॥ श्रीनारायण उवाच ॥
सुप्तेषु व्रजनन्देषु नक्तं वृन्दावने वने ॥
सुनिद्रिते च निद्रेशे मातृवक्षःस्थलस्थिते ॥ १ ॥
निद्रितासु च गोपीषु रम्यतल्पस्थितासु च ॥
यूनां च सुखसंयोगानुषक्तमानसासु च ॥ २ ॥
कासुचिच्छिशुयुक्तासु सखीयुक्तासु कासुचित् ॥
कासुचिच्छकटस्थासु स्यन्दनस्थासु कासुचित् ॥ ३ ॥
पूर्णेन्दुकौमुदीयुक्ते स्वर्गादपि मनोहरे ॥
नानाप्रकारकुसुमवायुना सुरभीकृते ॥ ४ ॥
सर्वप्राणिनि निश्चेष्टे मुहूर्ते पञ्चमे गते ॥
तत्राजगाम भगवाञ्छिल्पिनां च गुरोर्गुरुः ॥ ५ ॥
बिभ्रद्दिव्यांशुकं सूक्ष्मं रत्नमाल्यं मनोहरम् ॥
रत्नालङ्कारमतुलं श्रीमन्मकरकुण्डलम् ॥ ६ ॥
ज्ञानेन वयसा वृद्धो दर्शनीयः किशोरवत् ॥
अतीव सुन्दरः श्रीमान्कामदेवसमप्रभः ॥ ७ ॥
विशिष्टशिल्पनिपुणैः सार्द्धं शिल्पित्रिकोटिभिः ॥
मणिरत्नैर्हेमरत्नैर्लोहास्त्रयुतहस्तकैः ॥ ८ ॥
आजग्मुर्यक्षनिकराः कुबेरवनकिङ्कराः ॥
स्फाटिकारत्नवेषाश्च दीर्घस्कन्धाश्च केचन ॥ ९ ॥
पद्मरागकरा केचिदिन्द्रनीलकरा वराः ॥
केचित्स्यमन्तककराश्चन्द्रकान्तकरास्तथा ॥ 4.17.१० ॥
सूर्यकान्तकराश्चान्ये प्रभाकरकरा वराः ॥
केचित्परशुहस्ताश्च लोहसारकरा वराः ॥ ११ ॥
केचिच्च गन्धसाराणां मणीन्द्राणां च वाहकाः ॥
केचिच्चामरहस्ताश्च केचिद्दर्पणवाहकाः ॥ १२ ॥
स्वर्णपात्रघटादीनां वाहकाश्चैव केचन ॥
विश्वकर्मा च सामग्रीं दृष्ट्वा तु सुमनोहराम् ॥ १३ ॥
नगरं कर्तुमारेभे ध्यात्वा कृष्णं शुभेक्षणम् ॥
पञ्चयोजनविस्तीर्णं भारते श्रेष्ठमुत्तमम् ॥ ॥ १४ ॥
पुण्यक्षेत्रं तीर्थसारमतिप्रियतमं हरेः ॥
तत्रस्थानां मुमुक्षूणां परं निर्वाणकारणम् ॥ १५ ॥
गोलोकस्य च सोपानं सर्वेषां वाञ्छितप्रदम् ॥
चतुष्कोटिचतुःशालं तत्रैवातिमनोहरम् ॥ १६ ॥
कपाटस्तम्भसोपानसहितैः प्रस्तरैर्वरैः ॥
चित्रपुत्तलिकापुष्पकलशोज्ज्वलशेखरम् ॥ १७ ॥
शैलजाश्मविनिर्माणवेदिप्राङ्गणसंयुतम् ॥
शिलाप्राकारसंयुक्तं प्रचकाराथ लीलया ॥ ३८ ॥
यथोचितबृहत्क्षुद्रद्वारद्वयसमन्वितम् ॥
स्फाटिकाकारमणिभिर्मुदा युक्तो विनिर्ममे ॥ १९ ॥
सोपानैर्गन्धसाराणां स्तम्भैः शङ्कुविनिर्मितैः ॥
कपाटैलोहसाराणां राजतैः कलशोज्ज्वलैः ॥ 4.17.२० ॥
वज्रसारविनिर्माणप्राकारैः परिशोभितम् ॥
कृत्वाऽऽश्रमं बल्लवानां यथास्थानं यथोचितम् ॥
वृषभान्वालयं रम्यं कर्तुमारब्धवान्पुनः ॥ २१ ॥
प्राकारपरिखायुक्तं चतुर्द्वारान्वितं परम् ॥
चारुविंशच्चतुःशालं महामणिविनिर्मितम् ॥ २२ ॥
रत्नसारविकारैश्च तूलिकानिकरैर्वरैः ॥
सुवर्णाकारमणिभिरारोहैरतिसुन्दरैः ॥ २३ ॥
लोहसारकपाटैश्च शोभितं चित्रकृत्रिमैः ॥
मन्दिरेमन्दिरे रम्ये सुवर्णकलशोज्ज्वलम् ॥ २४ ॥
तदाश्रमैकदेशे च निर्जनेऽतिमनोहरे ॥
चारुचम्पकवृक्षाणामुद्यानाभ्यन्तरे मुने ॥ २९ ॥
सम्भोगार्थं कलावत्याः स्वामिना सह कौतुकात् ॥
विशिष्टेन मणीन्द्रेण चकाराट्टालिकालयम् ॥ २६ ॥
युक्तं नवभिरारोहैरिन्द्रनीलविनिर्मितैः ॥
स्थूणाकपाटनिकरैर्गन्धसारविकारजैः ॥
अत्युच्छ्रितं मनोरम्यं सर्वतोऽपि विलक्षणम् ॥ २७ ॥
नारद उवाच ॥
कलावती का भगवन्कस्य पत्नी मनोहरा ॥
यत्नतो यद्गृहं रम्यं निर्ममे सुरकारुणा ॥ २८ ॥
नारायण उवाच ॥
पितॄणां मानसी कन्या कमलांशा कलावती ॥
सुन्दरी वृषभानस्य पतिव्रतपरायणा ॥
यस्याश्च तनया राधा कृष्णप्राणाधिका प्रिया ॥ २९ ॥
श्रीकृष्णार्द्धांशसम्भूता तेन तुल्या च तेजसा ॥
यस्याश्च चरणाम्भोजरजःपूता वसुन्धरा ॥
यस्यां च सुदृढां भक्तिं सन्तो वाञ्छन्ति सन्ततम् ॥ 4.17.३० ॥
नारद उवाच ॥
पितॄणां मानसीं कन्यां व्रजे तिष्ठन्कथं मुने ॥
मानवः केन पुण्येन कथमाप सुदुर्लभाम् ॥ ३१ ॥
वृषभानुर्व्रजपतिः पुराऽऽसीत्को महानहो ॥
कस्य वा केन तपसा राधा कन्या बभूव ह ॥ ३२ ॥
सूत उवाच ॥
नारदस्य वचः श्रुत्वा महर्षिर्ज्ञानिनां वरः ॥
प्रहस्योवाच प्रीत्या तमितिहासं पुरातनम् ॥ ३३ ॥
नारायण उवाच ॥
बभूवुः कन्यकास्तिस्रः पितॄणां मानसात्पुरा ॥ ३४ ॥
कलावतीरत्नमालामेनकाश्चातिदुर्लभाः ॥
रत्नमाला च जनकं वरयामास कामुकी ॥३५॥
शैलाधिपं हरेरंशं मेनका सा हिमालयम् ॥
दुहिता रत्नमालाया अयोनिसम्भवा सती ॥३६॥
श्रीरामपत्नी श्रीः साक्षात्सीता सत्यपरायणा ॥
कन्यका मेनकायाश्च पार्वती सा पुरा सती ॥३७ ॥
अयोनिसम्भवा सा च हरेर्माया सनातनी ॥
सा लेभे तपसा देवं हरं नारायणात्मकम् ॥ ३८ ।
कलावती सुचन्द्रं च मनुवंशसमुद्भवम् ॥
स च राजा हरेरंशस्तां सम्प्राप्य कलावतीम् ॥३९॥
मन्ये गुणवतां श्रेष्ठमात्मानमतिसुन्दरम् ॥
अहो रूपमहो वेषमहो अस्या नवं वयः ॥ 4.17.४० ॥
सुकोमलाङ्गं ललितं शरच्चन्द्राधिकाननम् ॥
गमनं दुर्लभमहो गजखञ्जनगञ्जनम् ॥४१॥
कटाक्षैर्मोहितुं शक्ता मुनीन्द्राणां च मानसम् ॥
श्रोणीयुग्मं सुललितं रम्भास्तम्भविनिर्मितम् ॥ ४२॥
स्तनद्वयं सुकठिनमतिपीनोन्नतं मुने ॥
नितम्बयुगलं चारु रथचक्रविनिर्मितम्॥ ४३ ॥
हस्तौ पादौ च रक्तौ च पक्वबिम्बफलाधरम्॥
पक्वदाडिमबीजाभं दन्तपङ्क्तिमनोहरम् ॥ ४४ ॥
शरन्मध्याह्नपद्मानां प्रभामोचनलोचनम् ॥
भूषणैर्भूषितं रूपं कृतं सद्रत्नभूषणम् ॥ ॥ ४५ ॥
इतीव मत्वा दृष्ट्वा च कामबाणप्रपीडितः ॥
दिव्यं स्यन्दनमारुह्य कामुक्या सह कामुकः ॥ ४६ ॥
क्रीडां चकार रहसि स्थानेस्थाने मनोहरे ॥
रम्यायां मलयद्रोण्यां चन्दनागुरुवायुना ॥४७ ॥
चारुचम्पकपुष्पाणां तल्पे रतिसुखावहे॥
मालतीमल्लिकानां च पुष्पोद्यानेऽतिपुष्पिते॥ ४८ ॥
पुष्पभद्रानदीतीरे निर्जने केतकीवने ॥
पश्चिमाब्धितटान्तस्थकानने जन्तुवर्जिते॥४९ ॥
नन्दने मन्दरद्रोण्यां कावेरीतीरजे वने ॥
शैलेशैले सुरम्ये च नद्यान्नद्यां नदेनदे ॥ 4.17.५० ॥
द्वीपेद्वीपे तु रहसि स रेमे वामया सह ॥
नवसङ्गमसंयोगाद्बुबुधे न दिवानिशम् ॥ ५१ ॥
एवं वर्षसहस्रं तद्गतमेव मुहूर्तवत् ॥
कृत्वा विहारं सुचिरं स विरक्तो बभूव ह ॥५२॥
जगाम तपसे विन्ध्यशैलं तीर्थं तया सह ॥
भारतेऽतिप्रशस्यं च पुलहाश्रममुत्तमम् ॥५३॥
तपस्तेपे नृपस्तत्र दिव्यवर्षसहस्रकम् ॥
मोक्षाकाङ्क्षी निःस्पृहश्च निराहारः कृशोदरः॥५४॥
मूर्छामाप मुनिश्रेष्ठ ध्यात्वा कृष्णपदाम्बुजम्॥
तद्गात्रव्याप्तवल्मीकं साध्वी दूरं चकार सा ॥ ५५ ॥
निश्चेष्टितं पतिं दृष्ट्वा त्यक्तं प्राणैश्च पञ्चभिः ॥
मांसशोणितरक्तं तमस्थिसंसक्तविग्रहम् ॥५६ ॥
उच्चै रुरोद शोकार्ता निर्जने तु कलावती ॥
हे नाथनाथेत्युच्चार्य कृत्वा वक्षसि मूर्छितम् ॥ ५७ ॥
विललाप महादीना पतिव्रतपरायणा ॥
दृष्ट्वा नृपं निराहारं कृशं धमनिसंयुतम् ॥५८॥
श्रुत्वा च रोदनं तस्याः कृपया च कृपानिधिः॥
आविर्बभूव जगतां विधाता कमलोद्भवः ॥५९॥
क्रोडे कृत्वा च तं तूर्णं रुरोद भगवान्विभुः ॥
ब्रह्मा कमण्डलुजलेनासिच्य नृपविग्रहम् ॥ 4.17.६० ॥
जीवं सञ्चारयामास ब्रह्मज्ञानेन ब्रह्मवित् ॥
नृपेन्द्रश्चेतनां प्राप्य पुरो दृष्ट्वा प्रजापतिम् ॥ ६१ ॥
प्रणनाम च तं दृष्ट्वा तं च कामसमप्रभम् ॥
तमुवाचेति सन्तुष्टो वरं वृणु यथेप्सितम् ॥ ६२ ॥
स विधेर्वचनं श्रुत्वा वव्रे निर्वाणमीप्सितम् ॥
दयानिधे त्वं दयया वरं दातुं समुद्यतः ॥ ६३ ॥
प्रसन्नवदनः श्रीमान्स्मेराननसरोरुहः ॥
कृत्वानुमानं मनसि शुष्ककण्ठोष्ठतालुका ॥६४॥
तमुवाच सती त्रस्ता वरं दातुं समुद्यतम् ॥ ॥
कलावत्युवाच ॥
यदि मुक्तिं नृपेन्द्राय ददासि कमलोद्भव ॥६५॥
अतोऽबलाया हे ब्रह्मन्का गतिर्भविता वद ॥
विना कान्तं च कान्तानां का शोभा चतुरानन ॥ ६६ ॥
व्रतं पतिव्रतायाश्च पतिरेव श्रुतौ श्रुतम् ॥
गुरुश्चाभीष्टदेवश्च तपोधर्ममयः पतिः ॥ ६७॥
सर्वेषां च प्रियतरो न बन्धुः स्वामिनः परः ॥
सर्वधर्मात्परा ब्रह्मन्पतिसेवा सुदुर्लभा ॥ ६८ ॥
स्वामिसेवाविहीनायाः सर्वं तन्निष्फलं भवेत् ॥
व्रतं दानं तपः पूजा जपहोमादिकं च यत्॥६९॥
स्नानं च सर्वतीर्थेषु पृथिव्याश्च प्रदक्षिणम्॥
दीक्षा च सर्वयज्ञेषु महादानानि यानि च ॥ 4.17.७० ॥
पठनं सर्ववेदानां सर्वाणि च तपांसि च ॥
वेदज्ञानां ब्राह्मणानां भोजनं देवसेवनम् ॥७१॥
एतानि स्वामिसेवायाः कलां नार्हन्ति षोडशीम् ॥
स्वामिसेवाविहीना या वदन्ति स्वामिने कटुम् ॥७२॥
पतन्ति कालसूत्रे च यावच्चन्द्रदिवाकरौ ॥
सर्पप्रमाणाः कृमयो दंशन्ति च दिवानिशम् ॥७३ ॥
सन्ततं विपरीतं च कुर्वन्ति शब्दमुल्बणम् ॥
मूत्रश्लेष्मपुरीषाणां कुर्वन्ति भक्षणं मुदा ॥७४॥
मुखे तासां ददत्येवमुल्कां च यमकिङ्कराः ॥
भुक्त्वा भोगं च नरके कृमियोनिं प्रयान्ति ताः ॥ ७५ ॥
भक्षन्ति जन्मशतकं रक्तमांसपुरीषकम् ॥
श्रुत्वाहं विदुषां वक्त्राद्वेदवाक्येषु निश्चितम् ॥ ७६ ॥
जानामि किञ्चिदबला त्वं वेदजनको विभुः ॥
गुरोर्गुरुश्च विदुषां योगिनां ज्ञानिनां तथा ॥७७॥
सर्वज्ञमेवम्भूतं त्वां बोधयामि किमच्युत ॥
प्राणाधिकोऽयं कान्तोऽयं यदि मुक्तो बभूव ह ॥ । ७८ ॥
मम को रक्षिता ब्रह्मन्धर्मस्य यौवनस्य च ॥
कौमारे रक्षिता तातो दत्त्वा पात्राय सत्कृती ॥७९॥
सर्वदा रक्षिता कान्तस्तदभावे च तत्सुतः ॥
त्रिष्ववस्थासु नारीणां त्रातारश्च त्रयः स्मृताः ॥ 4.17.८० ॥
याः स्वतन्त्राश्च ता नष्टाः सर्वधर्मबहिष्कृताः ॥
असत्कुलप्रसूतास्ताः कुलटा दुष्टमानसाः ॥ ८१ ॥
शतजन्मकृतं पुण्यं तासां नश्यति पद्मज ॥
पुत्रस्नेहो यथा बाल्ये तथा यूनि च वार्द्धके । ॥ ८२ ॥
पतिव्रतानां कान्ते च सर्वकाले समा स्पृहा ॥
सुते स्तनन्धये स्नेहो मातॄणां चातिशोभिते ॥ ८३ ॥
पतिस्नेहस्य साध्वीनां कलां नार्हति षोडशीम् ॥
स्तनान्धे स्तनदानान्तमिष्टान्ने भोजनावधि ॥ ८४॥
कान्ते चित्तं सतीनां च स्वप्ने ज्ञाने च सन्ततम् ॥
दुःखान्तो बन्धुविच्छेदः पुत्राणां च ततोऽधिकः॥८५॥
सुदारुणः स्वामिनश्च दुःखं नातः परं स्त्रियाः॥
अविदग्धा यथा दग्धा ज्वलदग्नौ विषादने ॥ ८६ ॥
तथा विदग्धा दग्धा स्याद्विदग्धविरहानले ॥
नान्ने तृष्णा जले तृष्णा साध्वीनां स्वामिनं विना ॥ ८७ ॥
विरहाग्नौ मनो दग्धं वह्नौ शुष्कतृणं यथा॥
न हि कान्तात्परो बन्धुर्न हि कान्तात्परः प्रियः॥८८॥
न हि कान्तात्परो देवो न हि कान्तात्परो गुरुः ॥
न हि कान्तात्परो धर्मो न हि कान्तात्परं धनम्॥ ८९ ॥
न हि कान्तात्परः प्राणा न हि कान्तात्परः स्त्रियाः ॥
निमग्नं कृष्णपादाब्जे वैष्णवानां यथा मनः ॥ 4.17.९० ॥
यथैकपुत्रे मातुश्च यथा स्त्रीषु च कामिनाम् ॥
धनेषु कृपणानां च चिरकालार्जितेषु च ॥ ९१ ॥
यथा भयेषु भीतानां शास्त्रेषु विदुषां यथा ॥
स्तनादाने शिशूनां च शिल्पेषु शिल्पिनां यथा ॥ ९२ ॥
यथा जारे पुंश्चलीनां साध्वीनां च तथा प्रिये ॥
तं विना जीवितुं ब्रह्मन्क्षणमेकं न च क्षमम् ॥ ९३ ॥
मरणं जीवनं तासां जीवनं मरणाधिकम् ॥
सद्भर्तृरहितानां च शोकेन हतचेतसाम् ॥
अन्यशोकनिमग्नानां कालेन पानभोजनात् ॥ ९४ ॥
विपरीतः कान्तशोको वर्द्धते भक्षणादहो ॥
कर्मच्छाया सतीनां च सङ्गिनीनां सती वरा (? )॥९५॥
इतरे भोगदेहान्ते साध्वी जन्मनि जन्मनि ॥
करोषि चेज्जगद्धातरिमं मुक्तं मया विना ॥ ९६ ॥
त्वां शप्त्वाऽहं त्वयि विभो पश्य दास्यामि स्त्रीवधम् ॥
श्रुत्वा कलावतीवाक्यमुवाच विस्मितो विधिः ॥
हितं पीयूषसदृशं भयसंविग्नमानसः ॥ ९७ ॥
ब्रह्मोवाच ॥ ॥
वत्से मुक्तिं न दास्यामि स्वामिनं च त्वया विना ॥ ॥ ९८ ॥
मुक्तं कर्तुं त्वया सार्द्धं साम्प्रतं नाहमीश्वरः ॥
मातर्मुक्तिर्विना भोगाद्दुर्लभा सर्वसम्मता ॥ ९९ ॥
निर्वाणतां समाप्नोति भोगी भोगविकृन्तने ॥
कविवर्षं स्वर्गभोगं कुरुष्व स्वामिना सह ॥ 4.17.१०० ॥
ततस्तु युवयोर्जन्म भविता भारते सति ॥
यदा भविष्यति सती कन्या ते राधिका स्वयम् ॥ १०१ ॥
जीवन्मुक्तौ तया सार्द्धं गोलोकं च गमिष्यथः ॥
कतिकालं नृपश्रेष्ठ भुङ्क्ष्व भोगं स्त्रिया सह ॥ १०२ ॥
साध्वी वै सत्त्वयुक्ता च मा मां शप्तुं त्वमर्हसि ॥
जीवन्मुक्ताः समाः सन्तः कृष्णपादाब्जमानसाः ॥ १०३ ॥
वाञ्छन्ति हरिदास्यं च दुर्लभं न च निर्वृतिम् ॥
इत्युक्त्वा तौ वरौ दत्त्वा सन्तस्थौ पुरतस्तयोः ॥१०४॥
ययतुस्तौ तं प्रणम्य जगाम स्वालयं विधिः ॥
आजग्मतुस्तौ कालेन भुक्त्वा भोगं च भारतम् ॥ १०५ ॥
परं पुण्यप्रदं दिव्यं ब्रह्मादीनां च वाञ्छितम् ॥
सुचन्द्रो वृषभानुश्च ललाभ जन्म गोकुले॥ १०६ ॥
पद्मावत्याश्च जठरे सुरभानस्य रेतसा ॥
जातिस्मरो हरेरंशः शुक्लपक्षे यथा शशी ॥ १०७ ॥
ववृधेऽनुदिनं तत्र व्रजगेहे व्रजाधिपः ॥
सर्वज्ञश्च महायोगी हरिपादाब्जमानसः ॥ १०८ ॥
नन्ददबन्धुर्वदान्यश्च रूपवान्गुणवान्सुधीः ॥
कलावती कान्यकुब्जे बभूवायोनिसम्भवा ॥ १०९ ॥
जातिस्मरा महासाध्वी सुन्दरी कमलाकला ॥
कान्यकुब्जे नृपश्रेष्ठो भनन्दन उरुक्रमः ॥4.17.११०॥
स तां सम्प्राप्य यागान्ते यज्ञकुण्डसमुत्थिताम् ॥
नग्नां हसन्तीं रूपाढ्यां स्तनान्धामिव बालिकाम् ॥ १११ ॥
तेजसा प्रज्वलन्तीं च प्रतप्तकनकप्रभाम् ॥
कृत्वा वक्षसि राजेन्द्रः स्वकान्तायै ददौ मुदा ॥ ११२ ॥
मालावती स्तनं दत्त्वा तां पुपोष प्रहर्षिता ॥
तदन्नप्राशनदिने सतां मध्ये शुभे क्षणे ॥ ११३ ॥
नामरक्षणकाले च वाग्बभूवाशरीरिणी ॥
कलावतीति कन्याया नाम रक्ष नृपेति च ॥ ११४ ॥
इत्येवं वचनं श्रुत्वा तच्चकार महीपतिः ॥
विप्रेभ्यो भिक्षुकेभ्यश्च बन्दिभ्यश्च धनं ददौ ॥ ११५ ॥
सर्वेभ्यो भोजयामास चकार सुमहोत्सवम् ॥
कालेन सा रूपवती यौवनस्था बभूव ह ॥ ११६॥
अतीव सुन्दर श्यामा मुनिमानसमोहिनी ॥
चारुचम्पकवर्णाभा शरच्चन्द्रनिभानना ॥ ११७ ॥
ईषद्धास्यप्रसन्नास्या प्रफुल्लपद्मलोचना ॥
नितम्ब श्रोणिभारार्ता स्तनभारनता सती ॥ ११८ ॥
गच्छन्ती राजमार्गेण गजेन्द्रमन्दगामिनी ॥
ददर्श नन्दः पथि तां गच्छन्तीं च मुदा न्वितः ॥११९॥
जितेन्द्रियश्च ज्ञानी च मूर्च्छामाप तथाऽपि च॥
त्रस्तो लोकान्पथि गतांस्तूर्णं पप्रच्छ सादरम्॥4.17.१२०॥
गच्छन्ती कस्य कन्येयमिति होवाच तं जनः ॥
भनन्दनस्य नृपतेः कन्या नाम्ना कलावती ॥ १२१ ॥
कमलाकलया धन्या सम्भूता नृपमन्दिरे ॥
कौतुकेन च गच्छन्ती क्रीडार्थं सखिमन्दिरम् ॥ १२२ ॥
व्रज व्रज व्रजश्रेष्ठेत्युक्त्वा लोको जगाम ह ॥
प्रहृष्टमानसो नन्दो जगाम राजमन्दिरम् ॥ १२३ ॥
अवरुह्य रथात्तूर्णं विवेश नृपतेः सभाम् ॥
उत्थाय राजा सम्भाष्य स्वर्णसिंहासनं ददौ ॥ १२४ ॥
इष्टालापं बहुतरं चकार च परस्परम् ॥
विनयावनतो नन्दः सम्बन्धोक्तिं चकार ह ॥ १२५ ॥
नन्द उवाच ॥
शृणु राजेन्द्र वक्ष्यामि विशेषवचनं शुभम् ॥
सम्बन्धं कुरु कन्याया विशिष्टेन च साम्प्रतम् ॥ १२६ ॥
सुरभानुसुतः श्रीमान्वृषभानुर्व्रजाधिपः ॥
नारायणांशो गुणवान्सुन्दरश्च सुपण्डितः ॥ १२७ ॥
स्थिरयौवनयुक्तश्च योगी जातिस्मरो युवा ॥
कन्या तेऽयोनिसम्भूता यज्ञकुण्डसमुद्भवा ॥ १२८ ॥
त्रैलोक्यमोहिनी शान्ता कमलांशा कलावती ॥
स च योग्यस्त्वद्दुहितुस्तद्योग्या ते च कन्यका ॥ १२९ ॥
विदग्धाया विदग्धेन सम्बन्धो गुणवान्नृप ॥
इत्येवमुक्त्वा नन्दस्तु विरराम च संसदि ॥
उवाच तं नृपश्रेष्ठो विनयावनतो मुने ॥ ॥ 4.17.१३० ॥
भनन्दन उवाच ॥
सम्बन्धो हि विधिवशो न मे साध्यो व्रजाधिप ॥ १३१ ॥
प्रजापतिर्योगकर्ता जन्मदाताऽहमेव च ॥
का कस्य पत्नी कन्या वा वरः को वा ससाधनः ॥ १३२ ॥
कर्मानुरूपफलदः सर्वेषां कारणं विधिः ॥
भवितव्यं कृतं कर्म तदमोघं श्रुतौ श्रुतम् ॥ १३३ ॥
अन्यथा निष्फलं सर्वमनीशस्योद्यमो यथा ॥
वृषभानुप्रिया धात्रा लिखिता चेत्सुता मम ॥ ॥ १३४ ॥
पुरा भूतैव को वाऽहं केनान्येन निवार्यते ॥
इत्येवमुक्त्वा राजेन्द्रो विनयानतकन्धरः ॥ १३५ ॥
मिष्टान्नं भोजयामास सादरेण च नारद ॥
नृपानुज्ञामुपादाय व्रजराजो व्रजं गतः ॥ १३६ ॥
गत्वा स कथयामास सुरभानस्य संसदि ॥
सुरभानश्च यत्नेन नन्दनेन च सादरम् ॥ १३७ ॥
सम्बन्धं योजयामास गर्गद्वारा च सत्वरम् ॥
विवाहकाले राजेन्द्रो विपुलं यौतकं ददौ ॥ ॥ १३८ ॥
गजरत्नमश्वरत्नं रत्नानि मणिभूषणम् ॥
वृषभानुर्मुदा युक्तः प्राप्य तां च कलावतीम् ॥ १३९ ॥
रेमे सुनिर्जने रम्ये बुबुधे न दिवानिशम् ॥
चक्षुर्निमेषविरहाद्व्याकुलां स्वामिना विना ॥ 4.17.१४० ॥
व्याकुलो वृषभानुश्च क्षणेन च तया विना ॥
जातिस्मरा च सा कन्या मायामानुषरूपिणी ॥ १४१ ॥
जातिस्मरो हरेरंशो वृषभानो मुदाऽन्वितः ॥
ववृधे च तयोः प्रेम नित्यन्नित्यं नवन्नवम् ॥ १४२ ॥
सदा सकामा सा प्रौढा स च कामसमो युवा ॥
तयोः कन्या च कालेन राधिका सा बभूव ह ॥
दैवात्सुदाम शापेन श्रीकृष्णस्याज्ञया पुरा ॥ १४३ ॥
अयोनिसम्भवा सा च कृष्णप्राणाधिका सती ॥
यस्या दर्शनमात्रेण तौ विमुक्तौ बभूवतुः॥ ॥ १४४ ॥
इतिहासश्च कथितः प्रकृतं शृणु साम्प्रतम् ॥
पापेन्धनानां दाहे च ज्वलदग्निशिखोपमः ॥।४४॥।
वृषभानाश्रमं गत्वा शिल्पिनां प्रवरो मुदा ॥
स्थानान्तरं विश्वकर्मा जगाम स्वगणैः सह ॥ १४६ ॥
क्रोशमात्रं स्थलं चारु मनसाऽऽलोच्य तत्त्ववित् ॥
आश्रमं कर्तुमारेभे नन्दस्य सुमहात्मनः ॥ १४७ ॥
कृत्वाऽनुमानं बुद्ध्या च सर्वतोऽपि विलक्षणम् ॥
परिखाभिर्गभीराभिश्चतुर्भिः संयुतं वरम् ॥ १४८ ॥
दुर्लङ्घ्याभिर्वैरिभिश्च खनिताभिश्च प्रस्तरैः ॥
पुष्योद्यानैः पुष्पिताभिः पारावारेषु पुष्पितैः ॥ १४९॥
चारु चम्पकवृक्षैश्च पुष्पितैः सुमनोहरैः ॥
परितो वासिताभिश्च सुगन्धिवायुना मुने ॥ 4.17.१५० ॥
आम्रैर्गुडालैः पनसैः खर्जूरैर्नारिकेलकैः ॥
दाडिमैः श्रीफलैर्भृङ्गैर्जम्बीरैर्नागरङ्गकैः ॥१५१॥
तुङ्गैराम्रातकैर्जम्बुसमूहैश्च फलान्वितैः ॥
कदलीनां केतकीनां कदम्बानां कदम्बकैः ॥ ॥ १५२ ॥
सर्वतः शोभिताभिश्च फलैस्तैः पुष्पितैरहो ॥
क्रीडार्हाभिर्निगूढाभिर्वाञ्छिताभिश्च सर्वदा ॥ १५३ ॥
परिखानां रहः स्थाने चकार मार्गमुत्तमम् ॥
दुर्गमं परवर्गाणां स्वानां च सुगमं सदा ॥ १५४ ॥
सङ्केतेन मणिस्तम्भैश्छादितैः स्वल्पपाथसा ॥
स्तम्भसीमाकृतमहो न सङ्कीर्णं न विस्तृतम् ॥ १५९ ॥
परिखोपरिभागे च प्राकारं सुमनोहरम् ॥
धनुःशतप्रमाणं च चकारातिसमुच्छ्रितम् ॥ १५६ ॥
प्रस्तरस्य प्रमाणं च पञ्चविंशतिहस्तकम् ॥
सिन्दूराकारमणिभिर्निर्मितं चातिसुन्दरम् ॥ १५७ ॥
बाह्ये द्वाभ्यां च संयुक्तमन्तरे सप्तभिस्तथा ॥
द्वार्भिश्च सन्निरुद्धाभिर्मणिसारकपाटकैः ॥१५८॥
हरिन्मणीनां कलशैश्चित्रयुक्तैर्विराजितम् ॥
मणिसारविकारैश्च कपाटैश्च सुशोभितम् ॥ १५९ ॥
स्वर्णसारविनिर्माणकलशोज्ज्वलशेखरम् ॥
नन्दालयं विनिर्माय बभ्राम नगरं पुनः ॥ 4.17.१६० ॥
राजमार्गाश्च विविधान्स च चारूंश्चकार ह ॥
रक्तभानुविकारैश्च वेदीभिश्च सुपत्तनैः ॥ १६१ ॥
पारावारे च परितो निबन्धांश्च मनोहरान् ॥
वाणिज्यार्हैश्च वणिजां परितो मणिमण्डपैः ॥ १६२ ॥
सर्वतो दक्षिणे वामे ज्वलद्भिश्च विराजितान् ॥
ततो वृन्दावनं गत्वा निर्ममे रासमण्डलम्॥१६३॥
सुन्दरं मण्डलाकारं मणिप्राकारसंयुतम् ॥
परितो योजनायामं मणिवेदिभिरन्वितम् ॥ १६४ ॥
मणिसारविकारैश्च मण्डपैर्नवकोटिभिः ॥
शृङ्गारार्हैश्च चित्राढ्यै रतितल्पसमन्वितैः ॥ १६५ ॥
नानाजातिप्रसूनानां वायुना सुरभीकृतैः ॥
रत्नप्रदीपसंयुक्तैः सुवर्णकलशोज्ज्वलैः ॥ १६६ ॥
पुष्पोद्यानैः पुष्पितैश्च सरोभिश्च सुशोभितम् ॥
रासस्थलं विनिर्माय जगामान्यत्स्थलं पुरः ॥ १६७ ॥
दृष्ट्वा वृन्दावनं रम्यं परितुष्टो बभूव ह ॥
वृन्दावनाभ्यन्तरे च स्थानेस्थाने सुनिर्जने ॥ १६८ ॥
कृत्वा परिमितं बुद्ध्या मनसालोच्य यत्नतः ॥
विलक्षणानि रम्याणि तत्र त्रिंशद्वनानि च ॥ १६९ ॥
राधामाधवयोरेव क्रीडार्थं च विनिर्ममे ॥
ततो मधुवनाभ्याशे निर्जनेऽतिमनोहरे ॥ 4.17.१७०॥
वटमूलसमीपे च सरसः पश्चिमे तटे ॥
चम्पकोद्यानपूर्वायां केतकीवनमध्यतः ॥१७१॥
पुनस्तयोश्च क्रीडार्थं चकार रत्नमण्डपम् ॥
चतुर्भिर्वेदिकाभिश्च परीतमतिसुन्दरम् ॥१७२॥
सद्रत्नसाररचितै राजितं तूलिकाशतैः ॥
अमूल्यरत्नरचितैर्नानाचित्रेण चित्रितैः॥१७३॥
कपाटैर्नवभिर्युक्तं नवद्वारैर्मनोहरैः ॥
रत्नेन्द्रचित्त्रकलशैः कृत्रिमैश्च त्रिकोटिभिः ॥ १७४ ॥
परितः परितो भित्त्यामूर्ध्वं च परिशोभितम् ॥
महामणीन्द्रविकृतैरारोहैर्नवभिर्वृतम् ॥१७५॥
सद्रत्नसाररचितकलशोज्ज्वलशेखरम्॥
पताकातोरणैर्युक्तं शोभितं श्वेतचामरैः ॥१७६॥
सर्वतः पुरतो दीप्तममूल्यरत्न दर्पणैः ॥
धनुःप्रमाणशतकमूर्ध्वमग्निशिखोपमम् ॥१७७॥
शतहस्तप्रमाणं च प्रस्तारं वर्तुलाकृतिम् ॥
शोभितं रत्नकल्पैश्च तदभ्यन्तरमुत्तमम् ॥१७८॥
वह्निशुद्धांशुकैर्वस्त्रैर्मालाजालविचित्रितैः॥
पारिजातप्रसूनानां माल्योपधानसंयुतैः॥१७९॥
चन्दनागुरुकस्तूरीकुङ्कुमैः सुरभीकृतम् ॥
नवशृङ्गारयोग्यैश्च कामवर्द्धनकारिभिः ॥ 4.17.१८० ॥
मालतीचम्पकानां च पुष्पराजिभिरन्वितम् ॥
सकर्पूरैश्च ताम्बूलैः सद्रत्नपात्रसंस्थितैः ॥ १८१ ॥
वज्रसारेण खचितैर्मुक्ताजालविलम्बिभिः ॥
रत्नसारघटाकीर्णं रत्नपीठैः सुसंयुतम् ॥ १८२ ॥
रत्नसिंहासनैर्युक्तं रत्नचित्रेण चित्रितैः ॥
क्षरितैश्चन्द्रकान्तैश्च सुसिक्तं जलबिन्दुभिः॥१८३॥
शीतवासिततोयेन संयुक्तं भोगवस्तुभिः ॥
कृत्वा रतिगृहं रम्यं नगरं च पुनर्ययौ ॥ १८४ ॥
यानि येषां मन्दिराणि तन्नामानि लिलेख सः ॥
मुदा युक्तो विश्वकर्मा शिष्यैर्यक्षगणैः सह ॥ १८५ ॥
निद्रेशं निद्रितं नत्वा प्रययौ स्वालयं मुने ॥
सर्वत्रैवं सुकृतिनां समस्तं भगवत्कृपा ॥ १८६ ॥
नेहाश्चर्यं च नगरं बभूवेशेच्छया भुवि ॥
इत्येवं कथितं सर्वं हरेश्चरितमङ्गलम् ॥
सुखदं पातकहरं किं भूयः श्रोतुमिच्छसि ॥ १८७ ॥
॥ नारद उवाच ॥
कथं वृन्दावनं नाम काननस्यास्य भारते ॥
व्युत्पत्तिरस्य सञ्ज्ञा वा तत्त्वं वद सुतत्त्ववित् ॥ १८८ ॥
सूत उवाच ॥
नारदस्य वचः श्रुत्वा ऋषिर्नारायणो मुदा ॥
प्रहस्योवाच निखिलं तत्त्वमेव पुरातनम् ॥ १८९ ॥
॥ नारायण उवाच ॥ ॥
पुरा केदारनृपतिः सप्तद्वीपपतिः स्वयम् ॥ 4.17.१९० ॥
आसीत्सत्ययुगे ब्रह्मन्सत्यधर्मरतः सदा ॥
स रेमे सह नारीभिः पुत्रपौत्रगणैः सह ॥ १९१ ॥
पुत्रानिव प्रजाः सर्वाः पालयामास धार्मिकः ॥
कृत्वा क्रतुशतं राजा लेभे नेन्द्रत्वमीप्सितम् ॥ १९२ ॥
कृत्वा नानाविधं पुण्यं फलकाङ्क्षी न च स्वयम् ॥
नित्यं नैमित्तिकं सर्वं श्रीकृष्णप्रीतिपूर्वकम् ॥ १९३ ॥
केदारतुल्यो राजेन्द्रो न भूतो भविता पुनः ॥
पुत्रेषु राज्यं सन्न्यस्य प्रियां त्रैलोक्यमोहिनीम् ॥ १९४ ॥
जैगीषव्योपदेशेन जगाम तपसे वनम् ॥
हरेरैकान्तिको भक्तो ध्यायते सन्ततं हरिम् ॥१९५॥
शश्वत्सुदर्शनं चक्रमस्ति यत्सन्निधौ मुने ॥
चिरं तप्त्वा मुनिश्रेष्ठो गोलोकं च जगाम सः ॥१९६ ॥
केदारं नाम तीर्थं च तन्नाम्ना च बभूव ह ॥
तत्राद्यापि मृतः प्राणी सद्यो मुक्तो भवेद्ध्रुवम् ॥ १९७ ॥
कमलांशा तस्य कन्या नाम्ना वृन्दा तपस्विनी ॥
न वव्रे सा वरं कञ्चिद्योगशास्त्रविशारदा ॥ १९८ ॥
दत्तो दुर्वाससा तस्यै हरेर्मन्त्रः सुदुर्लभः ॥
सा विरक्ता गृहं त्यक्त्वा जगाम तपसे वनम् ॥ १९९ ॥
षष्टिवर्षसहस्राणि तपस्तेपे सुनिर्जने ॥
आविर्बभूव श्रीकृष्णस्तत्पुरो भक्तवत्सलः ॥ 4.17.२०० ॥
प्रसन्नवदनः श्रीमान्वरं वृण्वित्युवाच सः ॥
दृष्ट्वा सा राधिका कान्तं शान्ते सुन्दरविग्रहम् ॥ २०१ ॥
मूर्च्छां सम्प्राप सा सद्यः कामबाणप्रपीडिता ॥
सा च शीघ्रं वरं वव्रे पतिस्त्वं मे भवेति च ॥ २०२ ॥
ओमित्युक्त्वा च रहसि चिरं रेमे तया सह ॥
सा जगाम च गोलोकं कृष्णेन सह कौतुकात् ॥ २०३ ॥
राधा समा सा सौभाग्याद्गोपीश्रेष्ठा बभूव ह ॥
वृन्दा यत्र तपस्तेपे तत्तु वृन्दावनं स्मृतम् ॥ २०४ ॥
वृन्दयाऽत्र कृता क्रीडा तेन वा मुनिपुङ्गव ॥
अथाऽन्यं चेतिहासं च शृणुष्व वत्स पुण्यदम् ॥ २०५ ॥
येन वृन्दावनं नाम निबोध कथयामि ते ॥
कुशध्वजस्य कन्ये द्वे धर्मशास्त्रविशारदे ॥ २०६ ॥
तुलसीवेदवत्यौ च विरक्ते भवकर्मणि ॥
तपस्तप्त्वा वेदवती प्राप नारायणं परम् ॥ २०७ ॥
सीता जनककन्या सा सर्वत्र परिकीर्तिता ॥
तुलसी च तपस्तप्त्वा वाञ्छां कृत्वा हरिं प्रति ॥ २०६ ॥
दैवाद्दुर्वाससः शापात्प्राप्य शङ्खासुरं प्रति ॥
पश्चात्सम्प्राप्य कमलाकान्तं कान्तं मनोहरम् ॥ २०९ ॥
सा चैव हरिशापेन वृक्षरूपा सुरेश्वरी ॥
तस्याः शापेन च हरिः शालग्रामो बभूव ह ॥ 4.17.२१० ॥
तथा तस्थौ च सततं शिलावक्षसि सुन्दरी ॥
विस्तीर्णं कथितं सर्वं तुलसीचरितं च ते ॥
तथाऽपि च प्रसङ्गेन किञ्चिदुक्तं मुने पुनः ॥ २११ ॥
तस्याश्च तपसः स्थानं तदिदं च तपोधन ॥
तेन वृन्दावनं नाम प्रवदन्ति मनीषिणः ॥ २१२ ॥
अथ वा ते प्रवक्ष्यामि परं हेत्वन्तरं शृणु ॥
येन वृन्दावनं नाम पुण्यक्षेत्रस्य भारते ॥ २१३ ॥
राधाषोडशनाम्नां च वृन्दानाम श्रुतौ श्रुतम् ॥
तस्याः क्रीडावनं रम्यं तेन वृन्दावनं स्मृतम् ॥ २१४ ॥
गोलोके प्रीतये तस्याः कृष्णेन निर्मितं पुरा ॥
क्रीडार्थं भुवि तन्नाम्ना वनं वृन्दावनं स्मृतम् ॥ २१५ ॥
नारद उवाच ॥
कानि षोडश नामानि राधिकाया जगद्गुरो ॥
तानि मे वद शिष्याय श्रोतुं कौतूहलं मम ॥ २१६ ॥
श्रुतं नाम्नां सहस्रं च सामवेदे निरूपितम् ॥
तथाऽपि श्रोतुमिच्छामि त्वत्तो नामानि षोडश ॥ २१७ ॥
अभ्यन्तराणि तेषां वा तदन्यान्येव मे विभो ॥
अहो पुण्यस्वरूपाणि भक्तानां वाञ्छितानि च ॥ २१८ ॥
नामानि तेषां व्युत्पत्तिं सर्वेषां दुर्लभानि च ॥
पावनानि जगन्मातुर्जगतामपि कारणम् ॥ २१९ ॥
श्रीनारायण उवाच ॥
राधा रासेश्वरी रासवासिनी रसिकेश्वरी ॥
कृष्णप्राणाधिका कृष्णप्रिया कृष्णस्वरूपिणी ॥ 4.17.२२० ॥
कृष्णवामाङ्गसम्भूता परमानन्दरूपिणी ॥
कृष्णा वृन्दावनी वृन्दा वृन्दावनविनोदिनी ॥ २२१ ॥
चन्द्रावती चन्द्रकान्ता शतचन्द्रनिभानना ॥
नामान्येतानि साराणि तेषामभ्यन्तराणि च ॥ २२२ ॥
राधेत्येवं च संसिद्धा राकारो दानवाचकः ॥
स्वयं निर्वाणदात्री या सा राधा परिकीर्तिता ॥ २२३ ॥
रासेश्वरस्य पत्नीयं तेन रासेश्वरी स्मृता ॥
रासे च वासो यस्याश्च तेन सा रासवासिनी ॥ २२४ ॥
सर्वासां रसिकानां च देवीनामीश्वरी परा ॥
प्रवदन्ति पुरा सन्तस्तेन तां रसिकेश्वरीम् ॥ २२५ ॥
प्राणाधिका प्रेयसी सा कृष्णस्य परमात्मनः ॥
कृष्णप्राणाधिका सा च कृष्णेन परिकीर्तिता ॥२२६॥
कृष्णस्यातिप्रिया कान्ता कृष्णो वाऽस्याः प्रियः सदा ॥
सर्वैर्देवगणैरुक्ता तेन कृष्णप्रिया स्मृता ॥ २२७ ॥
कृष्णरूपं सन्निधातुं या शक्ता चावलीलया ॥
सर्वांशैः कृष्णसदृशी तेन कृष्णस्वरूपिणी ॥ २२८ ॥
वामाङ्गार्धेन कृष्णस्य या सम्भूता परा सती ॥
कृष्णवामाङ्गसम्भूता तेन कृष्णेन कीर्तिता ॥ २२९ ॥
परमानन्दराशिश्च स्वयं मूर्तिमती सती ॥
श्रुतिभिः कीर्तिता तेन परमानन्दरूपिणी ॥ 4.17.२३० ॥
कृषिर्मोक्षार्थवचनो न एवोत्कृष्टवाचकः ॥
आकारो दातृवचनस्तेन कृष्णा प्रकीर्तिता ॥२३१॥
अस्ति वृन्दावनं यस्यास्तेन वृन्दावनी स्मृता ॥
वृन्दावनस्याधिदेवी तेन वाऽथ प्रकीर्तिता ॥२३२॥
सङ्घः सखीनां वृन्दः स्यादकारोऽप्यस्तिवाचकः ॥
सखिवृन्दोऽस्ति यस्याश्च सा वृन्दा परिकीर्तिता ॥२३३॥
वृन्दावने विनोदश्च सोऽस्या ह्यस्ति च तत्र वै ॥
वेदा वदन्ति तां तेन वृन्दावनविनोदिनीम्॥२३४॥
नखचन्द्रावलीवक्रचन्द्रोऽस्ति यत्र सन्ततम्॥
तेन चन्द्रावली सा च कृष्णेन परिकीर्तिता ॥२३५॥
चन्द्रतुल्या कान्तिरस्ति सदा यस्या दिवानिशम् ॥
सा चन्द्रकान्ता हर्षेण हरिणा परिकीर्तिता ॥ २३६ ॥
शरच्चन्द्रप्रभा यस्याश्चाननेऽस्ति दिवानिशम् ॥
मुनिना कीर्तिता तेन शरच्चन्द्रप्रभानना ॥ २३७ ॥
इदं षोडशनामोक्तमर्थव्याख्यानसंयुतम् ॥
नारायणेन यद्दत्तं ब्रह्मणे नाभिपङ्कजे ॥२३८॥
ब्रह्मणा च पुरा दत्तं धर्माय जनकाय मे ॥
धर्मेण कृपया दत्तं मह्यमादित्यपर्वणि ॥ २३९ ॥
पुष्करे च महातीर्थे पुण्याहे देवसंसदि ॥
राधाप्रभावप्रस्तावे सुप्रसन्नेन चेतसा ॥ 4.17.२४० ॥
इदं स्तोत्रं महापुण्यं तुभ्यं दत्तं मया मुने ॥
निन्दकायावैष्णवाय न दातव्यं महामुने ॥ २४१ ॥
यावज्जीवमिदं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः ॥
राधामाधवयोः पादपद्मे भक्तिर्भवेदिह ॥ २४२ ॥
अन्ते लभेत्तयोर्दास्यं शश्वत्सहचरो भवेत् ॥
अणिमादिकसिद्धिं च सम्प्राप्य नित्यविग्रहम् ॥ २४३ ॥
व्रतदानोपवासैश्च सर्वैर्नियमपूर्वकैः ॥
चतुर्णां चैव वेदानां पाठैः सर्वार्थसंयुतैः ॥ २४४ ॥
सर्वेषां यज्ञतीर्थानां करणैर्विधिबोधितैः ॥
प्रदक्षिणेन भूमेश्च कृत्स्नाया एव सप्तधा ॥ २४५ ॥
शरणागतरक्षायामज्ञानां ज्ञानदानतः ॥
देवानां वैष्णवानां च दर्शनेनापि यत्फलम् ॥ २४६ ॥
तदेव स्तोत्रपाठस्य कलां नार्हति षोडशीम् ॥
स्तोत्रस्यास्य प्रभावेण जीवन्मुक्तो भवेन्नरः ॥ २४७ ॥
नारद उवाच ॥
सम्प्राप्तं परमाश्चर्यं स्तोत्रं सर्वसुदुर्लभम् ॥
कवचं चापि देव्याश्च संसारविजयं प्रभो ॥ ॥ २४८ ॥
कृतं स्तोत्रं सुयत्नेन प्राप्तं तदपि दुर्लभम् ॥
श्रुत्वा कृष्णकथां चित्रां त्वत्पादाब्जप्रसादतः ॥ २४९ ॥
अधुना श्रोतुमिच्छामि यद्रहस्यं च तद्वद ॥
प्रातश्च नगरं दृष्ट्वा किमूचुर्बल्लवा मुने ॥ 4.17.२५० ॥
श्रीनारायण उवाच ॥
गतायां तत्र यामिन्यां गते च विश्वकर्मणि ॥
अरुणोदयवेलायां जनाः सर्वे जजागरुः ॥ २५१ ॥
उत्थाय दृष्ट्वा नगरं सर्वेभ्योऽपि विलक्षणम् ॥
किमाश्चर्यं किमाश्चर्यमित्यूचुर्व्रजवासिनः ॥ २५२ ॥
काश्चिद्गोपान्केचिदूचुः कुत एतदभूदिदम् ॥
न जाने केन रूपेण को भूमौ प्रभवेदिति ॥ २५३ ॥
बुबुधे मनसा नन्दो गर्गवाक्यमनुस्मरन् ॥
श्रीहरेरिच्छया सर्वं जगदेतच्चराचरम् ॥ २५४ ॥
ब्रह्मादितृणपर्यन्तं यस्य भ्रूभङ्गलीलया ॥
आविर्भूतं तिरोभूतं तस्यासाध्यं च किं कुतः ॥ २५५ ॥
विवरेष्वेव यल्लोम्नां ब्रह्माण्डान्यखिलानि च ॥
ईशस्य तन्महाविष्णोः किमसाध्यं हरेरहो ॥ २५६ ॥
ब्रह्मानन्तेशधर्माश्च ध्यायन्ते यत्पदाम्बुजम् ॥
किमसाध्यं तदीशस्य मायामानुषरूपिणः ॥ २५७ ॥
भ्रामम्भ्रामं तन्नगरं दर्शन्दर्शं गृहङ्गृहम् ॥
पाठम्पाठं च नामानि सर्वेभ्यो निलयं ददौ ॥ २५८ ॥
कृत्वा शुभक्षणं नन्दो वृषभानश्च कौतुकी ॥
चकार सगणैः सार्द्धं मुदाऽऽश्रमनिवेशनम् ॥ २५९ ॥
सर्वे वृन्दावनस्थाश्च प्रसन्नवदनेक्षणाः ॥
मुदा प्रवेशनं चक्रुः स्वस्वमाश्रममुत्तमम् ॥ 4.17.२६० ॥
सर्वे मुमुदिरे गोपाः स्वेस्वे स्थाने मनोहरे ॥
बालका बालिकाश्चैव चिक्रीडुश्च प्रहर्षिताः ॥ २६१ ॥
श्रीकृष्णो बलदेवश्च शिशुभिः सह कौतुकात् ॥
क्रीडां चकार तत्रैव स्थानेस्थाने मनोहरे ॥ २६२ ॥
इत्येवं कथितं सर्वं निर्माणं नगरस्य च ॥
अबलानां वने रासमण्डलस्य च नारद ॥ २६३ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे नारायणनारदसंवादे श्रीवृन्दावननगरवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥