०२०

4.20
श्रीनारायण उवाच ॥
एकदा बालकैः सार्द्धं बलेन सह माधवः॥
भुक्त्वा पीत्वाऽनुलिप्तश्च वृन्दारण्यं जगाम ह ॥१॥
क्रीडां चकार भगवान्कौतुकेन च तैः सह ॥
क्रीडानि मग्नचित्तानां दूरं तद्गोकुलं ययौ ॥ २ ॥
तस्य प्रभावं विज्ञातुं विधाता जगतां पतिः ॥
चकार निह्नुतिं गाश्च वत्सांश्च बालकानपि ॥ ३ ॥
विज्ञाय तदभिप्रायं सर्वज्ञः सर्वकारकः ॥
पुनश्चकार तत्सर्वं योगीन्द्रो योगमायया ॥ ४ ॥
जगाम श्रीहरिर्गेहं कालयित्वा च गोकुलम् ॥
बलेन बालकैः सार्धं क्रीडाकौतुकमानसः ॥ ५ ॥
एवं चकार भगवान्वर्षमेकं च प्रत्यहम् ॥
यमुनागमनं गोभिर्बलेन सह बालकैः ॥ ६ ॥
ब्रह्मा प्रभावं विज्ञाय लज्जानम्रात्मकन्धरः ॥
आजगाम हरेःस्थानं भाण्डीरवटमूलके ॥ ७ ॥
ददर्श कृष्णं तत्रैव गोपालगणवेष्टितम् ॥
यथा पार्वणचन्द्रं च विभान्तं स्वगणैः सह ॥८॥
रत्नसिंहासनस्थं च हसन्तं सस्मितं मुदा॥
पीतवस्त्रपरीधानं ज्वलन्तं ब्रह्मतेजसा ॥९॥
रत्नकेयूरवलयरत्नमञ्जीररञ्जितम्॥
रत्नकुण्डलयुग्माभ्यां स्वकपोलस्थलोज्ज्वलम् ॥ 4.20.१० ॥
कोटिकन्दर्पलावण्यं लीलाधाममनोहरम् ॥
चन्दनागुरुकस्तूरीकुङ्कुमार्चितविग्रहम् ॥ ११ ॥
पारिजातप्रसूनानां मालाजालैर्विभूषितम् ॥
नवीननीरदश्यामं प्रोद्भिन्ननवयौवनम् ॥१२॥
मालतीमाल्यसंयुक्तं मयूरपिच्छचूडकम् ॥
स्वाङ्गसौन्दर्यदीप्त्या च कृतभूषणभूषितम् ॥ १३ ॥
शरत्पार्वणचन्द्रस्य प्रभामुष्टास्यसुन्दरम् ॥
पक्वबिम्बाधरौष्ठं च खगेन्द्रचञ्चुनासिकम् ॥ १४ ॥
शरन्मध्याह्नपद्मानां प्रभामोचनलोचनम्॥
मुक्तापङ्क्तिविनिन्द्यैकदन्तपङ्क्तिमनोहरम् ॥१५॥
कौस्तुभेन मणीन्द्रेण वक्षःस्थलसमुज्ज्वलम्॥
शान्तं च राधिकाकान्तं परिपूर्णतमं परम्॥१६॥
एवम्भूतं प्रभुं दृष्ट्वा प्रणनामातिविस्मितः॥
दर्शन्दर्शमीश्वरं तं प्रणनाम पुनःपुनः॥१७॥
यद्दृष्टं हृदयाम्भोजे तद्रूपं बहिरेव च ॥
या मूर्तिः पुरतो दृष्टा सा पश्चात्परितस्ततः ॥१८॥
तत्र वृन्दावने सर्वं दृष्ट्वा कृष्णसमं मुने ॥
ध्यायन्ध्यायं च तद्रूपं तत्र तस्थौ जगद्गुरुः ॥१९॥
गावो वत्साश्च बालाश्च लतागुल्माश्च वीरुधः ॥
सर्वं वृन्दावनं ब्रह्मा श्यामरूपं ददर्श ह ॥4.20.२०॥
दृष्ट्वैवं परमाश्चर्यं पुनर्ध्यानं चकार ह ॥
ददर्श त्रिजगद्ब्रह्मा नान्यत्कृष्णं विना मुने॥२१॥
क्व च वृक्षः क्व वा शैलः क्व मही क्व च सागराः ॥
क्व देवाः क्व च गन्धर्वा मुनीन्द्राः क्व च मानवाः ॥२२॥
क्व चात्मा क्व जगद्बीजं क्व स्वर्गः क्वायमेव च॥
सर्वं च स्वदृशा ब्रह्मा ददर्श मायया हरेः ॥२३॥
क्व कृष्णो जगतां नाथः क्व वा मायाविभूतयः ॥
सर्वं कृष्णमयं दृष्ट्वा किञ्चिन्निर्वक्तुमक्षमः ॥ २४ ॥
किं स्तौमि किं करोमीति मनसैवं प्रगृह्य च ॥
तत्र स्थित्वा जगद्धाता जपं कर्तुं समुद्यतः ॥ २५ ॥
सुखं योगासनं कृत्वा बभूव सम्पुटाञ्जलिः ॥
पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रोऽतिदीनवत् ॥ २६ ॥
इडां सुषुम्नां मध्यां च पिङ्गलां नलिनीं धुराम् ॥
नाडीषट्कं च योगेन निबद्ध्य च प्रयत्नतः ॥ २७ ॥
मूलाधारं स्वाधिष्ठानं मणिपूरं मनोहरम् ॥
विशुद्धं परमाज्ञाख्यं षट्चक्रं च निबद्ध्य च ॥ २८ ॥
लङ्घनं कारयित्वा च तत्षट्चक्रं क्रमाद्विधिः॥
ब्रह्मरन्ध्रं समानीय वायुबन्धं चकार ह॥२९॥
निबध्य वायुं मध्यां तामानीय हृदयाम्बुजम्॥
तं वायुं भ्रामयित्वा च योजयामास मध्यया ॥ 4.20.३० ॥
एवं कृत्वा तु निष्पन्दो यो दत्तो हरिणा पुरा ॥
जजाप परमं मन्त्रं तस्यैव च दशाक्षरम् ॥३१॥
मुहूर्तं च जपं कृत्वा ध्यायन्ध्यायं पदाम्बुजम् ॥
ददर्श हृदयाम्भोजे सर्वतेजोमयं मुने ॥३२॥
तत्तेजसोऽन्तरे रूपमतीव सुमनोहरम् ॥
द्विभुजं मुरलीहस्तं भूषितं पीतवाससा ॥ ३३ ॥
श्रुतिमूलस्थलन्यस्तज्वलन्मकरकुण्डलम् ॥
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकातरम् ॥ ३४ ॥
यद्दृष्टं ब्रह्मरन्ध्रे च हृदि तद्बहिरेव च ॥
दृष्ट्वा च परमाश्चर्यं तुष्टाव परमेश्वरम् ॥३५॥
यत्स्तोत्रं च पुरा दत्तं हरिणैकार्णवे मुने ॥
तमीशं तेन विधिना भक्तिनम्रात्मकन्धरः ॥ ३६ ॥
ब्रह्मोवाच ॥
सर्वस्वरूपं सर्वेशं सर्वकारणकारणम् ॥
सर्वानिर्वचनीयं तं नमामि शिवरूपिणम् ॥ ३७ ॥
नवीनजलदाकारं श्यामसुन्दरविग्रहम् ॥
स्थितं जन्तुषु सर्वेषु निर्लिप्तं साक्षिरूपिणम् ॥ ३८ ॥
स्वात्मारामं पूर्णकामं जगद्व्यापिजगत्परम् ॥
सर्वस्वरूपं सर्वेषां बीजरूपं सनातनम् ॥ ३९ ॥
सर्वाधारं सर्ववरं सर्वशक्तिसमन्वितम् ॥
सर्वाराध्यं सर्वगुरुं सर्वमङ्गलकारणम् ॥ 4.20.४० ॥
सर्वमन्त्रस्वरूपं च सर्वसम्पत्करं वरम् ॥
शक्तियुक्तमयुक्तं च स्तौमि स्वेच्छामयं विभुम् ॥ ४१ ॥
शक्तीशं शक्तिबीजं च शक्तिरूपधरं वरम् ॥
संसारसागरे घोरे शक्तिनौकासमन्वितम् ॥ ४२ ॥
कृपालुं कर्णधारं च नमामि भक्तवत्सलम् ॥
आत्मस्वरूपमेकान्तं लिप्तं निर्लिप्तमेव च ॥४३॥
सगुणं निर्गुणं ब्रह्म स्तौमि स्वेच्छास्वरूपिणम्॥
सर्वेन्द्रियादिदेवं तमिन्द्रियालयमेव च ॥४४॥
सर्वेन्द्रियस्वरूपं च विराड्रूपं नमाम्यहम् ॥
वेदं च वेदजनकं सर्ववेदाङ्गरूपिणम्॥४५॥
सर्वमन्तस्वरूपं च नमामि परमेश्वरम् ॥
सारात्सारतरं द्रव्यमपूर्वमनिरूपिणम् ॥ ४६ ॥
स्वतन्त्रमस्वतन्त्रं च यशोदानन्दनं भजे ॥
सन्तं सर्वशरीरेषु तमदृष्टमनूहकम् ॥४७॥
ध्यानासाध्यं विद्यमानं योगीन्द्राणां गुरुं भजे ॥
रासमण्डलमध्यस्थं रासोल्लाससमुत्सुकम् ॥४८॥
गोपीभिः सेव्यमानं च तं धरेशं नमाम्यहम् ॥
सतां सदैव सन्तं तमसन्तमसतामपि॥४९॥
योगीशं योगसाध्यं च नमामि शिवसेवितम्॥
मन्त्रबीजं मन्त्रराजं मन्त्रदं फलदं फलम् ॥ ॥4.20.५०॥
मन्त्रसिद्धिस्वरूपं तं नमामि च परात्परम् ॥
सुखं दुःखं च सुखदं दुःखदं पुण्यमेव च ॥५१॥
पुण्यप्रदं च शुभदं शुभबीजं नमाम्यहम् ॥
इत्येवं स्तवनं कृत्वा दत्त्वा गाश्च स बालकान् ॥ ९२ ॥
निपत्य दण्डवद्भूमौ रुरोद प्रणनाम च ॥
ददर्श चक्षुरुन्मील्य विधाता जगतां मुने ॥ ५३ ॥
ब्रह्मणा च कृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् ॥
इह लोके सुखं भुक्त्वा यात्यन्ते श्रीहरेः पदम् ॥ ५४ ॥
लभते दास्यमतुलं स्थानमीश्वरसन्निधौ ॥
लब्ध्वा च कृष्णसान्निध्यं पार्षदप्रवरो भवेत् ॥ ५५ ॥
श्रीनारायण उवाच ॥
गते जगत्कारणे च ब्रह्मलोकं च ब्रह्मणि ॥
श्रीकृष्णो बालकैः सार्धं जगाम स्वालयं विभुः ॥ ५६ ॥
गावो वत्साश्च बालाश्च जग्मुर्वर्षान्तरे गृहम् ॥
श्रीकृष्णमायया सर्वे मेनिरे ते दिनान्तरम् ॥ ५७ ॥
गोपा गोपालिका किञ्चित्तत्कर्तुं न क्षमास्तदा ॥
योगिनः कृत्रिमं सर्वं किं नूत्नं वा पुरातनम् ॥ ५८ ॥
इत्येवं कथितं सर्वं श्रीकृष्णचरितं शुभम् ॥
सुखदं मोक्षदं पुण्यं सर्वकालसुखावहम् ॥ ५९ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे गोवत्सबालकहरणप्रस्तावो नाम विंशोऽध्यायः ॥ २० ॥