॥ शौनक उवाच ॥
अहो किमद्भुतं सूत रहस्यं सुमनोहरम् ॥
श्रुतं कृष्णस्य चरितं सुखदं मोक्षदं परम् ॥ १ ॥
सूत उवाच ॥
श्रुत्वा नगरनिर्माणं नारदो मुनिसत्तमः ॥
पप्रच्छ कृष्णचरितमपरं सुमनोहरम् ॥ २ ॥
नारद उवाच ॥
श्रीकृष्णाख्यानचरितं पीयूषमृषिसत्तम ॥
ज्ञानसिन्धो निगद मां शिष्यं च शरणागतम् ॥ ३ ॥
नारदस्य वचः श्रुत्वा मुदा नारायणः स्वयम् ॥
उवाच परमीशस्य चरितं परमाद्भुतम् ॥ ४ ॥
श्रीनारायण उवाच ॥
एकदा बालकैः सार्धं बलेन सह माधवः ॥
जगाम श्रीमधुवनं यमुनातीरनीरजम् ॥ ५ ॥
विचेरुर्गोसहस्रैश्च चिक्रीडुर्बालकास्तदा ॥
विश्रान्तास्तृट्परीताश्च क्षुधा च परिपीडिताः ॥ ६ ॥
तमूचुर्गोपशिशवः श्रीकृष्णं परया मुदा ॥
क्षुदस्मान्बाधते कृष्ण किं कुर्मो ब्रूहि किङ्करान्॥७॥
शिशूनां वचनं श्रुत्वा तानुवाच दयानिधिः ॥
हितं तथ्यं च वचनं प्रसन्नवदनेक्षणः ॥८॥
श्रीकृष्ण उवाच ॥
बाला गच्छत विप्राणां यज्ञस्थानं सुखावहम् ॥
अन्नं याचत ताञ्छीघ्रं ब्राह्मणांश्च क्रतून्मुखान् ॥ ९ ॥
विप्रा आङ्गिरसाः सर्वे स्वाश्रमे श्रीवनान्तिके ॥
यज्ञं कुर्वन्ति विप्राश्च श्रुतिस्मृतिविशारदाः ॥4.18.१०॥
निःस्पृहा वैष्णवाः सर्वे मां यजन्ति मुमुक्षवः।
मायया मां न जानन्ति मायामानुषरूपिणम् ॥ ११ ॥
न चेद्ददति युष्मभ्यमन्नं विप्राः क्रतून्मुखाः ॥
तत्कान्ता याचत क्षिप्रं दयायुक्ताः शिशून्प्रति ॥ १२ ॥
श्रीकृष्णवचनं श्रुत्वा ययुर्बालकपुङ्गवाः ॥
पुरतो ब्राह्मणानां च तस्थुरानम्रकन्धराः ॥ १३ ॥
इत्यूचुर्बालकाः शीघ्रमन्नं दत्त द्विजोत्तमाः ॥
न शुश्रुवुर्द्विजाः केचित्केचिच्छ्रुत्वा स्थिताः स्थिताः॥१४॥
ते ययू रन्धनागारं ब्राह्मण्यो यत्र पाचिकाः ॥
गत्वा बाला विप्रभार्याः प्रणेमुर्नतकन्धराः ॥ १९ ॥
नत्वोचुर्बालकाः सर्वे विप्रभार्याः पतिव्रताः ॥
अन्नं दत्त मातरोऽस्मान्क्षुधार्तान्बालकानपि ॥ १६ ॥
बालानां वचनं श्रुत्वा दृष्ट्वा तांश्च मनोहरान् ॥
पप्रच्छुः सादरं साध्व्यः स्मेराननसरोरुहाः ॥१७॥
विप्रपत्न्य ऊचुः ॥
के यूयं प्रेषिताः केन कानि नामानि कोविदाः ॥
दास्यामोऽन्नं बहुविधं व्यञ्जनैः सहितं वरम् ॥ १८ ॥
ब्राह्मणीनां वचः श्रुत्वा ता ऊचुस्ते मुदाऽन्विताः ॥
स्निग्धा हसन्तः स्फीताश्च सर्वे गोपालबालकाः ॥ १९ ॥
बाला ऊचुः ॥
प्रेषिता रामकृष्णाभ्यां वयं क्षुत्पीडिता भृशम् ॥
दत्तान्नं मातरोऽस्मभ्यं क्षिप्रं यामस्तदन्तिकम् ॥ 4.18.२० ॥
इतो विदूरे भाण्डीरे वनाभ्यन्तरमेव च ॥
वटमूले मधुवने वसन्तौ रामकेशवौ ॥ २१ ॥
विश्रान्तौ क्षुधितौ तौ च याचेतेऽन्नं च मातरः ॥
किमु देयमदेयं वा शीघ्रं वदत नोऽधुना ॥ २२ ॥
गोपानां वचनं श्रुत्वा हृष्टानन्दाश्रुलोचनाः ॥
पुलकाङ्कितसर्वाङ्गास्तत्पादाब्जमनोरथाः ॥ २३ ॥
नानाव्यञ्जनसंयुक्तं शाल्यन्नं सुमनोहरम्॥
पायसं पिष्टकं स्वादु दधि क्षीरं घृतं मधु ॥ २४ ॥
रौप्ये कांस्ये राजते च पात्रे कृत्वा मुदाऽन्विताः ॥
ताः सर्वा विप्रपत्न्यश्च प्रययुः कृष्णसन्निधिम् ॥ २५ ॥
नानामनोरथं कृत्वा मनसा गमनोत्सुकाः ॥
पतिव्रतास्ता धन्याश्च श्रीकृष्णदर्शनोत्सुकाः ॥ २६ ॥
श्रीकृष्णं ददृशुर्गत्वा रामं च सह बालकम् ॥
वटमूले वसन्तं तमुडुमध्ये यथोडुपम् ॥ २७ ॥
श्यामं किशोरवयसं पीतकौशेयवाससम् ॥
सुन्दरं सस्मितं शान्तं राधाकान्तं मनोहरम् ॥२८॥
शरत्पार्वणचन्द्रास्यं रत्नालङ्कारभूषितम् ॥
रत्नकुण्डलयुग्माभ्यां गण्डस्थलविराजितम् ॥ २९ ॥
रत्नकेयूरवलयरत्ननूपुरभूषितम् ॥
आजानुलम्बितां शुभ्रां बिभ्रतं रत्नमालिकाम् ॥ 4.18.३० ॥
मालतीमालया कण्ठवक्षःस्थलविराजितम्॥
चन्दनागुरुकस्तूरीकुङ्कुमाञ्चितविग्रहम् ॥३१ ॥
सुनखं सुकपोलं च पक्व बिम्बाधरं वरम् ॥
पक्वदाडिमबीजाभं बिभ्रतं दन्तमुत्तमम् ॥ ३२ ॥
शिखिपिच्छसमायुक्तं बद्धचूडं परात्परम्॥
कदम्बपुष्पयुग्माभ्यां कर्णमूले विराजितम् ॥ ३३ ॥
ध्यानासाध्यं योगिनां च भक्तानुग्रहकातरम्॥
ब्रह्मेशधर्मशेषेन्द्रैः स्तूयमानं मुनीश्वरैः ॥ ३४ ॥
दृष्ट्वैवमीश्वरं भक्त्या प्रणेमुर्द्विजयोषितः ॥
स्वानां ज्ञानानुरूपं च तुष्टुवुर्मधुसूदनम् ॥ ३५ ॥
विप्रपत्न्य ऊचुः ॥
त्वं ब्रह्म परमं धाम निरीहो निरहङ्कृतिः ॥
निर्गुणश्च निराकारः साकारः सगुणः स्वयम् ॥३६॥
साक्षिरूपश्च निर्लिप्तः परमात्मा निराकृतिः ॥
प्रकृतिः पुरुषस्त्वं च कारणं च तयोः परम्॥ ३७॥
सृष्टिस्थित्यन्तविषये ये च देवास्त्रयः स्मृताः ॥
ते त्वदंशाः सर्वबीजा ब्रह्मविष्णुमहेश्वराः ॥ ॥ ३८ ॥
यस्य लोम्नां च विवरे चाखिलं विश्वमीश्वर॥
महाविराण्महाविष्णुस्त्वं तस्य जनको विभो ॥ ३९ ॥
तेजस्त्वं चापि तेजस्वी ज्ञानं ज्ञानी च तत्परः ॥
वेदेऽनिर्वचनीयस्त्वं कस्त्वां स्तोतुमिहेश्वरः ॥ 4.18.४० ॥
महदादिसृष्टिसूत्रं पञ्चतन्मात्रमेव च ॥
बीजं त्वं सर्वशक्तीनां सर्वशक्तिस्वरूपकः ॥ ४१ ॥
सर्वशक्तीश्वरः सर्वः सर्वशक्त्याश्रयः सदा ॥
त्वमनीहः स्वयञ्ज्योतिः सर्वानन्दः सनातनः ॥ ४२ ॥
अहोऽप्याकारहीनस्त्वं सर्वविग्रहवानपि॥
सर्वेन्द्रियाणां विषयं जानासि नेन्द्रियी भवान् ॥ ४३ ॥
सरस्वती जडीभूता यत्स्तोत्रे यन्निरूपणे॥
जडीभूतो महेशश्च शेषो धर्मो विधिः स्वयम्॥ ४४ ॥
पार्वती कमला राधा सावित्री वेदसूरपि ॥
वेदश्च जडतां याति के वा शक्ता विपश्चितः ॥ ४९ ॥
वयं किं स्तवनं कुर्मः स्त्रियः प्राणेश्वरेश्वर ॥
प्रसन्नो भव नो देव दीनबन्धो कृपां कुरु॥ ॥ ४६ ॥
इति पेतुश्च ता विप्रपत्न्यस्तच्चरणाम्बुजे ॥
अभयं प्रददौ ताभ्यः प्रसन्नवदनेक्षणः ॥४७॥
विप्रपत्नीकृतं स्तोत्रं पूजाकाले च यः पठेत् ॥
स गतिं विप्रपत्नीनां लभते नात्र संशयः ॥ ४८ ॥
नारायण उवाच ॥
ताः पदाम्भोजपतिता दृष्ट्वा श्रीमधुसूदनः ॥
वरं वृणुत कल्याणं भविता चेत्युवाच ह ॥ ४९ ॥
श्रीकृष्णस्य वचः श्रुत्वा विप्रपन्त्यो मुदाऽन्विताः॥
तमूचुर्वचनं भक्त्या भक्तिनम्रात्मकन्धराः ॥4.18.५०॥
द्विजपत्न्य ऊचुः ॥
वरं कृष्ण न गृह्णीमो नः स्पृहा त्वत्पदाम्बुजे ॥
देहि स्वं दास्यमस्मभ्यं दृढां भक्तिं सुदुर्लभाम् ॥ ५१ ॥
पश्यामोऽनुक्षणं वक्त्रसरोजं तव केशव ॥
अनुग्रहं कुरु विभो न यास्यामो गृहं पुनः ॥ ५२ ॥
द्विजपत्नीवचः श्रुत्वा श्रीकृष्णः करुणानिधिः ॥
ओमित्युक्त्वा त्रिलोकेशस्तस्थौ बालकसंसदि॥ ५३ ॥
प्रदत्तं विप्रपत्नीभिर्मिष्टमन्नं सुधोपमम् ॥
बालकान्भोजयित्वा तु स्वयं च बुभुजे विभुः॥५४॥
एतस्मिन्नन्तरे तत्र शातकुम्भं रथं परम् ॥
ददृशुर्विप्रपत्न्यश्च पतन्तं गगनादहो ॥५५॥
रत्नदर्पणसंयुक्तं रत्नसारपरिच्छदम् ॥
रत्नस्तम्भैर्निबद्धं च सद्रत्नकलशोज्ज्वलम् ॥५६॥
श्वेतचामरसंयुक्तं वह्निशुद्धांशुकान्वितम् ॥
पारिजातप्रसूनानां मालाजालैर्विराजितम्॥५७॥
शतचक्रसमायुक्तं मनोयायि मनोहरम्॥
वेष्टितं पार्षदैर्दिव्यैर्वनमालाविभूषितैः॥।९८ ॥
पीतवस्त्रपरीधानै रत्नालङ्कारभूषितैः ॥
नवयौवनसम्पन्नैः श्यामलैः सुमनोहरैः ॥ ५९ ॥
द्विभुजैर्मुरलीहस्तैर्गोपवेषधरैर्वरैः ॥
शिखिपिच्छगुञ्जमालाबद्धवक्रिमचूडकैः ॥ 4.18.६० ॥
अवरुह्य रथात्तूर्णं ते प्रणम्य हरेः पदम् ॥
रथमारोहणं कर्तुमूचुर्ब्राह्मणकामिनीः ॥ ६१ ॥
विप्रभार्या हरिं नत्वा जग्मुर्गोलोकमीप्सितम् ॥
बभूवुर्गोपिकाः सद्यस्त्यक्त्वा मानुषविग्रहान् ॥ ६२॥
हरिश्छायां विनिर्माय तासां च विष्णुमायया ॥
प्रस्थापयामास गृहान्ब्राह्मणानां स्वयं विभुः ॥ ६३ ॥
विप्राश्च भार्या उद्दिश्य परमोद्विग्नमानसाः ॥
अन्वेषणं प्रकुर्वन्तो ददृशुः पथि कामिनीः ॥ ६४ ॥
दृष्ट्वोचुर्ब्राह्मणाः सर्वे तास्ते च विनयान्विताः ॥
पुलकाङ्कितसर्वाङ्गाः प्रसन्नवदनेक्षणाः ॥ ॥ ६५ ॥
ब्राह्मणा ऊचुः ॥
अहोऽतिधन्या यूयं च दृष्टो युष्माभिरीश्वरः ॥
अस्माकं जीवनं व्यर्थं वेदपाठोऽप्यनर्थकः ॥ ६६ ॥
वेदे पुराणे सर्वत्र विद्वद्भिः परिकीर्तिताः ॥
हरेर्विभूतयः सर्वाः सर्वेषां जनको हरिः ॥ ६७ ॥
तपो जपो व्रतं ज्ञानं वेदा ध्ययनमर्चनम् ॥
तीर्थस्नानमनशनं सर्वेषां फलदो हरिः ॥ ६८ ॥
श्रीकृष्णः सेवितो येन किं तस्य तपसां फलैः ॥
प्राप्तः कल्पतरुर्येन किं तस्यान्येन शाखिना ॥ ६९ ॥
श्रीकृष्णो हृदये यस्य तस्य किं कर्मभिः कृतैः ॥
किं वा न सागरस्यैव पौरुषं कूपलङ्घने॥ ॥4.18.७०॥
इत्येवमुक्त्वा विप्राश्च गृहीत्वा कामिनीवराः ॥
आजग्मुः स्वगृहं हृष्टास्ताभिः सार्धं च रेमिरे ॥७१॥
तासां ततोऽधिकं प्रेम क्रीडासु सर्वकर्मसु ॥
दाक्षिण्यं मायया शक्त्या ब्राह्मणानामतर्कितम् ॥७२॥
अथ नारायणः सोऽयं बलेन शिशुभिः सह ॥
जगाम स्वालयं तूर्णं पूर्णब्रह्म सनातनः ॥७३॥
इत्येवं कथितं सर्वं हरेर्माहात्म्यमुत्तमम् ॥
पुरा श्रुतं धर्मवक्त्रात्किं भूयः श्रोतुमिच्छसि ॥ ॥ ७४ ॥
नारद उवाच ॥
ऋषीन्द्र केन पुण्येन बभूव विप्रयोषिताम् ॥
मुनीन्द्रयोगसिद्धानां दुर्लभा गतिरीश्वरी ॥ ७५ ॥
इमाः का वा पुण्यवत्यः पुरा तस्थुर्महीतलम् ॥
आजग्मुः केन दोषेण वद सन्देहभञ्जनम् ॥ ७६ ॥
॥ श्रीनारायण उवाच॥
सप्तर्षीणां रमण्यश्च रूपेणाप्रतिमाः पराः ॥
गुणवत्यः सुशीलाश्च धर्मिष्ठाश्च पतिव्रताः ॥ ७७ ॥
नवीनयौवनाः सर्वाः पीनश्रोणि पयोधराः ॥
दिव्यवस्त्रपरीधाना रत्नालङ्कारभूषिताः ॥ ७८ ॥
तप्तकाञ्चनवर्णाभाः स्मेराननसरोरुहाः ॥
मुनीनां मोहितुं शक्ता मानसं वक्रचक्षुषा ॥ ७९ ॥
दृष्ट्वा तासां स्तनश्रोणिमुखानि सुन्दराणि च ॥
अनलश्चकमे ताश्च मदनानलपीडितः ॥ 4.18.८० ॥
अग्निस्थानस्थितानां च शिखया सुरतोन्मुखः ॥
स्पृष्ट्वा चाङ्गानि तासां च बभूव हृतचेतनः ॥ ८१ ॥
पतिव्रता न जानन्ति पतिपादाब्जमानसाः ॥
अग्निरङ्गानि तासां च दर्शन्दर्शं मुमोह च ॥ ८२ ॥
वह्नेश्च मानसं ज्ञात्वा भगवानङ्गिरा मुनिः ॥
शशाप तं चेत्युवाच सर्वभक्षो भवेति ह ॥ ८३ ॥
वह्निः सचेतनो भूत्वा तुष्टाव मुनिपुङ्गवम् ॥
व्रीडया नम्रवदनश्चकम्पे ब्रह्मतेजसा ॥८४ ॥
क्रुद्धो मुनिवरः स्पृष्टाः कामिन्यश्च शशाप ह ॥
यात यूयं पापयुक्ता मानुषीं योनिमेव च ॥ ८५ ॥
भारते ब्राह्मणानां च गृहे लभत जन्म वै ॥
करिष्यन्ति विवाहं च युष्माकं कुलजा द्विजाः ॥ ८६ ॥
श्रुत्वा वाक्यं मुनेस्ताश्च रुरुदुः प्रेमविह्वलाः ॥
पुटाञ्जलियुताः सर्वा ऊचुस्तं विदुषां वरम् ॥ ८७ ॥
मुनिपत्न्य ऊचुः ॥
न त्यजास्मान्मुनिश्रेष्ठ निष्पापाश्च पतिव्रताः ॥
अजानन्त्यः परस्पृष्टा न च नस्त्यक्तुमर्हसि ॥ ८८॥
भक्तानां किङ्करीणां च न दण्डं कर्तुमर्हसि॥
युष्माकं चरणाम्भोजं कदा द्रक्ष्यामहे वयम्॥ ॥ ८९ ॥
खड्गच्छेदाद्वज्रपातात्सर्वप्रहरणान्मुने ॥
दारुणः कान्तविच्छेदः साध्वीनां दुःसहः सदा ॥ 4.18.९० ॥
ब्रह्मिष्ठानां गुणवतां परान्कान्तान्महामुनीन् ॥
एवम्भूतान्कथं त्यक्त्वा यास्यामः पृथिवीतलम्॥९१॥
यास्यामो यदि विप्रेश कदाऽत्रागमनं वद ॥
अज्ञानस्पर्शदोषश्च न स्यान्नो विधिबोधितः॥ ९२॥
अहल्यया पुनः प्राप्तः स्वामीन्द्रस्य प्रधर्षणात् ॥
सा सम्भोगात्पुनः शुद्धा स्पर्शनाद्वर्जिता वयम् ॥९३॥
विचारं कुरु धर्मिष्ठ वेदवेदाङ्गपारग॥
विश्वकर्तुश्च पुत्रस्त्वं सर्ववेदविदां वर॥९४ ॥
अन्येषां च भयात्कान्ता व्रजन्ति शरणं पतिम्॥
स्वकान्तभयसंविग्नाः शरणं कं व्रजन्ति ताः ॥९५॥
अभयं देहि धर्मिष्ठ भययुक्ताभ्य एव च॥
पुत्रे शिष्ये कलत्रे च को दण्डं कर्तुमक्षमः ॥ ९६ ॥
दुर्बलः सबलो वापि स्ववस्तूनामपीश्वरः ॥
स्वद्रव्यविक्रयं कर्तुं न चान्यो रक्षितुं क्षमः ॥९७ ॥
कामिनीनां वचः श्रुत्वा दयालुर्मुनिपुङ्गवः ॥
प्रेम्णा रुरोद तासां च निरीक्ष्य मुखपङ्कजम् ॥९८॥
वेदवेदाङ्गपारज्ञो ज्ञानिनां योगिनां वरः ॥
पत्नीविच्छेदविषये मूर्च्छां प्राप तथापि सः ॥९९॥
सर्वे बभूवुः शोकार्ता विरहोद्विग्नमानसाः॥
निरीक्ष्य तासां वक्त्राणि तस्थुः पुत्तलिका यथा॥ ॥ 4.18.१०० ॥
कृत्वा विलापं सुचिरं सर्ववेदविदां वरः ॥
भ्रातृभिश्च सहालोच्य ता उवाच शुचाऽऽतुरः ॥१०१॥
अङ्गिरा उवाच ॥
यूयं शृणुत वक्ष्यामि वचनं सत्यमेव च ॥
स्वकर्मभोगिनां भोगमाकर्माच्च श्रुतौ श्रुतम् ॥ १०२ ॥
गतो भोगश्च युष्माकमस्माभिः सह निश्चितम् ॥
गते भोगे पुनर्भोगो न हि वेदे निरूपितः ॥ १०३ ॥
शुभाशुभं च यत्कर्म भारते कृतिभिः सह ॥
नाभुक्तं क्षीयते कर्म जन्मकोटिशतैरपि ॥ १०४ ॥
परभुक्तां च कान्तां च यो भुङ्क्ते स नराधमः ॥
स पच्यते कालसूत्रे यावच्चन्द्रदिवाकरौ ॥ १०९ ॥
न सा दैवे न सा पैत्र्ये पाकार्हा पापसंयुता ॥
तस्या आलिङ्गने भर्ता भ्रष्टश्रीस्तेजसा हतः ॥ १०६ ॥
देवताः पितरस्तस्य हव्यदाने च तर्पणे ॥
सुखिनो न भवन्त्येवमित्याह कमलोद्भवः ॥ १०७ ॥
तस्माद्यत्नेन भार्याया रक्षणं कुरुते सुधीः ॥
अन्यथा पापभाग्भर्ता निश्चितं नरकं व्रजेत् ॥ १०८॥
पदेपदे सावधानः कान्तां रक्षति पण्डितः ॥
न व्रती न स्थली योषा दोषाणां च करण्डिका ॥ १०९ ॥
कलत्रं पाकपात्रं च सदा रक्षितुमर्हति ॥
परस्पर्शादशुद्धां च शुद्धां स्वस्पर्शने सदा ॥ 4.18.११० ॥
स्वकान्तं च परित्यज्य परं गच्छति याऽधमा ॥
कुम्भीपाकं सा प्रयाति यावच्चन्द्रदिवाकरौ ॥ १११ ॥
तामेव यमदूताश्च संस्थाप्य नरकान्तरे ॥
उत्तिष्ठति विदूराच्चेत्कुर्वन्ति दण्डताडनाम् ॥ ११२ ॥
सर्पप्रमाणाः कीटाश्च तीक्ष्णदंष्ट्राः सुदारुणाः ॥
दशन्ति पुंश्चलीं तत्र सततं च दिवानिशम् ॥ ११३ ॥
विकृताकारशब्दं च करोति शाश्वतं भिया ॥
न ममार प्रहारेण सूक्ष्मदेहविधारिणी ॥ ११४ ॥
मुहूर्तार्धं सुखं भुक्त्वा लोकेऽत्र यशसा हता ॥
पतिता परलोके च गतिमेतादृशीं लभेत् ॥ ११५ ॥
परस्पृष्टा च वै नारी या स्पृहां कुरुते परम् ॥
साऽपि दुष्टा परित्याज्या चेत्याह कमलोद्भवः ॥ ११६ ॥
तस्मान्नारी परैर्यत्नाददृष्टा कृतिभिः कृता ॥
असूर्यम्पश्या या दाराः शुद्धास्ताश्च पतिव्रताः ॥ ११७ ॥
स्वच्छन्दगामिनी या च स्वतन्त्रा सूकरीसमा ॥
अन्तर्दुष्टा सदा सैव निश्चितं परगामिनी ॥ ११८ ॥
स्वामिसाध्या च या नारी कुलधर्मभिया स्थिता ॥
कान्तेन सार्द्धं सा कान्ता वैकुण्ठं याति निश्चितम् ॥ ११९ ॥
यात यूयं च पृथिवीं मानुषीं योनिमीप्सिताम् ॥
कृष्णदर्शनमात्रेण गोलोकं यास्यथ ध्रुवम् ॥4.18.१२०॥
हरिणा निर्मिताश्छाया युष्माकं योगमायया ॥
ता विप्रमन्दिरे स्थित्वा चागमिष्यन्ति नो ध्रुवम् ॥१२१॥
पुनरंशेन नः पत्न्यो भविष्यथ न संशयः ॥
युष्माकं मम शापश्च बभूव च वराधिकः ॥ १२२ ॥
इत्येवमुक्त्वा स मुनिर्विरराम शुचाऽन्वितः ॥
ता आगत्य महीं शापाद्बभूवुर्विप्रयोषितः ॥ १२३ ॥
दत्त्वाऽन्नं हरये भक्त्या प्रजग्मुर्हरिमन्दिरम् ॥
बभूव निश्चितं तासां शापश्च सम्पदोऽधिकः ॥ १२४ ॥
निन्द्या नीचा च सम्पत्तिर्विपत्तिर्महतो वरा ॥
अहो सद्यः सतां कोपश्चोपकाराय कल्पते ॥ १२५ ॥
विना विपत्तेर्महिमा कुतः कस्य भवेद्भुवि ॥
भूताः कान्तपरित्यागान्मुक्ता ब्राह्मणयोषितः ॥ १२६ ॥
इत्येवं कथितं सर्वं हरेश्चरितमुत्तमम् ॥
अहो पुण्यवतीनां च मोक्षाख्यानं मनोहरम् ॥ १२७ ॥
श्रीकृष्णाख्यानं विप्रेन्द्र नूत्नं नूत्नं पदेपदे ॥
न हि तृप्तिः श्रुतवतां केन श्रेयसि तृप्यते ॥ १२८ ॥
यावद्रम्यं तत्कथितं यच्छ्रुतं गुरुवक्त्रतः ॥
वद मां वाञ्छितं यत्ते किं भूयः श्रोतुमिच्छसि ॥ १२९ ॥
नारद उवाच ॥
यद्यच्छ्रुतं त्वया पूर्वं गुरुवक्त्रात्कृपानिधे ॥
मङ्गलं कृष्णचरितं तन्मे ब्रूहि जगद्गुरो ॥ 4.18.१३० ॥
सूत उवाच ॥
श्रुत्वा देवर्षिवचनमृषिर्नारायणः स्वयम् ॥
अपरं कृष्णमाहात्म्यं प्रवक्तुमुपचक्रमे॥ १३१ ॥
इति श्रीब्रह्मवैवर्ते महापुराण्रे श्रीकृष्णजन्मखण्डे विप्रपत्नीमोक्ष णप्रस्तावोनामाष्टादशोऽध्यायः ॥ ॥ १८ ॥