादूनि सुन्दराण्येव पश्य तालफलानि च ॥
भङ्क्तुं चालयितुं वृक्षान्पातितुं च फलानि च ॥ ८ ॥
नानावर्णानि पुष्पाणि पक्वानि दुर्लभानि च ॥
आज्ञां करोषि चेत्कृष्ण चेष्टां कर्त्तु वयं क्षमाः ॥९॥
किं त्वत्र दैत्यो बलवान्खररूपी च धेनुकः ॥
अजितस्त्रिदशैः सर्वैर्महाबलपराक्रमः ॥ 4.22.१० ॥
दुर्निवार्यश्च सर्वेषां कंसस्य सचिवो महान् ॥
हिंसकः सर्वजन्तूनां वनानामस्ति रक्षिता ॥ ११ ॥
सुविचार्य जगत्कान्त वद नो वदतां वर ॥
युक्तं कार्यमयुक्तं वा कर्तव्यमथ वा न वा ॥ १२ ॥
बालकानां वचः श्रुत्वा भगवान्मधुसूदनः ॥
उवाच मधुरं बालान्वचनं तत्सुखावहम् ॥ १३ ॥
श्रीकृष्ण उवाच ॥
किं वो दैत्याद्भयं बाला यूयं मत्सहचारिणः ॥
वृक्षान्भङ्क्त्वा चालयित्वा फलानि खादताभयम् ॥ १४ ॥
श्रीकृष्णाज्ञां समादाय बालका बलशालिनः ॥
उत्पेतुर्वृक्षशिखरं क्षुधिताश्च फलार्थिनः ॥ १५ ॥
नानाप्रकारवर्णानि स्वादूनि सुन्दराणि च ॥
फलानि पातयामासुः परिपक्वानि नारद ॥ १६ ॥
केचिद्बभञ्जुर्वृक्षाश्च चालयामासुरेव च ॥
केचित्कोलाहलं चकुर्ननृतुस्तत्र केचन ॥ १७ ॥
अवरुह्य तरुभ्यश्च बालका बलशालिनः ॥
फलान्यादाय गच्छन्तो ददृशुर्दैत्यपुङ्गवम् ॥ १८ ॥
महाबलं महाकायं घोरं गर्दभरूपिणम् ॥
आगच्छन्तं महावेगात्कुर्वन्तं शब्दमुल्बणम् ॥ १९ ॥
तं दृष्ट्वा रुरुदुः सर्वे फलानि तत्यजुर्भिया ॥
कृष्णकृष्णेति शब्दं च प्रचक्रुर्बहुधा भृशम् ॥ 4.22.२० ॥
अस्मान्रक्ष समागच्छ हे कृष्ण करुणानिधे ॥
हे सङ्कर्षण नो रक्ष प्राणा नो यान्ति दानवात्॥२१॥
हे कृष्ण हे कृष्ण हरे मुरारे गोविन्द दामोदर दीनबन्धो॥
गोपीशगोपेश भवार्णवेऽस्मा ननन्त नारायण रक्ष रक्ष ॥२२॥
भयेऽभये वाथ शुभेऽशुभे वा सुखेषु दुःखेषु च दीननाथ ॥
त्वया विनाऽन्यं शरणं भवार्णवे न नोऽस्ति हे माधव रक्ष रक्ष॥२३॥
जयजय गुणसिन्धो कृष्ण भक्तैकबन्धो बहुतरभययुक्तान्बालकान्रक्ष रक्ष ॥
जहि दनुजकुलानामीशमस्माक मन्तं सुरकुलबलदर्पं वर्धयेमं निहत्य ॥ २४ ॥
बालानां विक्लवं दृष्ट्वा बलेन सह माधवः ॥
आजगाम शिशुस्थानं भयहा भक्त वत्सलः ॥ २५ ॥
भयं नास्ति भयं नास्तीत्युक्त्वा दुद्राव सत्वरम् ॥
ईषद्धास्यप्रसन्नास्यो निर्भयं दत्तवाञ्छिशून् ॥ २६ ॥
दृष्ट्वा कृष्णं बलं बाला ननृतुर्विजहुर्भयम् ॥
हरिस्मृतिश्चाभयदा सर्वमङ्गलदायिका॥२७॥
श्रीकृष्णो दानवं दृष्ट्वा ग्रसन्तं पुरतः शिशून्॥
बलं सम्बोध्य बलिनमुवाच मधुसूदनः ॥ २८ ॥
श्रीकृष्ण उवाच ॥
दानवो बलिपुत्रोऽयं नाम्ना साहसिको बली ॥
गर्दभो ब्रह्मशापेन शप्तो दुर्वाससा पुरा ॥२९॥
पापिष्ठो मम वध्योऽयं महाबलपराकमः ॥
अहमेनं वधिष्यामि त्वं रक्ष बालकान्बल ॥4.22.३०॥
आदाय बालकान्सर्वान्दूरं गच्छेत्युवाच ह ॥
तान्गृहीत्वा बलः शीघ्रं जगाम त्वरयाज्ञया ॥ ३१ ॥
दृष्ट्वा कृष्णं दानवेन्द्रो महाबलपराक्रमः ॥
जग्रास लीलया कोपाज्ज्वलदग्निशिखोपमम् ॥ ३२ ॥
बभूवातिदाहयुक्तो मर्तुकामोऽतितेजसा ॥
उज्जग्रास पुनर्दैत्यो विभुं तेजस्विनं भिया ॥३३॥
उज्झितं सन्तमीशं च दृष्ट्वा दैत्यो मुमोच ह॥
अतीव सुन्दरं शान्तं ज्वलन्तं ब्रह्मतेजसा ॥३४॥
कृष्णदर्शनमात्रेण बभूवास्य पुरा स्मृतिः ॥
आत्मानं बुबुधे कृष्णं जगतां कारणं परम् ॥ ३५ ॥
तेजःस्वरूपमीशं तं दृष्ट्वा तुष्टाव दानवः ॥
यथागमं यथाजन्म गुणातीतं श्रुतेः परम् ॥ ३६ ॥
दानव उवाच ॥
वामनोऽसि त्वमंशेन मत्पितुर्यज्ञभिक्षुकः ॥
राज्यहर्ता च श्रीहर्ता सुतलस्थलदायकः ॥ ३७ ॥
बलिर्भक्तिवशो वीरः सर्वेशो भक्तवत्सलः ॥
शीघ्रं त्वं हिन्धि मां पापं शापाद्गर्दभरूपिणम् ॥ ३८ ॥
मुनेर्दुर्वाससः शापादीदृशं जन्म कुत्सितम् ॥
मृत्युरुक्तश्च मुनिना त्वत्तो मम जगत्पते ॥ ३९ ॥
षोडशारेण चक्रेण सुतीक्ष्णेनातितेजसा ॥
जहि मां जगतां नाथ सद्भक्तिं कुरु मोक्षद ॥4.22.४०॥
त्वमंशेन वराहश्च समुद्धर्तुं वसुन्धराम् ॥
वेदानां रक्षिता नाथ हिरण्याक्षनिषूदनः ॥ ४१ ॥
त्वं नृसिंहः स्वयं पूर्णो हिरण्यकशिपोर्वधे ॥
प्रह्रादानुग्रहार्थाय देवानां रक्षणाय च ॥ ॥ ४२ ॥
त्वं च वेदोद्धारकर्ता मीनांशेन दयानिधे ॥
नृपस्य ज्ञानदानाय रक्षायै सुरविप्रयोः ॥ ४३ ॥
शेषाधारश्च कूर्मस्त्वमंशेन सृष्टिहेतवे ॥
विश्वाधारश्च विश्वस्त्वमंशेनापि सहस्रधृक् ॥४४॥
रामो दाशरथिस्त्वं च जानक्युद्धारहेतवे ॥
दशकन्धरहन्ता च सिन्धौ सेतुविधायकः ॥४५॥
कलया परशुरामश्च जमदग्निसुतो महान् ॥
त्रिःसप्तकृत्वो भूपानां निहन्ता जगतीपते ॥ ४६ ॥
अंशेन कपिलस्त्वं च सिद्धानां च गुरोर्गुरुः ॥
मातृज्ञानप्रदाता च योगशास्त्रविधायकः ॥ ४७ ॥
अंशेन ज्ञानिनां श्रेष्ठो नरनारायणावृषी ॥
त्वं च धर्मसुतो भूत्वा लोकविस्तारकारकः ॥४८॥
अधुना कृष्णरूपस्त्वं परिपूर्णतमः स्वयम् ॥
सर्वेषामवताराणां बीजरूपः सनातनः ॥ ४९ ॥
यशोदाजीवनो नित्यो नन्दैकानन्दवर्धनः ॥
प्राणाधिदेवो गोपीनां राधाप्राणाधिकप्रियः ॥4.22.५०॥
वसुदेवसुतः शान्तो देवकीदुःखभञ्जनः ॥
अयोनिसम्भवः श्रीमान्पृथिवीभारहारकः ॥ ५१ ॥
पूतनायै मातृगतिं प्रदाता च कृपानिधिः ॥
बककेशिप्रलम्बानां ममापि मोक्षकारकः ॥ ५२ ॥
स्वेच्छामय गुणातीत भक्तानां भयभञ्जन ॥
प्रसीद राधिकानाथ प्रसीद कुरु मोक्षणम् ॥ ॥५३॥
हे नाथ गार्दभीयोनेः समुद्धर भवार्णवात्॥
मूर्खस्त्वद्भक्तपुत्रोऽहं मामुद्धर्तुं त्वमर्हसि ॥ ५४ ॥
वेदा ब्रह्मादयो यं च मुनीन्द्राः स्तोतुमक्षमाः ॥
किं स्तौमि तं गुणातीतं पुरा दैत्योऽधुना खरः ॥५५॥
एवं कुरु कृपासिन्धो येन मे न भवेज्जनुः ॥
दृष्ट्वा पादारविन्दं ते कः पुनर्भवनं व्रजेत् ॥५६॥
ब्रह्मा स्तोता खरः स्तोता नोपहासितुमर्हसि॥
सदीश्वरस्य विज्ञस्य योग्यायोग्ये समा कृपा ॥ ५७ ॥
इत्येवमुक्त्वा दैत्येन्द्रस्तस्थौ च पुरतो हरेः ॥
प्रसन्नवदनः श्रीमानतितुष्टो बभूव ह ॥५८॥
इदं दैत्यकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् ॥
सालोक्यसार्ष्टिसामीप्यं लीलया लभते हरेः॥५९॥
इह लोके हरेर्भक्तिमन्ते दास्यं सुदुर्लभम्॥
विद्यां श्रियं सुकवितां पुत्रपौत्रान्यशो लभेत् ॥ 4.22.६० ॥
श्रीनारायण उवाच ॥
श्रुत्वाऽनुमेने दैत्येन्द्रस्तवनं करुणानिधिः ॥
कथं करोमि संहारमीदृशं भक्तमित्यहो ॥ ॥६१॥
अनुमन्य स्मृतिं तस्य सञ्जहार हरिः स्वयम् ॥
न हि युक्तो वधः स्तोतुर्दुर्वक्तुर्विधिरीश्वरात् ॥६२॥
दानवो मायया विष्णोर्विसस्मार पुनः स्वकम्॥
दुरुक्तिस्तत्कण्ठदेशे ह्यधिष्ठानं चकार ह॥६३॥
उवाच श्रीहरिं दैत्यः कोपात्प्रस्फुरिताधरः ॥
मुने सद्यो मर्तुकामो दैवग्रस्तो विचेतनः ॥६४॥
दैत्य उवाच॥ ध्रुवं त्वं मर्तुकामोऽसि दुर्बुद्धे मानवार्भक ॥
अद्य प्रस्थापयिष्यामि त्वामहं यममन्दिरम् ॥ ॥६५॥
आयासि जीवनाकाङ्क्षी मम तालवनं शिशो॥
न यास्यसि पुनर्गेहं बान्धवं न हि द्रक्ष्यसि ॥६६॥
न कंसो न जरासन्धो नरको न समो मम ॥
देवाः कम्पन्ति मे नित्यं के चान्ये मत्समा भुवि ॥६७॥
नहि संहारकर्ता च मां संहर्तुं क्षमः शिवः ॥
न च ब्रह्मा न विष्णुश्च न मृत्युः काल एव च ॥६८॥
मम तालतरून्भङ्क्त्वा पातयित्वा फलानि च ॥
अहङ्करोषि सहसा किमहो कस्य तेजसा ॥ ६९ ॥
कस्त्वं वद बटो सत्यं कमनीयोऽतिसुन्दरः ॥
दुर्लभं जीवनं दातुं मह्यं कथमिहागतः ॥4.22.७० ॥
इत्युक्त्वा मस्तके कृत्वा प्रेरयित्वा तु तं बली ॥
दूरतः पातयामास श्रीकृष्णं मरणोन्मुखः ॥ ७१ ॥
पातयित्वा च तं भूमौ विषाणाभ्यां जघान सः ॥
कृष्णाङ्गस्पर्शमात्रेण तद्विषाणे बभञ्जतुः ॥७२॥
दैत्यो भग्नविषाणश्च तमीशं कोपयन्मुने ॥
जग्रास चर्वणं कर्तुं भग्नदन्तो बभूव ह ॥ ७३ ॥
तेजसा दग्धवक्त्रश्च तमुज्जग्राह तत्क्षणे ॥
जज्वाल व्यथितः कोपाद्ददार खुरतो महीम् ॥ ७४ ॥
चूर्णयित्वा तु लाङ्गूलं शब्दं कृत्वा भयानकम् ॥
स जगाम शिशुस्थानं दुद्रुवुर्बालका भिया ॥ ७९॥
बलं च प्रेरयामास मस्तकेन महाबली ॥
बलो मुष्टिं ददौ तस्मै मूर्च्छामाप ततोऽसुरः ॥७६॥
क्षणेन चेतनां प्राप्य जगाम हरिसन्निधिम् ॥
बलमुष्ट्या च व्यथितः पुनर्मूर्च्छामवाप सः ॥ ७७ ॥
पुनश्च चेतनां प्राप्य समुत्तस्थौ व्यथाकुलः ॥
उत्ससर्ज बृहल्लेडं मूत्रं च भयमाप ह ॥७८॥
क्षणात्सन्धिक्षणं प्राप्य महाबलपराक्रमः ॥
कृत्वा शिरसि गोविन्दं चूर्णयामास दानवः ॥ ७९ ॥
पातयामास भूमौ तं चूर्णयित्वा पुनःपुनः ॥
उत्पाट्य तालवृक्षं तं ताडयामास माधवः ॥4.22.८०॥
यथा खड्गप्रहारेण दानवस्य भवेद्व्यथा ॥
तथा बभूव दैत्यस्य तालवृक्षस्य ताडनात् ॥८१॥ ।
गोवर्धनं समुत्पाट्य घातयामास तं विभुः ॥
पपात वेगाच्छैलेन्द्रस्तस्योपरि महामुने ॥८२॥
पर्वतस्य प्रहारेण मूर्च्छामाप महाबलः॥ ।
बभूव जर्जराङ्गश्च रुधिरं च समुद्वमन् ॥ ८३ ॥
क्षणेन चेतनां प्राप्य समुत्तस्थौ रुषाऽसुरः ॥
गृहीत्वा पर्वतश्रेष्ठं प्रेरयामास माधवम् । ॥ ८४ ॥
दृष्ट्वा शैलमुत्पतन्तं वेगेन मधुसूदनः ॥
जग्राह दक्षिणकरे यथेक्षुदण्डवत्प्रभुः ॥ ८५ ॥
पूर्वस्थाने पर्वतं तं स्थापयामास कौतुकात् ॥
गृहीत्वा दैत्यकर्णाग्रं पातयामास दूरतः ॥ ८६ ॥
उत्पत्य च महावेगाच्चकार वेष्टनं हरेः ॥
पृथिवीं घर्षयामास तीक्ष्णाग्रेण खुरेण च ॥ ८७ ॥
प्रगृह्य श्रीहरिं वेगात्कृत्वा मूर्ध्नि महासुरः ॥
उत्पपात मनोयायी लीलया लक्षयोजनम् ॥ ८८ ॥
प्रहरं च तयोर्युद्धं निर्लक्षे च बभूव ह ॥
ततो गृहीत्वा श्रीकृष्णं पपात धरणीतले ॥ ८९ ॥
पुनर्मुहूर्तं युद्धं च बभूव भूतले तयोः ॥
मुदा हरिः प्रशशंस प्रहस्य दानवेश्वरम् ॥ 4.22.९० ॥
मद्भक्तस्य बलेः पुत्रं धन्यं तज्जीवनं परम्॥
स्वस्त्यस्तु ते दानवेन्द्र वत्स निर्वाणतां व्रज ॥ ९१ ॥
मद्दर्शनं स्वस्तिबीजं परं निर्वाणकारणम् ॥
सर्वाधिकं सर्वपरं लभ स्थानं मनोहरम् ॥ ९२ ॥
इत्येवमुक्त्वा श्रीकृष्णः सस्मार चक्रमुत्तमम् ॥
सूर्यकोटिसमं दीप्त्या जग्राह तत्सुदर्शनम् ॥९३॥
चिक्षेप भ्रामयित्वा च षोडशारमनुत्तमम् ॥
चिच्छेद लीलयाऽवध्यं ब्रह्मविष्णुमहेश्वरैः ॥ ९४ ॥
पपात मस्तकं भूमौ दानवस्य महात्मनः ॥
तेजःसमूह उत्तस्थौ शतसूर्यसमप्रभः॥ ९५ ॥
विलोक्य हरिलोकं संश्लिष्टं कृष्णपदाम्बुजे ॥
सम्प्राप्य परमं मोक्षमहो दानवपुङ्गवः ॥ ९६ ॥
गगनस्थाः सुराः सर्वे मुनयश्च भृशं मुदा ॥
पारिजातप्रसूनानां चक्रुस्ते तत्र वर्षणम् ॥९७॥
नेदुर्दुन्दुभयः स्वर्गे ननृतुश्चाप्सरोगणाः ॥
जगुर्गन्धर्वनिकरा स्तुष्टुवुर्मुनयो मुदा ॥ ९८ ॥
स्तुत्वा जग्मुः सुराः सर्वे मुनयो हर्षविह्वलाः ॥
धेनुकस्य वधं दृष्ट्वा तत्राजग्मुश्च बालकाः ॥ ९९ ॥
बलश्च बलिनां श्रेष्ठस्तुष्टाव पुरुषोत्तमम् ॥
तुष्टुवुर्बालकाः सर्वे ननृतुश्च मुदाऽन्विताः ॥ 4.22.१०० ॥
दत्त्वा कृष्णबलाभ्यां च प्रपक्वानि फलानि च ॥
सर्वाणि भक्षयामासुर्बालाः प्रहष्टमानसाः ॥ १०१ ॥
भुक्त्वा पीत्वा हरिः शीघ्रं बलेन बालकैः सह ॥
जगाम स्वालयं ब्रह्मन्निहत्य दानवेश्वरम्॥१०२॥
इति श्रीबह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायनारदसंवादे धेनुकवधोनाम द्वाविंशोऽध्यायः
॥ २२ ॥