श्रीनारायण उवाच ॥
एकदाऽऽनन्दयुक्तश्च नन्दो गोपव्रजे मुने ॥
दुन्दुभिं वादयामास शक्रयागकृतोद्यमः ॥ १ ॥
दधि क्षीरं घृतं तक्रं नवनीतं गुडं मधु ॥
एतान्यादाय शक्रस्य पूजां कुर्वन्त्विति ब्रुवन् ॥२॥
येये सन्त्यत्र नगरे गोपा गोप्यश्च बालकाः ॥
बालिकाश्च द्विजा भूयो वैश्याः शूद्राश्च भक्तितः ॥ ३ ॥
इत्येवं श्रावयामास स्वयमेव मुदाऽन्वितः ॥
यष्टिमारोपयामास रम्यस्थाने सुविस्तृते ॥ ४ ॥
ददौ तत्र क्षौमवस्त्रं मालाजालं मनोहरम् ॥
चन्दनागुरुकस्तूरीकुङ्कुमद्रवमेव च ॥ ५ ॥
स्नातः कृताह्निको भक्त्या धृत्वा धौते च वाससी॥
उवास स्वर्णपीठे च प्रक्षालितपदाम्बुजः ॥६॥
नानाप्रकारपात्रैश्च ब्राह्मणैश्च पुरोहितैः ॥
गोपालैर्गोपिकाभिश्च बालाभिः सह बालकैः ॥ ७ ॥
एतस्मिन्नन्तरे तत्राजग्मुर्नगरवासिनः ॥
महासम्भृतसम्भारा नानोपायनसंयुताः ॥ ८ ॥
आजग्मुर्मुनयः सर्वे ज्वलन्तं ब्रह्मतेजसा ॥
शान्ताः शिष्यगणैः सार्धं वेदवेदाङ्गपारगाः ॥ ९ ॥
गर्गश्च गालवश्चैव शाकल्यः शाकटायनः ॥
गौतमः करुषः कण्वो वात्स्यः कात्यायनस्तथा ॥ 4.21.१० ॥
सौभरिर्वामदेवश्च याज्ञवल्क्यश्च पाणिनिः ॥
ऋष्यशृङ्गो गौरमुखो भरद्वाजश्च वामनः ॥११॥
कृष्णद्वैपायनः शृङ्गी सुमन्तुर्जैमिनिः कचः ॥
पराशरश्च मैत्रेयो वैशम्पायन एव च ॥ १२ ॥
ब्राह्मणाश्च कतिविधा भिक्षुका बन्दिनस्तथा ॥
भूपा वैश्याश्च शूद्राश्च समाजग्मुर्महोत्सवे ॥ १३ ॥
दृष्ट्वा मुनीन्द्रान्नन्दश्च ब्राह्मणान्भूमिपांस्तथा ॥
स्वर्णपीठात्समुत्तस्थौ व्रजाश्चोत्तस्थुरेव च॥ १४ ॥
प्रणम्य वासयामास मुनीन्द्रान्विप्रभूमिपान् ॥
तेषामनुमतिं प्राप्य तत्रोवास पुनर्मुदा ॥ १५ ॥
पाकं च यष्टिनिकटे कर्तुमाज्ञां चकार ह ॥
पाकप्राज्ञं ब्राह्मणानां शतमानीय सादरम् ॥ १६ ॥
तत्र रत्नप्रदीपाश्च जज्वलुः परितस्तथा ॥
अन्धीभूतं च धूपेन स्थानं तत्सुरभीकृतम् ॥ १७ ॥
नानाविधानि पुष्पाणि माल्यानि विविधानि च ॥
नैवेद्यं च बहुविधमपूर्वं सुमनोहरम् ॥ १८ ॥
तिललड्डुकपूर्णं च मण्डकानां सहस्रकम् ॥
स्वस्तिकैः परिपूर्णं च यष्टिस्थानं च नारद ॥ १९ ॥
कलशानां सहस्रं च पूर्णं शर्करया मुने ॥
यवगोधूमचूर्णानां लड्डुकैर्मधुरैर्वरैः ॥4.21.२०॥
घृतपक्वैर्विप्रकृतैः पूर्णानि कलशानि च ॥
वृक्षपक्वानि रम्याणि चारुरम्भाफलानि च ॥२१॥
फलानि परिपक्वानि कालदेशोद्भवानि च॥
क्षीराणां कुम्भलक्षाणि दध्नां तावन्ति नारद ॥ २२ ॥
मधूनां कुम्भशतकं सर्पिष्कुम्भ सहस्रकम् ॥
कलशानां त्रिलक्षाणि तक्रपूर्णानि निश्चितम् ॥ २३ ॥
घटानां पञ्चलक्षाणि गुडपूर्णानि निश्चितम् ॥
तिलतैलेन पूर्णं च कलशानां सहस्रकम् ॥ २४ ॥
वृषेन्द्राश्च बहुविधा भोगार्हद्रव्यवाहकाः ॥
नानाविधानि पात्राणि सौवर्णराजतानि च ॥ २९ ॥
स्वर्णपीठानि च ब्रह्मन्नाजग्मुर्यष्टिसन्निधिम् ॥
वस्त्राणि वरणार्हाणि चारूणि भूषणानि च ॥ २५ ॥
नानाविधानि वाद्यानि चारूणि मधुराणि च ॥
वादकाः स्वरयन्त्राणि वादयामासुरुत्सवे ॥ २७ ॥
छागलानां सहस्राणि महिषाणां शतानि च ॥
मेषकाणां च लक्षाणि ह्यानयामास तत्र वै ॥२८॥
शतान्येव गण्डकानामाजग्मुर्यष्टिसन्निधिम् ॥
प्रेक्षितानि च सर्वाणि रक्षितानि च रक्षकैः॥२९॥
बालकानां बालिकानां वृक्षाणां वृक्षयोषिताम् ॥
यूनां च युवतीनां च सङ्ख्यां कर्तुं च कः क्षमः ॥4.21.३०॥
गायकानां च सङ्गीतं नर्तकानां च नर्तनम् ॥
श्रुत्वा दृष्ट्वा जनाः सर्वे मुमुहुः सुमहोत्सवे ॥ ३१ ॥
रम्भोर्वशी मेनका च घृताची मोहिनी रतिः ॥
प्रभावती भानुमती विप्रचित्तिस्तिलोत्तमा ॥ ३२ ॥
चन्द्रप्रभा सुप्रभा च रत्नमाला मदालसा ॥
रेणुका रमणी ब्रह्मन्नेता आजग्मुरुत्सवे ॥ ३३ ॥
तासां नृत्येन गीतेन स्तनास्यश्रोणिदर्शनात् ॥
रूपेण वक्रदृष्ट्या च मूर्च्छां प्रापुश्च मानवाः ॥ ३४ ॥
एतस्मिन्नन्तरे शीघ्रमाजगाम हरिः स्वयम् ॥
गोपालबालकैः सार्धं बलेन बलशालिना॥३५॥
दृष्ट्वा तं च जनाः सर्वे सम्भ्रान्ता हर्षविह्वलाः ॥
उत्तस्थुराराद्भीताश्च पुलकाङ्कितविग्रहाः ॥ ३६॥
क्रीडास्थानात्समायान्तं शान्तं सुन्दरविग्रहम्॥
विनोदमुरलीवेणुशृङ्गशब्दसमन्वितम् ॥ ३७ ॥
सद्रत्नसारभूषाभिर्भूषितं कौस्तुभेन च ॥
चन्दनागुरुपङ्केन चर्चितं श्यामविग्रहम् ॥ ३८ ॥
शरन्मध्याह्नपद्मास्यं पश्यन्तं रत्नदर्पणे ॥
चारुचन्दनचन्द्रेण कस्तूरीबिन्दुना सह ॥ ३९ ॥
शशाङ्केन यथाऽऽकाशं भालमध्यविराजितम् ॥
मालतीमालया श्यामकण्ठवक्षःस्थलोज्ज्वलम् ॥4.21.४०॥
बकपङ्क्त्या यथाऽऽकाशं शारदीयं सुनिर्मलम्॥
चारुणा पीतवस्त्रेण शोभितं श्यामविग्रहम् ॥४१॥
विभान्तं विद्युता शश्वन्नवनिं नीरदं यथा ॥
कुन्दप्रसूनैर्गुञ्जाभिर्बद्धवक्रिमचूडकम् ॥ ४२ ॥
यथेन्द्रधनुषा भाति विभातं भगणैर्नभः ॥
रत्नकुण्डलदीप्त्या च स्मितवक्त्रसुशोभितम् ॥ ४३ ॥
शरत्प्रफुल्लपद्मं च द्युमणेः किरणैर्यथा ॥
विप्रक्षत्त्रियवैश्याश्च मुनयो बल्लवा मुने ॥ ४४ ॥
प्रणम्य वासयामासू रत्नसिंहासने शुभे ॥
उवास रत्नपीठे स तेषां मध्ये जगत्पतिः॥ ४५ ॥
यथा बभौ शरच्चन्द्रो ज्योतिषामन्तरे च खे ॥
श्रुत्वा तमूचुस्ते सर्वे जगतामीश्वरं परम् ॥ ४६ ॥
स्वेच्छामयं गुणातीतं ज्योतीरूपं सनातनम् ॥
दृष्ट्वा महोत्सवं शीघ्रमुवाच पितरं हरिः ॥
सर्वेषां दुर्लभां नीतिं नीतिशास्त्रविशारदः ॥ ४७ ॥
श्रीकृष्ण उवाच ॥
भोभो बल्लवराजेन्द्र किं करोषीह सुव्रत ॥ ४८ ॥
आराध्यः कश्च का पूजा किं फलं पूजने भवेत् ॥
फलेन साधनं किं वा कः सख्यः साधनेन च ॥ ४९ ॥
देवे रुष्टे भवेत्किं वा पूजायाः प्रतिबन्धके ॥
तुष्टो देवः किं ददाति फलमत्र परत्रकम् ॥ 4.21.५० ॥
काचिद्ददात्यत्र फलं परत्रेह न काचन ॥
काचिच्च नोभयत्रापि चोभयत्रापि काचन ॥ ५१ ॥
अवेदविहिता पूजा सर्वहानिकरण्डिका ॥
पूजेयमधुना वा ते किमु वा पुरुषक्रमात् ॥ ५२ ॥
दृष्टो देवस्त्वया कस्मिन्पूजेयं चानुसारिणी ॥
साक्षात्खादति देवस्ते साक्षात्किं वा न खादति ॥ ५३ ॥
साक्षाद्भुङ्क्ते च यो देवः सुप्रशस्तं तदर्चनम् ॥
साक्षात्खादति नैवेद्यं विप्ररूपी जनार्दनः ॥ ५४ ॥
ब्राह्मणे परितुष्टे च सन्तुष्टाः सर्वदेवताः ॥
किं तस्य देवपूजायां यो नियुक्तो द्विजार्चने ॥ ५५ ॥
पूजिता ब्राह्मणा येन पूजिताः सर्वदेवताः ॥
देवाय दत्त्वा नैवेद्यं द्विजाय न प्रयच्छति ॥ ५६ ॥
भस्मीभूतं च नैवेद्यं पूजनं निष्फलं भवेत्॥
विप्राय देवनैवेद्यदानाद्ध्रुवमनन्तकम् ॥५७॥
तुष्टो देवो वरं दत्त्वा प्रयाति च स्वमन्दिरम् ॥
दत्त्वा देवाय नैवेद्यं मूढो भुङ्क्ते स्वयं यदि॥५८॥
दत्तापहारी देवस्वं भुक्त्वा च नरकं व्रजेत् ॥
देवदत्तं न भोक्तव्यं नैवेद्यं च विना हरेः ॥९९॥
प्रशस्तं सर्वदेवेषु विष्णुनैवेद्यभोजनम्॥
अन्नं विष्ठा जलं मूत्रं यद्विष्णोरनिवेदितम् ॥ 4.21.६० ॥
सर्वेषां च क्रममिदं ब्राह्मणानां विशेषतः ॥
न दत्त्वा वस्तु देवाय दत्तं विप्राय चेत्सुधीः ॥ ६१ ॥
भुक्त्वा विप्रमुखे देवास्तुष्टाः स्वर्गं प्रयान्ति च ॥
तस्मात्सर्वप्रयत्नेन विप्राणामर्चनं कुरु ॥६२॥
प्रशस्तफलदातॄणामिह लोके परत्र च॥
जपस्तपश्च पूजा वा यज्ञदानं महोत्सवम् ॥ ६३ ॥
सर्वेषां कर्मणां सारं विप्रतुष्टिश्च दक्षिणा ॥
दक्षिणानां शरीरेषु तिष्ठन्ति सर्वदेवताः ॥ ॥६४॥
पादेषु सर्वतीर्थानि पुण्यानि पादधूलिषु ॥
पादोदके च विप्राणां तीर्थतोयानि सन्ति च ॥ ६५ ॥
तत्स्पर्शात्सर्वतीर्थेषु स्नानजन्यफलं लभेत् ॥
नश्यन्ति भक्षणाद्रोगा भक्तिभावेन बल्लव ॥६६॥
सप्तजन्मकृतात्पापान्मुच्यन्ते नात्र संशयः ॥
पापं पञ्चविधं कृत्वा यो विप्रं प्रणमेद्व्रजे ॥६७॥
स स्नातः सर्वतीर्थेषु सर्वपापात्प्रमुच्यते ॥
ब्राह्मणस्पर्शमात्रेण मुक्तो भवति पातकी ॥ ६८ ॥
दर्शनान्मुच्यते पापादिति वेदे निरूपितम् ॥
अप्राज्ञो वाऽथ प्राज्ञो वा ब्राह्मणो विष्णुविग्रहः ॥ ६९ ॥
प्रियाः प्राणाधिका विष्णोर्ये विप्रा हरिसेविनः ॥
द्विजानां हरिभक्तानां प्रभावो दुर्लभः श्रुतौ ॥4.21.७०॥
येषां पादाब्जरजसा सद्यः पूता वसुन्धरा॥
तेषां च पादचिह्नं यत्तीर्थं तत्परिकीर्तितम् ॥ ७१ ॥
तेषां च स्पर्शमात्रेण तीर्थपापं प्रणश्यति ॥
आलिङ्गनात्सदालापात्तेषामुच्छिष्टभोजनात् ॥ ॥ ७२ ॥
दर्शनात्स्पर्शनाच्चैव सर्वपापात्प्रमुच्यते ॥
भ्रमणे सर्वतीर्थानां यत्पुण्यं स्नानतो भवेत् ॥७३॥
हरिदासस्य विप्रस्य तत्पुण्यं दर्शनाल्लभेत् ॥
ये विप्रा हरये दत्त्वा नित्यमन्नं च भुञ्जते ॥७४॥
उच्छिष्टभोजनात्तेषां हरेर्दास्यं लभेन्नरः ॥
न दत्त्वा हरये भक्त्या भुञ्जते चेद्भ्रमादपि ॥ ७५ ॥
पुरीषसदृशं वस्तु जलं मूत्रसमं भवेत् ॥
शूद्रश्चेद्धरिभक्तश्च नैवेद्यभोजनोत्सुकः ॥ ७६ ॥ (तु. ब्रह्मवैवर्त २.१०.४९)
आमान्नं हरये दत्त्वा कृत्वा पाकं च खादति ॥
विप्रक्षत्रियवैश्यानां शालग्रामशिलार्चने ॥७७॥
अधिकारो न शूद्राणां हरेरप्यर्चने तथा ॥
द्रव्याण्येतानि गोपेन्द्र विप्रेभ्यश्चेन्न दास्यति ॥७८॥
भस्मीभूतानि सर्वाणि भविष्यन्ति न संशयः ॥
अन्नं च सर्वजीवेभ्यः पुण्यार्थं दातुमर्हति ॥ ७९ ॥
दत्त्वा विशिष्टजीवेभ्यो विशिष्टं फलमाप्नुयात् ॥
अतो दत्त्वा मानुषेभ्यो लभतेऽष्टगुणं फलम् ॥ 4.21.८० ॥
शूद्राणां द्विगुणं पुण्यं वैश्येभ्योऽन्नं प्रदाय च॥
दत्त्वाऽन्नं क्षत्रियेभ्योऽपि वैश्यानां द्विगुणं भवेत्॥
क्षत्त्रियाणां शतगुणं विप्रेभ्योऽन्नं प्रदाय च ॥ ८१ ॥
विप्राणां च शतगुणं शास्त्रज्ञे ब्राह्मणे फलम् ॥
शास्त्रज्ञानां शतगुणं भक्ते विप्रे लभेद्ध्रुवम् ॥ ८२ ॥
स चान्नं हरये दत्त्वा भुङ्क्ते भक्त्या च सादरम् ॥
विष्णवे विप्रभक्ताय दत्त्वा दातुश्च यत्फलम् ॥ ८३ ॥
तत्फलं लभते नूनं भक्तब्राह्मणभोजने ॥
भक्ते तुष्टे हरिस्तुष्टो हरौ तुष्टे च देवताः ॥ ८४ ॥
भवन्ति सिद्धाः शाखाश्च यथा मूलनिषेचनात् ॥
द्रव्याण्येतानि देवाय यद्येकस्मै प्रयच्छति ॥ ८५ ॥
सर्वे देवाश्च रुष्टाश्चेद्देवैः कः किं करिष्यति ॥
अथवाऽर्द्धं च वस्तूनां देहि गोवर्धनाय च ॥ ८६ ॥
गा वर्धयति नित्यं यस्तेन गोवर्धनः स्मृतः ॥
गोवर्धनसमस्तात पुण्यवान्न महीतले ॥ ८७ ॥
नित्यं ददाति गोभ्यो यो नवीनानि तृणानि च ॥
तीर्थस्थानेषु यत्पुण्यं यत्पुण्यं विप्रभोजने ॥ ८८ ॥
सर्वव्रतोपवासेषु सर्वेष्वेव तपःसु च ॥
यत्पुण्यं च महादाने यत्पुण्यं हरिसेवने ॥ ८९ ॥
भुवः पर्यटने यत्तु सर्ववाक्येषु यद्भवेत् ॥
यत्पुण्यं सर्वयज्ञेषु दीक्षायां च लभेन्नरः ॥ 4.21.९० ॥
तत्पुण्यं लभते प्राज्ञो गोभ्यो दत्त्वा तृणानि च ॥
भुक्तवन्तीं तृणं यश्च गां वारयति कामतः ॥ ९१ ॥
ब्रह्महत्या भवेत्तस्य प्रायश्चित्ताद्विशुध्यति॥
सर्वे देवा गवा मङ्गे तीर्थानि तत्पदेषु च ॥ ९२ ॥
तद्गुह्येषु स्वयं लक्ष्मीस्तिष्ठत्येव सदा पितः ॥
गोष्पदाक्तमृदा यो हि तिलकं कुरुते नरः॥९३॥
तीर्थस्नातो भवेत्सद्यो जयस्तस्य पदेपदे ॥
गावस्तिष्ठन्ति यत्रैव तत्तीर्थं परिकीर्तितम् ॥ ९४ ॥
प्राणांस्त्यक्ता नरस्तत्र सद्यो मुक्तो भवेद्ध्रुवम् ॥
ब्राह्मणानां गवामङ्गं यो हन्ति मानवाधमः ॥ ९५ ॥
ब्रह्महत्यासमं पापं भवेत्तस्य न संशयः ॥
नारायणांशान्विप्रांश्च गाश्च ये घ्नन्ति मानवाः ॥ ९६ ॥
कालसूत्रं च ते यान्ति यावच्चन्द्रदिवाकरौ ॥
इत्येवमुक्त्वा श्रीकृष्णो विरराम च नारद ॥९७॥
आनन्दयुक्तो नन्दश्च तमुवाच स्मिताननः ॥
नन्द उवाच ॥
पौर्वापरीयं पूजेति महेन्द्रस्य महात्मनः ॥ ९८ ॥
सुवृष्टिसाधनी साध्यं सर्वसस्यमनोहरम् ॥
सस्यानि प्राणिनां प्राणाः सस्याज्जीवन्ति जीविनः॥९९॥
पूजयन्ति व्रजस्थाश्च महेन्द्रं पुरुषक्रमात्॥
महोत्सवं वत्सरान्ते निर्विघ्नाय शिवाय च ॥ 4.21.१०० ॥
इत्येवं वचनं श्रुत्वा बलेन सह माधवः ॥
उच्चैर्जहास स पुनरुवाच पितरं मुदा ॥ 4.21.१ ॥
श्रीकृष्ण उवाच ॥
अहो श्रुतं विचित्रं ते वचनं परमाद्भुतम् ॥
उपहास्यं लोकशास्त्रं वेदेष्वेव विगर्हितम् ॥ २॥
निरूपणं नास्ति कुत्र शक्राद्वृष्टिः प्रजायते ॥
अपूर्वं नीतिवचनं श्रुतमद्य मुखात्तव ॥ ३ ॥
श्रुणु नीतिं श्रुतिमतां हे तात नानयं वदेः ॥
वचनं सामवेदोक्तं सन्तो जानन्ति सर्वत॥४॥
प्रश्नं कुरुष्व मन्त्रांश्च विविधानपि संसदि॥
ब्रुवन्तु परमार्थं च किमिन्द्राद्वृष्टिरेव च॥५॥
सूर्याद्धि जायते तोयं तोयात्सस्यानि शाखिनः ॥
तेभ्योऽन्नानि फलान्येव तेभ्यो जीवन्ति जीविनः ॥६॥
सूर्यग्रस्तं च नीरं च काले तस्मात्समुद्भवः॥
सूर्यो मेघादयः सर्वे विधात्रा ते निरूपिताः ॥ ७ ॥
यत्राब्दे यो जलधरो गजश्च सागरो मतः ॥
सस्याधिपो नृपो मन्त्री विधात्रा ते निरूपिताः ॥८॥
जलादिकानां सस्यानां तृणानां च निरूपितम् ॥
अब्देऽब्देऽस्त्येव तत्सर्वं कल्पे कल्पे युगेयुगे ॥ ९ ॥
हस्ती समुद्रादादाय करेण जलमीप्सितम् ॥
दद्याद्घनाय तद्दद्याद्वातेन प्रेरितो घनः ॥ 4.21.११० ॥
स्थानेस्थाने पृथिव्यां च कालेकाले यथोचितम्॥
ईशेच्छयाऽऽविर्भूतं च न भवेत्प्रतिबन्धकम् ॥ ११ ॥
भूतं भव्यं भविष्यच्च महत्क्षुद्रं च मध्यमम् ॥
धात्रा निरूपितं कर्म केन तात निवार्यते ॥ १२॥
जगच्चराचरं सर्वं कृतं तेनेश्वराज्ञया ॥
आदौ विनिर्मितं भक्ष्यं पश्चाज्जीव इति स्मृतः ॥ १३ ॥
अभ्यासात्स स्वभावो हि स्वभावात्कर्म एव च ॥
जायते कर्मणां भोगो जीविनां सुखदुःखयोः ॥ १४ ॥
यातनाजन्ममरणरोगशोकभयानि च ॥
समुत्पत्तिर्विपद्विद्या कविता वा यशोऽयशः ॥ १५ ॥
पुण्यं च स्वर्गवासश्च पापं नरकसंस्थितिः ॥
भुक्तिर्मुक्तिर्हरेर्दास्यं कर्मणा घटते नृणाम् ॥ १६ ॥
सर्वेषां जनको हीशश्चाभ्यासः शीलकर्मणाम् ॥
धातुश्च फलदाता च सर्वं तस्येच्छया भवेत् ॥१७॥
विनिर्मितो विराड्येन तत्त्वानि प्रकृतिर्जगत् ॥
कूर्मश्च शेषधरणी चाब्रह्मस्तम्ब एव च ॥१८॥
यस्याज्ञया मरुत्कूर्मं धक्ते शेषं बिभर्ति सः ॥
शेषो वसुन्धरां मूर्ध्ना सा च सर्वं चराचरम् ॥ १९ ॥
यस्याज्ञया सदा वाति जगत्प्राणो जगत्त्रये ॥
तपति भ्रमणं कृत्वा भूगोलं सुप्रभाकरः ॥ 4.21.१२० ॥
दहत्यग्निः सञ्चरते मृत्युश्च सर्वजन्तुषु ॥
उत्पत्तिः शाखिनां काले पुष्पाणि च फलानि च ॥ २१ ॥
स्वेस्वे स्थाने समुद्राश्च तूर्णं मज्जन्त्यधोऽधुना ॥
तमीशं भज भक्त्या च शक्रः किं कर्तुमीश्वरः ॥ २२ ॥
ब्रह्माण्डं च कतिविधमाविर्भूतं तिरोहितम् ॥
विधयश्च कतिविधा यस्य भ्रूभङ्गलीलया ॥ २३॥
मृत्योर्मृत्युः कालकालो विधातुर्विधिरेव स. ॥
भज तं शरणं तात स ते रक्षां करिष्यति ॥२४॥
अहोऽष्टाविंशदिन्द्राणां पतने यदहर्निशम् ॥
विधातुरेव जगतामष्टोत्तरशताधिकः ॥ २५ ॥
निमेषाद्यस्य पतनं निर्गुणस्यात्मनः प्रभोः ॥
एवम्भूते तिष्ठतीशे शक्रपूजा विडम्बनम् ॥२६॥
इत्येवमुक्त्वा श्रीकृष्णो विरराम च नारद॥
प्रशशंसुश्च मुनयो भगवन्तं सभासदः ॥ २७ ॥
नन्दः सपुलको हृष्टः सभायां साश्रुलोचनः ॥
आनन्दयुक्ता मनुजा यदि पुत्रैः परा जिताः ॥ २८ ॥
श्रीकृष्णाज्ञां समाज्ञाय चकार स्वस्तिवाचनम् ॥
क्रमेण वरणं तत्र सर्वेषां च चकार ह ॥ २९ ॥
पर्वतस्यमुनीन्द्राणां चकार पूजनं तदा ॥
बुधानां ब्राह्मणानां च गवां वह्नेश्च सादरम् ॥ 4.21.१३० ॥
तत्र पूजासमाप्तौ च क्रतौ च सुमहोत्सवे ॥
नानाप्रकारवाद्यानां बभूव शब्द उल्बणः ॥ ३१ ॥
जयशब्दः शङ्खशब्दो हरिशब्दो बभूव ह ॥
वेदमङ्गलकाण्डं च .पपाठ मुनिपुङ्गवः ॥३२॥
बन्दिनां प्रवरो डिण्डी कंसस्य सचिवः प्रियः ॥
उच्चैः पपाठ पुरतो मङ्गलं मङ्गलाष्टकम् ॥३३॥
कृष्णः शैलान्तिकं गत्चा भिन्नां मूर्तिं विधाय च ॥
वस्तु खादामि शैलोऽस्मि वरं वृण्वित्युवाच ह॥३४॥
उवाच नन्दं श्रीकृष्णः पश्य शौलं पितः पुरः॥
वरं प्रार्थय भद्रं ते भविता चेत्युवाच ह ॥३५॥
हरेर्दास्यं हरेर्भक्तिं वरं वव्रे स बल्लवः ॥
द्रव्यं भुक्त्वा वरं दत्त्वा सोऽन्तर्धानं चकार ह॥ ॥ ३६ ॥
मुनीन्द्रान्ब्राह्मणांश्चैव भोजयित्वा च गोपपाः ॥
बन्दिभ्यो ब्राह्मणेभ्यश्च मुनिभ्यश्च धनं ददौ ॥३७॥
मुनिभ्यो ब्राह्मणेभ्योऽपि दत्त्वा नन्दो मुदाऽन्वितः ॥
रामकृष्णौ पुरस्कृत्य सगणः स्वालयं ययौ ॥३८॥
रौप्यं वस्त्रं सुवर्णं च वरमश्वं मणिं तथा ॥
भक्ष्यं द्रव्यं बहुविधं बन्दिने डिण्डिने ददौ ॥ ३९ ॥
स्तुत्वा नत्वा रामकृष्णौ मुनयो ब्राह्मणा ययुः ॥
ययुरप्सरसः सर्वा गन्धर्वाः किन्नरास्तथा ॥ 4.21.१४० ॥
राजानो बल्लवाः सर्वे चाहूता ये महोत्सवे ॥
सर्वे प्रणम्य श्रीकृष्णं ययुः सादरपूर्वकम् ॥ ४१ ॥
एतस्मिन्नन्तरे शक्रः कोपप्रस्फुरिताधरः ॥
मखभङ्गे बहुविधां निन्दां श्रुत्वा सुरेश्वरः ॥ ४२ ॥
मरुद्भिर्वारिदैः सार्धं रथमारुह्य सत्वरम्॥
जगाम नन्दनगरं वृन्दारण्यं मनोहरम् ॥ ४३ ॥
सर्वे देवा ययुः पश्चाद्युद्धशास्त्रविशारदाः ॥
शस्त्रास्त्रपाणयः कोपाद्रथमारुह्य नारद ॥४४॥
वायुशब्दैर्मेघशब्दैः सैन्यशब्दैर्भयानकैः ॥
चकम्पे नगरं सर्वं नन्दो भयमवाप ह ॥९।
भार्यां सम्बोध्य स्वगणमुवाच शोककातरः ॥
रहः स्थलं समानीय नीतिशास्त्रविशारदः ॥ ४६ ॥
नन्द उवाच ॥
हे यशोदे समागच्छ वचनं शृणु रोहिणि ॥
रामकृष्णौ समादाय व्रज दूरं व्रजात्प्रिये ॥
बालका बालिका नार्यो यान्तु दूरं भयाकुलाः ॥ ४७ ॥
बलवन्तश्च गोपालास्तिष्ठन्तु मत्समीपतः ॥
पश्चाच्च निर्गमिष्यामो वयं च प्राणसङ्कटात् ॥४८ ॥
इत्युक्त्वा बल्लवश्रेष्ठः सस्मार श्रीहरिं भिया ॥
पुटाञ्जलियुतो भूत्वा भक्तिनम्रात्मकन्धरः ॥
काण्वशाखोक्तस्तोत्रेण तुष्टाव ह शचीपतिम् ॥ ४९ ॥
नन्द उवाच ॥
इन्द्रः सुरपतिः शक्रो दितिजः पवनाग्रजः ॥ 4.21.१५० ॥
सहस्राक्षो भगाङ्गश्च कश्यपाङ्गज एव च ॥
बिडौजाश्च सुनासीरो मरुत्वान्पाकशासनः ॥५१॥
जयन्तजनकः श्रीमाञ्छचीशो दैत्यसूदनः ॥
वज्रहस्तः कामसखो गौतमीव्रतनाशनः ॥ ५२ ॥
वृत्रहा वासवश्चैव दधीचिदेहभिक्षुकः ॥
विष्णुश्च वामनभ्राता पुरुहूतः पुरन्दरः ॥ ५३ ॥
दिवस्पतिः शतमखः सुत्रामा गोत्रभिद्विभुः ॥
लेखर्षभो बलारातिर्जम्भभेदी सुराश्रयः ॥५४॥
सङ्क्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः ॥
आखण्डलो हरिहयो नमुचिप्राणनाशनः ॥ ५५ ॥
वृद्धश्रवा वृषश्चैव दैत्यदर्पनिषूदनः ॥
षट्चत्वारिंशन्नामानि पापघ्नानि विनिश्चितम् ॥ ५६ ॥
स्तोत्रमेतत्कौथुमोक्तं नित्यं यदि पठेन्नरः ॥
महाविपत्तौ शक्रस्तं वज्रहस्तश्च रक्षति ॥ ५७ ॥
अतिवृष्टिशिलावृष्टिवज्रपाताच्च दारुणात् ॥
कदाचिन्न भयं तस्य रक्षिता वासवः स्वयम् ॥ ५८ ॥
यत्र गेहे स्तोत्रमिदं यश्च जानाति पुण्यवान् ॥
न तत्र वज्रपतनं शिलावृष्टिश्च नारद ॥ ५९ ॥
श्रीनारायण उवाच ॥
स्तोत्रं नन्दमुखाच्छ्रुत्वा चुकोप मधुसूदनः ॥4.21.६०॥
उवाच पितरं नीतिं प्रज्वलन्ब्रह्मतेजसा ॥
कं स्तौषि भीरो को वेन्द्रस्त्यज भीतिं ममान्तिके ॥ ६१ ॥
क्षणार्द्धे भस्मसात्कर्तुं क्षमोऽहमवलीलया॥
गाश्च वत्सांश्च बालांश्च योषितो हि भयातुराः ॥६२॥
गोवर्धनस्य कुहरे संस्थाप्य तिष्ठ निर्भयम् ॥
बालस्य वचनं श्रुत्वा तच्चकार मुदाऽन्वितः ॥ ६३ ॥
हरिर्दधार शैलं तं वामहस्तेन दण्डवत् ॥
एतस्मिन्नन्तरे तत्र दीप्तोऽपि रत्नतेजसा ॥ ६४ ॥
अन्धीभूतश्च सहसा बभूव रजसाऽऽवृतः ॥
सवातो मेघनिकरश्चच्छाद गगनं मुने ॥ ६५ ॥
वृन्दावने बभूवातिवृष्टिरेव निरन्तरम्॥
शिलावृष्टिर्वज्रवृष्टिरुल्कापातः सुदारुणः ॥ ६६ ॥
समस्तं पर्वतस्पर्शात्पतितं दूरतस्ततः ॥
विफलस्तत्समारम्भो यथाऽनीशोद्यमो मुने ॥ ६७ ॥
दृष्ट्वा मोघं च तत्सर्वं सद्यः शक्रश्चुकोप ह ॥
जग्राहामोघकुलिशं दधीच्यस्थिविनिर्मितम् ॥ ॥ ६८ ॥
दृष्ट्वा तं वज्रहस्तं च जहास मधुसूदनः ॥
सहस्तं स्तम्भयामास वज्रमेवातिदारुणम् ॥ ६९ ॥
सहामरगणं मोघं चकारस्तम्भनं विभुः॥
सर्वे तस्थुर्निश्चलास्ते भित्तौ पुत्तलिका यथा ॥ 4.21.१७० ॥
हरिणा जृम्भितः शक्रः सद्यस्तन्द्रामवाप ह ॥
ददर्श सर्वं तन्द्रायां तत्र कृष्णमयं जगत् ॥ ७१ ॥
द्विभुजं मुरलीहस्तं रत्नालङ्कारभूषितम् ॥
पीतवस्त्रपरीधानं रत्नसिंहासनस्थितम् ॥७२॥ ।
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकातरम् ॥
चन्दनोक्षितसर्वाङ्गमेतत्सर्वं चराचरम् ॥ ७३ ॥
दृष्ट्वाऽद्भुततमं तत्र सद्यो मूर्च्छामवाप ह ॥
जजाप मन्त्रं तत्रैव प्रदत्तं गुरुणा पुरा ॥ ७४ ॥
सहस्रदलपद्मस्थं ददर्श ज्योतिरुल्बणम् ॥
तत्रान्तरे दिव्यरूपमतीव सुमनोहरम् ॥ ॥७५॥
नवीनजलदोत्कर्षं श्यामसुन्दरविग्रहम् ॥
सद्रत्नसारनिर्माणज्वलन्मकरकुण्डलम् ॥ ७६॥
ज्वलन्मणीन्द्रमकरकिरीटोज्ज्वल शेखरम् ॥
ज्वलता कौस्तुभेन्द्रेण कण्ठवक्षःस्थलोज्ज्वलम् ॥७७॥
मणिकेयूरवलयमणिमञ्जीररञ्जितम् ॥
अन्तर्बहिः समं दृष्ट्वा तुष्टाव परमेश्वरम् ॥ ७८ ॥
इन्द्र उवाच ॥
अक्षरं परमं ब्रह्म ज्योतीरूपं सनातनम् ॥
गुणातीतं निराकारं स्वेच्छामयमनन्तकम् ॥ ॥ ७९ ॥
भक्तध्यानाय सेवायै नानारूपधरं वरम् ॥
शुक्लरक्तपीतश्यामं युगानुक्रमणेन च ॥ १८० ॥
शुक्लतेजःस्वरूपं च सत्ये सत्यस्वरूपिणम्॥
त्रेतायां कुङ्कुमाकारं ज्वलन्तं ब्रह्मतेजसा ॥ ८१ ॥
द्वापरे पीतवर्णं च शोभितं पीतवाससा ॥
कृष्णवर्णं कलौ कृष्णं परिपूर्णतमं प्रभुम् ॥ ८२ ॥
नवधाराधरोत्कृष्टश्यामसुन्दरविग्रहम् ॥
नन्दैकनन्दनं वन्दे यशोदानन्दनं प्रभुम् ॥८३॥
गोपिकाचेतनहरं राधाप्राणाधिकं परम् ॥
विनोदमुरलीशब्दं कुर्वन्तं कौतुकेन च ॥८४ ॥
रूपेणाप्रतिमेनैव रत्नभूषणभूषितम् ॥
कन्दर्पकोटिसौन्दर्यं बिभ्रतं शान्तमीश्वरम्॥८९॥
क्रीडन्तं राधया सार्धं वृन्दारण्ये च कुत्रचित् ॥
कुत्रचिन्निर्जनेऽरण्ये राधावक्षःस्थलस्थितम् ॥८६॥
जलक्रीडां प्रकुर्वन्तं राधया सह कुत्रचित् ॥
राधिकाकबरीभारं कुर्वन्तं कुत्रचिद्वने ॥ ८७ ॥
कुत्रचिद्राधिकापादे दत्तवन्तमलक्तकम्॥
सदा चर्वितताम्बूलं गृह्णन्तं कुत्रचिन्मुदा ॥८८॥
पश्यन्तं कुत्रचिद्राधां पश्यन्तीं वक्रचक्षुषा॥
दत्तवन्तं च राधायै कृत्वा मालां च कुत्रचित् ॥ ८९ ॥
कुत्रचिद्राधया सार्धं गच्छन्तं रासमण्डलम् ॥
राधादत्तां गले मालां धृतवन्तं च कुत्रचित् ॥ 4.21.१९० ॥
सार्धं गोपालिकाभिश्च विहरन्तं च कुत्रचित् ॥
राधां गृहीत्वा गच्छन्तं विहाय तां च कुत्रचित् ॥ ९१ ॥
विप्रपत्नीदत्तमन्नं भुक्तवन्तं च कुत्रचित्॥
भुक्तवन्तं तालफलं बालकैः सह कुत्रचित् ॥९२॥
वस्त्रं गोपालिकानां च हरन्तं कुत्रचिन्मुदा ॥
गवां गणं व्याहरन्तं कुत्रचिद्बालकैः सह ॥ ९३ ॥
कालीयमूर्ध्नि पादाब्जं दत्तवन्तं च कुत्रचित् ॥
विनोदमुरलीशब्दं कुर्वन्तं कुत्रचिन्मुदा ॥ ९४ ॥
गायन्तं रम्यसङ्गीतं कुत्रचिद्बालकैः सह॥
स्तुत्वा शक्रः स्तवेन्द्रेण प्रणनाम हरिं भिया ॥९५॥
पुरा दत्तेन गुरुणा रणे वृत्रासुरेण च॥
कृष्णेन दत्तं कृपया ब्रह्मणे च तपस्यते ॥९६॥
एकादशाक्षरो मन्त्रः कवचं सर्वलक्षणम् ॥
दत्तमेतत्कुमाराय पुष्करे ब्रह्मणा पुरा ॥९७॥
कुमारोऽङ्गिरसे दत्तं गुरवेऽङ्गिरसा मुने ॥
इदमिन्द्रकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् ॥ ९८ ॥
स हि प्राप्य दृढां भक्तिमन्ते दास्यं लभेद्ध्रुवम्॥
जन्ममृत्युजराव्याधिशोकेभ्यो मुच्यते नरः ॥
न हि पश्यति स्वप्नेऽपि यमदूतं यमालयम्॥९९॥
नारायण उवाच ॥
इन्द्रस्य वचनं श्रुत्वा प्रसन्नः श्रीनिकेतनः॥4.21.२००॥
प्रीत्या तस्मै वरं दत्त्वा स्थापयामास पर्वतम् ॥
प्रणम्य च हरिं शक्रः प्रययौ स्वगणैः सह ॥१॥
गह्वरस्था जनाः सर्वे प्रजग्मुर्गह्वराद्गृहम् ॥
ते सर्वे मेनिरे कृष्णं परिपूर्णतमं विभुम् ॥ २ ॥
पुरस्कृत्य व्रजस्थांश्च प्रययौ स्वालयं हरिः ॥
तुष्टाव नन्दः पुत्रं तं पूर्णब्रह्म सनातनम् ॥
पुलकाञ्चितसर्वाङ्गो भक्तिपूर्णाश्रुलोचनः ॥ ३ ॥
नन्द उवाच ॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ॥४॥
जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ॥
नमो ब्रह्मण्यदेवाय ब्रह्मणे परमात्मने ॥ ५ ॥
अनन्तकोटिब्रह्माण्डधामधाम्ने नमोऽस्तु ते ॥
नमो मत्स्यादिरूपाणां जीवरूपायसाक्षिणे ॥६॥
निर्लिप्ताय निर्गुणाय निराकाराय ते नमः॥
अतिसूक्ष्मस्वरूपाय स्थूलात्स्थूलतमाय च ॥७॥
सर्वेश्वराय सर्वाय तेजोरूप नमोऽस्तु ते॥
अतिप्रत्यक्षरूपाय ध्यानासाध्याय योगिनाम् ॥८॥
ब्रह्मविष्णुमहेशानां वन्द्याय नित्यरूपिणे ॥
धाम्ने चतुर्ण्णां वर्णानां युगेष्वेव चतुर्षु च ॥९॥
शुक्लरक्तपीतश्यामाभिधानगुणशालिने ॥
योगिने योगरूपाय गुरवे योगिनामपि ॥4.21.२१०॥
सिद्धेश्वराय सिद्धाय सिद्धानां गुरवे नमः ॥
यं स्तोतुमक्षमो ब्रह्मा विष्णुर्यं स्तोतुमक्षमः ॥११॥
यं स्तोतुमक्षमो रुद्रः शेषो यं स्तोतुमक्षमः ॥
यं स्तोतुमक्षमो धर्मो यं स्तोतुमक्षमो रविः ॥१२॥
यं स्तोतुमक्षमो लम्बोदरश्चापि षडाननः ॥
यं स्तोतुमक्षमाः सर्वे मुनयः सनकादयः ॥१३॥
कपिलो न क्षमः स्तोतुं सिद्धेन्द्राणां गुरोर्गुरुः॥
न शक्तौ स्तवनं कर्तुं नरनारायणावृषी ॥१४॥
अन्ये जडधियः के वा स्तोतुं शक्ताः परात्परम्॥
वेदा न शक्ता नो वाणी न च लक्ष्मीः सरस्वती ॥१५॥
न राधा स्तवने शक्ता किं स्तुवन्ति विपश्चितः ॥
क्षमस्व निखिलं ब्रह्मन्नपराधं क्षणेक्षणे ॥ १६ ॥
रक्ष मां करुणा सिन्धो दीनबन्धो भवार्णवे ॥
पुरा तीर्थे तपस्तप्त्वा पुत्रः प्राप्तः सनातनः ॥ १७ ॥
स्वकीयचरणाम्भोजे भक्तिं दास्यं च देहि मे ॥
ब्रह्मत्वममरत्वं वा सालोक्यादिकमेव वा ॥१८॥
त्वत्पदाम्भोजदास्यस्य कलां नार्हन्ति षोडशीम् ॥
इन्द्रत्वं वा सुरत्वं वा सम्प्राप्तिं सिद्धिस्वर्गयोः ॥१९॥
राजत्वं चिरजीवित्वं सुधियो गणयन्ति किम् ॥
एतद्यत्कथितं सर्वं ब्रह्मत्वादिकमीश्वर ॥ 4.21.२२० ॥
भक्तसङ्गक्षणार्द्धस्य नोपमा ते किमर्हति ॥
त्वद्भक्तो यस्त्वत्सदृशः कस्त्वां तर्कितुमीश्वरः ॥२१॥
क्षणार्द्धालापमात्रेण पारं कर्तुं स चेश्वरः ॥
भक्तसङ्गाद्भवत्येव भक्तिं कर्तुमनेकधा ॥ २२ ॥
त्वद्भक्तजलदालापजलसेकेन वर्द्धते ॥
अभक्तालापतापात्तु शुष्कतां याति तत्क्षणम् ॥ ॥ २३ ॥
त्वद्गुणस्मृतिसेकाच्च वर्द्धते तत्क्षणे स्फुटम् ॥
त्वद्भक्त्यङ्कुरमुद्भूतं स्फीतं मानसजं परम् ॥ २४ ॥
न नश्यं वर्द्धनीयं च नित्यन्नित्यं क्षणेक्षणे ॥
ततः सम्प्राप्य ब्रह्मत्वं भक्तस्य जीवनाय च ॥ २५ ॥
ददात्येव फलं तस्मै हरिदास्यमनुत्तमम् ॥
सम्प्राप्य दुर्लभं दास्यं यदि दासो बभूव ह ॥ २६ ॥
सुनिश्चयेन तेनैव जितं सर्वं भयादिकम् ॥
इत्येवमुक्त्वा भक्त्या च नन्दस्तस्थौ हरेः पुरः ॥ २७ ॥
प्रसन्नवदनः कृष्णो ददौ तस्मै तदीप्सितम् ॥
एवं नन्दकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् ॥२८॥
सुदृढां भक्तिमाप्नोति सद्यो दास्यं लभेद्धरेः ॥
तपस्तप्त्वा यदा द्रोणस्तीर्थे च धरया सह ॥२९॥
स्तोत्रं तस्मै पुरा दत्तं ब्रह्मणा तत्सुदुर्लभम् ॥
हरेः षडक्षरो मन्त्रः कवचं सर्वरक्षणम् ॥4.21.२३०॥
इह सौभरिणा दत्तं तस्मै तुष्टेन पुष्करे ॥
तदेव कवचं स्तोत्रं स च मन्त्रः सुदुर्लभः॥ ॥ ३१ ॥
ब्रह्मणोंऽशेन मुनिना नन्दाय च तपस्यते ॥
मन्त्रः स्तोत्रं च कवचमिष्टदेवो गुरुस्तथा ॥ ३२ ॥
या यस्य विद्या प्राचीना न तां त्यजति निश्चितम् ॥
इत्येवं कथितं स्तोत्रं श्रीकृष्णाख्यानमद्भुतम् ॥
सुखदं मोक्षदं सारं भवबन्धविमोचनम् ॥ २३३ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे इन्द्रयागभञ्जनो नामैकविंशतितमोऽध्यायः ॥२१॥