०१९

श्रीनारायण उवाच ॥
एकदा बालकैः सार्धं बलदेवं विना हरिः ॥
जगाम यमुनातीरं यत्र कालियमन्दिरम् ॥ १ ॥
परिपक्वफलं भुक्त्वा यमुनातीरजे वने ॥
स्वेच्छामयस्तृट्परीतः पपौ च निर्मलं जलम् ॥ २ ॥
गोकुलं चारयामास शिशुभिः सह कानने ॥
विजहार च तैः सार्द्धं स्थापयामास गोकुलम् ॥ ३ ॥
क्रीडानिमग्नचित्तोऽयं बालकाश्च मुदाऽन्विताः ॥
भुक्त्वा नवतृणं गावो विषतोयं पपुर्मुने ॥४ ॥
विषाक्तं च जलं पीत्वा दारुणान्तकचेष्टया ॥
ज्वालाभिः कालकूटानां सद्यः प्राणांश्च तत्यजुः ॥५॥
दृष्ट्वा मृतं गोसमूहं गोपाश्चिन्ताकुला भिया ॥
विषण्णवदनाः सर्वे तमूचुमर्धुसूदनम् ॥ ६ ॥
ज्ञात्वा सर्वं जगन्नाथो जीवयामास गोकुलम् ॥
उत्तस्थुस्तत्क्षणं गावो ददृशुः श्रीहरेर्मुखम् ॥७॥
कृष्णः कदम्बमारुह्य यमुनानीरतीरजम् ॥
पपात सर्पभवने नागमध्ये नराकृतिः ॥ ८ ॥
शतहस्तप्रमाणं च जलोत्थानं बभूव ह ॥
बाला हर्षं विषादं च मेनिरे तत्र नारद ॥ ९ ॥
सर्पो नराकृतिं दृष्ट्वा कालियः क्रोधविह्वलः ॥
जग्राह श्रीहरिं तूर्णं तप्तलोहं यथा नरः ॥ 4.19.१० ॥
दग्धकण्ठोदरो नागश्चोद्विग्नो ब्रह्मतेजसा ॥
प्राणा यान्त्येवमुक्त्वा च चकारोद्वमनं पुनः ॥ ११ ॥
भग्नदन्तो रक्तमुखः कृष्णवज्राङ्गचर्वणात् ॥
रक्तवक्त्रस्य भगवानुत्तस्थौ मस्तकोपरि ॥१२॥
नागो विश्वम्भराक्रान्तः स प्राणांस्त्यक्तुमुद्यतः ॥
चकार रक्तोद्वमनं पपात मूर्च्छितो मुने ॥ १३ ॥
दृष्ट्वा तं मूर्छितं नागा रुरुदुः प्रेमविह्वलाः ॥ १४ ॥
केचित्पलायिता भीताः केचित्प्रविविशुर्बिलम् ॥
मरणाभिमुखं कान्तं दृष्ट्वा सा सुरसा सती ॥१५॥
नागिनीभिः सह प्रेम्णा रुरोद पुरतो हरेः ॥
पुटाञ्जलियुता तूर्णं प्रणम्य श्रीहरिं भिया॥
धृत्वा पादारविन्दे च तमुवाच भियाऽऽकुला ॥ १६ ॥
सुरसोवाच ॥ ॥
हे जगत्कान्त मे कान्तं देहि मानं च मानद ॥
पतिः प्राणाधिकः स्त्रीणां नास्ति बन्धुश्च तत्परः ॥ १७ ॥
सकलभुवननाथ प्राणनाथं मदीयं न कुरु वधमनन्त प्रेमसिन्धो सुबन्धो ॥
अखिलभुवनबन्धो राधिकाप्रेमसिन्धो पतिमिह कुरु दानं मे विधातुर्विधातः ॥ १८ ॥
त्रिनयनविधिशेषाः षण्मुखश्चास्यसङ्घैः स्तवनविषयजाड्यात्स्तोतुमीशा न वाणी॥
खलु निखिलवेदाःस्तोतुमन्येऽपि देवाः स्तवनविषयशक्ताः सन्ति सन्तस्तवैव ॥ १९॥
कुमतिरहमधिज्ञा योषितां क्वाधमा वा क्व भुवनगतिरीशश्चक्षुषोऽगोचराऽपि॥
विधिहरिहरशेषैः स्तूयमानश्च यस्त्वमतनुमनुजमीशं स्तोतुमिच्छामि तं त्वाम् ॥ ॥ 4.19.२० ॥
स्तवनविषयभीता पार्वती कस्य पद्मा श्रुतिगणजनयित्री स्तोतुमीशा न यं त्वाम् ॥
कलिकलुषनिमग्ना वेदवेदाङ्गशास्त्र श्रवणविषयमूढा स्तोतुमिच्छामि किं त्वाम्॥२१॥
शयानो रत्नपर्यङ्के रत्नभूषणभूषितः ॥
रत्नभूषणभूषाङ्गो राधावक्षसि संस्थितः॥ ॥ २२ ॥
चन्दनोक्षितसर्वाङ्गः स्मेराननसरोरुहः ॥
प्रोद्यत्प्रेमरसाम्भोधौ निमग्नः सततं सुखात् ॥२३ ॥
मल्लिकामालतीमालाजालैः शोभितशेखरः ॥
पारिजातप्रसूनानां गन्धामोदितमानसः ॥ २४ ॥
पुंस्कोकिलकलध्वानैर्भ्रमरध्वनिसंयुतैः ॥
कुसुमेषु विकारेण पुलकाङ्कितविग्रहः ॥२५॥
प्रियाप्रदत्तताम्बूलं भुक्तवान्यः सदा मुदा ॥
वेदा अशक्ता यं स्तोतुं जडीभूता विचक्षणाः ॥ २६॥
तमनिर्वचनीयं च किं स्तौमि नागवल्लभा ॥
वन्देऽहं त्वत्पदाम्भोजं ब्रह्मेशशेषसेवितम् ॥२७॥
लक्ष्मीसरस्वतीदुर्गा जाह्नवी वेदमातृभिः ॥
सेवितं सिद्धसङ्घैश्च मुनीन्द्रैर्मनुभिः सदा ॥२८॥
निष्कारणायाखिलकारणाय सर्वेश्वरायापि परात्पराय ॥
स्वयम्प्रकाशाय परावराय परावराणामधिपाय ते नमः ॥ २९ ॥
हे कृष्ण हे कृष्ण सुरासुरेश ब्रह्मेश शेषेश प्रजापतीश॥
मुनीश मन्वीश चराचरेश सिद्धीश सिद्धेश गणेश पाहि॥4.19.३०॥
धर्मेश धर्मीश शुभाशुभेश वेदेश वेदेष्वनिरूपितश्च॥
सर्वेश सर्वात्मक सर्वबन्धो जीवीश जीवेश्वर पाहि मत्प्रभुम् ॥ ३१ ॥
इत्येवं स्तवनं कृत्वा भक्तिनम्रात्मकन्धरा ॥
विधृत्य चरणाम्भोजं तस्थौ नागेशवल्लभा ॥ ३२ ॥
नागपत्नीकृतं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः ॥
सर्वपापात्प्रमुक्तस्तु यात्यन्ते श्रीहरेः पदम्॥३३॥
इह लोके हरेर्भक्तिमन्ते दास्यं लभेद्ध्रुवम् ॥
लभते पार्षदो भूत्वा सालोक्यादिचतुष्टयम् ॥ ३४ ॥
नारद उवाच ॥
नागपत्नीवचः श्रुत्वा भगवान्सर्वनन्दनः ॥
प्रहृष्टोत्फुल्लनयनः किमुवाच हरिः स्वयम् ॥ ३९ ॥
कथयस्व महाभाग रहस्यं परमाद्भुतम् ॥
सूत उवाच ॥
नारदस्य वचः श्रुत्वा भगवान्सर्वदर्शनः ॥ ३६ ॥
उवाच परमात्मानं मधुवृन्दं पदेपदे ॥
नारायण उवाच ॥
नागपत्नीवचः श्रुत्वा श्रीकृष्णस्तमुवाच ह ॥ ३७ ॥
पुटाञ्जलियुतां पादे पतितां भयविह्वलाम् ॥
श्रीकृष्ण उवाच ॥
उत्तिष्ठोत्तिष्ठ नागेशे वरं वृणु भयं त्यज ॥ ३८ ॥
गृहाण कान्तं हे मातर्मद्वरादजरामरम् ॥
कालिन्दीह्रदमुत्सृज्य स्वकीयं भवनं व्रज ॥३९॥
भर्त्रा सगोष्ठ्या सार्द्धं च गच्छ वत्से सुखी भव ॥
अद्य प्रभृति नागेशि भूता कन्या च त्वं मम ॥ 4.19.४० ॥
त्वत्प्राणाधिक एवायं जामाता च न संशयः ॥
मत्पादपद्मचिह्नेन गरुडस्त्वत्पतिं शुभे ॥ ४१ ॥
कृत्वा च स्तवनं भक्त्या प्रणमिष्यति मत्पदम् ॥
त्यज त्वं गरुडाद्भीतिं शीघ्रं रमणकं व्रज॥४२॥
ह्रदान्निर्गच्छ वत्से त्वं वरं वृणु यथेप्सितम् ॥
श्रीकृष्णस्य वचः श्रुत्वा प्रसन्नवदनेक्षणा ॥ ४३ ॥
उवाच साश्रुनेत्रा सा भक्तिनम्रात्मकन्धरा ॥
सुरसोवाच ॥ वरं दास्यसि चेदानीं वरदेश्वर मेऽपि च ॥ ४४ ॥
त्वत्पादाब्जे दृढां भक्तिं निश्चलां दातुमर्हसि ॥
मन्मनस्त्वत्पदात्म्भोजे भ्रमतु भ्रमरो यथा ॥ ४२॥
तव स्मृतर्विस्मृतिर्न कदाऽपि न भविष्यति ॥
स्वकान्ते मम सौभाग्यं कान्तोऽयं ज्ञानिनां वरः ॥४६॥
इत्येवं प्रार्थनीयं च परिपूर्णं कुरु प्रभो ॥
इत्येवमुक्त्वा सर्पस्त्री प्रतस्थौ पुरतो हरेः ॥४७॥
शरत्पार्वणचन्द्रास्यं ददर्श श्रीहरेर्मुखम्॥
लोचनाभ्यां पपौ वक्त्रं निमेषरहितं सती ॥ ४८ ॥
सर्वाङ्गपुलकोद्भिन्ना सानन्दाश्रुपरिप्लुता ॥
सुन्दरं बालकं दृष्ट्वा पुत्रस्नेहं प्रकुर्वती॥ ॥ ४९ ॥
उवाच पुनरेवेदं भक्त्युद्रेकपरिप्लुता ॥
न यास्यामि रमणकं तत्र नास्ति प्रयोजनम् ॥ 4.19.५० ॥
सर्पः करोतु संसारं कुरु मां निजकिङ्करीम् ॥
न वाञ्छा मम हे कृष्ण सालोक्यादिचतुष्टये ॥५१॥
त्वत्पदाम्भोजसेवायाः कलां नार्हन्ति षोडशीम् ॥
विना त्वत्पादसेवां च यो वाञ्छति वरान्तरम्॥५२॥
भारते दुर्लभं जन्म लब्ध्वाऽसौ वञ्चितः स्वयम्॥
नागपत्न्या वचः श्रुत्वा स्मेराननसरोरुहः॥५३॥
प्रसन्नमानसः श्रीमानोमित्येवमुवाच ह ॥
एतस्मिन्नन्तरे दिव्यः सद्रत्नसारनिर्मितः ॥ ५४ ॥
आजगाम रथस्तूर्णमुद्दीप्तस्तेजसा मुने ॥
पार्षदप्रवरैर्युक्तो वस्त्रमालापरिच्छदः ॥ ५५ ॥
शतचक्रो वायुवेगो मनोयायी मनोहरः ॥
अवरुह्य रथात्तूर्णं श्यामलाः श्याम किङ्कराः ॥५६॥
प्रणम्य कृष्णं तां नीत्वा जग्मुर्गोलोकमुत्तमम् ॥
हरिश्छायां विनिर्माय ददौ सर्पाय तेजसा ॥९७ ॥
स च किञ्चिन्न बुबुधे मोहितो विष्णुमायया॥
अवरुह्य सर्पमूर्ध्नः श्रीकृष्णः करुणानिधिः॥५८॥
ददौ हस्तं च कृपया शीघ्रं कालियमस्तके ॥
सम्प्राप्य चेतनां सद्यो ददर्श पुरतो हरिम्॥५९॥
पुटाञ्जलियुतां साश्रुपूर्णां च सुरसां सतीम् ॥
प्रणनाम हरिं सद्यो रुरोद प्रेमविह्वलः ॥4.19.६० ॥
भक्त्युद्रेकात्साश्रुनेत्रां पुलकाङ्कितविग्रहाम् ॥
तूष्णीम्भूतां च तां दृष्ट्वा समुवाच कृपानिधिः ॥
यदीश्वरस्य सततं योग्यायोग्ये समा कृपा ॥६१॥
श्रीकृष्ण उवाच ॥
वरं वृणु त्वं कालीय यस्ते मनसि वर्तते ॥६२॥
त्वं मे प्राणाधिको वत्स सुखं तिष्ठ भयं त्यज ॥
तस्याहमनुगृह्णाणि योऽतिभक्तो ममांशजः ॥६३॥
किञ्चित्तद्दमनं कृत्वा त्वत्प्रसादं करोम्यहम् ॥
त्वद्वंशजातान्सर्पांश्च हन्ति यो मानवाधमः ॥ ६४॥
ब्रह्महत्यासमं पापं भविता तस्य निश्चितम् ॥
मत्पादपद्मचिह्ने यः करोति दण्डताडनम् ॥५५॥
द्विगुणं ब्रह्महत्याया भविता तस्य किल्बिषम्॥
लक्ष्मीर्यास्यति तद्गेहाच्छापं दत्त्वा सुदारुणम् ॥६६॥
वंशायुर्यशसा हानिर्भविता तस्य निश्चितम् ॥
ध्रुवं वर्षशतं कालसूत्रे यास्यति मद्गिरा ॥६७॥
त्वत्प्रमाणाः कीटसङ्घा दंशिष्यन्ति च सन्ततम् ॥
भोगान्ते जन्म लब्ध्वा च तन्मृत्युस्तस्य दंशनात् ॥ ६८ ॥
तस्य वंशोद्भवानां च त्वद्वंशाद्भविता भयम् ॥
ये च त्वद्वंशजान्दृष्ट्वा सुपदाङ्कं मदीयकम् ॥ ६९ ॥
प्रणमिष्यन्ति भक्त्या ते मुच्यन्ते सर्वपातकात् ॥
गच्छ शीघ्रं रमणकं त्यज भीतिं खगाधिपात् ॥4.19.७०॥
मत्पदाङ्कं मूर्ध्नि दृष्ट्वा त्वां भक्त्या प्रणमिष्यति ॥
तव त्वद्वंशजानां च गरुडान्न भयं क्वचित् ॥७१॥
सर्वेषां ज्ञातिसर्पाणां वरोऽद्य भव मद्वरात् ॥
वरं किं परमं वत्स वाञ्छितं वरयाधुना ॥ ७२ ॥
भयं त्यक्त्वा कथय मां त्वदीयं दुःखभञ्जनम् ॥
श्रीकृष्णवचनं श्रुत्वा कालियः कम्पितो भिया ॥
पुटाञ्जलियुतो भूत्वा तमुवाच भुजङ्गमः ॥ ७३ ॥
कालिय उवाच ॥
वरेऽन्यस्मिन्मम विभो वाञ्छा नास्ति वरप्रद ॥ ॥ ७४ ॥
भक्तिं स्मृतिं त्वत्पदाब्जे देहि जन्मनि जन्मनि ॥
जन्म ब्रह्मकुले वाऽपि तिर्यग्योनिषु वा समम् ॥ ७५ ॥
तद्भवेत्सफलं यत्र स्मृतिस्त्वच्चरणाम्बुजे ॥
तन्निष्फलः स्वर्गवासो नास्ति चेत्त्वत्पदस्मृतिः ॥ ७६ ॥
त्वत्पादध्यानयुक्तस्य यत्तत्स्थानं च तत्परम् ॥
क्षणं वा कोटिकल्पं वा पुरुषायुः क्षयोऽस्तु वा ॥ ७७ ॥
यदि त्वत्सेवया याति सफलो निष्कलोऽथवा ॥
तेषां चायुर्व्ययो नास्ति ये त्वत्पादाब्जसेवकाः॥७८॥
न सन्ति जन्ममरणरोगशोकार्तिभीतयः ॥
इन्द्रत्वे वाऽमरत्वे वा ब्रह्मत्वे चातिदुर्लभे॥७९॥
वाञ्छा नास्त्येव भक्तानां त्वत्पादसेवनं विना ॥
सुजीर्णपटखण्डस्य समं नूतनमेव च ॥ 4.19.८० ॥
पश्यन्ति भक्ताः किं चान्यत्सालोक्यादिचतुष्टयम् ॥
सम्प्राप्तस्त्वन्मनुर्ब्रह्मन्ननन्ताद्यावदेव हि ॥८१॥
तावत्त्वद्भावनेनैव त्वद्वर्णोऽहमनुग्रहात् ॥
मां च भक्तमपक्वं वा विज्ञाय गरुडः स्वयम् ॥ ॥ ८२ ॥
देशाद् दूरं च न्यक्कारं चकार दृढभक्तिमान् ॥
भवता च दृढां भक्तिं दत्त्वा मे वरदेश्वर ॥८३॥
स च उक्तश्च भक्तोऽहं न मां त्यक्तुं क्षमोऽधुना ॥
त्वत्पादपद्मचिह्नाक्तं दृष्ट्वा श्रीमस्तकं मम ॥८४॥
सदोषं गुणयुक्तं मां सोऽधुना त्यक्तुमक्षमः ॥
ममाराध्याश्च नागेन्द्रा न तद्वध्योऽहमीश्वर ॥ ८५ ॥
भयं न केभ्यः सर्वत्र तमनन्तं गुरुं विना ॥
यं देवेन्द्राश्च देवाश्च मुनयो मनवो नराः ॥ ८६ ॥
स्वप्ने ध्यानेन पश्यन्ति चक्षुषोर्गोचरः स मे ॥
भक्तानुरोधात्साकारः कुतस्ते विग्रहो विभो ॥ ८७ ॥
सगुणत्वं च साकारो निराकारश्च निर्गुणः ॥
स्वेच्छामयः सर्वधाम सर्वबीजं सनातनम् ॥ ८८ ॥
सर्वेषामीश्वरः साक्षी सर्वात्मा सर्वरूपधृक् ॥
ब्रह्मेशशेषधर्मेन्द्रा वेदवेदाङ्गपारगाः ॥८९॥
स्तोतुं यमीशं ते जाड्याः सर्पः स्तोष्यति तं विभुम् ॥
हे नाथ करुणासिन्धो दीनबन्धो क्षमाधमम् ॥ 4.19.९० ॥
खलस्वभावादज्ञानात्कृष्ण त्वं चर्वितो मया ॥
नास्त्रलक्ष्यो यथाकाशो न दृश्यान्तो न लङ्घ्यकः ॥ ९१ ॥
न स्पृश्यो हि न चावर्यस्तथा तेजस्त्वमेव च ॥
इत्येवमुक्त्वा नागेन्द्रः पपात चरणाम्बुजे ॥ ९२ ॥
ओमित्युक्त्वा हरिस्तुष्टः सर्वं तस्मै वरं ददौ ॥
नागराजकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् ॥ ९३ ॥
तद्वंश्यानां च तस्यैव नागेभ्यो न भयं भवेत् ॥
स नागशय्यां कृत्वैव स्वप्तुं शक्तः सदा भुवि ॥ ९४ ॥
विषपीयूषयोर्भेदो नास्त्येव तस्य भक्षणे ॥
नागग्रस्ते नागघाते प्राणान्ते विषभोजनात् ॥ ९९ ॥
स्तोत्रस्मरणमात्रेण सुस्थो भवति मानवः ॥
भूर्जे कृत्वा स्तोत्रमिदं कण्ठे वा दक्षिणे करे ॥९६॥
बिभर्ति यो भक्तियुक्तो नागेभ्योऽपि न तद्भयम् ॥
यत्र गेहे स्तोत्रमिदं नागस्तत्र न तिष्ठति ॥ ९७ ॥
विषाग्निवज्रभीतिश्च न भवेत्तत्र निश्चितम् ॥
इह लोके हरेर्भक्तिं स्मृतिं च सततं लभेत् ॥
अन्ते च स्वकुलं पूत्वा दास्यं च लभते ध्रुवम् ॥ ९८ ॥
श्रीनारायण उवाच ॥
नागेन्द्राय वरं दत्त्वा पुनस्तं जगदीश्वरः ॥
उवाच मधुरं वाक्यं परिणामसुखावहम् ॥ ९९ ॥
श्रीकृष्ण उवाच ॥
गच्छ त्वं च रमणकं यथेन्द्रनगरं परम् ॥ ॥ 4.19.१०० ॥
सार्द्धं स्वगोष्ठ्या नागेन्द्र यमुनाजलवर्त्मना॥
श्रुत्वा नागो हरेराज्ञां रुरोद प्रेमविह्वलः ॥ १०१ ॥
कदा द्रक्ष्यामि त्वत्पादपद्मं नाथेत्युवाच ह ॥
प्रणम्य शतकृत्वश्च स्त्रिया गोष्ठ्या सहेश्वरम् ॥ १०२ ॥
जगाम जलमार्गेण नागेन्द्रो विरहातुरः ॥
यमुना ह्रदतोयं च बभूवामृतकल्पकम् ॥ १०३ ॥
प्रसन्ना जन्तवः सर्वे बभूवुस्तेन नारद ॥
गत्वा ददर्श भवनं यथेन्द्रनगरं परम् ॥ १०४ ॥
आज्ञया च कृपासिन्धोर्निर्मितं विश्वकर्मणा ॥
तत्र तस्थौ च नागेन्द्रः स्त्रिया पुत्रगणैः सह ॥१०५॥
निःशङ्को हर्षयुक्तश्च हरिभावन तत्परः ॥
इत्येवं कथितं सर्वं हरेश्चरितमद्भुतम् ॥
सुखदं मोक्षदं सारं परं किं श्रोतुमिच्छसि ॥ १०६ ॥
सूत उवाच ॥
महर्षेर्वचनं श्रुत्वा नारदो हर्षविह्वलः ॥
ऋषिं पप्रच्छ सन्देहं सर्वसन्देहभञ्जनम् ॥ १०७ ॥
नारद उवाच ॥
कथं विहाय कालीयः स्वपूर्वभवनं परम् ॥
जगाम यमुनातीरं तन्मे ब्रूहि जगद्गुरो ॥ १०८ ॥
श्रीनारायण उवाच ॥
शृणु नारद वक्ष्येऽहमितिहासं पुरातनम् ॥ १०९ ॥
यच्छ्रुतं धर्मवक्त्रान्मे मलये सूर्यपर्वणि ॥
कृष्णाख्यानप्रसङ्गेन सुप्रभा पश्चिमे तटे ॥ 4.19.११० ॥
पप्रच्छ धर्मं पुलहः कथितं मुनिसंसदि ॥
इदमाख्यानमाश्चर्यमुवाच तं कृपानिधिः ॥ १११ ॥
तत्र श्रुतं मया विप्र निबोध कथयामि ते ॥
शेषाज्ञया नागगणा प्रतिसंवत्सरं भिया ॥ ११२ ॥
कार्तिकीपूर्णिमायां तु कुर्वन्ति गरुडार्चनम् ॥
पुष्पैर्धूपैश्च दीपैश्च नैवेद्यैर्बलिभिर्मुदा ॥ ११३ ॥
पुष्करे च महातीर्थे सुस्नाता भक्तिसंयुताः ॥
तस्य पूजां च कालीयो न चकारात्यहङ्कृतः ॥ ११४ ॥
नागपूजोपकरणं बलाद्भक्षितुमुद्यतः ॥
चक्रुर्निवारणं नागा नीतिमूचुर्मदोद्धतम् ॥११५॥
न शक्ता वारणे ते चेत्याविर्भूतः खगेश्वरः ॥
दृष्ट्वा खगेश्वरं नागाः कालीयप्राणरक्षया ॥११६॥
प्राणशक्त्या च युयुधुर्यावत्सूर्योदयं मुने ॥
पक्षीन्द्रतेजसा सर्वे समुद्विग्नाः पलायिताः ॥ ११७ ॥
अनन्तं शरणं जग्मुः सर्वेषामभयप्रदम् ॥
पलायनपरान्दृष्ट्वा नागांश्च करुणानिधिः ॥ ११८ ॥
तत्र तस्थौ च निःशङ्कः कालीयस्तं ददर्श ह ॥
स्मृत्वा हरिपदाम्भोजं कालीयो युयुधे मुने ॥ ११९ ॥।
मुहूर्तं च तयोर्युद्धं बभूवातीव दारुणम् ॥
पराजितश्च नागेन्द्रस्तेजसा गरुडस्य च ॥ 4.19.१२० ॥
भिया पलायनं कृत्वा जगाम यमुना ह्रदम् ॥
न तं सौभरिशापेन खगेन्द्रो गन्तुमीश्वरः ॥
तत्र तस्थौ भिया नागो जग्मुः पश्चाच्च तद्गणाः ॥ १२१ ॥
नारद उवाच ॥
कथं तु सौभरेः शापो बभूव गरुडाय वै ॥
कथं न शक्तो गन्तुं तं ह्रदमीश्वरवाहनः ॥ १२२ ॥
श्रीनारायण उवाच ॥
दिव्यं वर्षसहस्रं च वर्षाणां तत्र सौभरिः ॥१२३॥
तपस्तप्त्वा महासिद्धो दध्यौ कृष्णपदाम्बुजम् ॥
समीपे ध्यायमानस्य कूले च यमुना जले ॥ १२४ ॥
गणेन सार्धं निःशङ्कः करोति भ्रमणं मुदा ॥
पुच्छमुत्फाल्य बहुधा परितः परमेच्छया ॥ १२५ ॥
मुनिं प्रदक्षिणी कृत्य यात्यायाति मुदाऽन्वितः ॥
सकुलं सुमहात्मानं दर्शन्दर्शं खगाधिपः ॥१२६॥
जग्राह चञ्चुना मीनं मुनीन्द्रस्य समीपतः ॥
गच्छन्तं तं मीनमुखं ददर्श कोपचक्षुषा ॥ १२७ ॥
प्रकोपितो मुनेर्दृष्ट्या मीनस्तोये पपात ह ॥
तमुवाच मुनीन्द्रश्च पुनरादातुमुद्यतम् ॥
मीनश्च गरुडत्रासात्तस्थौ मुनिसमीपतः ॥ १२८ ॥
सौभरिरुवाच ॥
गच्छ दूरं गच्छ दूरं खगेन्द्र मत्समीपतः ॥ १२९ ॥
का योग्यता मत्पुरस्ते ग्रहीतुं जीवमुल्बणम्॥
श्रीकृष्णवाहनं ज्ञात्वा चात्मानं बहु मन्यसे ॥4.19.१३०॥
त्वद्विधान्कोटिशः कृष्णः स्रष्टुं शक्तश्च वाहकान् ॥
करोमि भस्मसात्तूर्णं त्वां च भ्रूभङ्गलीलया ॥ १३१ ॥
वाहनं च त्वमीशस्य न वयं तव किङ्कराः ॥
अद्य प्रभृति पक्षीन्द्र यद्यागच्छसि मे ह्रदम् ॥ १३२ ॥
मदीयशापात्तूर्णं च भस्मसाद्भविता ध्रुवम् ॥
मुनीन्द्रस्य वचः श्रुत्वा प्रचचाल खगेश्वरः ॥ १३३ ॥
स्मारंस्मारं कृष्णपादं तं प्रणम्य जगाम ह ॥
अद्यप्रभृति विप्रेन्द्र पतगेन्द्रस्य सन्ततम् ॥ १३४ ॥
ह्रदस्य श्रुतिमात्रेण कम्पो भवति निश्चितम् ॥
इतिहासश्च कथितो यः श्रुतो धर्मवक्त्रतः ॥ १३५ ॥
सरहस्यं श्रुतिसुखं प्रकृतं शृणु मङ्गलम् ॥
विज्ञाय सुचिरं बाला नोत्तस्थौ तज्जलाद्धरिः ॥ १३६ ॥
चक्रुर्विषादं मोहाच्च रुरुदुर्यमुनातटे ॥
स्ववक्षोघातनं चक्रुः केचिद्बालाः शुचाऽऽकुलाः ॥ १३७ ॥
केचिन्निपत्य भूमौ च मूर्च्छां प्रापुहरिं विना ॥
ह्रदं प्रवेष्टुं केचिच्च विरहेण समन्विताः॥१३८॥
केचिद्गोपालबालाश्च चक्रुश्च तन्निवारणम् ॥
कृत्वा विलापं केचिच्च प्राणांस्त्यक्तुं समुद्यताः ॥१३९॥
तेषां केचिज्ज्ञानवन्तो रक्षां चक्रुः प्रयत्नतः ॥
केचिदूचुश्च हाहेति कृष्ण कृष्णेति केचन ॥ 4.19.१४० ॥
केचिद्वक्तुं प्रवृत्तिं च प्रययुर्नन्दसन्निधिम् ॥
केचित्सम्मीलितास्तत्र शोकमोहभयातुराः ॥ १४१ ॥
इत्यूचुः किं करिष्यामः कुतोऽस्माकं गतो हरिः ॥
हे नन्दसूनो हे कृष्ण प्राणेभ्योऽप्यधिकप्रिय ॥ १४२ ॥
हे बन्धो दर्शनं देहीत्यूचुः प्राणाः प्रयान्ति हि ॥
एतस्मिन्नन्तरे केचिद्बालका नन्दसन्निधिम् ॥ १४३ ॥
सम्प्रापुरतिलोलाश्च रुदन्तः शोकविह्वलाः ॥
प्रवृत्तिमूचुस्तं शीघ्रं यशोदां मूलतो बलम् ॥१४४॥
गोपान्गोपालिकाश्चैव रक्तपङ्कजलोचनाः ॥
श्रुत्वा वार्तां च ते सर्वे शीघ्रं जग्मुः शुचाऽन्विताः ॥१४५॥
कलिन्दनन्दिनीतीरं रुरुदुर्बालकैर्युताः ॥
गत्वा सम्मीलिताः सर्वे रुरुदुः शोकमूर्च्छिताः॥१४६॥
ह्रदं विशन्तीमम्बां तां केचिच्चक्रुर्निवारणम् ॥
गोपा गोपालिकाश्चैव जघ्नुरङ्गानि शोकतः ॥१४७॥
केचिद्विललपुस्तत्र मूर्च्छां प्रापुश्च केचन ॥
ह्रदं विशन्तीं तां राधां वारयामास काचन ॥ १४८ ॥
मूर्च्छां च प्राप सा शोकान्मृतेव च सरित्तटे ॥
विलप्यातिभृशं नन्दो मूर्च्छां प्राप पुनः पुनः ॥ १४९ ॥
भूयोऽपि रोदनं कृत्वा भूयो मूर्च्छामवाप ह ॥
विलपन्तं भृशं नन्दं यशोदां शोककर्शिताम् ॥ 4.19.१५० ॥
गोपाश्च गोपिकाश्चैव राधिकामतिमूर्च्छिताम् ॥
रुदतो बालकान्सर्वान्बालिकाश्च शुचाऽन्विताः ॥
सर्वांश्च बोधयामास बलश्च ज्ञानिनां वरः ॥ १५१ ॥
श्रीबलदेव उवाच ॥
गोपा गोपालिका बालाः सर्वे शृणुत मद्वचः ॥ १५२ ॥
हे नन्द ज्ञानिनां श्रेष्ठ गर्गवाक्यस्मृतिं कुरु ॥
जगद्बिभर्तुः शेषस्य संहर्तुः शङ्करस्य च ॥१५३॥
विधातुः संविधातुश्च भुवि कस्मात्पराजयः ॥
परमाणुः परो व्यूहः स्थूलात्स्थूलः परात्परः ॥ १५४ ॥
विद्यमानोऽप्यविदृश्यः संयोगो योगिनामपि ॥
दिशां नास्ति समाहारः स्पृश्यो नाकाश एव च ॥ १५५ ॥
अपि सर्वेश्वरो बाध्य इत्यूचुः श्रुतयः स्फुटम् ॥
नात्मा दृश्यो नास्त्रलक्ष्यो न वध्यो न हि दृश्यकः ॥ १५५ ॥
नाग्निग्रस्तो न हिंस्यश्चापीदमाध्यात्मिका विदुः ॥
विग्रहोऽस्यैव कृष्णस्य भक्तध्यानार्थमेव च ॥ १५७ ॥
ज्योतिःस्वरूपस्य विभोर्नाद्यन्तमध्यमात्मनः ॥
जलप्लुते च ब्रह्माण्डे जलशायी जनार्दनः ॥ १५८ ॥
यन्नाभिपद्मजो ब्रह्मा तस्येशस्य ह्रदे विपत् ॥
मशकश्चेत्क्षमो ग्रस्तुं ब्रह्माण्डमखिलं पितः ॥ १५९ ॥
न तथाऽपि तदीशं तं ग्रस्तुं सर्पः क्षमो भवेत् ॥
इत्येवं कथितं सर्वमाध्यात्मिकमनुत्तमम् ॥ 4.19.१६० ॥
निगूढं योगिनां सारं संशयच्छेदकारणम् ॥
बलदेववचः श्रुत्वा गर्गवाक्यमनुस्मरन् ॥ १६१ ॥
तत्याज शोकं नन्दश्च व्रजश्च व्रजयोषितः ॥
प्रबोधं मेनिरे सर्वे न यशोदा न राधिका ॥ १६२ ॥
बन्धुविच्छेदविषये प्रबोधे न स्थितं मनः ॥
एतस्मिन्नन्तरे कृष्णमुत्पतन्तं जलान्मुने ॥ १६३ ॥
ददृशुस्तं सुप्रसन्ना व्रजाश्च व्रजयोषितः ॥
शरत्पार्वणचन्द्रास्यं सस्मितं सुमनोहरम् ॥ १६४ ॥
अस्निग्धवस्त्रमस्निग्धमलुप्तचन्दनाञ्जनम् ॥
सर्वाभरणसंयुक्तं ज्वलन्तं ब्रह्मतेजसा ॥ १६५ ॥
मयूरपिच्छचूडं च वंशीवदनमच्युतम् ॥
यशोदा बालकं दृष्ट्वा कृत्वा वक्षसि सस्मिता ॥ १६६ ॥
चुचुम्ब वदनाम्भोजं प्रसन्नवदनेक्षणा ॥
क्रोडे चकार नन्दश्च बलश्च रोहिणी मुदा ॥ १६७ ॥
निमेषरहिताः सर्वे ददृशुः श्रीमुखं हरेः ॥
प्रेमान्धा बालकाः सर्वे चक्रुरालिङ्गनं हरेः ॥ १६८ ॥
पपुश्चक्षुश्चकोरैश्च मुखचन्द्रं च गोपिकाः ॥
एतस्मिन्नन्तरे तत्र सहसा काननान्तरम् ॥ १५९ ॥
दावाग्निर्वेष्टयामास तैः सर्वैः सह गोकुलम् ॥
दृष्ट्वा शैलप्रमाणाग्निं परितः काननान्तरे ॥ 4.19.१७० ॥
प्रणाशं मेनिरे सर्वे भयमापुश्च सङ्कटे ॥
श्रीकृष्णं तुष्टुवुः सर्वे सम्पुटाञ्जलयो व्रजाः ॥
बाला गोप्यश्च सन्त्रस्ता भक्तिनम्रात्मकन्धराः ॥ १७१ ॥
बाला ऊचुः ॥
यथा संरक्षितं ब्रह्मन्सर्वापत्स्वेव नः कुलम् ॥ ॥ १७२ ॥
तथा रक्षां कुरु पुनर्दावाग्नेर्मधुसूदन ॥
त्वमिष्टदेवताऽस्माकं त्वमेव कुलदेवता ॥ १७३ ॥
स्रष्टा पाता च संहर्ता जगतां च जगत्पते ॥
वह्निर्वा वरुणो वाऽपि चन्द्रो वा सूर्य एव च ॥ १७४ ॥
यमः कुबेरः पवन ईशानाद्याश्च देवताः ॥
ब्रह्मेशशेषधर्मेन्द्रा मुनीन्द्रा मनवः स्मृताः ॥ १७५ ॥
मानवाश्च तथा दैत्या यक्षराक्षसकिन्नराः ॥
ये ये चराचराश्चैव सर्वे तव विभूतयः ॥ १७६ ॥
आविर्भावस्तिरोभावः सर्वेषां च तथेच्छया॥
अभयं देहि गोविन्द वह्निसंहरणं कुरु ॥ १७७ ॥
वयं त्वां शरणं यामो रक्ष नः शरणागतान् ॥
इत्येवमुक्त्वा ते सर्वे तस्थुर्ध्यात्वा पदाम्बुजम् ॥ १७८ ॥
दूरीभूतस्तु दावाग्निः श्रीकृष्णामृतदृष्टितः ॥
दूरीभूते च दावाग्नौ ननृतुस्ते मुदाऽन्विताः ॥ १७९ ॥
सर्वापदः प्रणश्यन्ति हरिस्मरणमात्रतः ॥
इदं स्तोत्रं महापुण्यं प्रातरुत्थाय यः पठेत् ॥ 4.19.१८० ॥
वह्नितो न भवेत्तस्य भयं जन्मनि जन्मनि ॥
शत्रुग्रस्ते च दावाग्नौ विपत्तौ प्राणसङ्कटे ॥ १८१ ॥
स्तोत्रमेतत्पठित्वा तु मुच्यते नात्र संशयः ॥
शत्रुसैन्यं क्षयं याति सर्वत्र विजयी भवेत् ॥
इह लोके हरेर्भक्तिमन्ते दास्यं लभेद्ध्रुवम् ॥ १८२ ॥
श्रीनारायण उवाच ॥
दावाग्निमोक्षणं कृत्वा तैः सार्द्धं शृणु नारद ॥
जगाम श्रीहरिर्गेहं कुबेरभवनोपमम् ॥ १८३ ॥
ब्राह्मणेभ्यो धनं नन्दः परिपूर्णं ददौ मुदा ॥
भोजनं कारयामास ज्ञातिवर्गांश्च बान्धवान् ॥ १८४ ॥
नानाविधं मङ्गलं च हरेर्नामानुकीर्तनम्॥
वेदांश्च पाठयामास विप्रद्वारा मुदाऽन्वितः ॥ १८५ ॥
एवं मुमुदिरे सर्वे वृन्दारण्ये गृहेगृहे ॥
श्रीकृष्णचरणाम्भोजध्यानैकतानमानसाः ॥१८६॥
इत्येवं कथितं सर्वं हरेश्चरितमङ्गलम् ॥
कलिकिल्बिषकाष्ठानां दहने दहनोपमम् ॥१८७॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्म खण्डे नारायणनारदसंवादे कालीयदमनदावाग्निमोक्षणं नामैकोनविंशोऽध्यायः ॥ १९ ॥